23 80मुत्पद्यते, नीलाकारं, नीलबोध 81स्वभावं82 च । तत्रानीला
कारव्यावृत्त्या नीलाकारं ज्ञानं प्रमाणम् । अनीलबोधव्यावृत्त्या
नीलबोधरूपं प्रसितिः । सैव फलम् । यथोक्तम्--अर्थ
सारूप्यस्य प्रमाणं, अर्थाधिगतिः प्रमाणफलम्
इति । एतच्च
विकल्पप्रत्ययेन भिन्नं व्यवस्थाप्यते । परमार्थ 83तस्तु नास्त्येव
भेदः । यथोक्तम्--तदेव प्रत्यक्षं ज्ञानं प्रमाणफलम्
इति । 84साकारं चेदं ज्ञानमेष्टव्यम्85 । यदि पुनः साकारं
ज्ञानं नेष्यते, तदाऽनाकारत्वेन सर्वत्र विषये तुल्यत्वात् विभा
गेन विषयव्यवस्था न 86सिध्यति87 । यत्पुनः केचिदाहुः--पूर्वं
ज्ञानं प्रमाणं उत्तरं ज्ञानं प्रमाणफलमिति, तन्न युक्तम् । तथाहि
प्रथम 88क्षणभावि तावज्ञानं89 प्रमाणफलभूतस्य द्वितीयज्ञान
स्यानुत्पत्तेः । फलभूतज्ञानोत्पत्तौ च पूर्वस्य क्षणिकत्वेन विना
शात् कथं घटादिविषयं ज्ञानं प्रमाणं 90भवति ? नापि समान
कालभावि ज्ञानं फलमुचितम् । उपकार्योपकारकत्वाभावात्,
अव्येतरगोविषाणयोरिव । तस्मात् परमार्थतः प्रमाणफलयो
र्नास्ति भेदः । काल्पनिकस्तु व्यावृत्तिकृतो भेदः विकल्पबुद्धौ
व्यवस्थाप्यते
91


इति
तर्कभाषायां प्रत्यक्षपरिच्छेदः ॥

  1. Gos. मुपपद्यते.

  2. Gos. स्वरूपं.

  3. Gos. स्वरूपं.

  4. Gos. वस्तुनो.

  5. Missing in T. Gos.

  6. Missing in T. Gos.

  7. Gos. स्यादिति.

  8. Gos. स्यादिति.

  9. Gos. काल.

  10. Gos. न प्रमाणं.

  11. Gos. स्यात्.

  12. Not found in T. & Gos.