2 मविरुद्धम् । पुरुषस्तु तत्र प्रयोजनवशात् प्रवर्ततामृते प्रयोजनं
न प्रवर्तताम्, अर्थो वा योगिपिशाचादिभिरपह्रियताम् । ज्ञानस्य
किमायातम् ? ॥


नन्वविसंवादकत्वेन ज्ञानस्य प्रामाण्यम् । अविसंवाद
कत्वं च दृष्टार्थप्रापणात् । न च यद्दृष्टं तत्प्राप्यते, क्षणिकत्वात्2
किंच रूपं दृष्टं, प्राप्यते च स्प्रष्टव्यम् । ततोऽन्यद्दृष्टमन्यत्
प्राप्यत इत्यप्रतीतप्रापणात् कथं प्रामाण्यमस्य संगच्छताम् । न ।
यदि नाम वस्तुतोऽन्यदेव प्राप्यते तथापि दृष्टमेव मया प्राप्त
मित्येकत्वाध्यवसायात् प्रतीतप्रापणमभिधीयते । यत्तु मरी
चिकादिजलज्ञानं तदप्रापणयोग्यत्वादप्रमाणमेव ॥


नन्विदं प्रापणयोग्यमिदं नेत्यर्थक्रियाप्राप्तिमन्तरेण
निश्चेतुमशक्यम् । ज्ञानोत्पत्तिमात्रेण तु न भ्रान्ताभ्रान्तयोर्भेदोऽ
वधार्यते । ततश्च कथं तत्सम्यग्ज्ञानमिति चेत् । नैष दोषः ।
यद्यपि ज्ञानमात्रोदयाद्वैशिष्ट्यमनयोरवधारयितुं न शक्यते ।
तथापि ज्ञानविशेषोदयाद्यथैकस्य वैशिष्ट्यं तथोच्यते ।
तथा हि-यदि नाम मन्दबुद्धिरुत्पत्तिवशादविसंवादकत्वं ज्ञा
नस्य नावधारयितुं समर्थः, तथापि दाहपाकावगाहनस्नानपा
नोन्मज्जनाद्यर्थक्रियां दूरतोऽनुभवतो नरस्य दर्शनेनोच्चलद्धू
मादिदर्शनेन चावधारयति । अमन्दबुद्धिस्तु पदुतरप्रत्यक्षेणैवा
वधारयति, न त्वर्थक्रियाप्राप्त्या । यद्यविसंवादलक्षणं प्रामाण्यं

  1. T, Gos. --यद्दृष्टं तत्प्राप्यंते अक्षणिकत्वात्