3 तदा 3श्रोत्रज्ञानस्याधिगतार्थाप्रापकत्वात् कथं प्रामाण्यमिति
चेन्न । 4अर्थस्वरूपप्रतीतिर्हि प्रामाण्यम् । तच्च बाह्यार्थक्रिया
5प्राप्तिमन्तेरणापि सम्भवति । यदुक्तम्, 6प्रमाणमविसंवादि
ज्ञानमर्थक्रियास्थितिः ॥ अविसंवादनम्
इति । शब्दस्य श्रुति
मात्रेणैव चरितार्थत्वात् श्रुतिरेव तत्रार्थक्रियास्थितिः । यथा
रविचन्द्राम्बुदचित्रादीनां दर्शनमेवार्थक्रियास्थितिः । तदुक्तम्
7ज्ञेयस्वरूपसंवित्तिरिष्टा तत्र क्रियास्थितिः इति । 8प्रथमं तु
प्रेक्षावानर्थक्रियार्थितया जलानलादावर्थक्रियासन्देहादेव प्रव
र्तते । यदि नाम तस्यैव नास्ति सन्देहो मे वर्तत इति
तथापि साधकबाधकप्रमाणाभावाद्युक्तः सन्देहो भवन्
केन वार्यते इति । तस्मात् स्थितमेतत्--आसादितनिरन्तरार्थ
क्रियाव्यवहारात्पटुतरप्रत्यक्षोदयादेवार्थे प्रवर्तते मन्दबुद्धिस्तु
ताद्रूप्यानुमानादिति । अत एव तु प्रत्यक्षस्य स्वतः प्रामाण्यम् ।
कस्यचित्तु परतः । योगिज्ञानस्य स्वसंवेदनस्य च स्वत एव
प्रामाण्यम् । अनुमानस्य तु निश्चयात्मकत्वात् स्वत एव प्रामा
ण्यम् । तेनायमर्थः--प्रथमत एव यद्विज्ञानं विषये प्रवृत्तं तदेव
प्रमाणम् । न तु तत्रैव पश्चाद्भावि ज्ञानान्तरमपि । गृहीतग्राहि

  1. Gos. श्रवण.

  2. Gos. अर्थस्वभावनिर्धारणस्य प्रामाण्ये.

  3. Gos. प्रापणाभावेऽपि कदाचित्सत्त्वात्.

  4. Cf. Pramanavartika II. 1.

  5. Gos. ज्ञेयस्वरूपविद्यैव तत्रेष्टार्थक्रियास्थिता.

  6. Gos. प्रथमतः.