24

स्वार्थानुमानम्


अनुमानं द्विविधं स्वार्थं परार्थं च । स्वस्मै यत्तत्
स्वार्थमनुमानं ज्ञानात्मकम् । पर्वतादौ धर्मिणि धूमादिकं दृष्ट्वा
यस्य प्रतिपत्तुः वह्निज्ञानमुत्पद्यते, स एव तेन ज्ञानेन परोक्षमर्थं
प्रतिपद्यते नान्य इति स्वार्थानुमानमुच्यते । परस्मै यत्तत्
परार्थम् । परार्थानुमानं वचनात्मकम् । त्रिरूपलिङ्गप्रतिपादकं
वचनं परं प्रतिपादयति ज्ञापबतीति कृत्वा वचनमप्यनुमान
शब्देनोच्यते, उपचारात्, यथा आयुर्घृतमिति । तत्र स्वार्थं
त्रिरूप 92लिङ्गाद्यदनु93मेये ज्ञानम्
। रूपत्रययुक्ताल्लिङ्गादनुमेये
परोक्षविषये यत् ज्ञानं प्रतिपत्तुरुत्पद्यते, तत् स्वार्थानुमानम् ।
तच्च धर्मविशेषसम्बन्धितया साध्याविनाभावित्वनिश्चय इत्येके ।
अग्न्यध्यवसाय इत्यन्ये ।


संप्रति लिङ्गस्य 94त्रिरूपत्वमुच्यते--अनुमेथे सत्त्वमेव
निश्चितम् । अनुमेये पर्वतादौ धर्मिणि लिङ्गस्यास्तित्वमेव
निश्चितं, तदेकं रूपं पक्षधर्मतासंज्ञकम् । अत्र सत्त्वग्रहणेना
सिद्धस्य निरासः, यथा--95अनित्य96श्शब्दश्चाक्षुषत्वात्,
चाक्षुषत्वं चक्षुर्विज्ञानग्राह्यत्वमुच्यते, तच्च शब्दे
धर्मिणि नास्ति । एवकारेण पक्षैकदेशासिद्धस्य निरासः,
25 यथा दिगम्यरप्रयोगः--चेतनास्तरवः स्वापात् । पत्रसङ्कोच
लक्षणो हि स्वापः, स च सर्वेषु तरुप्वसिद्धः । निश्चितग्रह
णेन सन्दिग्धासिद्धस्य 97निरासः98, यथा--अग्निरत्र बाष्पादित्वेन
सन्दिह्यमानाद्भूतसङ्घातात् । सत्वशब्दात्पश्चादेवकारेण असा
धारणस्य 99निरासः100, यथा--अनित्यश्शब्दः श्रावणत्वात् 101घट
बत् ॥


सपक्ष एव सत्त्वं निश्चितमिति वर्तते । समानः पक्षः
सपक्षः । पक्षेण सह सदृशो दृष्टान्तधर्मीत्यर्थः । सपक्ष एव
सत्त्वं
निश्चितमित्यन्वयसंज्ञकं द्वितीयं रूपम् । 102अत्र सत्त्व
ग्रहणेन विरुद्धस्य निरासः, यथा--शब्दो नित्यः कृतकत्वात्
घटवत् । कृतकत्वं हि नित्यत्वविपक्षेणानित्यत्वेन व्याप्तमिति
विरुद्धमुच्यते । एवकारेण साधारणस्य निरासः, यथा—
नित्यश्शब्दः प्रमेयत्वात् घटवत् । प्रमेयत्वं हि विकल्पविषयी
कृतत्वम्, तच्च सपक्षे आकाशे विपक्षे च घटादौ सर्वत्रा
स्तीति साधारणमुच्यते । सत्त्वशब्दात् पूर्वस्मिन्नेवकारेण
सर्वसपक्षाव्यापिनोऽपि प्रयत्नानन्तरीयकस्य हेतुत्वं कथितम् ।
यथा--अनित्यश्शब्दः प्रयत्नानन्तरीयकत्वाद्धटवद्विद्युद्वत् ।
निश्चितग्रहणेन सन्दिग्धान्वयस्य निरासः, यथा--असर्वज्ञोऽयं
कश्चित् वक्तृत्वादिष्टपुरुषवत् । इष्टपुरुषे सपक्षे च वक्तृत्वम
सर्वज्ञत्वेन व्याप्तमव्याप्तं वा न ज्ञायते ॥


26

असपक्षे चासत्त्वमेव 1निश्चितम्1104 । न सपक्षोऽसपक्षः ।
तत्रासत्त्वमेव 1निश्चितं 1105व्यतिरेकसंज्ञकं तृतीयं रूपम् । अत्रा
प्यसत्त्वग्रहणेन विरुद्धस्य निरासः । 2यथा नित्यश्शब्दः कृत
कत्वाद्धटवत् । विरुद्धो हि विपक्षेऽस्ति2106 । एवकारेण साधा
रणस्य 3विपक्षैकदेशवृत्तेर्निरासः । प्रयत्नानन्तरीयकः शब्दः
अनित्यत्वाद्धटवत् । प्रयत्नानन्तरीयकत्वे साध्ये अनित्यत्वं
विपक्षैकदेशे विद्युदादावस्ति । आकाशादौ नास्ति । ततो
नियमेनास्य निरासः । असत्त्ववचनात्पूर्वस्मिन्नवधारणे अय
मर्थः स्यात् । विपक्ष एव यो नास्ति स हेतुः । तथा च
प्रयत्तानन्तरीयकत्वं सपक्षेऽपि नास्ति, ततो न हेतुः स्यात्,
ततः पूर्वं न कृतमिति3107 । निश्चितग्रहणेन सन्दिग्धविपक्षव्या
वृत्तिकस्य निरासः । यथाऽवीतरागोऽयं पुरुषो वक्तृत्वात्,
रथ्यापुरुषवत् । यत्रावीतरागत्वं नास्ति तत्र वक्तृ..मपि, नास्ति,
यथोपलखण्डे । यदि नाम पाषाणखण्डादुभयं व्यावृत्तं तथापि
न ज्ञायते किमवीतरागत्वनिवृत्त्या पाषाणखण्डाद्वक्तृत्वं निवृत्तं,
आहोस्वित् स्वत एवेति । ततः सन्दिग्धव्यतिरेकोऽयमनै
कान्तिकः । *असत्त्वशब्दात्पश्चा 4108देवकारेण विपक्षैकदेशवृत्ते
र्निरासः । यथा--प्रयत्नानन्तरीयकश्शब्दोऽनित्यत्वात् । अनि
त्यत्वं विपक्षादाकाशान्निवृत्तं, न विद्युतः । ततो विपक्षैकदेश
वृत्तित्वमस्य ॥


27

ननु सपक्ष एव सत्त्वमित्युक्ते सामर्थ्यादेवासपक्षे चा
सत्त्वमिति गम्यते । तत्किमर्थमुभयोरुपादानमिति चेत्, विपक्ष
नियमार्थमिति पूर्ववृद्धाः । ते च त्रिविध एव विपक्षो भव
तीति मन्यन्ते । साध्याभावमात्रं, साध्यादन्यः, साध्येन सह
विरुद्धश्च । प्रयोगनियमार्थमिति केचित् । 1अन्वयप्रयोगो
व्यतिरेकप्रयोगो वा नियमवानेकः प्रयोक्तव्यो न द्वावपीति ।
साधर्म्यवैधर्म्यप्रयोगसूचनार्थमिति केचित् ।1109


त्रिरूपाणि च त्रीण्येव लिङ्गानि । त्रीणि रूपाणि येषां
तानि 110त्रिरूपाणि 111त्रीण्येव लिङ्गानि । कार्यं त्रिरूपं
लिङ्गम् । स्वभावस्त्रिरूपं लिङ्गम् । अनुपलब्धिस्त्रिरूपं लिङ्गम् ।
साधनं ज्ञापकं हेतुर्व्याप्यं चेति लिङ्गापरनामानि । तत्र
कार्यं यथा--यत्र धूमस्तत्राग्निर्यथा महानसे, धूमश्चात्रेति । व्या
प्तिपक्षधर्मतासंज्ञकं द्व्यवयवमेव साधनवाक्यं सौगतानाम् ।
अन्ये तु प्रतिज्ञाहेतुदृष्टान्तोपनयनिगमनं चेति पञ्चावयवं
साधनवाक्यमाहुः । उपन्यासश्चेदृशः--अग्निरत्र, धूमात्,
यत्रधूमस्तत्राग्निर्यथा महानसे, तथा चायं, तस्मादग्निरिति ।
एतच्चायुक्तम् । प्रतिज्ञावचनमात्रात्सम्बन्धरहितात् साध्यप्रति
पत्तेरयोगात् । सम्बन्धाभावस्तु शब्दार्थयोः सम्बन्धदूषणे
112प्रतिपादितत्वा113न्न पुनरुच्यते । प्रतिज्ञामन्तरेण पञ्चम्यन्तहेतु
प्रयोगोऽप्ययुक्तः । हेतुं विनोपनयदृष्टान्तावप्ययुक्तौ । यत्र
28 प्रतिज्ञैव नास्ति तत्र प्रतिज्ञायाः पुनर्वचनं निगमनं कुतो
भविष्यतीति सर्वमामूलं विशीर्णम् । अयं च कार्यहेतुर्विषय
भेदेन त्रिविधः । अग्न्यादौ साध्ये धूमादिः त्रिविधप्रत्यक्षा
नुपलम्भेन निश्चेतव्यः । चक्षुरादौ साध्ये ज्ञानं कादाचित्क
कार्योत्पादान्निश्चीयते । रूपादौ साध्ये रसादिरेकसामग्र्य
धीनतया निश्चीयते । यथा भातुलुङ्गफले रसाद्रूपानुमानम् ।
1न रूपाद्रसानुमानम्1114 । अत्र रूपे जनयितव्ये पूर्वकं रूप
मुपादानम् । रसस्तु सहकारिकारणम् । पूर्वपुञ्जादुत्तरपुञ्ज
स्योत्पत्तौ न्याय एषः । ननूपादानसहकारिकारणयोरन्वय
व्यतिरेकानुविधानस्य कार्यं प्रति तुल्यत्वात्को भेदः ? उच्य
ते । यद्विक्रियया यन्निष्पत्तिरेकसन्ताने तत्कार्यं प्रति पूर्वक
मुपादानम् । यत्सन्तानान्तरे विशेषोदयनिमित्तं तत्सहकारि
कारणम् । यथा शाल्यङ्कुरे जनयितव्ये शालिबीजमुपादानम्,
क्षितिसलिलादि तत्र सहकारि । तदेवं कार्यहेतुस्तदुत्पत्तिस
म्बन्धात् गमक इति स्थितम् ॥


1स्वभावो यथा1115--स्वभावः स्वसत्तामात्रभाविनि सा
ध्यधर्मे यो हेतुरु
च्यते स तस्य साध्यस्य धर्मस्य स्वाभावो
116वोद्धव्यः । यथा--वृक्षव्यवहारयोग्योऽयं शिंशपाव्यवहारयो
ग्यत्वात् । अयमिति पुरः परिदृश्यमानः पदार्थो धर्मी ।
शिंशपाव्यवहारयोग्यत्वादिति हेतुः । शिंशपाव्यवहारयोग्य
29 त्वादिति कोऽर्थः ? शाखापत्रवर्णसंस्थानविशेषव्यवहारयो
ग्यत्वादित्यर्थः । वृक्षव्यवहारयोग्यत्वं साध्यम् । नन्वेकत्वे
साध्यसाधनभावो न युक्तः, प्रतिज्ञार्थैकदेशत्वात् । न ।
अभेदेऽपि कश्चित्प्रतिपत्ता शिंशपाव्यवहारं कृत्वा तत्र वृक्ष
व्यवहारं प्राक् कृतमपि व्यामोहात् किञ्चिदारोप्य पुनर्न
करोति । स इदानीं स्वभावहेतुना व्यवहार्यते । तस्मादेतयोः
परमार्थत एकत्वेऽपि विकल्पबुद्धौ व्यावृत्तिसमाश्रयेण समु
त्पन्नायां भेदेन प्रतिभासनात् साध्यसाधनत्वं न विरुध्यत
इति ॥


अनुपलब्धिर्यथा--नास्तीह प्रदेशे घटः, उपलब्धि
लक्षणप्राप्तस्यानुपलब्धेः
। उपलब्धिलक्षणप्राप्तस्येति दृश्यस्ये
त्यर्थः । नन्वसतः कथं दृश्यता ? एकेन्द्रियज्ञानग्राह्ये प्रदेशा
दावुपलभ्यमाने यदि घटः स्यात् दृश्य एव भवेदिति । उप
लम्भप्रत्ययान्तरसाकल्यात् दृश्यतया सम्भावितः, न तु दृश्य
एव । तस्यानुपलब्धेरिति हेतुः । स चैकज्ञानसंसर्गिपदार्थादेक
ज्ञानसंसर्गिपदार्थोपलम्भाद्वा निश्चीयत इति तदुभयं कर्मकतृ
भावेन पर्युदासवृत्त्या अनुपलब्धिरुच्यते, न तु प्रसज्यवृत्त्या
उपलब्धिनिवृत्तिमात्रम् । तद्धि स्वयमेव न किञ्चिदिति कथं
साधनं स्यात् । नापि प्रतिषेध्यादन्यस्य ज्ञानमात्रम्, रूपोपलम्भा
दपि नारङ्गरसनिषेधप्रसङ्गात् । तस्मान्निषेध्यादन्यद्विशिष्टमेव
वस्तुद्वयं प्रदेशः प्रदेशज्ञानं वाऽनुपलब्धिरिति स्थितम् । अत
30 एवाभावो न साध्यते । तस्य घटविविक्तप्रदेशग्राहिणा प्रत्य
क्षेणैव सिद्धत्वात् । अभावव्यवहारस्तु मूढं प्रति अनुपलम्भेन
साध्यते । तथा हि--कश्चिन्मूढो रजःप्रभृतिषु साङ्ख्यप्रसि
द्धेषु गुणेष्वनुपलम्भेन प्रवर्तिताभावव्यवहारोऽपि पुनः सर्वं
सर्वत्रास्तीति स्वसिद्धान्ताभ्यासात् क्वाऽपि प्रदेशादौ घटानु
पलम्भे सत्यपि नाभावव्यवहारं करोतीत्यनुपलम्भेन त्रिविधो
व्यवहारः कार्यते । तत्र निःशङ्करामनागमनलक्षणः कायिको
व्यवहारः । घटो नास्तीति वाचिकः । ईदृश एव अन्तर्ज
ल्पाकारो मानसिकश्चेति । अनुपलम्भस्य कर्मधर्मपक्षे साध्येन
सह सादृश्ये117 तादात्म्यलक्षण एव सम्बन्धो बोद्धव्यः । कर्तृ
धर्मपक्षे तु तदुत्पत्तिः । तथा हि--घटविविक्तप्रदेशः प्रदेश
ज्ञानं वाऽनुपलब्धिरित्युक्तम् । असद्व्यवहारयोग्यत्वं च तस्य
स्वभावः न कार्यं118 ज्ञानं तु प्रदेशस्य कार्यमिति ॥


ननु यद्यनुपलब्धेरपि तादात्म्यतदुत्पत्ती एव सम्बन्धौ,
कथं तर्हि कार्यस्वभावाभ्यामनुपलब्धेर्भेदः ? प्रतिषेधसाध
नात् भेदो न वस्तुतः । यथोक्तमाचार्येण--अत्र द्वौ वस्तु
साधनौ, एकः प्रतिषेधहेतुः
इति । उपलब्धिलक्षणप्राप्तत्व
विशिष्टेन देशविप्रकृष्टे सुमेर्वादौ कालविप्रकृष्टे भविष्यच्छङ्ख
चक्रवर्त्यादौ स्वभावविप्रकृष्टे पिशाचादावनुपलम्भमात्र 119सम्भ
वेऽपि नाभावव्यवहार इत्युक्तं भवति । इयं चानुपलब्धिर्वर्त
31 मानकाले प्रमाणं विशिष्टस्मरणसद्भावेऽतीतकाले च, अनागत
काले त्वनुपलब्धिः स्वयमेव सन्दिग्धरूपा । ततो न प्रमाणम् ।
अनयाऽनुपलब्ध्याऽभावव्यवहारः साध्यते, न त्वभावः । तस्य
प्रत्यक्षेणैव सिद्धत्वादित्युक्तम् प्राक्
120 121यथाऽऽह न्यायवादी—
अमूढस्मृतिसंस्कारस्यातीतस्य वर्तमानस्य च प्रतिपत्तृ
प्रत्यक्षस्य निवृत्तिरनुपलब्धिरभावव्यवहारसाधनी
इति ।
तत्र यदा दूरत्वान्निषेध्यस्यायोग्यदेशत्वं स्यात्, तदा दृश्या
नुपलब्धिः साक्षात्प्रयोक्तुं न शक्यत इति कार्यानुपल
ब्ध्यादयः प्रयुज्यन्ते । अत एवेयं प्रयोगभेदेन षोडशधा
भवति ।

  • तत्र स्वभावानुपलब्धिर्यथा--नास्त्यत्र धूमः,
    उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः
    । प्रतिषेध्यस्य धूमस्य यः
    स्वभावः तस्येहानुपलब्धिः ।
  • कार्यानुपलब्धिर्यथा--नेहा
    प्रतिबद्धसामर्थ्यानि धूमकारणानि सन्ति, धूमाभावात्

    प्रतिषेध्यानां हि धूमकारणानां कार्यं धूमः, तस्येहानुपलब्धिः ।
  • कारणानुपलब्धिर्यथा--नास्त्यत्र धूमः दहनाभावात् । प्रति
    षेध्यस्य धूमस्य कारणं दहनः, तस्येहानुपलब्धिः ।
  • व्यापका
    नुपलब्धिर्यथा--नात्र शिंशपा, वृक्षाभावात्
    । प्रतिषेध्यायाः
    शिंशपायाः व्यापको वृक्षः, तस्येहानुपलब्धिः ।
  • स्वभावविरु
    द्धोपलब्धिर्यथा--नात्र शीतस्पर्शः वह्नेरिति
    । प्रतिषेध्यस्य शीत
    32 स्पर्शस्य यः स्वभावः तस्य विरुद्धो वह्निः तस्य चेहानुपलब्धिः ।
  • कार्यविरुद्धोपलब्धिर्यथा--नेहाप्रतिबद्धसामर्थ्यानि शीत
    कारणानि सन्ति, वह्नेरिति
    । अन्त्यदशाप्राप्तमेव कारणं कार्यं
    जनयति, न सर्वं कारणम् ततो विशेषणोपादानम् । प्रतिषे
    ध्यानां शीतकारणानां कार्यं शीतं, तस्य विरुद्धो वह्निः, तस्ये
    होपलब्धिः ।
  • कारणविरुद्धोपलब्धिर्यथा--नास्य रोमहर्षादि
    विशेषाः सन्ति, सन्निहितदहनविशेषत्वात्
    । प्रतिषेध्यानां
    रोमहर्षादिविशेषाणां कारणं शीतं, तस्य विरुद्धो दहनविशेषः,
    तस्य चेहोपलब्धिः ।
  • व्यापकविरुद्धोपलब्धिर्यथा--नात्र
    तुषारस्पर्शः, दहनात्
    । प्रतिषेध्यस्य तुषारस्पर्शस्य व्यापकं शीतं,
    तस्य विरुद्धो दहनविशेषः
  • तस्येहोपलब्धिः । स्वभावविरुद्ध
    कार्योपलब्धिर्यथा, नात्र 122शीतस्पर्शः, धूमात् । प्रतिषेध्यस्य
    शीतस्पर्शस्य यः स्वभावस्तस्य विरुद्धोऽग्निः, तस्य कार्यं धूमः,
    तस्य चेहोपलब्धिः ।
  • १० कार्यविरुद्धकार्योपलब्धिर्यथा—
    नेहाप्रतिबद्धसामर्थ्यानि शीतकारणानि सन्ति धूमादिति ।
    प्रतिषेध्यानां शीतकारणानां कार्यं शीतं, तस्य विरुद्धो, वह्निः,
    तस्य कार्यं धूमः, तस्य चेहोपलब्धिः,
  • ११ कारणविरुद्धकार्यो
    पलब्धिर्यथा--न रोमहर्षादिविशेषयुक्तस्पर्शवानयं प्रदेशो
    धूमादिति
    । प्रतिषेध्यानां हि रोमहर्षादिस्पर्शविशेषाणां कारणं
    शीतम् तस्य विरुद्धोऽग्नि, तस्य कार्यं धूमः, तस्य चेहोपल
    33 ब्धिः ।
  • १२ व्यापकविरुद्धकार्योपलब्धिर्यथा--नात्र तुषारस्पर्शः,
    धूमादिति । निषेध्यस्य तुषारस्पर्शस्य व्यापकं शीतम्, तस्य
    विरुद्धोऽग्निः, तस्य कार्यं धूमः, तस्य चेहोपलब्धिः ।
  • १३ स्वभा
    वविरुद्धव्याप्तोपलब्धिर्यथा--नात्र वह्निः, तुषारस्पर्शात् । प्रतिषे
    ध्यस्य हि वह्नेर्यः स्वभावस्तस्य विरुद्धं शीतम्, तेन व्याप्तस्तु
    षारस्पर्शः, तस्य चेहोपलब्धिः ।
  • १४ कार्यविरुद्धव्याप्तोपलब्धि
    र्यथा--नेहाप्रतिबद्धसामर्थ्यानि बह्निकारणानि सन्ति, तुषार
    स्पर्शादिति । प्रतिषेध्यानां वह्निकारणानां कार्यं वह्निः, तस्य
    विरुद्धं शीतम्, तेन व्याप्तस्तुषारस्पर्शः, तस्य चेहोपलब्धिः ।
  • १५ कारणविरुद्धव्याप्तोपलब्धिर्यथा--नात्र धूमस्तुषारस्पर्शादि
    ति । प्रतिषेध्यस्य हि धूमस्य यत्कारणमग्निः तस्य विरुद्धं
    शीतम्, तेन व्याप्तस्तुषारस्पर्शः, तस्य चेहोपलब्धिः ।
  • १६ व्यापकविरुद्धव्याप्तोपलब्धिर्यथा--नायं नित्यः, कदा
    चित्कार्यकारित्वात् । प्रतिषेध्यस्य नित्यत्वस्य निरतिशयत्वं
    व्यापकं, तस्य विरुद्धं सातिशयत्वं, तेन व्याप्तं कदाचित्का
    र्यकारित्वं, तस्य चेहोपलब्धिः ।
एते च कार्यानुपलब्ध्यादयः
पञ्चदश प्रयोगाः स्वभावानुपलब्धिस्वभावा एव 123प्रतिपत्त
व्याः । प्रयुक्तिभेदेन परं भेदः । तत्र स्वभावानुपलम्भेना
सद्व्यवहारयोग्यत्वं साध्यते, न त्वभावः । तस्य च प्रत्यक्षेणैव
34 सिद्धत्वात् । अपरैश्च सर्वैरभावोऽभावव्यवहारश्च साध्यते, तेषां
परोक्षविषयत्वात्124


इति तर्कभाषायां स्वार्थानुमानपरिच्छेदो
द्वितीयः समाप्तः ॥
  1. Gos. लिङ्गादनु.

  2. Gos. लिङ्गादनु.

  3. Gos. त्रैरूप्यम्.

  4. Gos. नित्य.

  5. Gos. नित्य.

  6. Not found in T. & Gos.

  7. Not found in T. & Gos.

  8. Not found in T. & Gos.

  9. Not found in T. & Gos.

  10. omitted in T.

  11. omitted in T.

  12. Not found in Gos. T. निश्चितं यत्तत्

  13. Not found in Gos. T. निश्चितं यत्तत्

  14. Missing in Gos.

  15. Missing in Gos.

  16. T. omitted in T.

  17. Not found in Gos.

  18. Not found in Gos.

  19. Not found in Gos.

  20. T. सिद्धत्वा.

  21. T. सिद्धत्वा.

  22. Not found in Gos,T.

  23. Not found in Gos,T.

  24. Gos. बेदितव्यः.

  25. Found only in M.

  26. Found only in M.

  27. Gos. सद्भावे.

  28. Found only in M.

  29. Gos. यदाह; T. न्यायवादी आह.

  30. Gos. तुषार.

  31. Gos. बोद्धव्याः.

  32. T. परोक्षविषयत्वात् प्रत्यक्षाविषयत्वात्.

  33. Gos. तत्र.