24

स्वार्थानुमानम्


अनुमानं द्विविधं स्वार्थं परार्थं च । स्वस्मै यत्तत्
स्वार्थमनुमानं ज्ञानात्मकम् । पर्वतादौ धर्मिणि धूमादिकं दृष्ट्वा
यस्य प्रतिपत्तुः वह्निज्ञानमुत्पद्यते, स एव तेन ज्ञानेन परोक्षमर्थं
प्रतिपद्यते नान्य इति स्वार्थानुमानमुच्यते । परस्मै यत्तत्
परार्थम् । परार्थानुमानं वचनात्मकम् । त्रिरूपलिङ्गप्रतिपादकं
वचनं परं प्रतिपादयति ज्ञापबतीति कृत्वा वचनमप्यनुमान
शब्देनोच्यते, उपचारात्, यथा आयुर्घृतमिति । तत्र स्वार्थं
त्रिरूप 92लिङ्गाद्यदनु93मेये ज्ञानम्
। रूपत्रययुक्ताल्लिङ्गादनुमेये
परोक्षविषये यत् ज्ञानं प्रतिपत्तुरुत्पद्यते, तत् स्वार्थानुमानम् ।
तच्च धर्मविशेषसम्बन्धितया साध्याविनाभावित्वनिश्चय इत्येके ।
अग्न्यध्यवसाय इत्यन्ये ।


संप्रति लिङ्गस्य 94त्रिरूपत्वमुच्यते--अनुमेथे सत्त्वमेव
निश्चितम् । अनुमेये पर्वतादौ धर्मिणि लिङ्गस्यास्तित्वमेव
निश्चितं, तदेकं रूपं पक्षधर्मतासंज्ञकम् । अत्र सत्त्वग्रहणेना
सिद्धस्य निरासः, यथा--95अनित्य96श्शब्दश्चाक्षुषत्वात्,
चाक्षुषत्वं चक्षुर्विज्ञानग्राह्यत्वमुच्यते, तच्च शब्दे
धर्मिणि नास्ति । एवकारेण पक्षैकदेशासिद्धस्य निरासः,

  1. Gos. लिङ्गादनु.

  2. Gos. लिङ्गादनु.

  3. Gos. त्रैरूप्यम्.

  4. Gos. नित्य.

  5. Gos. नित्य.