• 33 ब्धिः ।
  • १२ व्यापकविरुद्धकार्योपलब्धिर्यथा--नात्र तुषारस्पर्शः,
    धूमादिति । निषेध्यस्य तुषारस्पर्शस्य व्यापकं शीतम्, तस्य
    विरुद्धोऽग्निः, तस्य कार्यं धूमः, तस्य चेहोपलब्धिः ।
  • १३ स्वभा
    वविरुद्धव्याप्तोपलब्धिर्यथा--नात्र वह्निः, तुषारस्पर्शात् । प्रतिषे
    ध्यस्य हि वह्नेर्यः स्वभावस्तस्य विरुद्धं शीतम्, तेन व्याप्तस्तु
    षारस्पर्शः, तस्य चेहोपलब्धिः ।
  • १४ कार्यविरुद्धव्याप्तोपलब्धि
    र्यथा--नेहाप्रतिबद्धसामर्थ्यानि बह्निकारणानि सन्ति, तुषार
    स्पर्शादिति । प्रतिषेध्यानां वह्निकारणानां कार्यं वह्निः, तस्य
    विरुद्धं शीतम्, तेन व्याप्तस्तुषारस्पर्शः, तस्य चेहोपलब्धिः ।
  • १५ कारणविरुद्धव्याप्तोपलब्धिर्यथा--नात्र धूमस्तुषारस्पर्शादि
    ति । प्रतिषेध्यस्य हि धूमस्य यत्कारणमग्निः तस्य विरुद्धं
    शीतम्, तेन व्याप्तस्तुषारस्पर्शः, तस्य चेहोपलब्धिः ।
  • १६ व्यापकविरुद्धव्याप्तोपलब्धिर्यथा--नायं नित्यः, कदा
    चित्कार्यकारित्वात् । प्रतिषेध्यस्य नित्यत्वस्य निरतिशयत्वं
    व्यापकं, तस्य विरुद्धं सातिशयत्वं, तेन व्याप्तं कदाचित्का
    र्यकारित्वं, तस्य चेहोपलब्धिः ।
एते च कार्यानुपलब्ध्यादयः
पञ्चदश प्रयोगाः स्वभावानुपलब्धिस्वभावा एव 123प्रतिपत्त
व्याः । प्रयुक्तिभेदेन परं भेदः । तत्र स्वभावानुपलम्भेना
सद्व्यवहारयोग्यत्वं साध्यते, न त्वभावः । तस्य च प्रत्यक्षेणैव

  1. Gos. बोद्धव्याः.