92
APPENDIX

A tentative restoration into Sanskrit of
passages found in the Tibetan Version only.

Pp. 441

स्वसंवेदनमात्रापेक्षया परचित्तस्यापि दृश्य
त्वात् दृश्यशरीराविभागेन विद्यमानत्वाद्वा परचित्तस्य दृश्य
त्वम् । न चैवं व्यावहारिकेन्द्रिय...व्याप्तिरिति तिष्ठति ।
स्वपरसन्तानसाधारणादृश्यचित्तमात्रप्रत्यक्षेण दृश्यचलनादेर्व्या
प्तिग्रहणं न युक्तमित्यपि वाच्यम् । बाह्यार्थस्थितस्वपरसन्तान
साधारणचित्तमात्रस्य स्वरूपतोऽदृश्यत्वेऽपि दृश्यशरीरेण
सहैकसामग्रीत्वेन सम्बन्धादविभागेन विद्यमानस्वपरसन्तान
साधारणं चित्तमात्रं चलनादिविशिष्टं प्रतीयते । तथा च
दृश्यात्मना वा दृश्यशरीराविभागेन विद्यमानत्वाद्वा वस्तुद्वयस्य
व्यावहारिकातिस्फुटप्रत्यक्षेण व्याप्तिर्गृह्यते नत्वनैवम्भूताकृतका
योग्यसाधारणचित्तमात्रेणेति ? कारणान्तरानुमानं युक्तम् ।
तस्मात् यदि प्रत्यक्षानुपलम्भाभ्यां व्याप्तिग्रहणं तदा दृश्येनैव
दृश्यस्येति न्यायः ॥


P. 48

परस्यानिष्टत्वापादनाय प्रसञ्जनं प्रसङ्गः । यथा
सिद्धादीनामतीतानागतकालयोः स्वरूपैक्याभ्युपगमे अतीता
नागतकालभाविनामर्थाक्रियाकारित्वं प्रसज्यते । तथा हि, यद्
यदा यज्जननसमर्थं तत्तदा तज्जनयत्येव । यथाऽन्त्यकारणसामग्री
स्वकार्यम् । अतीतानागतकालभाविकार्यजननसमर्थश्चायं घटः
वर्तमानकालेऽपीति स्वभावहेतुः प्रसङ्गः । न करोतीति च