तत्त्वसंग्रहस्य द्वितीयो भागः ।

श्रुतिपरीक्षा ।

स्वतन्त्रश्रुतिनिःसङ्ग इत्येतत्समर्थनार्थमाह—अन्य इत्यादि ।


अन्ये पुनरिहाज्ञानमलीमसधियो जगुः ।

चित्तमात्रतया नायं युज्यते श्रुतिबाधनात् ॥ २०८५ ॥

अन्य इति । जैमिनीयाः । त एवमाहुः—चोदनैव धर्माधर्मादिव्यवस्थानिबन्ध
नमालोकभूता सर्वप्राणभृतां साधारणं चक्षुरिव व्यवस्थिता । अवश्यं सैव धर्मा
र्थिभिः पुरुषैः प्रेक्षावद्भिः प्रमाणत्वेनाश्रयणीया नान्यत्पुरुषप्रणीतवचनादिकम् ।
तथाहि—पुरुषस्य रागादिभिरविद्यया च परीतचेतसो वचनं नालमतीन्द्रियमर्थमवि
परीतमवगमयितुम् । अतस्तद्वचनसमधिगम्यो न धर्मादिः । नाप्यर्वाग्दर्शिनः प्रत्यक्ष
समधिगम्यः, तस्यातीनिद्रियत्वेनात्यन्तपरोक्षत्वात् । तथाहि—इष्टानिष्टार्थसाधनयो
ग्यतालक्षणौ धर्माधर्मौ । यथोक्तं शाबरे भाष्ये— य एव श्रेयस्करः स एव धर्मश
ब्देनोच्यते । कथमवगम्यते ? । यो यागमनुतिष्ठति तं जना धार्मिक इति समाच
क्षते । यश्च यस्य कर्त्ता स तेनाख्यायते, यथा पाचको लावक इति । तेन यः
पुरुषं निःश्रेयसेन संयुनक्ति स एव धर्मशब्देनोच्यत
इति । तदनेन द्रव्यादीना
मिष्टार्थसाधनयोग्यता धर्म इति प्रतिपादितं भवति । तथाहि—यागशब्देन द्रव्यगु
णकर्माणि श्रेयसः साधनानि विशिष्टान्युच्यन्ते । तत्र च धर्मशब्दप्रवृत्तिर्दर्शिता ।
यद्यपि तानि द्रव्यादीनि प्रत्यक्षाणि स्वरूपतो, नच श्रेयःसाधनत्वेन, ताद्रूप्येण च
तेषां धर्मत्वमिष्यते न स्वरूपमात्रेण । यथोक्तम्— श्रेयो हि पुरुषप्रीतिः सा द्रव्य
गुणकर्मभिः । चोदनालक्षणैः साध्या तस्मादेष्वेव धर्मता ॥ एषामैन्द्रियकत्वेऽपि न
ताद्रूप्येण धर्मता । श्रेयःसाधनता ह्येषां नित्यं वेदात्प्रतीयते ॥ ताद्रूप्येण च धर्मत्वं
तस्मान्नेन्द्रियगोचरः ॥
इति । ताद्रूप्येण चेति । श्रेयःसाधनरूपेण । तस्माद्योग्यता
धर्म इति स्थितम् । धर्मवैपरीत्येनाधर्मोऽपि सामर्थ्यादनिष्टार्थसाधनयोग्यतेति स्पष्ट
मवसीयते । नच योग्यतामर्वाग्दर्शनः प्रत्यक्षीकर्तुमीशः । तस्याः सदैव कार्यानुमेय
त्वात् । यदाह—शक्तयः सर्वभावानां कार्यार्थापत्तिसाधना इति । अन्यथा ह्यर्वा
ग्दर्शनत्वमेव हीयते । नापि योगिप्रत्यक्षमतीन्द्रियविषयं प्रत्यक्षत्वादितरप्रत्यक्षवत् ।
नाप्यनुमानं धर्माधर्माधिगमाय युक्तम्, प्रतीतसम्बन्धस्यैव वस्तुनस्तेन परिच्छेदात् ।
धर्मस्य चातथाभतत्वात् । नाप्युपमानं समर्थं धर्मप्रत्यायने, तथा ह्युपमानं सादृश्य
584 मसन्निकृष्टे बुद्धिमुत्पादयति । यथा गवयदर्शनं गोस्मरणस्य, नच धर्मेण सदृशः
कश्चित्प्रतीतः सम्भवति । यत्सादृश्यात्तस्यावकल्पना भवेत् । नाप्यर्थापत्तिः क्षमा
धर्माधर्मावबोधने । तथाहि—दृष्टः श्रुतो वाऽर्थोऽन्यथा नोपपद्यत इत्यदृष्टार्थकल्प
नाऽर्थापत्तिः । नच धर्मेण विना कश्चिदर्थो नोपपद्यते, यतोऽस्य कल्पना भविष्यति ।
अभावोऽपि प्रमाणाभावो नास्तीत्यस्यार्थस्य प्रसिद्धये प्रभवति, न विधौ । तस्माद
भाववत्र्कस्थौ धर्माधर्मौ यदि चोदना न शक्नुयादुद्धर्त्तुं तेनैव ग्रस्तौ स्यातामिति चोद
नालक्षणोऽर्थो धर्मादिर्नेन्द्रियादिलक्षणः । चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं
व्यवहितं विप्रकृष्टमित्येवंजातीयकमर्थं शक्तोऽभ्यवगमयितुं नान्यत्किंचनेन्द्रियम् ।
अतोऽवश्यं चोदना प्रमाणयितव्या । चोदनेति च क्रियायाः प्रवर्त्तकं निवर्त्तकं च
वाक्यमाहुः । तथा—स्वर्गकामोऽग्निष्टोमेन यजेतेति प्रवर्त्तकम्, न हिंस्याद्भूतानीति
निवर्त्तकम् । तस्याश्च प्रामाण्योपायं भवतां विज्ञप्तिमात्रं त्रैधातुकमिति प्रतिज्ञार्थः ।
स न युज्यते । कुतः ? । श्रुतिबाधनात् । श्रुत्या वेदेन बाधनात् । चित्तव्यतिरिक्ता
ग्रिहोत्रादिप्रकाशनात् । स्वयं च चित्तव्यतिरेकेणावस्थानात् । चित्तमात्रतयेत्युपलक्ष
णम् । तथा क्षणिकत्वनैरात्म्यसर्वज्ञवैराग्यादिप्रतिज्ञाऽपि बाध्यत एव । तद्विरुद्धार्थ
परिदीपनेनावस्थानात् ॥ २०८५ ॥


स्यादेतत्—बाध्येत सर्वमेतत्, यदि तस्यां प्रामाण्यं सिद्धं भवतीत्याह—सा हि
प्रमाणमिति ।


सा हि प्रमाणं सर्वेषां नराकृततया स्थिता ।

वैतथ्यं प्रतिपद्यन्ते पौरुषेय्यो गिरो यतः ॥ २०८६ ॥

अवितथं ज्ञानं प्रमाणं तद्धेतुत्वात्सापि प्रमाणमुच्यते । कथमित्याह—नराकृत
तये
ति । अपौरुषेयत्वात् । अनेनावितथज्ञानहेतुत्वं वैतथ्यकारणरागादिदोषगणाभा
वेन प्रतिपादयति । प्रयोगः—यन्मिथ्यात्वहेतुदोषसंसर्गरहितं तदवितथज्ञानकारणं,
यथा तिमिरादिदोषानुपप्लुतं चक्षुः, मिथ्यात्वहेतुरागादिदोषसंसर्गरहितश्चापौरुषेय
त्वाद्वेद इति स्वभावहेतुः । वैधर्म्यदृष्टान्तेनानैकान्तिकतां परिहरन्नाह—वैतथ्यमिति ।
अनेन हि साधनाभावेन साध्याभावस्य व्याप्तिमादर्शयति । तथाहि—दोषा मिथ्या
त्वहेतवः यत्रैव सन्निदधति तत्रैव स्वकार्यमिथ्यात्वमुपस्थापयन्ति, नान्यत्र । कारण
मन्तरेण कार्यस्यासम्भवात् । सम्भवे वाऽहेतुकत्वप्रसङ्गात् । नापि तमन्तरेण भवत
स्तत्कार्यत्वं युक्तमतिप्रसङ्गादित्यतो मिथ्यात्वदोषयोः कार्यकारणभावानुपपत्तिरहेतुक
585 त्वप्रसङ्गश्च मिथ्यात्वस्येति विपर्यये बाधकं प्रमाणमिति नानैकान्तिकता । प्रयोगः
—यत्र हि यत्कारणं नास्ति तत्तत्र न भवति, यथा(प)यस्यविद्यमानकारणो धूमः ।
नास्ति च वैतथ्यहेतुमोहादिदोषगणः श्रुताविति कारणानुपलब्धिः ॥ २०८६ ॥


नाप्यसिद्धतेति प्रतिपादयन्नाह दोषाः सन्तीत्यादि ।


दोषाः सन्ति न सन्तीति पुंवाच्येषु हि शङ्क्यते ।

श्रुतौ कर्तुरभावान्नु दोषाशङ्कैव नास्ति नः ॥ २०८७ ॥

दोषा हि पुरुषाश्रितास्तद्धर्मत्वात्, तत्कथं ते स्वाश्रयमन्तरेण भवेयुः, संभवे वाऽना
श्रितत्वप्रसङ्गात् । एष ह्याश्रितधर्मो यदाश्रयानुविधायित्वम् । दोषाश्रयश्च पुरुषः
कर्त्ता, स च निवृत्तो वेद इति कुतो दोषाशङ्का । ये नष्टाः (एतेन नष्टा ?) संदिग्धा
सिद्धतापि ॥ २०८७ ॥


स्यादेतत्—दोषाश्रयस्य कर्तुरभावोऽपि कथं सिद्ध इत्यतस्तदभावस्तद्ग्राहकप्र
माणपञ्चकनिवृत्त्या प्रतिपादयति—कर्त्ता तावदित्यादि ।


कर्त्ता तावददृष्टः स कदाऽऽप्यासीदितीष्यते ।

अदृष्टपूर्वसम्बन्धः संप्रत्यज्ञानहेतुकः ॥ २०८८ ॥

अनुमानविहीनोऽपि सोऽस्तीति परिकल्प्यते ।

आगमोऽपि न तत्सिद्ध्यै इतरोऽकृतकृतकाकृतकोऽस्ति न ॥ २०८९ ॥

स्वयमेवाप्रमाणत्वात्कृतकोऽस्य न बोधकः ।

मन्वादिवचनस्यापि तत्कृतैव हि सत्यता ॥ २०९० ॥

असम्बद्धस्तु विद्विष्टः सत्यवादी कथं भवेत् ।

अतोऽन्यकर्तृकोऽप्यस्ति वेदकारागमो न नः ॥ २०९१ ॥

वेदकारसदृक्कश्चिद्यदि दृश्येत सम्प्रति ।

ततस्तेनोपमानेन कर्तुरप्युपमा भवेत् ॥ २०९२ ॥

वेदकारादृते किंचिन्न सिद्ध्येत्प्रमितं यदि ।

अर्थापत्त्या प्रतीयेत वेदकारस्ततो ध्रुवम् ॥ २०९३ ॥

ननु तेन विना किंचिद्वेदे यन्नोपपद्यते ।

अस्मिन्सति हि बह्वेव प्रामाण्यादि न सिद्ध्यति ॥ २०९४ ॥

स पञ्चभिरगम्यत्वादभावेनैव गम्यते ।

तेन दुर्लभभावोऽसौ प्रमाणाभावबाधनात् ॥ २०९५ ॥

586

न तावत्प्रत्यक्षतः कर्त्ता वेदस्य सिद्धः—तथाहि—अयमसाविति न शक्यते शृङ्ग
ग्राहिकया प्रतिपादयितुमिदानीमनुपलभ्यमानत्वात् । आसीत्कर्त्तेत्येवं तु कल्पनीयं,
स चादृष्टः सन् कदाप्यासीदितीष्यते, यत्तदप्रमाणकमिति शेषः । नाप्यनुमानतः
सिद्ध इत्याह—अदृष्टपूर्वेत्यादि । अदृष्टपूर्वेण कर्त्रा सम्बन्धो जन्यजनकभावलक्षणो
यः क्रियते संप्रति वेदस्य वेदनिन्दकैः सोऽज्ञानहेतुकः, ज्ञापकप्रमाणाभावात् । न
ह्यदृष्टेन वह्निना सह कश्चिद्धूमस्य सम्बन्धं ग्रहीतुं प्रभुः । तस्मादनुमानविहीनोऽपि
स कर्त्ता कल्प्यते । अपिशब्दान्न केवलं प्रत्यक्षविहीनः । शाब्दप्रमाणनिवृत्तिमाह—
आगमोऽपीत्यादि । वेदस्य व्यतिरेकेणाकृतकस्याभावान्न तावदकृतकः । नापि कृतक
स्तस्य स्वयमेवाप्रमाणत्वात् । तथाहि—कृतको भवन्नागमो वेदसम्बद्धमनुप्रभृतिपु
रुषकर्तृको भवेत् । तदसम्बद्धसाध्यमुनिप्रभृतिप्रणीतो वा, प्रथमपक्षमधिकृत्याह—
मन्वादिवचनस्येत्यादि । तत्कृतैवेति । वेदकृतैव । अनेन स्वतः प्रामाण्याभाव
माह । द्वितीये पक्षे दोषमाह—असम्बद्धस्त्विति । असम्बद्धो वेदेन, तत्रानधिकृ
तत्वात् । अन्यकर्तृक इति । असम्बद्धपुरुषकर्तृकः । वेदकारागमो—वेदकारप्रति
पादकः । उपमानाभावमाह—वेदकारसदृगित्यादि । अर्थापत्तेरभावमाह—वेदका
रादृत
इति । प्रमितमिति । प्रमितिप्रमाणषटपरिच्छिन्नं । तेन विनेति । कर्त्रा ।
किंचिदिति । प्रमितम् । अस्मिन्निति । कर्त्तरि । प्रामाण्यादीत्यादिशब्देन धर्मादि
व्यवस्था । अभावेनैवेति । अभावेन प्रमाणेन नास्तीत्येवं गम्यते । तस्य प्रतिषेधवि
षयत्वात् । अथवा अभावेन रूपेण नास्तीत्येवं गम्यत इति यावत् । प्रमाणाभावात् ।
प्रमाणाभावबाधनादिति । प्रमाणानामभावो निवृत्तिः । अभावप्रमाणमिति यावत् ।
तेन बाधनात् । नास्ति वेदस्य कर्त्तेति सिद्धम् ॥ २०८८ ॥ २०८९ ॥ २०९० ॥
॥ २०९१ ॥ २०९२ ॥ २०९३ ॥ २०९४ ॥ २०९५ ॥


स्यादेतत्—यदि वेदस्यापौरुषेयत्वमेवं प्रसाध्य प्रामाण्यं प्रसाध्यते, हन्त तर्हि
परतः प्रामाण्यं प्रयुक्तं वेदस्य, तथाहि न तावद्वेदस्य प्रामाण्यं प्रतीयते यावदपौरुषे
यता न साध्यत इत्याशङ्क्याह—अप्रामाण्येत्यादि ।


अप्रामाण्यनिवृत्त्यर्था वेदस्यापौरुषेयता ।

येष्टा साऽपि त्ववस्तुत्वात्साधनीया न साधनैः ॥ २०९६ ॥

अनेनैतदाह—न ह्यस्माभिरसिद्धं प्रामाण्यं विधिरूपेण प्रसाध्यते । किं तर्हि ? ।
587 परेण यदप्रामाण्यमासक्तं तन्निवृत्तिः क्रियते । अपवादे च निरस्ते स्वयमेवोत्सर्गोऽ
नपोदितः सिद्धोऽवतिष्ठते । नाप्यपौरुषेयत्वं प्रसाध्यते, यतस्तत्साधनद्वारेण साम
र्थ्यात्परतः प्रामाण्यप्रसङ्गः स्यात् । किं तर्हि ? । तस्यापौरुषेयतानिवृत्तिमात्रलक्षण
त्वेनावस्तुत्वात् ॥ २०९६ ॥


यदि न साध्यते कथं तर्हि स्वयं सिध्यतीत्याह—यन्नामेत्यादि ।


यन्नाम तार्किको ब्रूयात्पौरुषेयत्वसाधनम् ।

तन्निराकरणात्सिद्धा वेदस्यापौरुषेयता ॥ २०९७ ॥

ननु निराकृतेऽपि परपक्षे स्वपक्षमसाधयतः प्रमाणेन कथं तत्सिद्धिर्येन कृतार्था
वेदवादिनो भवन्तीत्याह—वस्तुभूतावित्यादि ।


वस्तुभूतौ हि यौ पक्षौ प्रधानपरमाणुवत् ।

तयोरन्यतरासिद्ध्या नेतरः सिद्ध्यति स्वयम् ॥ २०९८ ॥

प्रधानपरमाणुदित्येतद्व्याचष्टे—प्रधानकारणत्वस्येत्यादि ।


प्रधानकारणत्वस्य निराकृत्यापि साधनम् ।

साध्यं हेत्वन्तरेणैव परमाणुकृतं जगत् ॥ २०९९ ॥

वैशेषिकेण यद्यपि साङ्ख्योपन्यस्तप्रधानकारणजगत्साधनं निराकृतम्, तथाऽपि
हेत्वन्तरेणैव परमाणुकृतं जगत्साधनीयम्, इहाऽप्येवं भविष्यतीति ॥ २०९९ ॥


अत्राह—भावपक्षेत्यादि ।


भावपक्षप्रसिद्ध्यर्थमुच्यते यत्तु साधनम् ।

तस्मिन्निराकृते सम्यगभावः सिद्ध्यति स्वयम् ॥ २१०० ॥

यत्पूर्वापरयोः कोट्योः परैः साधनमुच्यते ।

तन्निराकरणं कृत्वा कृतार्था वेदवादिनः ॥ २१०१ ॥

भावपक्षः पौरुषेयता, तन्निवृत्तिरभावपक्षः । अन्योन्यपरिहारस्थितलक्षणयो
श्चैकप्रतिषेधस्यापरविधिनान्तरीयकत्वादित्यभावः स्वयं सिद्ध्यतीति भावः । तथाहि
—वेदस्य पूर्वापरयोः कोट्योरुत्पादविनाशलक्षणयोः सिद्धये यद्बौद्धैः साधनमुच्यते
तन्निराकरणमात्रेणैव वेदापौरुषेयत्वस्य कोटिद्वयशून्यतालक्षणस्य सिद्धाविष्टसिद्ध्या
कृतार्था वेदवादिनः ॥ २१०० ॥ २१०१ ॥


ननु निराकृतेऽपि तत्साधने वेदस्य नित्यत्वं विधिरूपं यत्नान्तरेण साधनीयम्,
588 तत्कथमसाधयन्तो वेदस्य नित्यत्वं कृतार्था भवेयुर्वेदविद इत्याह—नित्यत्वं वस्तु
रूपमि
त्यादि ।


नित्यत्वं वस्तुरूपं यत्तदसाधयतामपि ।

स्वयं भवति तत्सिद्धिः पूर्वपक्षद्वये हते ॥ २१०२ ॥

पूर्वपक्षद्वयम्—पूर्वापरयोः कोट्योः साधनम् ॥ २१०२ ॥


य़था पूर्वपक्षद्वये हते नित्यत्वस्य स्वयं सिद्धिर्भवति तद्दर्शयति—पूर्वा वेदस्येत्यादि ।


पूर्वा वेदस्य या कोटिः पौरुषेयत्वलक्षणा ।

परा विनाशरूपा च तदभावो हि नित्यता ॥ २१०३ ॥

पूर्वापरकोटिद्वयपरिहारस्थितलक्षणत्वान्नित्यत्वस्य, परस्परपरिहारस्थितलक्षणयोश्चै
कनिराकरणस्यापरसद्भावनान्तरीयकत्वादित्युक्तम् ॥ २१०३ ॥


यद्येवं, यदि तदभावो नित्यता, न तर्हि वस्तुधर्मो नित्यता प्राप्नोतीत्याह—
न्नादौ क्रियत
इति ।


यन्नादौ क्रियते वेदः पश्चान्नैव विनश्यति ।

तदेव तस्य नित्यत्वं ज्ञेयं तदपि चेन्मतम् ॥ २१०४ ॥

अकृतत्वाविनाशाभ्यां नित्यत्वं हि विवक्षितम् ।

तौ चाभावात्मकत्वेन नापेक्षेते स्वसाधनम् ॥ २१०५ ॥

अनेन वस्तुभूतस्य वेदस्यात्मगत एवासौ धर्म इति प्रतिपादयति । यद्येवं वस्तु
भूतत्वात्साध्यं तर्हि नित्यत्वं प्राप्तमिति परवचनावकाशमाशङ्कते—ज्ञेयमित्यादि ।
ज्ञेयम्—प्रमाणेन ज्ञातव्यम्, साध्यमिति यावत् । तौ चेति । अकृतत्वाविनाशौ ।
स्वरूपस्य साधनं स्वसाधनम् । अभावस्यापि वस्तुत्वाविरोधात्सत्यप्यकृताविनाशित्व
लक्षणत्वे नित्यत्वस्य नावस्तुत्वमिति भावः ॥ २१०४ ॥ २१०५ ॥


एवं तावत्प्रमाणपञ्चकनिवृत्त्या वेदे कर्तुरभावसिद्ध्या यन्मिथ्यात्वहेतुदोषसंस
र्गरहितमित्यस्य हेतोर्नासिद्धिः, नापि विरुद्धता सपक्षे भावात्, विपक्षे चाभावान्ना
प्यनैकान्तिकत्वमिति सिद्धं वेदस्य प्रामाण्यम् ॥ साम्प्रतं परप्रयुक्तस्य वेदाप्रामाण्य
साधनद्वयस्य विस्तरेण दूषणमारभते । तत्रेदं साधनद्वयं यदैन्द्रियकं प्रयत्नानन्तरी
यकं च, तदनित्यं, यथा घटः, तथा च शब्दः, इति स्वभावहेतुसामान्येन शब्दस्या
नित्यत्वे सिद्धे वेदस्याप्यनित्यत्वसिद्ध्या सामर्थ्यादस्याः पुरुषवाक्यवन्मिथ्यात्वं सेत्स्य
589 तीति परस्य बौद्धादेरभिप्रायः । अत्र शाब्दादिप्रमाणैः प्रतिज्ञाबाधां विस्तरेण प्रतिपा
दयति । तत्र शाब्दप्रमाणबाधां तावदाह—वेदवाक्यार्थमित्यादि ।


वेदवाक्यार्थमिथ्यात्वं यो वदत्यनुमानतः ।

तस्य वैदिकविज्ञानबलात्पक्षो निवर्त्तते ॥ २१०६ ॥

वेदादागतं वेदिकम्—अग्निहोत्रात्स्वर्गो भवतीत्यादि । तद्बलात्पक्षो निवर्त्तते, तेन
बाध्यमानत्वात् । यथोक्तम्— न चास्य चोदना स्याद्वा नवेति संशयितं प्रत्ययमु
त्पादयति, नच मिथ्यैतदिति कालान्तरे पुरुषान्तरे देशान्तरेऽवस्थान्तरे वा पुनरव्य
पदेश्यप्रत्ययो भवति । योऽप्यन्यप्रत्ययविपर्यासं दृष्ट्वाऽत्रापि विपर्ययः सिद्ध्यतीत्या
नुमानिकः प्रत्यय उत्पद्यते, सोऽप्यनेन प्रत्यक्षेण विरुध्यमानो बाध्येते
ति ॥ २१०६ ॥


ननु च तुल्यबलयोः कथमेकेनेतरस्य बाधा । अथ तुल्यबलत्वेऽपि बाधा, अनु
मानेन तर्हि तस्य किं न बाधा स्यादित्याह—तच्च प्रत्यक्षतुल्यत्वादिति ।


तच्च प्रत्यक्षतुल्यत्वाद्वैदिकं बलवत्तरम् ।

न शक्यमनुमानेन कथंचिदपि बाधितुम् ॥ २१०७ ॥

अनुमानं कथं तर्हि तेन बाध्यत इत्याह—प्रत्यक्षेत्यादि ।


प्रत्यक्षपक्षनिक्षिप्तं शास्त्रमेव यतः स्थितम् ।

बलवत्तरमित्येतदनुमानस्य बाधकम् ॥ २१०८ ॥

यथोक्तम्— प्रत्यक्षस्तु वेदवचनप्रत्ययः, न चानुमानं प्रत्यक्षविरोधि प्रमाणं
भवती
ति ॥ २१०८ ॥


कथमनुमानादागमस्य बलीयस्त्वं येन प्रत्यक्षतुल्यत्वं तस्येत्याह—दृष्टान्तनिरपे
क्षत्वा
दिति ।


दृष्टान्तनिरपेक्षत्वाद्दोषाभावाच्च लाघवम् ।

आगमस्य प्रमाणत्वे नानुमानस्य तादृशम् ॥ २१०९ ॥

तेनागमानुमानाभ्यां यत्रार्थे संशयो भवेत् ।

तत्रागमबलीयस्त्वात्कार्यस्तेनैव निर्णयः ॥ २११० ॥

प्रमाणत्व इति । लाघवापेक्षा विषयसप्तमी । नानुमानस्य तादृशमिति । तस्य
दृष्टान्तापेक्षत्वाद्दोषसद्भावाच्च । दोषस्तु प्रत्यक्षतुल्येन वैदिकेन ज्ञानेन बाध्यमानत्वात्
॥ २१०९ ॥ २११० ॥


590

ननु च यदेवोभयसिद्धं तदेव दूषणं भवति, नच बौद्धस्यागमः प्रमाणम्, द्वे एव
प्रमाणे इत्यवधारणात्, तत्कथमसिद्धेनागमप्रामाण्येन बाधा क्रियते बौद्धं प्रतीत्या
शङ्क्याह—ममाप्रमाणमित्यादि ।


ममाप्रमाणमित्येवं वेदोऽर्थं बोधयन्नपि ।

वक्तुं न द्वेषमात्रेण शक्यते सत्यतेऽसत्यवादिना ॥ २१११ ॥

द्वेषादसम्मतत्वाद्वा नच स्यादप्रमाणता ।

नच प्रीत्यभ्यनुज्ञाभ्यां प्रमाणमवकल्प्यते ॥ २११२ ॥

द्विषन्तोऽपि च वेदस्य नैवाप्रामाण्यकारणम् ।

किंचिज्जल्पन्ति ये नैते भवेयुः सत्यवादिनः ॥ २११३ ॥

धारणाध्ययनव्याख्याकर्मनित्याभियोगिभिः ।

मिथ्यात्वहेतुरज्ञातो दूरस्थैर्ज्ञायते कथम् ॥ २११४ ॥

अभियुक्ता हि ये यत्र तन्निबद्धप्रयोजनाः ।

तत्रत्यगुणदोषाणां ज्ञाने तेऽधिकृता यतः ॥ २११५ ॥

ये तु ब्रह्मद्विषं पापा वेदाद्दूरं बहिष्कृताः ।

ते वेदगुणदोषोक्तीः कथं जल्पन्त्यलज्जिताः ॥ २११६ ॥

एवं मन्यते—नहीच्छामात्रेण वस्तुनः सिद्ध्यसिद्धी भवतः, येनाभ्युपगममात्रेण
न सिद्धमागमप्रामाण्यं भवेत्, किं तर्हि ?, प्रमाणबलेन यत्सिद्धं तद्दूयोरपि सिद्धम्,
दृढतरश्चाग्निहोत्रादिवाक्यात्प्रत्यय इति प्रतिपादितम्, तत्कथमप्रमाणमिति शक्यं
वक्तुम् । केवलं वाङ्मात्रमेतद्भवताम्, निर्युक्तिकमिति सङ्क्षेपार्थः । असम्मतत्वादिति ।
लोकस्याभ्यनुज्ञा—लोकसम्मतत्वम् । दूरस्था इति । शाक्यादयो वेदात् । तद्धारणा
दिकर्मबहिष्कृतत्वात् । तन्निबद्धप्रयोजना इति । तत्र—वेदे, निबद्धम्—उक्तम्,
प्रयोजनम्—पुरुषार्थो यागादिलक्षणो येषां ते । ब्रह्मद्विष इति । वेदद्विषः । तदुद्भूतं
वा ज्ञानं ब्रह्म ॥ २१११ ॥ २११२ ॥ २११३ ॥ २११४ ॥ २११५ ॥ २११६ ॥


अथवा—माभूदागमतो बाधा, तथाऽपि दुष्ट एव प्रतिज्ञार्थः, प्रत्यक्षादिभिर्मानै
र्बाध्यमानत्वादिति प्रतिपादयन्नाह—किंचेत्यादि ।


किंच शब्दस्य नित्यत्वं श्रोत्रजप्रत्यभिज्ञया ।

विभुत्वं च स्थितं तस्य कोऽध्यवस्येद्विपर्ययम् ॥ २११७ ॥

591

अनेन प्रत्यक्षतो बाधामाह । तथाहि—सर्वकालं स एवायमिति प्रत्यक्षाभिज्ञा
यमानत्वान्नित्यत्वं प्रत्यभिज्ञाख्यात्प्रत्यक्षसिद्धम् । सर्वत्र देशे प्रत्यभिज्ञानाद्विभुत्वं च
सिद्धमिति को विपर्ययं नित्यविभुत्वयोरध्यवस्येत्, नैव कश्चित् । नित्यत्वव्यापित्ववि
पर्ययोऽनित्यत्वमविभुत्वं च ॥ २११७ ॥


तस्मादित्युपसंहरति—


तस्माद्वा सर्वकालेषु सर्वदेशेषु चैकता ।

प्रत्यक्षप्रत्यभिज्ञानप्रसिद्धा साऽस्य बाधिका ॥ २११८ ॥

सर्वकालेष्विति । अतीतानागतवर्त्तमानेषु । अस्येति । विपर्ययस्य ॥ २११८ ॥


ज्वालादेरित्यादिना प्रत्यभिज्ञाया व्यभिचारमाशङ्कते ।


ज्वालादेः क्षणिकत्वेऽपि प्रत्यभिज्ञेति चेन्न तत् ।

तत्र हि प्रत्यभिज्ञेयं सामान्यं नित्यमेव नः ॥ २११९ ॥

भेदबुद्धिस्तु यत्रांशे स्यात्केनचिदुपाधिना ।

न तत्र प्रत्यभिज्ञानं भेदबुद्ध्याऽवधारितम् ॥ २१२० ॥

आदिशब्देन लूनपुनर्जातानां केशनखतृणादीनां निर्झरादीनां ग्रहणम्, यतस्तत्रापि
प्रत्यभिज्ञाऽस्ति, त एवामी केशास्तान्येव तृणानि सैव निर्झरधारा तदेव सरितो जल
मिति । नैतदस्ति । तत्र हि सामान्यं तेजस्त्वादि प्रत्यभिज्ञायते । तच्च नित्यमिष्टमे
वेति कुतो व्यभिचारः । यदपि व्यक्तिरूपमनित्यं तत्तु नैव प्रत्यभिज्ञायत इति कुतो
व्यभिचारः । यत्रांश इति । मन्दतरतमादौ । केनचिदुपाधिनेति । मन्दत्वोर्द्ध्वग
मनादिना । कथमवगतमित्याह—भेदबुद्ध्याऽवधारितमिति । भिन्नबुद्धेरेतदवगत
मित्यर्थः ॥ २११९ ॥ २१२० ॥


अनुमानैर्बाधामाह—देशकालादीत्यादि ।


देशकालादिभिन्नाश्च गोशब्दव्यक्तिबुद्धयः ।

समानविषयाः सर्वा नवा नानार्थगोचराः ॥ २१२१ ॥

गौरित्युत्पद्यमानत्वात्सम्प्रत्युत्पन्नबुद्धिवत् ।

गोशब्दबुद्ध्या ह्यस्तन्या गोशब्दोऽयं प्रकाशितः ॥ २१२२ ॥

गोशब्दविषयत्वेन यथैवाद्य प्रसूतया ।

इयं वा तं विजानाति तद्धेतोः पूर्वबुद्धिवत् ॥ २१२३ ॥

592
उभे वाऽप्येकविषये भवेतामेकबुद्धिवत् ।

देशकालादिभिन्ना वा समस्ता गोत्वबुद्धयः ॥ २१२४ ॥

एकगोशब्दजन्याः स्युर्गोधीत्वादेकबुद्धिवत् ।

ह्यस्तनोच्चारणो वाऽपि गोशब्दोऽद्यापि विद्यते ॥ २१२५ ॥

गोशब्दज्ञानगम्यत्वादद्योच्चारितशब्दवत् ।

गौरिति श्रूयमाणोऽद्य ह्योऽपि शब्दो मया श्रुतः ॥ २१२६ ॥

हेतोः पूर्वोदितादेव ह्य उच्चारितशब्दवत् ।

शब्दो वा वाचको यावान्स्थिरोऽसौ दीर्घकालभाक् २१२७ ॥

सम्बन्धानुभवापेक्षज्ञेयज्ञानप्रवर्त्तनात् ।

य ईदृक्स स्थिरो दृष्टो धूमसामान्यभागवत् ॥ २१२८ ॥

अस्थिरस्तु न सम्बन्धज्ञानापेक्षोऽवबोधकः ।

तादात्विकनिमित्तत्वाद्दीपविद्युत्प्रकाशवत् ॥ २१२९ ॥

शब्दानित्यत्वपक्षोऽतः सर्वैरेभिर्विरुध्यते ।

अनुमानैर्दृढैः सिद्धैर्नित्याः शब्दास्ततः स्थिताः ॥ २१३० ॥

गोशब्दव्यक्तिषु या बुद्धयो देशकालद्रुतमध्यविलम्बितादिप्रतिभेदभासभिन्नास्ता
एकार्थविषयाः, नानार्थविषया नवा भवन्ति, गौरित्याकारोपग्रहणोत्पद्यमानत्वात् ।
सम्प्रत्युत्पन्नगोबुद्धिवत् । अथवा—या या गोशब्दविषया बुद्धिः साऽद्यतनगोश
ब्दविषया, गोशब्दविषयत्वात् । अद्य प्रसूतगोशब्दबुद्धिवत् । गोशब्दविषया च
ह्यस्तनी गोशब्दबुद्धिरिति स्वभावहेतुः । अथवा—अह्यस्तनी गोशब्दबुद्धिर्धर्मिणी,
ह्यस्तनगोशब्दविषयत्वं साध्यधर्मः, गोशब्दविषयत्वादिति हेतुः, ह्यस्तनी गोशब्दबु
द्धिर्दृष्टान्तः । एतदेवाह—इयमित्यादि । इयमित्यद्यतनी । मिति । ह्यस्तनगोशब्द
ज्ञानोपलब्धं गोशब्दम् । तद्धेतोरिति । गोशब्दविषयत्वात् । अथवा—उभे ह्यस्त
न्यद्यतन्यौ बुद्धी एकविषये गोशब्दविषयत्वादेकगोशब्दबुद्धिवत् । उभे चेत्येतदेव
दर्शयति । हेतुः प्रकृतत्वात्सुज्ञात इति नोक्तः । अथवा—समस्ता गोत्वबुद्धयो देशा
दिभेदभिन्ना एकगोशब्दजन्या गोधीत्वादेकगोबुद्धिवत् । पूर्वं गोशब्दविषया बुद्धयो
धर्मिण्यः, एकविषयत्वं च साध्यम्, इदानीं च गोत्वजातिविषया बुद्धयो धर्मिण्यः,
एकगोशब्दजन्यत्वं साध्यमिति विशेषः । ह्यस्तनमुच्चारणमस्येति ह्यस्तनोच्चारणः ।
593 अयं च धर्मिनिर्देशः । अद्यापि वर्त्तनं साध्यधर्मः शेषं सुबोधम् । गौरिति श्रूयमा
णोऽद्येति धर्मिनिर्देशः । तस्य ह्योऽपि श्रवणं साध्यधर्मः । पूर्वोदितादिति । गोश
ब्दज्ञानगम्यत्वात् । अथवा—यावान्वाचकशब्द इत्ययं धर्मिनिर्देशः । तस्य दीर्घ
कालभाक्त्वं साध्यधर्मः । सम्बन्धानुभवापेक्षज्ञेयज्ञानप्रवर्त्तनादिति हेतुः । सम्ब
न्धानुभवमपेक्षत इति सम्बन्धानुभवापेक्षं तच्च तत् ज्ञेयज्ञानप्रवर्त्तनं चेति तथोक्तम् ।
तस्मात्स्थिरो ज्ञेयः स्थिरस्यैव विशेषणं दीर्घकालभागिति । कालस्थैर्येण स्थिरत्वम
त्राभिप्रेतं नतु देशस्थैर्येण पर्वतादेरिवेति विशेषणेन दर्शयति । धूमसामान्यभागव
दिति दृष्टान्तः । स्वलक्षणस्यानन्वयान्न लिङ्गत्वमिति सामान्यभाग एव दृष्टान्तः ।
अस्थिरस्त्वित्यादि व्यतिरेककथनम् । तादात्विकनिमित्तत्वादिति । तादात्विकम्
—तावत्कालिकं व्यवहारकालानुयायि निमित्तं सम्बन्धो यस्य स तथोक्तः तद्भाव
स्तत्त्वम् ॥ २१२१ ॥ २१२२ ॥ २१२३ ॥ २१२४ ॥ २१२५ ॥ २१२६ ॥
॥ २१२७ ॥ २१२८ ॥ २१२९ ॥ २१३० ॥


ननु चानया दिशा घटादीनामप्येकत्वं शक्यते वक्तुम् । तथाहि—सर्वा देशका
लादिभिन्ना घटादिव्यक्तिबुद्धयः समानविषया नवा नानार्थगोचराः । घट इत्युत्प
द्यमानत्वात्सम्प्रत्युत्पन्नघटबुद्धिवदित्येवमादि । नचैकत्वं घटादीनामिष्टं दृष्टं वा ।
तस्मादेते सर्व एव हेतवो व्यभिचारिण इत्याशङ्क्याह—घटादेरित्यादि ।


घटादेरेकतापत्तौ जात्येष्टं सिद्धसाधनम् ।

व्यक्तीनामेकतापत्तिं कुर्याच्चेदनया दिशा ॥ २१३१ ॥

तथा दृष्टविरुद्धत्वं वाच्यं सर्वशब्दप्रमाणकम् ।

यतोऽध्यक्षादिभिर्मानैर्व्यक्तिभेदः सुनिश्चितः ॥ २१३२ ॥

यदि जात्या—जातिरूपेण, घटादीनामेकत्वं साध्यते प्रसङ्गेन तदा सिद्धसाध
नम् । तदुक्तम्— अंशोअंशा ह्येतस्य जात्याख्यो नित्यो ध्वंसीतरो मत इति । अथ—
व्यक्तिरूपाणामेकत्वं प्रसङ्गेन साध्यते, तदापि न व्यभिचारः । प्रत्यक्षादिभिर्बाधित
त्वादस्याः प्रतिज्ञायाः । यस्मादबाधितविषयत्वेन सतीति सर्वे हेतवः सविशेषणा
इहाभिप्रेताः । तत्कुतो व्यभिचार इत्यभिप्रायः । दृष्टविरुद्धत्वमिति । प्रतिज्ञाया
इति शेषः । शेषं सुगमम् ॥ २१३१ ॥ २१३२ ॥


पुनरपि शब्दानित्यत्वप्रतिज्ञाया अनुमानार्थापत्तिभ्यां बाधामाह—तत्रेदमनुमा
594 नम्—ययोरकृत्रिमः सम्बन्धस्तावकृत्रिमौ, यथाऽऽकाशपरमाणू, अकृत्रिमश्च
सम्बन्धः शब्दस्य जातिसंज्ञकेनार्थेन वाच्यवाचकभावलक्षण इति स्वभावहेतुः ।
असिद्धिं परिहरन्नाह—कृत्रिमत्वे चेत्यादि ।


कृत्रिमत्वे च सम्बन्धस्तत्प्रयोगापवर्जनात् ।

तदेकव्यक्तिनिष्ठत्वान्नैव सार्वत्रिको भवेत् ॥ २१३३ ॥

पार्थिवद्रव्यसत्त्वादिलाङ्गूलत्वादिसङ्करात् ।

विना प्रयोगभूयस्त्वं न स्याद्गोत्वावधारणा ॥ २१३४ ॥

तस्मादकृत्रिमः शब्दो न कदाचिद्विनश्यति ।

नित्येन नित्यसम्बन्धादाकाशपरमाणुवत् ॥ २१३५ ॥

कृत्रिमत्वे च सम्बन्धस्येत्यपेक्षणीयम् । यदि सम्बन्धः कृत्रिमो भवेत्तदा तत्प्र
योगापवर्जनात—शब्दप्रयोगविनाशात्, शब्दस्यापि विनाश इति सार्वत्रिकः—
सर्वप्रयोगानुयायी, न स्यात् । कुतः ?, तदेकव्यक्तिनिष्ठत्वात्—एकगोव्यक्तिनिष्ठ
त्वात् । तत्रार्थापत्तिः—येयं संमुखेऽनेकस्मिन्नेकस्यामपि गोव्यक्तौ सामान्यस्थिते
सति गोशब्दान्निष्कृष्टस्य गोत्वस्यैव प्रतिपत्तिः, सा शब्दमन्तरेणानुपपन्ना । कथमि
त्याह—पार्थिवेत्यादि । शाब्दप्रमाणपूर्वकेयमर्थापत्तिः । तस्मादकृत्रिमः शब्द इत्यनुमानमुपसंहरति । नित्येनेति । जातिसंज्ञाकेनार्थेन । नित्यं सर्वकालं सम्ब
न्धात्
 । यथा परमाणूनां नित्येनाकाशेनेति ॥ २१३३ ॥ २१३४ ॥ २१३५ ॥


अर्थापत्तेरनैकान्तिकत्वं परिहरन्नाह—संमुखानेकसामान्येत्यादि ।


संमुखानेकसामान्यविषयश्च सकृच्छ्रुतः ।

निष्कृष्टं स्वार्थवाचित्वं गोशब्दो न प्रपद्यते ॥ २१३६ ॥

बहुभिः श्रवणैरेष प्राणित्वादीनि वर्जयन् ।

शुक्लादिगमनादीनि सास्नालाङ्गूलतादि च ॥ २१३७ ॥

शावलेयादिखण्डादिव्यक्तीः स्वस्वनिबन्धनाः ।

निष्कृष्टगोत्ववाचित्वं चिरेण प्रतिपद्यते ॥ २१३८ ॥

यथोक्तं भाष्ये— नित्ये तु खलु वै शब्दे बहुकृत्व उच्चारितः श्रुतपूर्वस्त्वन्या
न्यासु गोष्वन्वयव्यतिरेकाभ्यामाकृतिवचनत्वमवगमयति तस्मादपि नित्य
इति ।
व्यक्तीः स्वस्वनिबन्धना इति । यथास्वं भेदभिन्ना इत्यर्थः । भिन्नत्वं हि तासां भेद
595 प्रतिपत्तिनिबन्धनम् । तेन स्वं भिन्नत्वं भेदप्रतिपत्तिनिबन्धनं यासां ताः स्वनिब
न्धनाः । वर्जयन्निति सम्बन्धः ॥ २१३६ ॥ २१३७ ॥ २१३८ ॥


स्यादेतत्—यदि नाम चिरेण प्रतिपद्यते, तथापि कथं सर्वकालभावित्वं सिध्यति
शब्दस्येत्याह—तावत्कालमित्यादि ।


तावत्कालं स्थिरं चैनं कः पश्चान्नाशयिष्यति ।

सम्भाव्यतेऽस्य नाशित्वं न भूयोऽन्येन हेतुना ॥ २१३९ ॥

यथा शस्त्रादिभिश्छेदाज्जरया वा घटादयः ।

नङ्क्ष्यन्तीत्यवगम्यन्ते नैवं शब्देऽस्ति कारणम् ॥ २१४० ॥

तावत्कालम्—निष्कृष्टस्वार्थप्रतिपादनकालम् । ननु यथा घटादीनां तावत्कालं
स्थिराणामपि मुद्गरादिभ्यः पश्चाद्विनाशस्तथा शब्दस्यापि भविष्यतीत्याह—सम्भा
व्यतेऽस्ये
त्यादि । भूय इति । पुनः । यथा शस्त्रादिभिश्छेदाद्विनाशं प्रतिपद्यन्ते घटा
दयो जरया वा, नैवं शब्देऽस्ति कारणम् । कथम् ?, अमूर्त्तत्वात्, घटादीनां च
मूर्त्तत्वादिति भावः ॥ २१३९ ॥ २१४० ॥


यदुक्तम्— घटादेरेकतापत्तौ जात्येष्टं सिद्धसाधनम् । व्यक्तीनामेकतापत्तिं कुर्या
च्चेदनया दिशा ॥ तदा दृष्टविरुद्धत्वं वाच्यं सर्वप्रमाणकम् ॥
इति तदिहापि समा
नम्—गादीनामेकतापत्तौ जात्येष्टं सिद्धसाधनमिति सर्वं वाच्यम् । तथाहि—देश
कालप्रयोक्तृभेदाद्गवादिव्यक्तिवद्गादिवर्णव्यक्तयो बह्व्यः, तदाधारं च गोत्वादि, त(द्व)द्ग
त्वाद्यपि सामान्यमिष्टमिति सर्वं समानमित्याशङ्क्याह—देशकालप्रयोक्तॄणामित्यादि ।


देशकालप्रयोक्तॄणां भेदेऽपि च न भेदवान् ।

गादिवर्णो यतस्तत्र प्रत्यभिज्ञा परिस्फुटा ॥ २१४१ ॥

प्रत्यभिज्ञाख्यात्तु प्रत्यक्षाद्व्यक्तीनामेकत्वं सिद्धम्, नानुमानं प्रत्यक्षविरोधे प्रमाणी
भवति, प्रत्यक्षस्य सर्वप्रमाणज्येष्ठत्वादित्यभिप्रायः ॥ २१४१ ॥


ननु द्रुतमध्यविलम्बितादिप्रतीतिभेदाद्भेदः सिद्ध एव व्यक्तीनाम्, तत्कथमुच्यते
प्रत्यभिज्ञा परिस्फुटेत्याह—नहि द्रुतादिभेदेऽपीति ।


न हि द्रुतादिभेदेऽपि निष्पन्ना सम्प्रतीयते ।

गव्यक्त्यन्तरविच्छिन्ना गव्यक्तिरपरा स्फुटा ॥ २१४२ ॥

निष्पन्नेति । अकल्पिता । विच्छिन्नेति । भिन्ना । गव्यक्तिर्गकारव्यक्तिः ।
प्रत्यभिज्ञयैकीकृतत्वान्न गव्यक्तिरपराऽस्तीति भावः ॥ २१४२ ॥


596

ननु च गत्वादिजातिरेवात्र प्रत्यभिज्ञायते न व्यक्तिस्तत्कथं व्यक्तेः प्रत्यभिज्ञे
त्याह—गकार इत्यादि ।


गकारोऽत्यन्तनिष्कृष्टगत्वाधारो न विद्यते ।

गान्यबुद्ध्यनिरूप्यत्वात्परकल्पितगत्ववत् ॥ २१४३ ॥

गान्यबुद्ध्यनिरूप्यत्वादिति । गकारादन्यो गान्यः, तस्मिन्बुद्धिस्तयाऽनिरूप्य
त्वादग्राह्यत्वात् । परकल्पितगत्ववदिति । निःसामान्यानि सामान्यानीति परेषां
सिद्धान्तात् ॥ २१४३ ॥


वर्णत्वाच्चापि साध्योऽयमिति ।


वर्णत्वाच्चापि साध्योऽयं खकारादिवदेव च ।

व्यतिरेकस्य चादृष्टेर्नात्र दृष्टं निवर्त्तकम् ॥ २१४४ ॥

गत्वनिषेध इति शेषः । तत्र प्रयोगः—यो गवर्णस्सोऽत्यन्तनिष्कृष्टगत्वाधारो
न भवति, यथा खकारादिवर्णः, वर्णश्चायं गकार इति विरुद्धव्याप्तोपलब्धिः ।
गत्वाधारत्वविरुद्धेन किल वर्णत्वस्य व्याप्तत्वात् । न चात्र प्रतिज्ञाया दृष्टविरोध
इत्याह—व्यतिरेकस्येत्यादि । व्यतिरेको—भेदः । दृष्टम—प्रत्यक्षम् ॥ २१४४ ॥


स्यादेतत्—बौद्धं प्रति सिद्धसाध्यता, तथाहि—एकत्वबुद्धिरन्यापोहनिबन्धनैवेष्टा न
व्यतिरिक्तगत्वनिबन्धना, ततश्च प्रतिषिद्धेऽपि व्यतिरिक्ते गत्वे नैकत्वबुद्धिवशादे
कत्वं वर्णस्य सिद्ध्यति, अन्यापोहनिबन्धनत्वात्तस्येत्याशङ्क्याह—द्वयसिद्धस्त्विति ।


द्वयसिद्धस्तु वर्णात्मा नित्यत्वादि यथैव च ।

कल्पितस्येष्यते तद्वत्सिद्धस्यैवाभ्युपेयताम् ॥ २१४५ ॥

तेनैकत्वेन वर्णस्य बुद्धिरेकोपजायते ।

विशेषबुद्धिसद्भावो भवेद्व्यञ्जकभेदतः ॥ २१४६ ॥

किमित्युभयसिद्धं वर्णात्मानं परित्यज्य कल्पितस्यैवान्यापोहस्य नित्यत्वानेकत्व
व्यापित्वादयो वर्ण्यन्ते, जातिधर्मव्यवस्थितेरिति वचनात् । युक्तं यदेवोभयसिद्धं तस्यैव
कल्पयितुम्, अन्यथा ह्यदृष्टकल्पनाप्रसङ्गः स्यात् । तस्मादेकत्वादेव वर्णस्यैका
प्रत्यभिज्ञाबुद्धिरुपजायते । यद्येवं द्रुतमध्यविलम्बितादिविशेषबुद्धिः कथं भवेदित्याह
विशेषबुद्धीत्यादि । व्यञ्जका वायवीयाः संयोगविभागाः ॥ २१४५ ॥ २१४६ ॥


ननु वायोरश्रोत्रविषयत्वात्तदीया अपि संयोगविभागा अश्रौत्रा एव । तत्कथमगृ
597 हीते व्यञ्जके व्यङ्ग्यस्य ग्रहणं भवति नह्यालोकाग्रहणे तद्व्यङ्ग्यस्य घटादेर्ग्रहणं युक्त
मिति मन्यमानश्चोदयति—नन्वित्यादि ।


ननु यस्य द्वयं श्रौत्रं तस्य बुद्धिद्वयं भवेत् ।

भवतोऽतीन्द्रियत्वात्तु कथं नादैर्विशेषधीः ॥ २१४७ ॥

यस्येति । यस्य—वैयाकरणादेर्घोषात्मको ध्वनिर्व्यञ्जको नतु वायवीयसंयोगवि
भागात्मकः, तस्य द्वयम्—व्यङ्ग्यं व्यञ्जकं च श्रोत्रग्राह्यमिति बुद्धिद्वयम्—एकबु
द्धिर्विशेषबुद्धिश्च भवति । भवतस्तु मीमांसकस्य कथं नादैर्वायवीयसंयोगविभागा
त्मकैर्विशेषधीर्भवेत्, कुतः ?, अतीन्द्रियत्वात् । नादानामिति शेषः ॥ २१४७ ॥


नादेनेत्यादिना प्रतिविधत्ते ।


नादेन संस्कृताच्छ्रोत्राद्यदा शब्दः प्रतीयते ।

तदुपश्लेषतस्तस्य बोधं केचित्प्रचक्षते ॥ २१४८ ॥

तदुपश्लेषत इति । शब्दोपश्लेषतः । तस्य—नादस्य । बोधं—ग्रहणम् । केचि
त्प्रचक्षते—यद्यपि केवलस्य नादस्य श्रोत्रेणाग्रहणम्, तथापि शब्दोपश्लिष्टस्य तु ग्रह
णमस्त्येवेति बुद्धिद्वयं भवेदेवेति तेषां भावः ॥ २१४८ ॥


नैव वेत्यनेनाग्रहणपक्षेऽपि बुद्धिद्वयं समर्थयते ।


नैव वा ग्रहणे तेषां शब्दे बुद्धिस्तु तद्वशात् ।

संस्कारानुकृतेश्चाऽपि महत्त्वाद्यवबुध्यते ॥ २१४९ ॥

तेषामिति । नादानां । वायवीयसंयोगविभागात्मनाम् । कथमगृहीतव्यव्यञ्जके
व्यङ्ग्ये बुद्धिर्भवेदित्याह—शब्दे बुद्धिस्तु तद्वशादिति । नादवशात् । तत्सत्तामा
त्रेणैवेति यावत् । भवतु नाम स्वरूपमात्रग्रहणं महत्त्वादिविशेषग्रहणं तु कथं भवती
त्याह—संस्कारानुकृतेरित्यादि । यदा महद्भिर्नादैर्महान्संस्कार आधीयते श्रोत्रे,
तदा महत्त्वं प्रतीयते शब्दे । यदा त्वल्पैरल्पत्वमित्येवं संस्कारानुकारात्तरतमभेदो
ऽपि योज्यः ॥ २१४९ ॥


ननु च यदेतन्महत्त्वादि गृह्यते तद्व्यञ्जकस्थमेव भवन्मते न व्यङ्ग्यस्थम्, तच्च
व्यञ्जकाग्रहणादगृहीतमेवेति तत्कथमगृहीत्वा व्यञ्जकस्थं महत्त्वादि शब्दे समारो
पयेत् । न ह्यविषयीकृतस्य जलादेर्मरीचिकादावारोपो भवेदित्याह—मधुरं तिक्तरू
पेणे
त्यादि ।


598
मधुरं तिक्तरूपेण श्वेतं पीततया यथा ।

गृह्णन्ति पित्तदोषेण विषयं भ्रान्तचेतसः ॥ २१५० ॥

यथा वेगेन धावन्तो नावारूढाश्च गच्छतः ।

पर्वतादीन्प्रजानन्ति भ्रमेण भ्रमतश्च तान् ॥ २१५१ ॥

मण्डूकवसयाऽक्ताक्षा वंशानुरगबुद्धिभिः ।

व्यक्त्यल्पत्वमहत्त्वाभ्यां सामान्यं च तदाश्रयम् ॥ २१५२ ॥

गृह्णन्ति यद्वदेतानि निमित्तग्रहणाद्विना ।

व्यञ्जकस्थमबुद्ध्वैवं व्यङ्ग्ये भ्रान्तिर्भविष्यति ॥ २१५३ ॥

यथा पित्तदोषेण मधुरादिकं विषयं तिक्तादिरूपेण गृह्णन्त्यगृहीत्वैव पित्तस्वरूपम् ।
यथावाऽऽशुगमननौयानभ्रमणैराहितविभ्रमाः पर्वतादीन्गच्छतो भ्रमतश्च पश्यन्ति ।
यथाच मण्डूकवसयाऽक्तचक्षुषो वंशानुरगरूपेण वीक्षन्ते । यथा च व्यक्तेरल्पत्वमह
त्त्वाभ्यां सामान्यं तदाश्रयम्—अल्पत्वाद्याश्रयम्, प्रतिपद्यन्ते, सत्ताख्यं महासामान्य
मल्पं तु गोत्वादीति । अन्यथा हि नित्यसर्वगतत्वेन सर्वस्य तुल्यत्वात्किंकृतं सामा
न्यस्याल्पत्वं महत्त्वं स्यात् । तस्माद्यद्वदेतानि मधुरादीनि तिक्तादिरूपेण गृह्णन्ति
निमित्तस्य पित्तादेर्ग्रहणमन्तरेण, तथा व्यञ्जकस्थं महत्त्वादिकमगृहीत्वैव शब्दे मह
त्त्वादिभ्रान्तिर्भविष्यति । अबुद्ध्वेति । भ्रान्तिक्रियापेक्षया समानकर्तृत्वम्, अन्यथा
त्वाप्रत्ययो न स्यात् ॥ २१५० ॥ २१५१ ॥ २१५२ ॥ २१५३ ॥


अथ कथमवगतं येयं ह्रस्वमहत्त्वादिधीः शब्दे भवति सा परोपाधिका, नतु स्वत
एव महत्त्वादिभेदसद्भावादित्याह—स्वतो ह्रस्वादिभेद इत्यादि ।


स्वतो ह्रस्वादिभेदस्तु नित्यत्वादेर्विरुध्यते ।

सर्वदा यस्य सद्भावः स कथं मात्रिकः स्वयम् ॥ २१५४ ॥

तस्मादुच्चारणं तस्य मात्राकालं प्रतीयताम् ।

द्विमात्रं वा त्रिमात्रं वा न वर्णो मात्रिकः स्वयम् ॥ २१५५ ॥

आदिशब्देन दीर्घप्लुतोदात्तानुदात्तस्वरितषडादिभेदपरिग्रहः । नित्यत्वादेर्विरु
ध्यत
इति । प्रत्यभिज्ञया नित्यत्वस्य सिद्धत्वादिति भावः ॥ २१५४ ॥ २१५५ ॥


नन्वित्यादिना परमतेनाभिव्यक्तेरसिद्धिमाशङ्कते ।


ननु नादैरभिव्यक्तिर्न शब्दस्योपपद्यते ।

सा हि स्याच्छब्दसंस्कारादिन्द्रियस्योभयस्य वा ॥ २१५६ ॥

599
तत्रततः सर्वैः प्रतीयेत शब्दः संस्क्रियते यदि ।

निर्भागस्य विभोर्न स्यादेकदेशे हि संस्क्रिया ॥ २१५७ ॥

साऽभिव्यक्तिः शब्दस्य भवन्ती वायवीयैः संयोगविभागैः शब्दसंस्काराद्वा भवेत्,
इन्द्रियसंस्काराद्वा, उभयस्य वा—शब्दस्येन्द्रियस्य च संस्कारात् । तत्र यदि शब्दः
संस्क्रियते तदा पाटलिपुत्रादावेकत्र देशे संस्कृतः सर्वदेशस्थैर्गृह्येत, युगपत्तस्य सर्वग
तत्वात् । अथापि स्यादेकांशस्तस्य संस्कृतो नतु सर्व इत्याह—निर्भागस्येति । निर
वयवो हि शब्दोऽमूर्त्तत्वात्, कथं विभुत्वेऽपि निरवयवस्यैकदेशेन संस्कारः स्यात्
॥ २१५६ ॥ २१५७ ॥


अथापि स्यादाधारभेदान्निरवयवस्यापि सतो भेदेन संस्कारो भविष्यतीत्याह—
नचापीति ।


नचाप्याधारभेदेन संस्कारनियमो भवेत् ।

यतः शब्दो निराधारो व्योमात्मादिवदेव च ॥ २१५८ ॥

विभुत्वादाकाशात्मादिवन्निराधारः शब्दः ॥ २१५८ ॥


नन्वाकाशगुणत्वाच्छब्दस्य गुणाश्च गुणिनमाश्रिता इत्याकाशमाधारोऽस्ति शब्द
स्येत्याह—अथाप्याकाशमित्यादि ।


अथाप्याकाशमाधारस्तत्रानवयवे सति ।

न स्यात्प्रदेशसंस्कारः कृत्स्नशब्दगतेरपि ॥ २१५९ ॥

तस्याप्याकाशस्यानवयवत्वान्नाधारप्रदेशभेदेन संस्कारभेदोऽस्ति । ननु च यद्यप्या
काशमनवयवं तथाऽपि संयोगिभेदात् घटाकाशादिवत्कर्णशष्कुलीपर्यन्तपरिच्छिन्नमा
काशं भिन्नं भविष्यतीत्याह—कृत्स्नशब्दगतेरपीति । न स्यात्प्रदेशसंस्कार इति
सम्बन्धः । अखण्ड एव हि शब्दः प्रतीयते सा च प्रतीतिर्व्योमैकदेशसंस्कृतौ न स्यात्
॥ २१५९ ॥


कथमित्येतदेव निगमयन्नाह—नहीत्यादि ।


नहि सामस्त्यरूपेण यावद्व्योम व्यवस्थितः ।

शक्यते सकलो बोद्धुमेकदेशेन संस्कृतः ॥ २१६० ॥

नह्याकाशं व्याप्य व्यवस्थितः शब्दस्तदेकदेशेन संस्कृतः शक्यते सकलो ज्ञातुम्
॥ २१६० ॥


600

इन्द्रियसंस्कारपक्षे दूषणमाह—आकाशश्रोत्रपक्ष इत्यादि ।


आकाशश्रोत्रपक्षे च विभुत्वात्प्राप्तितुल्यता ।

दूरभावेऽपि शब्दानामिह ज्ञानं प्रसज्यते ॥ २१६१ ॥

श्रोत्रस्य चैवमेकत्वं सर्वप्राणभृतां भवेत् ।

तेनैकश्रुतिवेलायां शृणुयुः सर्व एव ते ॥ २१६२ ॥

येषां खं श्रोत्रमिति पक्षस्तेषामेकत्वाद्विभुत्वाच्च नभसः सर्वशब्दैस्तुल्या प्राप्ति
रिति दूरस्थस्यापि शब्दस्य ग्रहणं प्राप्नोति । श्रोत्रस्य च सर्वप्राणभृतामेकत्वं स्यात् ।
ततश्चैको यदा शृणोति तदैव सर्वैरपि श्रूयेत, अभिन्नत्वाच्छ्रोत्रस्य । एकाश्रवणे सर्वे
षामश्रवणदोषश्च वक्तव्यः ॥ २१६१ ॥ २१६२ ॥


स्यादेतत्—धर्माधर्माभिसंस्कृतया कर्णशष्कुल्या परिच्छिन्नमाकाशं श्रोत्रम्, अतः
कर्णशष्कुलिमत्याकाशदेशे श्रोत्रव्यवस्थितेर्दोषद्वयमपीदमनास्पदं यद्विभुत्वात्प्राप्तितु
ल्यता श्रोत्रस्य चैकत्वं सर्वप्राणभृतां भवेदिति । अत्राह—तस्यानवयवत्वादिति ।


तस्यानवयवत्वाच्च न धर्माधर्मसंस्कृतः ।

नभोदेशो भवेच्छ्रोत्रं व्यवस्थाद्वयसिद्धये ॥ २१६३ ॥

नह्यनवयवस्य परमार्थतः एकदेशाः सन्ति । येन कश्चिदेव नभोदेशः श्रोत्रं भवेत् ।
व्यवस्थाद्वयम्—प्राप्तेरतुल्यत्वव्यवस्था, श्रोत्रानेकत्वव्यवस्था च । यद्वा—शब्दस्य
ग्रहणाग्रहणे व्यवस्थाद्वयम् ॥ २१६३ ॥


सकृच्च संस्कृतं श्रोत्रं सर्वशब्दान्प्रबोधयेत् ।

घटायोन्मीलितं चक्षुः पटं नहि न बुद्ध्यते ॥ २१६४ ॥

एतदेव प्रसक्तव्यं विषयस्यापि संस्मृतौ ।

समानदेशवृत्तित्वात्संस्कारस्याविशेषतः ॥ २१६५ ॥

किंच—सकृत्—एकवारं संस्कृतं श्रोत्रं सर्वशब्दान्प्रबोधयेत्—ग्राहयेत् । तस्य
सर्वशब्दसाधारणत्वात् । तेषां च शब्दानां विभुत्वेनाभिन्नयोग्यदेशत्वात् । स्यादेत
त्प्रतिपत्त्यर्थमेव वक्रा श्रोतुः श्रोत्रमभिसंस्कृतं तमेव शब्दं तच्छ्रोत्रं ग्राहयेन्नान्यमि
त्याह—घटायेत्यादि । नहि न बुध्यते, अपि तु बुध्यत एव, तुल्यत्वाद्देशयोग्यताया
इति भावः । सर्वशब्दग्रहणं कथमित्याह—समानदेशवृत्तित्वात्संस्कारस्याविशे
षत
इति । सर्वेऽपि हि शब्दा विभुत्वेन समानाकाशदेशवृत्तयः, ततश्चैषां संस्कारोऽ—
601 प्यविशिष्ट एवेति सर्वग्रहणप्रसङ्गः । क्वचित्पाठः—संस्कारो ह्यविशेषतः इति, तत्र
हिशब्दो हेतौ । अविशेषत इति । आद्यादित्वात्तृतीयान्तात्तसिः । ततश्चायमर्थो
भवति—अविशेषेण यस्माच्छब्दानां संस्कारः कृतः, समानदेशवृत्तित्वात्, ततः
सर्वशब्दग्रहः प्राप्नोतीति ॥ २१६४ ॥ २१६५ ॥


स्यादेतत्—यद्यप्यविशेषेण संस्कारः, तथापि य एव जिघृक्षितः श्रोत्रा शब्दः
स एव गृह्यते नान्य इति, अत्राह—स्थिरवाय्वित्यादि ।


स्थिरवाय्वंवायूपनीत्या च संस्कारोऽस्य भवन् भवेत् ।

दृष्टमावरणापाये तद्देशेऽस्यो(शस्थो ?)पलम्भनम् ॥ २१६६ ॥

द्विविधो हि वायुः स्थिरोऽस्थिरश्च, तत्र यः स्थिरः सद्यनाव(घनान्ध ?) कारवत्
शब्दमावृत्यास्ते । तस्य च वक्तृप्रयत्नसमुत्थेन वायुना संयोगविभागा उत्पद्यन्ते ।
तैश्च संयोगविभागैस्तस्य स्थिरस्य वायोरपनयः क्रियते स एव च शब्दस्य संस्कारो
नान्यः स्वलक्षणपुष्ट्यादिः, तस्य नित्यत्वेनैकरूपत्वात् । ततः किमित्याह—दृष्टमि
त्यादि । दृष्टमिति । लोकशास्त्रयोः । यथा घटादेरन्धकारापगमे सति पुरोऽवस्थित
स्यानभीष्टस्याप्युपलब्धिर्भवत्येव योग्यदेशावस्थानात् ॥ २१६६ ॥


यदुक्तम्— तत्र सर्वैः प्रतीयेत शब्दः संस्क्रियते यदि ॥ इति, तत्र न दोषो
यस्मादेकोऽपि शब्दः कंचित्पुरुषं प्रत्यसंस्कृतः कंचित्प्रति संस्कृतः । यथा एका स्त्री
व्यपेक्षाभेदान्माता च दुहिता चेत्याह—संस्कृतासंस्कृतत्वे इति ।


संस्कृतासंस्कृतत्वे न शब्दैकत्वेन सिद्ध्यतः ।

एकावस्थाभ्युपेतौ च सर्वैर्ज्ञायेत वा नवा ॥ २१६७ ॥

शब्दस्यैकत्वे सति संस्कृतासंस्कृतत्वे द्वे अवस्थे निष्पर्यायेण न प्राप्नुतः,अव
स्थाया अवस्थातुरभेदात् अवस्थातृस्वरूपवदवस्थयोरप्येकत्वमेव प्राप्नोति । यत्पुनरेका
स्त्री माता चोच्यते दुहिता चेति । तत्र शब्द एव केवलं भिन्नो न वस्तु । इह तु
न व्यपदेशमात्रं भिन्नम्, शब्दस्य सर्वपुरुषग्रहणयोग्यत्वाविशेषेणावस्थानात् । ततश्च
ग्रहणाग्रहणे न स्याताम् । नहि व्यपदेशान्यथात्वमात्रेणार्थक्रियानियतस्वभावहानि
र्युक्ता । अथ प्रतिनियतपुरुषग्राह्य एव तस्य स्वभावस्तेन ग्रहणाग्रहणे पुरुषशक्तिभे
दादविरुद्धे इति चेन्न । येन ह्येकदा न गृहीतः पुरुषेण, तेन न कदाचिदपि गृह्यते ।
न चैवम् । तस्मान्माभूदेकत्वहानिरिति । एकैवाऽवस्था संस्कृतासंस्कृतयोरन्यतराऽ
भ्युपगन्तव्या शब्दस्य, ततः किमित्याह—एकावस्थाभ्युपेतावित्यादि ॥ २१६७ ॥


602

उभयसंस्कारपक्षे दोषमाह—प्रत्येकमित्यादि ।


प्रत्येकाभिहिता दोषाः स्युर्द्वयोरपि संस्कृतौ ।

अतो न व्यञ्जकः शब्दे कथञ्चिदपि युज्यते ॥ २१६८ ॥

प्रत्येकं शब्दस्येन्द्रियस्य च संस्कारे येऽभिहिता दोषास्ते द्वयोरपि संस्कारे भवेयुः ।
अत इत्युपसंहरति ॥ २१६८ ॥


उत्तरमित्यादिना प्रतिविधत्ते ।


उत्तरं श्रोत्रसंस्काराद्भाष्यकारेण वर्णितम् ।

तद्भेदाच्छ्रुतिभेदश्च प्रतिश्रोतृव्यवस्थितः ॥ २१६९ ॥

भाष्यकारेणेति । यथोक्तम्— यस्याप्यभिव्यञ्जन्ति तस्याप्येष न दोषो दूरे
सत्याः कर्णशष्कुल्या अनुपकारकाः संयोगविभागास्तेन दूरे यच्छ्रोत्रं तेन नोपल
भ्यन्त
इति । तद्भेदादिति—कर्णशष्कुलीश्रोत्रभेदात् । श्रुतिभेदः—प्रतीतिभेदः
॥ २१६९ ॥


ननु च कथमन्यस्य संस्कारेऽन्यस्याभिव्यक्तिर्भवतीत्याह—यथा घटादेरित्यादि ।


यथा घटादेर्दीपादिरभिव्यञ्जक इष्यते ।

चक्षुषोऽनुग्रहादेव ध्वनिः स्याच्छ्रोत्रसंस्कृतेः ॥ २१७० ॥

यथा हि दीपादिश्चक्षुषोऽनुग्रहेण घटादेरभिव्यञ्जको भवति, तथा ध्वनिरपि
श्रोत्रसंस्कृतेः—श्रोत्रसंस्करणात्, शब्दस्याभिव्यञ्जको भविष्यति ॥ २१७० ॥


ननु च वक्तव्यमेतत्केन प्रकारेण ध्वनिना श्रोत्रस्य संस्कारः क्रियते निष्पन्नस्ये
त्यत आह—नच पर्यनुयोगोऽत्रेति ।


नच पर्यनुयोगोऽत्र केनाकारेण संस्कृतिः ।

उत्पत्तावपि तुल्यत्वाच्छक्तिस्तत्राप्यतीन्द्रिया ॥ २१७१ ॥

उत्पत्तावपि तुल्यत्वात्—पर्यनुयोगस्येति शेषः । उत्पत्तावपि हि शब्दस्य कार
णेभ्यः सत्यां तुल्यः पर्यनुयोगस्तत्रापि शक्यत एवैतद्वक्तुम्—केनाकारेण ध्वनिना
वायवीयसंयोगदविभागात्मकेनाऽन्येन वा कारणेन कथं शब्दः क्रियत इति । यतः
शक्तिस्तत्राप्यतीन्द्रिया । तत्रापि—शब्दानामुत्पत्तौ क्रियमाणायां—शब्दकारणानां
यथोत्पादकशक्तिरतीन्द्रिया तथाऽभिव्यक्तावपीति तुल्यः पर्यनुयोगः ॥ २१७१ ॥


यद्यतीन्द्रिया शक्तिः सा कथमनुमन्तव्येत्याह—नित्यमित्यादि ।


603
नित्यं कार्यानुमेया च शक्तिः किमनुयुज्यते ।

तद्भावभावितामात्रं प्रमाणं तत्र गम्यते ॥ २१७२ ॥

उत्पादकशक्तिर्वाऽभिसंस्कारकशक्तिर्वा भवतु, सर्वथा यावती काचिच्छक्तिः सा
सर्वा सदैव कार्यानुमेया । तस्मात्सा नानुयोगमर्हति । किं तत्कार्यं यतः सा गम्यत
इत्याह—तद्भावेत्यादि । तद्भावे—ध्वनिभावे सति, तद्भाविता—शब्दग्रहणस्य
भाविता या, तदेव तत्र शब्दस्य(ञ्जकश)क्तौ प्रमाणम् । शब्दग्रहणकार्येण शक्तिर्गम्यत
इति यावत् । (मात्र)ग्रहणेनोत्पत्तेर्निरासः ॥ २१७२ ॥


अत इत्युपसंहरति ।


अतोऽतीन्द्रिययैवैते शक्त्या शक्तिमतीन्द्रियाम् ।

इन्द्रियस्यादधाना हि स्फुरन्ति व्यक्तिहेतवः ॥ २१७३ ॥

तस्मादेते ध्वनयोऽतीन्द्रियया शक्त्या श्रोत्रेन्द्रियस्य शक्तिमतीन्द्रियामुत्पादयन्तः
स्फुरन्ति व्यक्तिहेतवः । शब्दानामित्यपेक्षणीयम् ॥ २१७३ ॥


अथोत्पत्तिहेतव एव कस्माद्ध्वनयो न विज्ञायन्त इत्याह—येषामित्यादि ।


येषां त्वप्राप्तजातोऽयं शब्दः श्रोत्रेण गृह्यते ।

तेषामप्राप्तितुल्यत्वाद्दूरव्यवहितादिषु ॥ २१७४ ॥

तत्र दूरसमीपस्थग्रहणाग्रहणे समे ।

स्यातां नच क्रमो नापि तीव्रमन्दादिसम्भवः ॥ २१७५ ॥

येषां बौद्धानां शब्दोऽप्राप्तजातो गृह्यते श्रोत्रेण । अप्राप्तश्चासौ जातश्चेत्यप्राप्तजातः ।
चक्षुःश्रोत्रमनोऽप्राप्तविषयम्, उपात्तानुपात्तमहाभूतहेतुः शब्द इति सिद्धान्तात् ।
तेषां मतेन शब्दानां दूरव्यवहितसमीपस्थानां श्रोत्रेणाप्राप्तेस्तुल्यत्वाद्दूरसमीपस्थैः
पुरुषैर्ग्रहणाग्रहणे तुल्ये स्याताम्, समीपस्थस्य यादृशं ग्रहणं तादृशं दूरस्थस्यापि
स्यादविशेषात् । क्रमेण च ग्रहणं न स्यात्, यत्पूर्वं समीपस्थैर्ग्रहणं पश्चाद्दूरस्थैरिति ।
नापि तीव्रमन्दतरतमादिश्रुतिभेदः स्यात्, यत्समीपस्थैस्तीव्रः श्रूयते मन्दो दूरस्थै
रिति । एवं तरतमभेदोऽपि योज्यः ॥ २१७४ ॥ २१७५ ॥


ननु यस्यापि मीमांसकस्य प्राप्ताजातः शब्दो गृह्यते श्रोत्रेण तस्यापि कस्मादेष
सर्वप्रसङ्गो न भवतीत्यतः प्रतिपादयितुं विशेषमुपक्रमते—तस्मादित्यादि ।


तस्माच्छ्रोत्रियदृष्ट्याऽपि कल्पनेयं निरीक्ष्यताम् ।

प्रयत्नाभिहतो वायुः कोष्ठ्यो यातीत्यसंशयंजातीत्यसंशयः (?) ॥ २१७६ ॥

604
स संयोगविभागौ च ताल्वादेरनुरुध्यते ।

वेगवत्त्वाच्च सोऽवश्यं यावद्वेगं प्रतिष्ठते ॥ २१७७ ॥

तस्यात्मावयवानां च स्तिमितेन च वायुना ।

संयोगा विप्रयोगाश्च जायन्ते गमनाद्धुवम् ॥ २१७८ ॥

कर्णव्योमनि संप्राप्तः शक्तिंशाक्तिं श्रोत्रे नियच्छति ।

तद्भावे शब्दबोधाच्च संस्कारोऽदृष्ट इष्यते ॥ २१७९ ॥

उत्पत्तिशक्तिवत्सोऽपीत्यधिकं नो न किञ्चन ।

तथैव तद्विशेषोपि विशेषग्रहणाद्भवेत् ॥ २१८० ॥

श्रोत्रियग्रहणमतार्किकत्वप्रतिपादनपरम् । अनेन च स्वपक्षोत्कर्षं वक्रोक्त्या कथ
यति । काऽसौ कल्पनेत्याह—प्रयत्नाभिहत इत्यादि । प्रयत्नस्ताल्वादिकरणव्यापा
रस्तेनाभिहतः प्रेरितः कोष्ठभवो वायुर्नाभिप्रदेशादुत्थित उरसि विस्तीर्णः कण्ठे वर्त्तितो
मूर्द्धानमाहत्य वक्रे सञ्चरन्निर्गच्छति । एतदेव दर्शयति(॰ ॰ ॰) इत्यादि । स वायुर्नि
ष्क्रामंस्ताल्वादेः संयोगविभागावनुभवति । गच्छंश्च न स यावदाकाशमभिगच्छति ।
किं तर्हि ? । यावद्वेगम्—यावांस्तस्य वेगस्तदनुरूपमेव गच्छतीति यावत् । कुतः—
वेगवत्त्वात् । तस्य च वायोर्गच्छत आत्मीयावयवानां स्तिमितेन स्थिरेण वायुना
संयोगविभागाः समुपजायन्ते । अवश्यं सच कर्णरन्ध्रं प्राप्य श्रोत्रे शक्तिमाधत्ते ।
तद्भावे—वायवीयसंयोगविभागसद्भावे सति, शब्दस्यावगमाददृष्टः संस्कारः श्रोत्रस्ये
ष्यते । यथा शब्दस्य शब्दान्तरैर्ध्वनिभिर्वोत्पत्तिर्दृ(त्तेरदृ?)ष्टाऽपीष्यते भवद्भि(श्शक्ति)
स्तथा संस्कारोऽपीति । यथोक्तं भाष्ये—अभिघातेन प्रेरितावयवः स्तिमितानि वाय्ववस्त्व
न्तराणि प्रबाधमानाः सर्वतोदिक्कान्दिक्काः संयोगविभागानुत्पादयन्तो यावद्वेगमभिप्रतिष्ठन्ते,
ते च वायोरप्रत्यक्षत्वात्संयोगविभागा नोपलभ्यन्ते । अनुपरतेष्वेव च तेषु शब्द उप
लभ्यते नोपरतेष्वि
ति । यद्येवं न तर्हि संस्कारपक्षस्योत्पत्तिपक्षाद्विशेषः कथितो
भवतीत्याह—तथैवेत्यादि । तद्विशेषः—संस्कारविशेषः, शब्दग्रहणविशेषादुपप
द्यते । तेन दूरसमीपस्थानां ग्रहणाग्रहणे न समे भवतः, पुरुषभेदेन संस्कारस्य भिन्न
त्वात् ॥ २१७६ ॥ २१७७ ॥ २१७८ ॥ २१७९ ॥ २१८० ॥


कुड्याद्यावरणे कथमग्रहणं शब्दस्येत्याह—कुड्यादीत्यादि ।


कुड्यादिप्रतिबन्धोऽपि युज्यते मातरिश्वनः ।

श्रोत्रदेशाभिघातोऽपि तेन तीव्रप्रवृत्तिना ॥ २१८१ ॥

605
तस्य च क्रमवृत्तित्वात्क्षयिवेगित्वसम्पदः ।

संस्कारक्रमतीव्रत्वमन्दतादिनिमित्तता ॥ २१८२ ॥

यद्यपि शब्दो न प्रतिघाती तथापि मातरिश्वनो वायोः कुड्यस्य च मूर्त्तत्वे प्रति
घातित्वान्न कर्णदेशागमनमिति श्रोत्रसंस्कारो न जायते,तेनावृतस्याश्रवणं भवति ।
येषां त्वप्राप्तस्य ग्रहणं तेषामेष दोष एव । तीव्रतरतमश्रुतिभेदस्तर्हि कथं भवतीत्याह
श्रोत्रदेशाभिघातोऽपीति । युज्यत इति प्रकृतं सर्वत्र योजनीयम् । क्षयिवे
गित्वसम्पद
इति । क्षयित्वसम्पदो वेगित्वसम्पदो युज्यन्त इति विभक्तिविपरिणामेन
सम्बन्धः । अथवा—क्षयिण्यश्च ता वेगित्वसम्पदश्चेति विग्रहः । यद्वा—क्षयिणी
वेगित्वसम्पद्यस्य वायोरिति बहुव्रीहिः । ततश्च संस्कारक्रमतीव्रमन्दतानिमित्तता
युज्यत इति सम्बन्धः । संस्कारक्रमो युज्यते तस्य वायोः क्रमवृत्तित्वात् । तीव्रता
च युज्यते वेगित्वसम्पदा युक्तत्वात् । मन्दताऽपि च क्षयित्वात् । आदिशब्देन तर
तमादिभेदो योज्यः ॥ २१८१ ॥ २१८२ ॥


ननु चाकाशश्रोत्रपक्षे—विभुत्वात्प्राप्तितुल्यतेत्यादिना श्रोत्रसंस्कारे दोषा बहवः
पूर्वमुक्तास्तत्कथमुत्तरं श्रोत्रसंस्काराद्भाष्यकारेण वर्णितमित्याह—नावश्यं श्रोत्रमा
काश
मित्यादि ।


नावश्यं श्रोत्रमाकाशमस्माभिश्चाभ्युपेयते ।

नचानवयवं व्योम जैनसाङ्ख्यनिषेधतः ॥ २१८३ ॥

तेनाकाशैकदेशो वा यद्वा वस्त्वन्तरं भवेत् ।

कार्यार्थापत्तिगम्यं तच्छ्रोत्रं प्रतिनरं स्थितम् ॥ २१८४ ॥

तेन तत्पक्षभाविनो दोषास्तदनङ्गीकारादेव नापतन्तीत्युक्तम् । नचानवयवं व्यो
मे
ति । अभ्युपेयत इति सम्बन्धः । कुतः ? । जैनसाङ्ख्यनिषेधतः—जैनैरार्हतैः सा
ङ्ख्यैश्च निरवयवस्य व्योम्नो निषिद्धत्वात् । नहि मीमांसकैः परसिद्धान्तप्रसिद्धेर्न
व्यवह्रियते । यदेव हि युक्त्या समापतति तदेव तैरङ्गीक्रियते, अन्यथा मीमांसक
त्वमेव हीयेत । ततश्च जैनासाङ्ख्यप्रसिद्धव्योमात्मकश्रोत्रङ्गीकरणान्न दोषः । यद्वा
वस्त्वन्तर
मिति । कर्णशष्कुलीसंज्ञकम् । कार्यार्थापत्तिगम्यमिति । शब्दग्रहणान्य
थानुपपत्तिगम्यम् ॥ २१८३ ॥ २१८४ ॥


अथवा—अनवयवाकाशश्रोत्रपक्षेऽपि न दोष इति प्रतिपादयन्नाह—यद्यपीत्यादि ।


606
यद्यपि व्यापि चैकं च तथापि ध्वनिसंस्कृतिः ।

अधिष्ठाने तु सा यस्य स शब्दं प्रतिपद्यते ॥ २१८५ ॥

यद्यपि व्यापि चैकं चेति । श्रोत्रमिति शेषः । तथापि सा ध्वनिभिः संस्कृति
र्यस्य पुरुषस्याधिष्ठाने—कर्णशष्कुल्यां भवति, स एव शब्दं प्रतिपद्यते नान्यः ।
अनेनाधिष्ठानसंस्कार एवोक्तो न श्रोत्रस्य । तस्य चाधिष्ठानस्य प्रतिपुरुषं भिन्नत्वान्न
यथोक्तदोषप्रसङ्ग इति भावः ॥ २१८५ ॥


श्रोत्रसंस्कारेऽपि न दोष इति प्रतिपादयति—अथापीति ।


अथापीन्द्रियसंस्कारः सोऽप्यधिष्ठानदेशतः ।

शब्दं न श्रोष्यति श्रोत्रं तेनासंस्कृतशष्कुलि ॥ २१८६ ॥

अधिष्ठानम्—कर्णशष्कुली । तत्संस्कारद्वारेण श्रोत्रस्य संस्कारो न केवलस्य ।
तेनासंस्कृताधिष्ठानत्वाच्च विदूरस्थान्यचित्तसुप्तमूर्छितानां श्रोत्रं न शृणोति । असं
स्कृता कर्णशष्कुली यस्य तत्तथोक्तम् । अधिष्ठानदेशत इति सप्तम्यर्थे तसिः ॥ २१८६ ॥


ननु यदि ध्वनयोऽधिष्ठानं तद्देशं वेन्द्रियं संस्कुर्वन्ति, कस्माद्यत्र क्वचनोपलब्ध
सद्भावाः सकलप्राणिजातेन्द्रियाधिष्ठानसंस्कारकारिणो न भवन्तीत्याह—अप्राप्तक
र्णदेशत्वा
दित्यादि ।


अप्राप्तकर्णदेशत्वाद्ध्वनेर्न श्रोत्रसंस्क्रिया ।

अतोऽधिष्ठानभेदेन संस्कारनियमः स्थितः ॥ २१८७ ॥

यद्यप्यधिष्ठानसंस्कारकारिणो नादास्तद्देशेन्द्रियसंस्कारका वा । तथापि प्राप्ता एव
सन्तः संस्कारभाजि पदार्थे संस्कारं कुर्वन्ति, नाप्राप्ता इत्यतो न सर्वपुरुषाधिष्ठाना
दिसंस्कारः । श्रोत्रग्रहणमुपलक्षणम् । अधिष्ठानसंस्कारोऽपि न भवत्येव । क्वचित्—
अप्राप्तकर्णदेशाद्वेति पाठः । तत्र पूर्वमधिष्ठानसंस्कारमुखेन श्रोत्रसंस्कारमाश्रित्य परि
हार उक्तः । साम्प्रतं माभूदधिष्ठानसंस्कारद्वारेण श्रोत्रसंस्कारस्तथाऽप्यदोषो यतः
प्राप्तकर्णशष्कुलीमूला एव वायवः श्रोत्रसंस्कारायालम्, नाप्राप्ता इत्यतः पक्षान्तर
मुक्तम् । अत इत्युपसंहारः ॥ २१८७ ॥


नन्वित्यादिना पक्षत्रयेऽप्यनन्तरोदिते परस्य चोद्यमाशङ्कते ।


नन्वेकस्मिन्नधिष्ठाने लब्धसंस्कारमिन्द्रियम् ।

बोधकं सर्वदेहेषु स्यादेकेन्द्रियवादिनः ॥ २१८८ ॥

607

एकस्य श्रोत्रस्य संस्कृतासंस्कृतपरस्परविरुद्धधर्मद्वयायोगादेकत्र संस्कारात्सर्वदेहे
ष्वभिन्नत्वात्संस्कृतमेवेति बधिरादेरपि बोधकं प्राप्नोति श्रोत्रमेकेन्द्रियवादिनः । ततश्च
बाधिर्यादिव्यवस्थानं न स्यात् ॥ २१८८ ॥


पुंसामित्यादिना प्रतिविधत्ते ।


पुंसां देहप्रदेशेषु विज्ञानोत्पत्तिरिष्यते ।

तेन प्रधानवैदेश्याद्विगुणा श्रोत्रसंस्कृतिः ॥ २१८९ ॥

पुंसामात्मनां सर्वगतत्वेऽपि शरीरेष्वेव धर्माधर्मपरिगृहीतेषु विज्ञानोत्पत्तिर्मीमां
सकादिभिरिष्यते । तेन प्रधानस्य देहस्य वैदेश्यात्—भिन्नदेशत्वात् । श्रोत्रस्यैवं सर्व
गतस्यापि संस्कृतिर्विगुणा तेन यथोक्तदोषानवसरः । क्वचित्—सात्र संस्कृतिरिति
पाठः । तत्र सा संस्कृतिः श्रोत्रस्येति सम्बन्धः ॥ २१८९ ॥


ननु च सर्वगतत्वादात्मनः सर्वत्र ग्रहणप्रसङ्गः शब्दस्यानिवारित एवेत्याह—
निष्प्रदेशोऽपि चेति ।


निष्प्रदेशोऽपि चात्मा नः कार्त्स्न्येन च विदन्नपि ।

शरीर एव गृह्णातीत्येवमुक्तिर्न दुष्यति ॥ २१९० ॥

बाधिर्यादिव्यवस्थानमेतेनैव च हेतुना ।

तदेवाभोग्यमन्यस्य धर्माधर्मावशीकृतम् ॥ २१९१ ॥

यथा तत्र भवन्नेव स्वामित्वादवरोपितः ।

न भोगं लभते तद्वद्बधिरोऽन्यत्र शृण्वति ॥ २१९२ ॥

एतदुक्तं भवति । यद्यप्येवम्, तथापि धर्मादिवशीकृतशरीरावधिकमेवात्मनः
शाब्दग्रहणमतो न दोषः । कथं पुनरभिन्नस्यात्मनः श्रोत्रस्य ग्रहणाग्रहणसंस्कारासं
स्कारविभाग इति चेत् । न । यथाऽऽकाशस्यानवयवस्यापि संयोगिपदार्थभेदाद्धटा
काशं पिठराकाशमिति भेदो भवति तथेहापि भविष्यति । अत एव च व्यापिनिर
वयवस्य श्रोत्रस्य संसर्गिभेदाद्बाधिर्यादिव्यवस्थितिरिति दर्शयति । ( बाधिर्यादीति ) ।
एतेनेति । संयोगिभेदेन हेतुना । यदि नाम संयोगिनो भिन्नास्तथापि किमिति क
श्चिदेव बधिरो भवतीत्याह—तदेवाभोग्यमिति । तदेव श्रोत्रमन्यस्य पुरुषस्य न
भोग्यं भवति, कुतः ?, धर्माधर्माभ्यामवशीकृतत्वात् । एतदेव दृष्टान्ते स्फुटयन्नाह
यथा तत्रेत्यादि । यथा कश्चिद्ग्रामादेः स्वामी तत्र ग्रामादौ भवन्नेव विद्यमान
608 एव राज्ञा स्वामित्वादवरोपितस्तस्मिन्नेव ग्रामे भोगं न लभते, तद्वद्बधिरोऽन्यत्रान्य
स्मिन्पुरुषे शृण्वत्यपि सति न शृणोति ॥ २१९० ॥ २१९१ ॥ २१९२ ॥


ननु च—श्रोत्रशब्दाकाशानां त्रयाणामपि निरवयवत्वाद्विभुत्वाच्च (न) प्रदेशवृ
त्तिरस्ति । तत्कथमेकदेशवृत्तित्वनियतग्रहणाग्रहणादिविभागो लभ्यत इत्याह—श्रोत्र
शब्दाश्रयाणा
मित्यादि ।


श्रोत्रशब्दाश्रयाणां च न नामावयवाः स्वयम् ।

नचैकदेशवृत्तित्वं तथाऽप्येतन्न दुष्यति ॥ २१९३ ॥

श्रोत्रं च शब्दश्चाश्रयश्च—शब्दस्याकाशमिति, श्रोत्रशब्दाश्रयाः । न नामाव
यवाः स्वय
मिति । संयोगिभेदादुपचारितास्तु विद्यन्त एवेति स्वयमित्याह—तथा
ऽप्येत
दिति । प्रदेशवृत्तित्वनियतग्रहणादिकम् ॥ २१९३ ॥


कथमित्याह—व्यञ्जकानामित्यादि ।


व्यञ्जकानां हि वायूनां भिन्नावयवदेशता ।

जातिभेदश्च तेनैव संस्कारो व्यवतिष्ठते ॥ २१९४ ॥

भिन्नाः—अवयवदेशाः—कर्णशष्कुल्यधिष्ठानसंज्ञिता येषां ते तथोक्ताः । तद्भावो
—भिन्नावयवदेशता । जातिभेदश्चेति । भिन्नताल्वादिकारणसामग्रीभेदात् ॥ २१९४ ॥


ननु चोक्तं सकृच्च संस्कृतं श्रोत्रं सर्वशब्दान्प्रबोधयेदित्यत्रोत्तरमाह—अन्यार्थं
प्रेरित
इत्यादि ।


अन्यार्थं प्रेरितो वायुर्यथा नान्यं करोति सः ।

तथाऽन्यवर्णसंस्कारशक्तो नान्यं करिष्यति ॥ २१९५ ॥

अन्यार्थमिति । अन्यवर्णनिष्पत्त्यर्थम् । अन्यवर्णसंस्कारशक्त इति । अन्यवर्ण
प्रतीत्यर्थः संस्कारो यः श्रोत्रस्य सोऽन्यवर्णसंकारशब्देनोक्तः । नतु वर्णसंस्कार एव,
श्रोत्रसंस्कारस्य प्रकृतत्वात् । नान्यं करिष्यतीति । नान्यं वर्णं श्रोत्रसंस्कारद्वारेण
संस्करिष्यतीत्यर्थः ॥ २१९५ ॥


अथ वायूनामेव कस्मादेष प्रतिनियम इत्याह—अन्यैरित्यादि ।


अन्यैस्ताल्वादिसंयोगैर्वर्णो नान्यो यथैव च ।

तथा ध्वन्यन्तरक्षेपो न ध्वन्यन्तरसारिभिः ॥ २१९६ ॥

ताल्वादिसंयोगभेदाद्व्यञ्जका वायवो ध्वनयो भिन्ना इत्यभिप्रायः । वर्णो नान्य 609 इति । क्रियते इत्यध्याहारः । ध्वन्यन्तराणां क्षेपः—प्रेरणम् । ध्वन्यन्तरसारिभिस्ता
ल्वादिसंयोगैरिति सामानाधिकरण्यम् ॥ २१९६ ॥


तस्मादित्युपसंहरति ।


तस्मादुत्पत्त्यभिव्यक्त्योः कार्यार्थापत्तितः समः ।

सामर्थ्यभेदः सर्वत्र स्यात्प्रयत्नविवक्षयोः ॥ २१९७ ॥

उत्पत्त्यभिव्यक्त्योरिति सप्तम्यन्तम् । शब्दस्योत्पत्तावभिव्यक्तौ च प्रयत्नस्य विव
क्षायाश्च तुल्यः सामर्थ्यभेदः । कुतः ? । कार्यान्यथानुपपत्तिगम्यत्वात् । उभयत्रापि
कार्यार्थापत्तेर्व्याप्रियमाणत्वादिति यावत् ॥ २१९७ ॥


एवं तावत्सिद्धान्तान्तरप्रतीतं लोकप्रतीतं च यथाक्रममाकाशकर्णशष्कुलीलक्षणं
श्रोत्रमभ्युपगम्य तत्संस्कारद्वारेण शब्दाभिव्यक्तौ न दोष इति प्रतिचोदितम् । सा
म्प्रतं वेदप्रसिद्धं दिग्लक्षणं श्रोत्रमाश्रित्य तत्संस्कारभेदाच्छब्दाभिव्यक्तावदोषं प्रति
पादयन्नाह—यद्वेत्यादि ।


यद्वा वेदानुसारेण कार्या दिक्श्रोत्रतामतिः ।

नाकाशाद्यात्मकं ह्युक्तं वेदे श्रोत्रं कथञ्चन ॥ २१९८ ॥

दिशः श्रोत्रमिति ह्येतत्प्रलयेष्वभिधीयते ।

तच्च प्रकृतिगामित्ववचनं चक्षुरादिवत् ॥ २१९९ ॥

दिक्श्रोत्रतामतिरिति । दिगेव श्रोत्रमित्येवं दिशः श्रोत्रत्वनिश्चयः कार्य
इत्यर्थः । कथमित्याह—नाकाशात्मकमिति । यद्येवं दिक्श्रोत्रमित्येवमपि वेदे नो
क्तम्, तत्कथं लभ्यत इत्याह—दिशः श्रोत्रमित्यादि । प्रकृतिषु स्वभावेषु लयाः
प्रलयाः । नाशकाले प्राणिनां चक्षुरादयः स्वस्यां स्वस्यां प्रकृतौ लीयन्ते । तत्र च
प्रलये पशुमधिकृत्योक्तं वेदे— सूर्यमस्य चक्षुर्गमयतात्, दिशः श्रोत्रमिति । अ
त्रापि गमयतादिति सम्बन्धः । गमयतादिति । यद्यत आगतं तत्तत्र गच्छत्वित्यर्थः ।
तेन यद्यपि वेदे दिक् श्रोत्रमित्याहत्य नोक्तम् । तथापि दिशः श्रोत्रं गमयतादित्यनेन
वाक्येन सामर्थ्यादुक्तमेव । कथमित्याह—तच्चेत्यादि । तच्च दिशः श्रोत्रमिति वचनं
श्रोत्रस्य प्रकृतिगामित्वप्रतिपादनपरम् । श्रोत्रं कर्तृ दिशो गच्छतु प्रकृतिभूता इत्यर्थः ।
कथमिवेत्याह—चक्षुरादिवदिति ॥ २१९८ ॥ २१९९ ॥


610

एतदेव विवृणोति—सूर्यमस्येत्यादि ।


सूर्यमस्य यथा चक्षुर्भ(रु ?) क्तं गमयतादिति ।

तेजःप्रकृतिविज्ञानं तथा श्रोत्रं दिगात्मकम् ॥ २२०० ॥

यथा सूर्यमस्य चक्षुर्गमयतादिति वाक्येन तेजःप्रकृतिविज्ञानमुक्तम्, चक्षुषइत्य
ध्याहारः, तथा श्रोत्रं दिगात्मकमुक्तं दिशः श्रोत्रमित्यनेन वाक्येनेत्येवं पदानां स
म्बन्धः कार्यः । तेजःप्रकृतिविज्ञानं तेजोमयत्वमित्यर्थः ॥ २२०० ॥


अथ कीदृशी सा दिगित्याह—दिक्चेत्यादि ।


दिक्च सर्वगतैकैव यावद्व्योम व्यवस्थिता ।

कर्णरन्ध्रपरिच्छिन्ना श्रोत्रमाकाशदेशवत् ॥ २२०१ ॥

सर्वगतस्यैव विवरणम्—यावद्व्योम व्यवस्थितेति । यद्येवं बधिरादिव्यवस्था न
प्राप्नोति, एकत्वाद्दिश इत्याह—कर्णरन्ध्रेत्यादि । न सर्वात्मना दिक् श्रोतम्, किं
तर्हि ?, कर्णशष्कुलीपर्यन्तपरिच्छिन्ना ॥ २२०१ ॥


ननु निरवयवत्वात्तस्य कथमवयवविभागो लभ्यत इत्याह—यावानिति ।


यावांश्च कणभुङ्न्याकश्चन न्यायो नभोभागत्वकल्पने ।

दिग्भागेऽपि समश्चासावागमात्तु विशिष्यते ॥ २२०२ ॥

यथाऽऽकाशस्य संयोगिभेदेनावयवकल्पना तथा दिशोऽपि भविष्यति । कस्तर्ह्या
काशश्रोत्रपक्षादस्य विशेष इत्याह—आगमादिति ॥ २२०२ ॥


तस्मादित्युपसंहारेण बधिरादिव्यवस्थानं सूचयति ।


तस्माद्दिग्द्रव्यभागो यः पुण्यापुण्यवशीकृतः ।

कर्णरन्ध्रपरिच्छिन्नः श्रोत्रं संस्क्रियते च सः ॥ २२०३ ॥

विषयसंस्कारपक्षेऽपि न दोष इति प्रतिपादयन्नाह—विषयस्यापीति ।


विषयस्यापि संस्कारे तेनैकस्यैव संस्कृतिः ।

नरैः सामर्थ्यभेदाच्च न सर्वैरवगम्यते ॥ २२०४ ॥

यदुक्तम्— तत्र सर्वैः प्रतीयेत शब्दः संस्क्रियते यदीति, तत्र न दोषः ।
कुतः ?, नराणां सामर्थ्यभेदात्—वायोः श्रोत्रसंस्कारकस्य सन्निधानासन्निधानाभ्यां
श्रोत्रसंस्कारस्य भिन्नत्वात्सामर्थ्यभेदः ॥ २२०४ ॥


ननु च नित्यसर्वगतत्वेन सर्वान्पुरुषान्प्रत्यविशिष्टत्वाच्छब्दस्य कथं ग्रहणाग्रहणे
स्यातामित्याह—यथैवेत्यादि ।


611
यथैवोत्पद्यमानोऽयं न सर्वैरवगम्यते ।

दिग्देशादिविभागेन सर्वान्प्रति भवन्नपि ॥ २२०५ ॥

तथैव यत्समीपस्थैर्नादैः स्याद्यस्य संस्कृतिः ।

तेनैव श्रूयते शब्दो न दूरस्थैः कथञ्चन ॥ २२०६ ॥

अथ कथमिदमवसीयते बायुभ्यो विषयस्य संस्कारो भवति । नतु विषय एवे
त्याह—शब्दोत्पत्तेरित्यादि ।


शब्दोत्पत्तेर्निषिद्धत्वादन्यथाऽनुपपत्तितः ।

विशिष्टसंस्कृतेर्जन्म ध्वनिभ्योऽध्यवसीयते ॥ २२०७ ॥

प्रत्यभिज्ञया शब्दस्य विभुत्वैकत्वयोः सिद्धत्वान्न शब्दोत्पत्तिः । तस्मात्सामर्थ्या
त्संस्कारोत्पत्तिर्ध्वनिभ्यो भवति न शब्दस्येति गम्यते ॥ २२०७ ॥


ननु च बीजाङ्कुरादाविव तद्भावभावितया ध्वनिकार्यत्वं शब्दानां सिद्धम् । यथाहि
बीजादिभावेऽङ्कुरादीनामुपलम्भात्तत्कार्यत्वं तेषाम् । एवं ध्वनिभावे शब्दानामुपल
म्भोऽस्ति, किमिति तत्कार्यत्वं न भवेत्, एतावन्मात्रनिबन्धनात्वात्कार्यव्यवहारस्ये
त्याह—तद्भावभावितेत्यादि ।


तद्भावभाविता चात्र शक्त्यस्तित्वावबोधिनी ।

श्रोत्रशक्तिवदेवेष्टा बुद्धिस्तत्र हि संहृता ॥ २२०८ ॥

यथाहि श्रोत्रभावे शब्दोपलम्भोऽस्ति, न च ततस्तद्भावभावित्वाच्छ्रोत्रस्य शब्दं
प्रति जननशक्तिरनुमीयते, किं तर्हि ?, ग्रहणशक्तिः, एवमिहापि ध्वनीनां शक्तिस
द्भावमात्रावबोधिनी भवेत्तद्भावभाविता, नतूत्पादकशक्त्यवबोधिनी, शक्तिमात्रे तस्याः
प्रतिबन्धो नतु शक्तिविशेष इति यावत् । अतः शक्तिविशेषे साध्ये व्यभिचारित्व
मस्या इति प्रतिपादितं भवति । कथमिदानीं संस्कारशक्तिविशेषावगतिरित्याह—
बुद्धिस्तत्र हि संहृतेति । प्रत्यभिज्ञया नित्यत्वस्य सिद्धत्वात् । अन्यथानुपपत्त्या तत्र
संस्कारविशेषे तु बुद्धिरुपसंहृता भाष्यकारेण नतु तद्भावभावितामात्रतः संस्कारश
क्तिरनुमीयत इत्यर्थः ॥ २२०८ ॥


उभयसंस्कारपक्षे यदुक्तम्—प्रत्येकाभिहिता दोषाः स्युर्द्वयोरपि संस्कृताविति,
अत्राह—संस्कारद्वयपक्षे तु वृथा दोषद्वयं हि तदिति ।


संस्कारद्वयपक्षे तु वृथा दोषद्वयं हि तत् ।

येनान्यतरवैकल्यात्सर्वैः शब्दो न गम्यते ॥ २२०९ ॥

612

दोषद्वयमुभयोरपि पक्षयोर्यत्प्रागुक्तं तत्तु वृथा—अनर्थकम् । कथमित्याह—
येनेत्यादि । येनेति । यस्मात् । अन्यतरस्य—श्रोत्रसंस्कारस्य (अर्थसंस्कारस्य) वा
वैकल्यात् । न शब्दो गम्यते । तथाहि—सत्यपि शब्दसंस्कारे बधिरस्य श्रोत्रसं
स्कारवैकल्यान्न शब्दग्रहणम् । अबधिरस्याप्यनभिव्यक्तेःशब्द(स्या)ग्रहणम् । क्वचि
त्पाठो मृषा दोषद्वये वच इति । स च सुबोधः ॥ २२०९ ॥


ननु च यदि सर्वगतः शब्दः कथमस्य घटादेरिव देशविच्छेदे नानात्वमुपलभ्यते ।
यावता सर्वत्र सद्भावादविच्छिन्नरूपेण सर्वत्रावगतिर्युक्ता । नच सर्वगतस्य दूरास
न्नादिभेदा युक्तः । नाप्यागमः कुतश्चिद्देशात्,तस्य सर्वत्र स्थितत्वात् । नापि नि
त्यस्य दीर्घहरस्वमन्दतरतमादिस्वभावभेदो युक्तः । कालभेदश्च न युक्तः । तस्माद्देश
कालस्वभावभेदेन वेद्यमानत्वाद्भटादिवद्भिन्नोऽनित्यश्च सिद्धः शब्द इति तत्कथमु
च्यते—शब्दोत्पत्तेर्निषिद्धत्वादन्यथाऽनुपपत्तितः । विशिष्टसंस्कृतेर्जन्म ध्वनिभ्योऽ
ध्यवसीयते ॥ इति । अत्राह—जलादिष्वित्यादि ।


जलादिषु यथैकोऽपि नानात्मा सवितेक्ष्यते ।

युगपन्नच भेदोऽस्य तथा शब्दोऽपि गम्यताम् ॥ २२१० ॥

अनेन देशभेदेन वेद्यमानत्वस्यानैकान्तिकत्वमह ॥ २२१० ॥


ननु जलाद्याधारभेदः सवितर्यनेकत्वव्यामोहकारणमस्ति, इह तु न किञ्चिद्भा
न्तिकारणं विद्यते, यतः सविशेषणो हेतुरसति भ्रान्तिकारणे इत्यत्राभिप्रेतः, तत्कथं
व्यभिचारिता हेतोरित्याह—व्यञ्जकध्वन्यधीनत्वादिति ।


व्यञ्जकध्वन्यधीनत्वात्तद्देशे हि स गृह्यते ।

नच ध्वनीनां सामर्थ्यं व्याप्तुं व्योम निरन्तरम् ॥ २२११ ॥

तेनातेन विच्छिन्नरूपेण नासौ सर्वत्र गम्यते ।

ध्वनीनां भिन्नदेशत्वाच्छ्रुतिस्तत्रानु(व?)रुध्यते ॥ २२१२ ॥

अपूरितान्तरालत्वाद्विच्छेदश्चावसीयते ।

तेषां चाल्पकदेशात्वाच्छब्देऽप्यविभुतामतिः ॥ २२१३ ॥

गतिमद्वेगवत्त्वाभ्यां ते चायान्ति यतो यतः ।

श्रोता ततस्ततः शब्दमायान्तमिव मन्यते ॥ २२१४ ॥

अत्रापि व्यञ्जकध्वनिभेदो भ्रान्तिनिमित्तमस्तीति समानम् । व्यञ्जकध्वन्यधी
613 नत्वादिति । शब्दग्रहणस्येति शेषः । तद्देश इति । ध्वनिदेशः । इति । शब्दः ।
यथा च व्यञ्जको ध्वनिः शब्दस्य विच्छिन्नादिविभ्रमकारणं भवति तथा योजय
न्नाह—न चेत्यादि । असाविति । शब्दः । श्रुतिः—शब्दस्येति शेषः । तत्रेति—
आकाशदेशे । अपूरितान्तरालत्वम्—ध्वनिभिरित्यपेक्षणीयम् । तेषां चेति । ध्वनी
नाम् । तेचायान्तीति । ध्वनयः ॥ २२११ ॥ २२१२ ॥ २२१३ ॥ २२१४ ॥


ननु चादित्यस्याप्येकस्य सतो देशविच्छेदेन ग्रहणमसिद्धम् । तथाहि—चक्षुषा
प्रतिपात्रं पृथक्पृथग्भिन्नान्येव सूर्यादिप्रतिबिम्बानि परिच्छिद्यन्ते । न पुनरादित्यः ।
भवतस्तु प्रतिबिम्बमर्थान्तरमनिच्छतोऽनेकप्रतिबिम्बग्रहणे न किञ्चित्कारणमुत्पश्याम
इत्येवं मन्यमानस्य परस्य प्रत्यवस्थानमाशङ्कमान आह । आहेत्यादि ।


आह केन निमित्तेन प्रतिपात्रं पृथक्पृथक् ।

भिन्नानि प्रतिबिम्बानि गृह्यन्ते युगपत्तया ॥ २२१५ ॥

आहेति । परः । यगुपत्तयेति । यौगपद्येन ॥ २२१५ ॥


अत्रोत्तरमाह—अत्र ब्रूम इत्यादि ।


अत्र ब्रूमो यदा तावज्जले सौरेण तेजसा ।

स्फुरता चाक्षुषं तेजः प्रतिस्रोतः प्रवर्त्तितम् ॥ २२१६ ॥

स्वदेशमेव गृह्णाति सवितारमनेकधा ।

भिन्नमूर्त्तिर्यथापात्रं तदाऽस्यानेकता कुतः ॥ २२१७ ॥

जलदेशस्थेन भानवीयेन तेजसा प्रस्यन्दनधर्मणा चाक्षुषं तेजः प्रतिस्रोतः प्रवर्त्ति
तम्—प्रत्यग्नीतं सत्सवितारमादित्यं स्वदेशस्थमेव गृह्णाति । यथापात्रम्—यावत्पात्रम् ।
अतो भिन्नमूर्त्तिः प्रतिभातीति तदाऽस्यानेकता कुतः, नैव, भिन्नत्वाच्चक्षुर्वृत्तेरिति भावः
॥ २२१६ ॥ २२१७ ॥


चक्षुर्वृत्तिवशादेवाभिन्नोऽपि भिन्न इव गृह्यत इति दर्शयन्नाह । ईषदित्यादि ।


ईषत्संमीलितेऽङ्गल्या यथा चक्षुषि गृह्यते ।

पृथगेकोऽपि भिन्नत्वाच्चक्षुर्वृत्तेस्तथैव नः ॥ २२१८ ॥

ईषत्—मनाक् । अङ्गुल्या चक्षुषि निमीलिते—अवष्टब्धे सति यथैकोऽपि प
दार्थः पृथक्—नाना दृश्यते । कुतः ?, चक्षुर्वृत्तेर्भिन्नत्वात् । तथैव नोऽस्माकमेको
ऽपि शब्दो भिन्नो गृहीष्यत इत्यदोषः ॥ २२१८ ॥


614

अन्ये त्विति ।


अन्ये तु चोदयन्त्यत्र प्रतिबिम्बोदयैषिणः ।

स एवचेत्प्रतीयेत कस्मान्नोपरि दृश्यते ॥ २२१९ ॥

कूपादिषु कुतोऽधस्तात्प्रतिबिम्बाद्विनेक्षणम् ।

प्राङ्मुखो दर्पणं पश्यन् स्याच्च प्रत्यङ्मुखः कथम् ॥ २२२० ॥

जलादिषु यथैकोऽपि नानात्मा सवितेक्ष्यते—इत्यस्य हेतुव्यभिचारविषयत्वेनो
क्तस्यासिद्धिं मन्यमानाः प्रतिबिम्बमर्थान्तरमिच्छन्तश्चोदयन्ति । यदि स एवादित्यो
दृश्यते न प्रतिबिम्बं, तत्किमित्युपरिष्टादस्य न दर्शनं भवति । एवं हि तस्य दर्शनं
भवेत्, यदि देशावस्थितस्वरूपं गृह्णीयात् । नान्यथा । अन्यथा ह्यतिप्रसङ्गः स्यात् ।
किञ्च—कूपादिषु च दूराधः संविष्टस्यार्कादेः कथं ग्रहणं भवेत् । यदि तत्र प्रतिबिम्बं
नोत्पन्नं स्यात् । नहि तत्र तथाऽर्कादिर्व्यवस्थितः । अपि च प्राङ्मुखो दर्पणमवलो
कयन्कथमिव प्रत्यङ्मुखो भवति । नहि तस्य तदा पृष्ठाभिमुखं मुखमुपजातं दृश्यते ।
॥ २२१९ ॥ २२२० ॥


अप्सूर्येत्यादिना प्रतिविधत्ते ।


अप्सूर्यदर्शिनां नित्यं द्वेधा चक्षुः प्रवर्त्तते ।

एकमूर्ध्वमधस्ताच्च तत्रोर्ध्वांशुप्रकाशितम् ॥ २२२१ ॥

अधिष्ठानानृजुस्थत्वान्नात्मा सूर्यं प्रपद्यते ।

पारम्पर्यार्पितं सन्तमवाग्वृत्त्याऽवबुध्यते ॥ २२२२ ॥

ऊर्ध्वउर्ध्ववृत्तिं तदेकत्वादवागिव च मन्यते ।

अधस्तादेव तेनार्कः सान्तरालः प्रतीयते ॥ २२२३ ॥

एवं मन्यते—यदि बहिर्निर्गतमिन्द्रियमादित्यं बोधयेत्तत एतत्स्यादुपरिस्थितमेव
पश्येन्नाधस्तादिति । यावता धर्माधर्मवशीकृते शरीरे एव तदिन्द्रियं ग्राहकमिष्यते,
नोपरिस्थम् । यथोक्तम्— तत्रैव बोधयेदर्थं बहिर्यातं यदीन्द्रियम् । तत एतद्भवेदेवं
शरीरे तत्व(च्च ?)बोधकम् ॥
इति तथा ह्ययं क्रमः । ये हि जलपात्रे जलं सूर्यं च
पश्यन्ति तेषामप्सूर्यदर्शिनामेकमेव चक्षुरूर्ध्वमधश्च द्विधा भागशः प्रवर्त्तते । तत्रो
र्ध्वभागप्रकाशितमादित्यमात्मा पुरुषो न गृह्णाति, कुतः ?, अधिष्ठानानृजुत्थत्वात—
चक्षुरिन्द्रियाधिष्ठानस्यार्जवेन तदाऽवस्थितत्वात् । पारम्पर्येण तु सौरेण तेजसा
615 वृत्तेरर्पितमादित्यमवाग्वृत्त्या कारणभूतया बुध्यते । तथाहि किल सौरं तेजस्तेजस्विनं
वृत्तेरर्पयति,वृत्तिश्चक्षुषश्चक्षुरात्मन इत्येतत्पारम्पर्यार्पणं सूर्यस्य तेजस्विन इत्यादित्यमूर्ध्व
वृत्तिम—उपरिस्थं तमादित्यमवागिव—अधःस्थितमिव मन्यते । कः ? । आत्मा ।
न पुनरधस्थादन्य एवादित्यः, कुतः ?, तदेकत्वात्—तस्यादित्यस्याभिन्नत्वात् । च
क्षुष इत्यपरे । तस्मादनन्तरोदितेनैव चक्षुषो वृत्तिवशेन सान्तरालोऽधस्तात्कूपादिषु
सूर्यो दृश्यते । जलादि पात्रभेदाच्च । अन्यथा कथमभेदेन ग्रहणं स्यात् ॥ २२२१ ॥
॥ २२२२ ॥ २२२३ ॥


यदुक्तं प्राङ्मुखो दर्पणं पश्यन्नित्यादि । तत्राह—एवमित्यादि ।


एवं प्राग्नतया वृत्त्या प्रत्यग्वृत्तिसमर्पितम् ।

बुद्ध्यमानो मुखं भ्रान्त्या प्रत्यगित्यवगच्छति ॥ २२२४ ॥

प्रथमं किल चक्षुरश्मयो मुखमादाय निर्गच्छन्ति यावदादर्शादिदेशम्, सा प्राङ्न्
तावृत्तिरुच्यते । तेच तत्रादर्शादौ प्रतिहता निवर्त्तनावाः स्वमुखमेव यथावस्थितमा
गच्छन्ति । सा च प्रत्यग्वृत्तिः । तत्र प्राङ्न्ता वृत्तिर्मुखं प्रत्यग्वृत्तेरर्पयति, प्रत्यग्वृत्ति
श्चात्मनः, तत आत्मा प्रत्यग्वृत्तिसमर्पितमवगच्छन्मुखं भ्रान्त्या प्रत्यङ्मुखं यास्या
मीति मन्यते । चक्षुर्वृत्तेर्वैचित्र्यमेव भ्रान्तेर्बीजमिति भावः ॥ २२२४ ॥


अभ्युपगम्य प्रतिबिम्बोदयं परिहारमाह—अनेकदेशवृत्तौ चेत्यादि ।


अनेकदेशवृत्तौ वा सत्यपि प्रतिबिम्बके ।

समानबुद्धिगम्यत्वान्नानात्वं नैव विद्यते ॥ २२२५ ॥

सत्यपि प्रतिबिम्बेऽर्थान्तरभूते नैव तेषां प्रतिबिम्बनां नानात्वमस्ति । कुतः ? ।
समानबुद्धिगम्यत्वात्—एकबुद्धिपरिछेद्यत्वात् । तथा शब्दस्याप्येकबुद्धिगम्यत्वादे
कत्वं सिद्धम् ॥ २२२५ ॥


ननु कुतो देशभेदेन वेद्यमानस्यापि नानात्वं न भविष्यतिभविष्यति । ननु यद्देशभेदेन वेद्य
मानत्वाद्भिन्नत्वं सिद्धं तत्कथमेकबुध्या बाध्यत इत्याह—देशभेदेनेत्यादि ।


देशभेदेन भिन्नत्वमित्येतच्चानुमानिकम् ।

प्रत्यक्षस्तु स एवेति प्रत्ययस्तेन बाधकः ॥ २२२६ ॥

बाधक इति । प्रत्यक्षस्य सर्वप्रमाणज्येष्ठत्वादिति भावः ॥ २२२६ ॥


देशकालभेदेन वेद्यमानत्वस्य व्यभिचारित्वादप्रामाण्यमेवेति प्रतिपादयन्नाह—
पर्यायेणेत्यादि ।


616
पर्यायेण यथाचैको भिन्नदेशान्व्रजन्नपि ।

देवदत्तो न भिद्येत तथा शब्दो न भिद्यते ॥ २२२७ ॥

तथा शब्दो न भिद्यत इति । देशतः कालतश्चेत्यपेक्षणीयम् ॥ २२२७ ॥


एवं देशव्यभिचारमुखेनोभयोरपि व्यभिचार उक्तः । इदानीं कालभेदव्यभि
चारद्वारेण चोभयोरपि देशकालभेदेनोपलम्भयोर्व्यभिचारमाह । ज्ञातैकत्व इत्यादि


ज्ञातैकत्वो यथाचैको दृश्यमानः पुनः पुनः ।

न भिन्नःन भिन्नकालभेदेन तथा शब्दो न देशतः ॥ २२२८ ॥

ज्ञातमेकत्वं प्रत्यभिज्ञानाद्यस्य स तथा । न देशत इत्युपलक्षणम्, तथा काल
तोऽपि न भिन्नः । अविरोधादेकव्यभिचारमुखेनान्यत्रापि व्यभिचारोद्भावनम्
॥ २२२८ ॥


पर्यायेत्यादिना दृष्टान्तस्य वैषम्यमाशङ्कते ।


पर्यायादविरोधश्चेद्व्यापित्वादपि दृश्यताम् ।

दृष्टसिद्ध्यै हि यो धर्मः सर्वेषां सोऽभ्युपेयते ॥ २२२९ ॥

तथाहि—देवदत्तस्य यद्देशकालभेदेनोपलम्भेऽपि न भेदस्तत्र पर्यायोऽस्त्यविरोध
कारणम्, शब्दे तु न किञ्चिदपीत्यतो वैषम्यं दृष्टान्तदार्ष्टान्तिकयोः। अत्राप्यविरो
धकारणमाह—व्यापित्वादपि दृश्यतामिति । अविरोध इति सम्बन्धः । ध्वनीनां
चापूरितान्तरालत्वादित्येतपिशब्देन पूर्वोक्तं च निर्दिशति । कस्माद्व्यपित्वमङ्गी
क्रियत इत्याह—दृष्टसिद्ध्यै हीति । भिन्नेषु दिग्देशेष्वभिन्नस्य शब्दस्य ग्रहणसि
द्ध्यर्थं यो धर्मो युज्यते स एवान्यथानुपपत्त्याऽङ्गीक्रियते । अत्र च शब्दस्य नित्य
व्यापित्वमन्तरेण सर्वस्मिन्काले देशे च न ग्रहणं सिद्ध्यतीत्यतो नित्यविभुत्वे शब्द
स्यान्यथानुपपत्त्या सिद्धे ॥ २२२९ ॥


स्वभावभेदेन वेद्यमानत्वस्यापि व्यभिचारितां प्रतिपादयन्नाह—यथा महत्या
मित्यादि ।


यथा महत्यां स्वातायां मृदि व्योम्नि महत्त्वधीः ।

अल्पायां वाऽल्पधीरेवमत्यन्ताकृतके मतिः ॥ २२३० ॥

तेनात्रैव परोपाधिशब्दवृत्तौ मतिभ्रमः ।

नच स्थूलत्वसूक्ष्मत्वे लक्ष्येते शब्दवर्तिनी ॥ २२३१ ॥

617
बुद्धितीव्रत्वमन्दत्वे महत्त्वाल्पत्वकल्पना ।

सा चे पटी भवत्येव महातेजःप्रकाशिते ॥ २२३२ ॥

मन्दप्रकाशिते मन्दा घटादावपि सर्वदा ।

एवं दीर्घादयः सर्वे ध्वनिधर्मा इति स्थितम् ॥ २२३३ ॥

अत्रायमभिप्रायः—यदि शब्दगतास्तीव्रमन्दादयो भेदा हेतुत्वेनोपादीयन्ते तदा न
सिद्धो हेतुः । यो हि नित्यं शब्दमिच्छति स कथमपरोपाधिकांस्तस्ये स्वभावभेदान्
ब्रूयात् । अथ तीव्रमन्दाद्याकारे तद्विषया बुद्धिर्हेतुत्वेनोच्यते, सा हि न स्वभावे भेद
मन्तरेण सम्भवतीति । तदाऽनैकान्तिकता हेतोः । यथाहि महत्यां मृदि पृथिव्यां
स्वातायां सत्यां व्योम्नि—आकाशे तदाश्रयं महत्त्वादिज्ञानमुत्पद्यते स्वतो महत्त्वा
देरभावेऽपि, तथा शब्देऽप्यत्यन्ताकृत्रिमेऽयं व्यञ्जकध्वनिभेदाद्बुद्धिभेदो भविष्यति
तथाविधस्वभावभेदमन्तरेणापि । तदेवाह—तेनात्रैवमित्यादि । अथ परोपाधिर
यम्, नतु स्वत एवेति कथमवगतमिति चेदाह—नचेत्यादि । अनेनैतदाह—बुद्धि
गते एव तीव्रमन्दत्वे शब्दे समारोप्य भ्राम्यति, नतु पुनः शब्दस्य स्वतः स्थूला
दिसम्भवः, तस्य प्रत्यभिज्ञयैकत्वस्य सिद्धत्वात् । अथापि स्याद्यदि विषयस्य तथा
स्वभावभेदो न भवेद्बुद्धेरपि कुतो भवेदित्याह—सा च पट्वीत्यादि । यथैव हि घटा
दावसत्यपि स्वभावभेदे प्रकाशभेदाद्बुद्धेः पटुमन्दतादिभेदो भवति, तथा शब्देऽपि
दीर्घादिभेदो व्यञ्जकध्वनिभेदाद्भविष्यति, असत्यपि स्वतः स्वभावभेद इत्यदोषः
॥ २२३० ॥ २२३१ ॥ २२३२ ॥ २२३३ ॥


पुनरपि शब्दानित्यत्वप्रतिज्ञाया बाधां शब्दस्य वाचकसामर्थ्यान्यथानुपपत्त्या
प्रतिपादयन्नाह—नचादृष्टार्थसम्बन्ध इत्यादि ।


नचादृष्टार्थसम्बन्धः शब्दो भवति वाचकः ।

तथाचेत्स्यादपूर्वोऽपि सर्वः स्वार्थं प्रबोधयेत् ॥ २२३४ ॥

अर्थापत्तिपूर्विकेयमर्थापत्तिस्तथाहि—शब्दस्य वाचकसामर्थ्यं शाब्दज्ञानान्यथा
नुपपत्त्या सिद्धम्, तदपि सामर्थ्यं शब्दनित्यत्वमन्तरेणानुपपन्नमित्यर्थापत्तिपूर्विकेय
मर्थापत्तिः । तामेव विस्तरेण प्रतिपादयति—नहि तावदगृहीतसम्बन्धः शब्दः
सत्तामात्रेण वाचको भवति । तथाचेत्स्यादिति । यद्यदृष्टार्थसम्बन्धोऽपि वाचको
भवेत्तदाऽपूर्वोऽपि प्रथममश्रुतोऽपि नालिकेरद्वीपनिवासिनां गवादिशब्दः स्वार्थं प्रका
शयेत् ॥ २२३४ ॥


618

ननु चात्र सर्वेषामविवादात्सिद्धसाध्यता, नहि कश्चिदज्ञातसम्बन्धं शब्दं वाच
कमिच्छति । नित्यस्तु स कथमनेन ज्ञातसम्बन्धेन प्रतिपादितो भवतीत्याह—सम्ब
न्धदर्शन
मित्यादि ।


सम्बन्धदर्शनं चास्य नानित्यस्योपपद्यते ।

सम्बन्धज्ञानसिद्धिश्चेद्ध्रुवं कालान्तरस्थितिः ॥ २२३५ ॥

शब्दमर्थं च पुरोऽवस्थाप्य तयोः सम्बन्धः क्रियते, कृतश्चोत्तरकालं ज्ञायेत ।
उच्चरितप्रध्वंसित्वात्तु शब्दस्यैतदयुक्तम् । तदाह—नानित्यस्योपपद्यत इति । अथ
तावत्कालमवतिष्ठेम्, हन्त तर्हि कालान्तरमप्यवस्थानमनिवार्यमेवाविरोधात् । यथो
क्तम्— तावत्कालं स्थिरं चैनं कः पश्चान्नाशयिष्यतीति ॥ २२३५ ॥


अथापि स्यात्सम्बन्धकालं यावदवतिष्ठेत्, पश्चात्स्वयमेव नश्यतीत्याह—अन्य
स्मिन्नि
त्यादि ।


अन्यस्मिन् ज्ञातसम्बन्धे नचान्यो बोधको भवेत् ।

गोशब्दे ज्ञातसम्बन्धे नाश्वशब्दो हि वाचकः ॥ २२३६ ॥

अन्यस्मिन्—सङ्केतकालभाविनि । शेषं सुबोधम् ॥ २२३६ ॥


अथेति पराभिप्रायमाशङ्कते ।


अथान्योऽपि स्वभावेन कश्चिदेवावबोधकः ।

तत्रानिबन्धने न स्यात्कोसाविति विनिश्चयः ॥ २२३७ ॥

अथान्योऽपीति । प्रयोगकालभावी प्रकृत्यैव सङ्केतकालभाविशब्दवद्वाचकः स्या
दिति चेत्तदसम्यक् । निबन्धनमन्तरेणासौ शब्दोऽस्यार्थस्य वाचक इति निश्चयाभा
वात् ॥ २२३७ ॥


ननु च कथमुच्यते निश्चयो नास्तीति,यावता यतोऽर्थप्रत्ययो भवति स एव
स्वभावतोऽर्थस्य बोधक इति स्पष्टमेव निश्चीयत इत्याह—यत इत्यादि ।


यतः प्रत्यय इत्येव व्यवहारे प्रकल्पिते ।

श्रोतॄणां स्यादपीत्थं तु वक्तृणां नावकल्पते ॥ २२३८ ॥

सत्यं श्रोतॄणां सम्भवेदयं निश्चयोऽयमर्थस्य प्रत्यायक इति । तेषां ततोऽर्थप्रत्य
योत्पत्तेः । प्रयोक्तॄणां त्वयं दुर्लभः, नहि ते ततः शब्दादर्थं प्रतिपद्यन्ते, परप्रत्याय
नार्थमेव शब्दं ते प्रयुञ्जते । तत्कुतो वक्तॄणामवकल्पते निश्चयः ॥ २२३८ ॥


619

एतदेव दर्शयति—अज्ञात्वेत्यादि ।


अज्ञात्वा कमसौ शब्दमादावेव विवक्षतु ।

जानाति चेदवश्यं स पूर्वमेवावधारितः ॥ २२३९ ॥

तदेवमज्ञानपक्षेऽयं दोषः, ज्ञानपक्षेऽपि नियतमसौ प्राक्तेन ज्ञान इति स्थिरत्व
मस्य बलादापततीति दर्शयन्नाह—जानाति चेदित्यादि ॥ २२३९ ॥


ननु यथा दीपादितेजोऽभिनवमपि प्रकाशयत्यर्थं तथा शब्दोऽपि प्रतिपादयिष्य
तीत्याह—तेजः प्रत्यक्षशेषत्वादिति ।


तेजः प्रत्यक्षशेषत्वान्नवत्वेऽपि प्रकाशकम् ।

सदृशत्वाप्रतीतेश्च तद्द्वाकेणाप्यवाचकः ॥ २२४० ॥

प्रत्यक्षशेषत्वम्—( प्रत्यक्षे ) अङ्गभावः । तद्विषयसंस्कारादिन्द्रियसंस्काराद्वा
प्रत्यक्ष ज्ञानेऽङ्गतामुपगच्छदभिनवमपि प्रकाशकं भवति । शब्दस्य साक्षादतीन्द्रियार्थ
प्रतिपादकत्वान्न प्रत्यक्षाङ्गमतो वैषम्यम् । अथवा—यत्प्रत्यक्षाङ्गं तत्सम्बन्धपरिज्ञा
ननिरपेक्षमपि प्रकाशयति । यथा चक्षुस्तेजश्च प्रत्यक्षाङ्गम् । तस्मादभिनवमपि प्रका
शयति । शब्दस्तु परोक्षविषयत्वान्न प्रत्यक्षाङ्गमिति वैषम्यम् । ननु चाभिनवमपि
शब्दान्तरं पूर्वसादृश्यानुसारेण वाचकं भविष्यतीत्याह—सदृशत्वाप्रतीतेरित्यादि ।
न ह्यप्रतीते सादृश्ये तद्द्वारेण वाचकत्वं युक्तमतिप्रसङ्गात् ॥ २२४० ॥


किञ्च—आस्तां तावत्सादृश्यप्रतीतिः, सादृश्यमेव न सम्भवतीति प्रतिपादय
न्नाह—कस्य चैकस्येत्यादि ।


कस्य चैकस्य सादृश्यात्कल्प्यतां वाचकोऽपरः ।

अदृष्टसङ्गतित्वेन पूर्वेषां तुल्यता यदा ॥ २२४१ ॥

अर्थवान्पूर्वदृष्टश्चेत्तस्यैतावान् क्षणः कुतः ।

द्विस्त्रिर्वाऽनुपलब्धो हि नार्थवान्संप्रतीयते ॥ २२४२ ॥

एकस्मिन् हि वाचके सिद्धे तत्सादृश्यादितरस्तथैवेति कल्प्येत तच्च न सम्भवति,
सर्वेषामेव शब्दानामर्थसम्बन्धित्वेन प्रतीतत्वात् । अथापि स्याद्यः प्राक् सङ्केतकाले
द्दष्टः सोऽर्थवानेव, सादृश्यमितरेषां भविष्यतीत्याह—तस्यैतावान् क्षणः कुत इति । तस्य—पूर्वदृष्टस्य शब्दस्य—एतावतः क्षणान्कुतोऽवस्थानमुच्चरितप्रध्वंसित्वा
त्तस्य । यदि नामोच्चरितप्रध्वंसी, तथाऽप्यर्थवान्किं न भवतीति चेदाह—द्विस्त्रिर्वे
त्यादि । भूयोदर्शनभावि हि शब्दार्थसम्बन्धज्ञानम् ॥ २२४१ ॥ २२४२ ॥


620

अथ सजातीयान्यग्रहणे सति स एव सार्थको भवतीत्युच्यते, तदयुक्तमित्याह—
अप्रतीतान्यशब्दानामित्यादि ।


अप्रतीतान्यशब्दानां तत्कालेऽसावनर्थकः ।

स एवान्यश्रुतीनां स्यादर्थवानिति विस्मयः ॥ २२४३ ॥

येषां हि प्रतिपत्तॄणां शब्दान्तरमप्रतीतं तेषां हि श्रवणकाले नासावर्थस्य प्रत्या
यकः। भेदाधिष्ठानस्य सादृश्यस्य तदानीमभावात् । पुनः स एव तेषामेव प्रतिप
त्तॄणां प्रतीतशब्दान्तराणामर्थप्रत्यायक इत्यलौकिकम् । कथं हि नामैकस्य क्रियाक्रिये
परस्परविरुद्धे स्याताम् । अन्यश्रुतीनामिति । अन्या—सजातीयशब्दविषया श्रुति
र्यषां प्रतिपत्तॄणां ते तथा ॥ २२४३ ॥


एवं तावद्वाचकत्वान्यथानुपपत्त्या शब्दनित्यत्वं प्रतिपाद्यं, इदानीं सम्बन्धकर
णान्यथानुपपत्त्या प्रतिपादयन्नाह—शब्दं तावदित्यादि ।


शब्दं तावदनुच्चार्य सम्बन्धकरणं नच ।

नचोच्चारितनष्टस्य सम्बन्धेन प्रयोजनम् ॥ २२४४ ॥

तेनासम्बन्धनष्टत्वात्पूर्वस्तावदनर्थकः ।

उत्तरोऽकृतसम्बन्धो विज्ञायेतार्थवान्कथम् ॥ २२४५ ॥

पू्र्वमुच्चारणं ततः सम्बन्धकरणं ततो व्यवहार इत्ययं क्रमेण व्यवहार उच्चारित
प्रध्वंसिनोऽक्रमस्य कथं स्यात् । न केवलं नष्टस्य सम्बन्धोऽशक्यक्रियः, नापि तेन
प्रयोजनम्, व्यवहाराकालाननुयायित्वात् । व्यवहारार्थत्वाच्च सङ्केतस्य । तेनेत्या
दिना निगमयति । अविद्यमानाः सम्बन्धो यस्यासावसम्बन्धः, तत्त्वान्नष्टत्वाच्च पूर्व
स्तावत्सङ्केतकालभावी शब्दोऽनर्थकः । व्यवहारकालभावी तर्हि सार्थको भविष्यती
त्याह—उत्तर इत्यादि ॥ २२४४ ॥ २२४५ ॥


यदि तर्ह्यक्रमस्य क्रमेणोच्चारणादयोऽनुपपन्ना युगपत्तर्हि भवन्त्वित्याह—शब्दो
च्चारणे
त्यादि ।


शब्दोच्चारणसम्बन्धकरणव्यावहारिकीः ।

क्रियाः क्रमस्वभावत्वात्कः कुर्याद्युगपत्क्वचित् ॥ २२४६ ॥

शब्दोच्चारणं सम्बन्धकरणं लोकव्यवहारश्चेत्येतास्तिस्रः क्रियाः स्वभाव एव क्रम
वत्यः, ता युगपत्कर्तुमशक्याः । असति च यौगपद्ये सम्बन्धकरणानुपपत्तिः । क्रम
प्रतीक्षायां कालान्तरस्थायी शब्दोऽभ्युपगतः स्यात् ॥ २२४६ ॥


621

देशकालादिभिन्नानामिति निगमनम् ।


देशकालादिभिन्नानां पुंसां शब्दान्तराश्रुतेः ।

पूर्वं कृत्रिमसम्बन्धोऽप्येकः शब्दो न सिद्ध्यति ॥ २२४७ ॥

सम्बन्धकथनेऽप्यस्य स्यादेषैव प्रतिक्रिया ।

नष्टासद्वर्त्तमानेषु नाख्यानस्य हि सम्भवः ॥ २२४८ ॥

आदिशब्देन बालकुमाराद्यवस्थापरिग्रहः । पूर्वमिति । शब्दान्तरश्रुतेरिति सम्ब
न्धनीयम् । नष्टेत्यादि । नष्टः—अतीतः, असन्—अनागतः, तयोरसत्त्वादेव न
सम्बन्धाख्यानसम्भवः । वर्त्तमानोऽप्युच्चार्यमाणस्तस्य समनन्तरध्वंसित्वेन कुतस्ता
वान्कालः ॥ २२४७ ॥ २२४८ ॥


एतदेव दर्शयति—अर्थवानित्यादि ।


अर्थवान्क(तरः) शब्दः श्रोतुर्वक्रा च कथ्यताम् ।

यदा पूर्वश्रुतः शब्दो नासौ शक्नोति भाषितुम् ॥ २२४९ ॥

न तावदर्थवन्तं स ब्रवीति सदृशं वदेत् ।

नार्थवत्सदृशः शब्दः श्रोतुस्तत्रोपपद्यते ॥ २२५० ॥

अर्थवद्ग्रहणाभावान्न चासावर्थवान्स्वयम् ।

वक्तुः श्रोतृत्ववेलायामेतदेव प्रसज्येत ॥ २२५१ ॥

न हि वक्ता पूर्वश्रुतं शब्दं श्रोतुः कथयितुं शक्तः, तस्य पूर्वनिरूद्धत्वात् । यमपि
प्रतिपादयति न तमर्थवन्तं शक्नुयात्प्रतिपादयितुम् । तस्य पूर्वमकृतसम्बन्धत्वात् ।
एतावत्सम्भाव्यते—सदृशं ब्रूयादिति । तदपि न सम्भवतीत्याह—नार्थवत्सदृश इत्यादि । नह्यत्र केनचित्सादृश्यमिष्टम्, किं तर्हि ?, अर्थवता, तच्चानुपपन्नम् । यदि
हि श्रोत्रा कश्चिच्छब्दोऽर्थवानुपलब्धः स्यात्तदाऽनेन सादृश्यमुपपद्येत, यावता पूर्व
सङ्केतकालेऽर्थवतो ग्रहणाभावान्न युक्तमेतत् । कथ्यमानो यः सोऽर्थवांस्तर्हि भविष्य
तीत्याह—न चासावित्यादि । न चासावुच्चार्यमाणोऽर्थवान्, तस्य पूर्वमकृतसम्ब
न्धत्वादित्युक्तम् । वक्तुरित्यादिना यथा वक्ताऽपि पर्यायेण श्रोता भवति तदा तस्या
प्येतदेव सर्वं दोषजातं—न तावदर्थवन्तं स ब्रवीतीत्यादिकमापततीति दर्शयति ।
तदनेन सर्वेषामेव वक्तॄणां न कश्चिदर्थवान् शब्दः सम्भवतीत्युक्तं भवति ॥ २२४९ ॥
॥ २२५० ॥ २२५१ ॥


622

तस्मादित्युपसंहरति ।


तस्माच्छब्दार्थसम्बन्धो नित्य एवाभ्युपेयताम् ।

नतु सामयिको युक्तः सर्वथा तदसम्भवात् ॥ २२५२ ॥

स्वत इत्यादिना परस्य पूर्वपक्षमाशङ्कते ।


स्वतो नैवास्ति शक्तत्वं वाच्यवाचकयोर्मिथः ।

प्रतीतिः समयात्पुंसां स्याच्चेदक्षिनिकोचवत् ॥ २२५३ ॥

वाच्यवाचकयोः परस्परं नैव स्वभाविकी यथाक्रमं वाच्यवाचकशक्तिः । कथं
तर्हि प्रतीतिः शब्दादुदेतीत्याह—प्रतीतिः समयादित्यादि । यस्य यत्र सङ्केतापेक्षः
कारणभावो न स तस्य स्वाभाविकः, यथाऽक्षिनिकोचस्य प्रतिपत्तौ, सङ्केतसापेक्षश्च
प्रतिपत्तौ कारणभावः शब्दस्येति व्यापकविरुद्धोपलब्धिः । अनेन चानित्यत्वप्रतिज्ञा
बाधां विस्तरेणोक्तां विघटयति ॥ २२५३ ॥


समय इत्यादिना प्रतिविधत्ते ।


समयः प्रतिमर्त्यं वा प्रत्युच्चारणमेव वा ।

क्रियते जगदादौ वा सकृदेकेन केनचित् ॥ २२५४ ॥

प्रत्येकं वाऽपि सम्बन्धो भिद्येतैकोऽथवा भवेत् ।

एकत्वे कृतको न स्याद्भिन्नश्चेद्भेदधीर्भवेत् ॥ २२५५ ॥

इयमस्य संज्ञेति समयः सा प्रतिपत्त्यर्थं प्रतिपुरुषं वा क्रियेत, प्रतिपुरुषमेव
प्रत्युच्चारणं प्रतिप्रयोगं वा । अथवा—जगदादौ—जगतः सृष्टिकाले केनचित्—
ईश्वरादिना धात्रा, सकृत्—एकयैव हेलया, क्रियेतेति त्रयो विकल्पाः । प्रत्येकं
वाऽपी
ति । सम्बन्धोऽपि शब्दार्थयोः क्रियमाणः कदाचित्प्रतिसत्त्वं भिद्येत्, यद्वैक
एवेति द्वितीयकल्पना । एकत्वपक्षे जातिवद्देशकालभेदानुयायित्वात्कृतको न
स्यात् । नित्य एव स्यादिति यावत् । अथ प्रतिसत्त्वं भिन्नस्वभावस्तदा प्रतिसत्त्वं
भेदबुद्धिः प्राप्नोति, ज्ञेयभेदनिबन्धनत्वाज्ज्ञानभेदस्य । न च गवादिशब्दानां शतकृ
त्वोऽपि प्रयोगे व्यवहर्तॄणां भेदबुद्धिर्भवत्यभेदाध्यवसायेनैव व्यवहारात् ॥ २२५४ ॥
॥ २२५५ ॥


किंच—यदि प्रतिसत्त्वं भिन्नः सम्बन्धस्तदाऽवश्यं भेदधिया भाव्यम्, ततश्च
व्यवहारोच्छेदः प्राप्नोतीति दर्शयन्नाह—वक्तृश्रोतृधियोरिति ।


623
वक्तृश्रोतृधियोर्भेदाद्व्यवहारश्च दुष्यति ।

वक्तुरन्यो हि सम्बन्धो बुद्धौ श्रोतुस्तथाऽपरः ॥ २२५६ ॥

भेदादिति । विषयस्येत्यहार्यम् । तेनायमर्थो भवति—वक्तृश्रोतृधियोर्योऽर्थो विषय
स्तस्य भेदादेकार्थाध्यवसायेन व्यवहारो न स्यात् । कथमित्याह—वक्तुरन्यो हीति
॥ २२५६ ॥


यदुक्तं समयः प्रतिमर्त्यं वेति । अत्र दूषणमाह—श्रोतुः कर्तुं चेत्यादि ।


श्रोतुः कर्तुं च सम्बन्धं वक्ता कं प्रतिपद्यताम् ।

पूर्वं दृष्टो हि यस्तेन तं श्रोतुर्न करोत्यसौ ॥ २२५७ ॥

यं करोति नवं सोऽपि न दृष्टप्रतिपादकः ।

घटादावपि तुल्यं चेन्न सामान्यप्रसिद्धितः ॥ २२५८ ॥

यद्यपि ज्ञातसामर्थ्या व्यक्तिः कर्तुं न शक्यते ।

क्रियते या न तस्याश्च शक्तिः कार्येऽवधारिता ॥ २२५९ ॥

तथाऽप्याकृतितः सिद्धा शक्तिरुच्चारणादिषु ।

तस्या न चादिमत्ताऽस्ति सम्बन्धस्त्वादिमांस्ततः ॥ २२६० ॥

यदि तस्यापि सामान्यं नित्यमभ्युपगम्यते ।

तथाऽप्यस्मन्मतं सिद्धं नतु द्व्याकारसम्भवः ॥ २२६१ ॥

शक्तिरेव हि सम्बन्धो भेदश्चास्या न दृश्यते ।

सा हि कार्यानुमेयत्वात्तद्भेदमनुवर्तते ॥ २२६२ ॥

अन्यथाऽनुपपत्त्या च शक्तिसद्भावकल्पनम् ।

नचैकयैव सिद्धेऽर्थे बह्वीनां कल्पनेष्यते ॥ २२६३ ॥

तं श्रोतुर्न करोतीति । तस्य नष्टत्वात् । न दृष्टप्रतिपादक इति । तस्य पूर्वम
दृष्टत्वात् । घटादावपीति । अतिप्रसङ्गोद्भावनया दूषणस्यानैकान्तिकत्वमाशङ्कते ।
घटादावपि तुल्यः प्रसङ्गः, तथाहि—यो घटोऽर्थक्रियासमर्थो दृष्टो नासौ कर्तुं
शक्यः, तस्य निष्पन्नविनष्टत्वात् । यश्चाधुना क्रियते नासावर्थक्रियासमर्थो दृष्टस्त
स्यानिष्पन्नत्वात् । उत्तरमाह—न सामान्यप्रसिद्धित इति । नेति पूर्वपक्षप्रतिक्षेपः ।
कुतः ? । सामान्यस्य प्रसाधितत्वात् । तद्द्वारेण सामर्थ्यसिद्धेरिति भावः । एतदेव
स्पष्टयन्नाह—यद्यपीत्यादि । यद्यप्युदकाहरणादिषु दृष्टसामर्थ्या घटव्यक्तिः कर्तुं न
624 पार्यते, निष्पन्नविनष्टत्वात् । याऽप्यधुनातनी न तस्या अर्थक्रियासामर्थ्यमवधारि
तम् । तथाप्याकृतिद्वारेणैवार्थक्रियासामर्थ्यं सर्वस्यां व्यक्तौ सिद्ध्यति । कथमित्याह
तस्या इत्यादि । तस्या इति । आकृतेः । क्वचित्—नच तस्यादिमत्तेति पाठः ।
तस्यायमर्थः—नच तस्योदकाहरणादिसामर्थ्यस्यादिमत्तास्ति, आकृतेर्नित्यत्वात् ।
तस्याश्चाश्रयतोऽत्यन्तमभिन्नत्वात् । यथोक्तम्— स्थितं नैव च जात्यादेः परत्वं
व्यक्तितो हि नःहित(त्)
इति । सम्बन्धोऽपि तर्ह्याकृतिद्वारेणानादिर्भवत्विति चेत्तदेतद
युक्तमित्याह—सम्बन्धस्त्वित्यादि । किञ्च—यदि भवता तस्यापि शब्दार्थसम्ब
न्धस्य नित्यं सामान्यमभ्युपगम्यते तथाऽपि नित्यं नाम वस्त्वस्तीत्यस्मन्मतं सिद्धम् ।
शब्दस्तु प्रकृत एव न सिद्ध्यतीति चेदाह—(?) न तु द्व्याकारसम्भव इति । द्वावा
कारौ—सम्बन्धस्तत्सामान्यं च । एकस्यैवाकारस्य सम्भवो नतु सामान्यस्य,तस्या
नेकव्यक्तिनिष्ठत्वात् । सम्बन्धस्य चैकत्वात् । कथमेकत्वं सम्बन्धस्येत्याह—शक्ति
रेव ही
त्यादि । नहि शक्तिव्यतिरिक्तः सम्बन्धोऽस्ति । यदि नामैवं ततः किमि
त्याह—भेदश्चेत्यादि । भेदो—नैकत्वम् । किमिति न दृश्यत इत्यत्र कारणमाह—
सा हीति । सा हि नित्यं कार्यानुमेया । यथोक्तम्—शक्तयः सर्वभावानां कार्या
र्थापत्तिसाधना
इति । ततोऽसौ कार्यभेदमनुधत्ते—अनुधावति,आत्मगतभेदप्र
त्यायने । कार्यभेददर्शनं विना न शक्यः शक्तिभेदो ज्ञातुमिति यावत् । नचात्र
कार्यभेदोऽस्ति । तथाहि—कार्यं तस्याः प्रतीतिरेव, सा च शब्दालम्बना वा
स्यादर्थावलम्बना वा । न तावदाद्याया भेदः, शब्दस्य नित्यं प्रत्यभिज्ञायमानत्वात् ।
नाप्यर्थावलम्बनायाः, नहि शतकृत्वोऽप्युच्चार्यमाणो(णे ?) गोशब्दादेरन्यादृशी
प्रतीतिरुपजायते । उपचयमाह—अन्यथेत्यादि । अर्थप्रतीत्यनुपपत्त्या हि
वाच्यवाचकशक्तिः कल्प्यते । एकयैव च शक्त्या विवक्षितार्थस्य सिद्धत्वादपार्थ
कमनेकशक्तिपरिकल्पनम् । न चान्यथानुपपत्त्या शक्तिभेदोऽनुमातुं शक्यः । शक्ति
मात्र एव तस्याः सामर्थ्यात् ॥ २२५७ ॥ २२५८ ॥ २२५९ ॥ २२६० ॥
॥ २२६१ ॥ २२६२ ॥ २२६३ ॥


इतश्च सम्बन्धस्य करणमयुक्तमतो नित्य एव सम्बन्ध इति प्रतिपादयन्नाह—
सम्बन्धाख्यानेत्यादि ।


सम्बन्धाख्यानकाले च गोशब्दादावुदीरिते ।

केचित्सम्बन्धबुद्ध्याऽर्थं बुद्ध्यन्ते नापरे तथा ॥ २२६४ ॥

625
तत्र सम्बन्धनास्तित्वे सर्वोऽर्थं नावधारयेत् ।

अस्तित्वे सर्वबोधश्चेन्न कैश्चिदनुपग्रहात् ॥ २२६५ ॥

तथा ह्येष गौः पदा न स्प्रष्टव्य इत्युक्ते केचित्पुरुषा वाच्यवाचकसम्बन्धमवधार्य
सम्बन्धपुरःसरमेवार्थमवबुध्यन्ते । अन्ये त्वज्ञातसम्बन्धाः स्वरूपमेवावयन्ति ना
र्थम् । तत्र यदि वस्तुभूतः सम्बन्धो न स्यात्तदा सर्व एव पुरुषो व्युत्पन्नव्यवहारो
नार्थमवधारयेत् । नह्येकस्य सदसत्त्वे परस्परविरुद्धे युक्ते । तस्मान्नित्यावस्थित एव
सम्बन्ध इति । ननु यदि नित्यावस्थितः सम्बन्धः किमिति सर्वदा सर्वेषामर्थप्रति
पत्तिर्न भवेदित्येतच्चोद्यमाशङ्क्य विस्तरेण परिहरन्नाह—अस्तित्व इत्यादि । नेति
प्रसङ्गं निवर्त्तयति । कुतः ? । कैश्चित्तस्याग्रहणात् ॥ २२६४ ॥ २२६५ ॥


यदि नाम न गृहीतस्तथाऽपि किमिति स्वकार्यं न जनयेत् । नहि खलबिलाद्य
न्तर्गतत्वादात्मकार्यं बीजादयो विजहतीत्याह—ज्ञापकत्वाद्धीत्यादि ।


ज्ञापकत्वाद्धि सम्बन्धः स्वात्मज्ञानमपेक्षते ।

तेनासौ विद्यमानोऽपि नागृहीतः प्रकाशकः ॥ २२६६ ॥

अन्यो हि ज्ञापकधर्मोऽन्यश्चोत्पादकस्य, शब्दस्तु धूमवदर्थस्य ज्ञापको न तु बी
जादिवदुत्पादक इत्यदोषः ॥ २२६६ ॥


ननु चैकस्य सदसत्त्वे परस्परविरुद्धत्वादयुक्ते, तथा ग्रहणाग्रहणे अपि । अथान
योरविरोधः, क इदानीं प्रद्वेषः सदसत्त्वयोरित्याह—विद्यमानस्येत्यादि ।


विद्यमानस्य चार्थस्य दृष्टं न ग्रहणं क्वचित् ।

न त्वत्यन्तासतोऽस्तित्वं कांश्चित्प्रत्युपपद्यते ॥ २२६७ ॥

विरुद्धौ सदसद्भावौ न स्यातामेकवस्तुनि ।

नच तुल्यं विरोधित्वं ज्ञाताज्ञातत्वयोरपि ॥ २२६८ ॥

ज्ञानं हि पुरुषाधारं तद्भेदान्न विरुध्यते ।

पुरुषान्तरसंस्थं च न (ना ?) ज्ञानं तेन वार्यते ॥ २२६९ ॥

एकत्र हि धर्मिणि परस्परविरुद्धधर्माध्यासो विरुद्धः, नतु धर्म्यन्तरे, ग्रहणाग्र
हणे च पुरुषभेदेन भिन्नधर्म्याधारत्वादविरुद्धे, न तु सदसत्त्वे, तयोरेकधर्म्याधार
त्वेनेष्टत्वादिति समासार्थः ॥ २२६७ ॥ २२६८ ॥ २२६९ ॥


ननु च ग्रहणाग्रहणपक्षेऽपि सामर्थ्यादेकाधिकरणे सदसत्त्वे परस्परविरुद्धे तथा
626 (त्रा ?)पि समापतत एव । तथाहि—पदार्थसदसत्त्वाभ्यां ग्रहणाग्रहणे व्याप्ते तन्नि
बन्धनत्वात्तयोः । अन्यथा तुल्ययोग्यदेशयोः पुरुषयोरेक एव पश्येन्नापर इत्यत्र
कारणं वक्तव्यमित्याशङ्क्याह—अन्धानन्धेत्यादि ।


अन्धानन्धसमीपस्थः शुक्लोन्धैर्नावगम्यते ।

गम्यते चेतरैस्तस्य सदसत्त्वे न तान्प्रति ॥ २२७०॥

यथा ह्यन्धेतरयोः समीपस्थं रूपमविकलचक्षुष एवोपलभन्ते, नेतरे, न च
तान्प्रति तस्य शुक्लरूपस्य सदसत्त्वे स्तः, तद्वत्सम्बन्धेऽपीति ॥ २२७० ॥


किमत्र कारणमित्यपेक्षानिवृत्त्यर्थमुपपत्तिमाह—शक्त्यशक्त्योरित्यादि ।


शक्त्यशक्त्योर्नराणां तु भेदात्तत्राविरोधिता ।

न ह्यन्यो दर्शनस्यास्ति सम्बन्धाद्धेतुरत्र हि ॥ २२७१ ॥

एतदाचष्टे—नह्यर्थसत्तैवोपलम्भकारणम्, किं तर्हि ?, पुरुषगता च शक्तिः, तेन
सत्यप्यर्थे कस्यचित्पुरुषस्य शक्त्यभावादग्रहणमविरुद्धमिति नाग्रहणमर्थासत्त्वेन व्या
प्तम् । यद्येवमसत्यपि सम्बन्धे पुरुषाणां शक्त्यशक्तिभेदादर्थस्य ग्रहणाग्रहणे भविष्यत
इति सर्वं समानमित्याह—न ह्यन्य इत्यादि । सम्बन्धग्रहणपुरस्सरत्वादर्थप्रत्यय
स्येति भावः । अन्य इति हेतुः सम्बन्ध्यते । दर्शनस्येति । शब्दार्थप्रतीतेः । हेतु
रित्येतदपेक्षा चेयं षष्ठी । सम्बन्धादित्यन्यापेक्षा पञ्चमी । अत्रेति । शब्दार्थव्यव
हारे । अन्ये तु—शक्त्यशक्त्योर्नराणां तु भेदात्तत्राविरोधितेत्यत्रैवोपपत्तिरूपेण वर्ण
यन्तो व्याचक्षते—सम्बन्धादिति । पुरुषशक्तेरित्यर्थः । अत्रेति शुक्ले ॥ २२७१ ॥


दार्ष्टान्तिकमुपसंहरन्नाह—एवमेवेत्यादि ।


एवमेवेन्द्रियैस्तुल्यं व्यवहारोपलम्भनम् ।

येषां स्यात्तेऽवबुध्यन्ते ततोऽर्थं नेतरेऽन्धवत् ॥ २२७२ ॥

व्यवह्रियते अस्मादिति व्यवहारः शब्दार्थसम्बन्धः । तस्योपलम्भनम्—परि
ज्ञानम् । तदिन्द्रियैस्तुल्यम् । तथाहि । येषामेवेन्द्रियमस्ति, तेऽर्थमुपलभन्ते । येषां
तु नास्ति, ते सत्यप्यर्थे नोपलभन्ते । एवं येषां सम्बन्धपरिज्ञानमस्ति, ते शब्दाद
र्थमवबुध्यन्ते । येषां तु नास्ति, ते सत्यपि सम्बन्धे नोपलभन्त इति सर्वं समानं
किल ॥ २२७२ ॥


योऽयं प्रथमं सम्बन्धस्य कर्त्ता केन तस्मै सम्बन्धः प्रतिपादित इति वक्तव्यम्,
627 स्वयमेवेति चेन्न, तथैवाऽन्येषामपि प्रसङ्गात् । अथान्यतस्तस्याप्यन्यत इति चेत्,
एवं तर्ह्यनादित्वान्न केनचित्क्रियत इति दर्शयति—सर्वेषामित्यादि ।


सर्वेषामनभिज्ञानां पूर्वपूर्वप्रसिद्धितः ।

सिद्धः सम्बन्ध इत्येवं सम्बन्धादिर्न विद्यते ॥ २२७३ ॥

(यः) शब्दार्थसम्बन्धः स वृद्धव्यवहारपूर्वकः, सम्बन्धत्वादिदानीन्तनसम्बन्ध
वत् । सम्बन्धश्च विवादास्पदीभूतः सम्बन्ध इति स्वभावहेतुः ॥ २२७३ ॥


एवं तावत्प्रतिमर्त्त्यं न समयः सम्भवतीति प्रतिपादितम्, अधुना प्रत्युच्चारणमे
वेति यदुक्तं तत्प्रत्युद्धरन्नाह—प्रत्युच्चारणेत्यादि ।


प्रत्युच्चारणनिर्वृत्तिर्न युक्ता व्यवहारतः ।

सर्गादौ न क्रिया नास्ति तादृक्कालो हि नेष्यते ॥ २२७४ ॥

इष्यते हि जगत्सर्वं न कदाचिदनीदृशम् ।

न महाप्रलयोप्रलये नाम ज्ञायते पारमार्थिकः ॥ २२७५ ॥

रात्रिर्वा प्रलयो नाम लीनत्वात्सर्वकर्मणाम् ।

दिवसः सृष्टिसंज्ञश्च सर्वचेष्टाऽतिसर्जनात् ॥ २२७६ ॥

देशोत्सादकुलोत्सादरूपो वा प्रलयो भवेत् ।

प्रलये तु प्रमाणं नः सर्वोच्छेदात्मके नहि ॥ २२७७ ॥

व्यवहारत इति । व्यवहारप्रवृत्तेः । अन्यथा हि पूर्वमकृतसम्बन्धाद्व्यवहारप्रवृ
त्तिर्न स्यादिति यावत् । साम्प्रतं जगदादौ चेति यदुक्तं तस्य प्रतिविधानमाह—
सर्गादौ चेति । तादृगिति । शब्दार्थसम्बन्धशू्न्यः सृष्टिसंहारात्मकः । अनीदृ
मिति । सर्वोच्छेदात्मकम् । तत्र प्रमाणाभावात् । कथं तर्हि लोके प्रलयादिव्यव
हारप्रसिद्धिरित्याह—न महाप्रलय इत्यादि । ज्ञायत इति । लोकेन । पारमा
र्थिक
इति । सर्वोच्छेदात्मकः परिकल्पितस्तु न वार्यत इत्यभिप्रायः । तमेव दर्श
यति—रात्रिर्वेत्यादि । अथ पारमार्थिकः कस्मान्नेष्यत इत्याह—प्रलये त्वित्यादि ॥
॥ २२७४ ॥ २२७५ ॥ २२७६ ॥ २२७७ ॥


भवतु नाम पारमार्थिकः प्रलयः, तथापि तदानीमभ्रष्टस्मृतिप्रज्ञादिसंस्कारकस्य
कस्यचिदीश्वरादेः कर्तुरभावान्न सम्बन्धकरणं युक्तमिति दर्शयन्नाह—नचालुप्तेत्यादि ।


नचालुप्तस्मृतिः कश्चित्सृष्टिसंहारकारकः ।

ईश्वरादिः स्थिरो युक्तो यः सम्बन्धं प्रकल्पयेत् ॥ २२७८ ॥

628

न युक्त इति । तस्य विस्तरेण प्रतिषिद्धत्वात् ॥ २२७८ ॥


नन्वित्यादिना परस्य प्रत्यवस्थानमाशङ्कते ।


नन्वानुपूर्व्यनित्यत्वादनित्यो वाचको भवेत् ।

पदं वाचकमिष्टं हि क्रमाधीना च तन्मतिः ॥ २२७९ ॥

वर्णानुपूर्वी हि पदमिष्टं न स्फोटस्तस्याश्च पुरुषेच्छाधीनत्वादनित्यत्वमतो वर्णा
नामप्यनित्यत्वं प्राप्नोति । वर्णेभ्योऽनर्थान्तरत्वादानुपूर्व्याः । कथमित्याह—पदमि
त्यादि । तथाहि—वर्णात्मकं पदमेव वाचकमिष्यते, यतो वर्णक्रमकृता पदबुद्धिर्न
स्फोटकृता, स च क्रमः पौरुषेयः ॥ २२७९ ॥


एतदेव विवृणोति—वर्णाः सर्वगतत्वाद्व इति ।


वर्णाः सर्वगतत्वाद्वो न स्वतः क्रमवृत्तयः ।

अनित्यध्वनिकार्यत्वात्क्रमस्यातो विनाशिता ॥ २२८० ॥

पुरुषाधीनता चास्य तद्विवक्षावशाद्भवेत् ।

वर्णानां नित्यता तेन भवतां निष्फला भवेत ॥ २२८१ ॥

वो युष्माकं मीमांसकानां वर्णानां सर्वगतत्वान्न देशकृतः क्रमः, नापि कालकृतो
नित्यत्वात्तेषाम्, तस्मादभिव्यञ्जकध्वनिकृतः । तस्य चानित्यत्वात्तत्कृतस्याप्यनित्य
त्वमिति भावः । प्रयोगः—यदनित्यकृतं तदनित्यं यथा घटादि, अनित्यकृतश्च वर्ण
क्रम इति स्वभावहेतुः । यत्पुरुषविवक्षावशाद्भवति तत्पौरुषेयत्वेन प्रेक्षावता व्यव
हर्त्तव्यम्, यथा पाणिकम्पाक्षिनिकोचादयः, पुरुषेच्छावशाच्च वर्णानां भवति क्रम
इति स्वभावहेतुः ॥ २२८० ॥ २२८१ ॥


अथापि स्याद्विनैव क्रमेण वर्णा एव श्रोत्रपरिच्छिन्ना अर्थप्रत्यायका भविष्यन्तीत्यत
आह—नचेत्यादि ।


नच क्रमाद्विना वर्णा निर्ज्ञाताः प्रतिपादकाः ।

क्रमस्यैवं पदत्वं च तस्मादेवं प्रसज्यते ॥ २२८२ ॥

पदं वर्णातिरिक्तं तु येषां स्यात्क्रमवर्जितम् ।

तेषामेवार्थवत्येषा शब्दनित्यत्वकल्पना ॥ २२८३ ॥

नहि क्रमं विना वर्णा एवार्थप्रतिपत्तिहेतवो दृष्टास्तस्मादेषामवश्यं क्रमोऽभ्युपग
न्तव्यः । एवं सति क्रमस्यैव पदत्वं वाचकत्वं भवतां मीमांसकानां प्रसज्यते, नतु
629 केवलानां वर्णानाम् । तस्य च क्रमस्यानित्यत्वाद्वाचकस्याप्यनित्यत्वं स्यात् । ततश्च
व्यर्था शब्दनित्यत्वकल्पना । तथाहि—वाचकस्य शब्दस्य नित्यत्वं साधयितुमिष्टं
नान्यस्य, ततश्च यत्केवलवर्णनित्यसाधनं भवतां तत्प्रस्तुतानुपयोगि । तस्यावाचक
त्वात् । यच्च बाध(वाच ?)कं क्रमरूपं न तन्नित्यमभ्युपगतमिति सर्वो विफल एव
प्रयासः । येषां पुनस्त्व(र्वै ?)याकरणानां वर्णव्यतिरिक्तं स्फोटाख्यमनवयवं पदं वाचक
मितीष्टं तेषामर्थवत्येषा शब्दनित्यत्वकल्पना । तस्य स्फोटाख्यस्य वस्तुनो नित्यत्वात्
॥ २२८२ ॥ २२८३ ॥


अत्र परिहारमाह—न तावदित्यादि ।


न तावदानुपूर्वस्य पदत्वं नः प्रसज्यते ।

नहि वस्त्वन्तराधारमेतद्दृष्टं प्रकाशकम् ॥ २२८४ ॥

अनुपूर्वस्वभाव आनुपूर्वं, तस्यानुपूर्वमात्रस्य नास्माकं वाचकत्वं प्रसज्यते व्यभि
चारित्वादिति भावः । तदेव दर्शयन्नाह—नहीत्यादि । वस्त्वन्तराधारमिति ।
मणिमुक्ताद्याधारम् ॥ २२८४ ॥


नापि वर्णाधारमानपूर्वमेव केवलं वाचकमिष्टम्, कथमित्याह—धर्ममात्रमिद
मिति ।


धर्ममात्रमिदं तेषां न वस्त्वन्तरमिष्यते ।

इत्थं प्रतीयमानाः स्युर्वर्णाश्चैवावबोधकाः ॥ २२८५ ॥

न वस्त्वन्तरमिति । स्वतन्त्रवाचकत्वेनेत्यभिप्रायः । अन्यथा हि पारमार्थिको
धर्मधर्मिणोर्भेदः स्यात् । स च नाभीष्टः । किं तर्हि वाचकमित्याह—इत्थमित्यादि ।
इत्थम्—विशिष्टेन क्रमेण । एतदुक्तं भवति—न क्रममात्रं वाचकं, नापि वर्णाधारं,
नापि वर्णमात्रं, किं तर्हि ?, वर्णा एव क्रमोपसृष्टा वाचका इति । तेन न क्रमस्य
वाचकत्वं प्रति प्राधान्यं तस्य तद्वत्तया प्रतीयमानस्य गुणीभूतत्वात् । किं तर्हि ?
वर्णानां तेषां धर्मितया प्रतीतेरिति दर्शितं भवति ॥ २२८५ ॥


यदुक्तमनित्यध्वनिकार्यत्वादिति हेतुद्वयं तस्यासिद्धतामाह—नच क्रमस्येत्यादि ।


नच क्रमस्य कार्यत्वं पूर्वसिद्धपरिग्रहात् ।

वक्ता नहि क्रमं कश्चित्स्वातन्त्र्येण प्रपद्यते ॥ २२८६ ॥

यथैवास्य परैरुक्तस्तथैवैनं विवक्षति ।

परोऽप्येवमतश्चास्य सम्बन्धवदनादिता ॥ २२८७ ॥

630

पूर्वसिद्धपरिग्रहादिति । व्यवस्थितस्यैव क्रमस्योपादानात् । एतदेव स्पष्टयति
वक्ता नहीत्यादि । सम्बन्धवदेव हि क्रमोऽप्यनादिः ॥ २२८६ ॥ २२८७ ॥
तेनेत्यादिनोपसंहरति ।


तेनेयं व्यवहारात्स्यादकौटस्थ्येपि नित्यता ।

यत्नतः (यत्क्रमे ?) प्रतिषेध्या नः पुरुषाणां स्वतन्त्रता २२८८ ॥

न इति कृत्यप्रयोगे कर्त्तरि षष्ठी । कृत्वा न सा दोषो (यत् क्रमेस्वतन्त्रताप्रतिषेधो ?)
विहितः । तस्मादसत्यपि पर्वतादिवदस्य क्रमस्य कूटस्थत्वे वृद्धव्यवहारादेव नित्यत्व
मवसेयम् । तदनेन व्यवहारनित्यता कथिता भवति क्रमस्य, न कूटस्थनित्यता यथा
पर्वतादीनामिति ॥ २२८८ ॥


यद्येवं वर्णानामपि क्रमस्येवक्रमस्यैव व्यवहारनित्यत्वं कस्मान्नेष्यत इत्याह—वर्णाना
मपी
ति ।


वर्णानामपि न त्वेवमकौटस्थ्येऽपि सेत्स्यति ।

नित्येषु सत्सु वर्णेषु व्यवहारात्क्रमोदयः ॥ २२८९ ॥

घटादिरचना यद्वन्नित्येषु परमाणुषु ।

तदभावे हि निर्मूला रचना नावधार्यते ॥ २२९० ॥

नहि वर्णानां क्रमवदकौटस्थ्यनित्यत्वेऽपि व्यवहारनित्यतयाऽर्थप्रतिपत्तिव्यवहारः
सिद्ध्यति । कथं न सिद्ध्यतीत्याह—नित्येष्वित्यादि । यदि हि कूटस्थनित्यतया
वर्णा नित्या भवेयुरेवं सति पुरुषपरम्परया व्यवहारसंभवात्क्रमोदयः—क्रमस्या
त्मलाभो भवेत्, यथा घटादिरचना परमाणुमूलात् । क्वचित्क्रमादय इति पाठः ।
तत्रादिशब्देन सम्बन्धप्रत्यभिज्ञानादयो गृह्यन्ते । अथोभयोरपि वर्णपरमाण्वोर्नित्य
त्वमन्तरेण कस्माद्रचना न सम्भवतीत्याह—तदभाव इत्यादि । तदभाव इति ।
वर्णपरमाण्वोर्द्वयोरपि कूटस्थनित्य(भावा)भावे । ननु च घटाद्यारम्भका इव परमाणवो
वर्णानामपि सूक्ष्मभागाः सन्ति, यथाहुः— वर्णानामपि वर्णतुरीया भागा इति ।
तत्कथं वर्णानां कूटस्थनित्यता वर्ण्यते । नैष दोषः । स्फोटदूषणेन प्रतिपादितमेतत्,
यथा न वर्णभागाः सन्तीति ॥ २२८९ ॥ २२९० ॥


किंच—यदि कूटस्थनित्यतया वर्णा नित्या न भवेयुस्तदा सर्वेषां प्रयोक्तॄणां पर
प्रयुक्तानेव शब्दान्ब्रूमह इत्येषा विवक्षा न स्यात्, अथ च भवति, तस्मात्सा वर्ण
नित्यत्वमन्तरेण न युक्तेति दर्शयन्नाह—परेणोक्तानित्यादि ।


631
परेणोक्तान्ब्रवीमीति विवक्षा चेदृशी ध्रुवम् ।

तथा च नित्यतापत्तिर्नचान्यच्चिह्नमस्ति वः ॥ २२९१ ॥

ननु च यदि गकारादिक्रमः परमार्थतो न नित्यः, नापि व्यञ्जका ध्वनयो नापि
तेषां प्रेरकास्ताल्वादिसंयोगविभागाः, ध्वनीनां प्रेरकांस्तान्न शक्नोति कर्तुम्, यांश्चा
भिनवान्करोति न ते दृष्टाः प्रेरकाः, ततश्च कथं वर्णाः क्रमेणाभिव्यक्ता अर्थभेदप्र
तीतिहेतवो भवन्तीति सर्वमेतदाशङ्क्य परिहरन्नाह—जात्या यथेत्यादि ।


जात्या यथा घटादीनां व्यवहारोपलक्षणम् ।

तथैव चानुपूर्व्यादेर्जातिद्वारेण सेत्स्यति ॥ २२९२ ॥

यथा घटादेः सत्यप्यनित्यत्वे जात्याश्रयेण व्यवहारः सिद्ध्यति तथा आनुपूर्व्या
देरनित्यत्वेऽपि सेत्स्यति ॥ २२९२ ॥


व्यवहारोपलक्षणं कथमित्याह—ताल्वादिजातय इत्यादि ।


ताल्वादिजातयस्तावत्सर्वपुंसु व्यवस्थिताः ।

वक्ता तांश्च ध्वनींस्ताभिरुपलक्ष्य निरस्यति ॥ २२९३ ॥

तेषां च जातयो भिन्नाः शब्दाभिव्यक्तिहेतवः ।

यावद्वर्णं प्रवर्तन्ते व्यक्तयो वा तदन्विताः ॥ २२९४ ॥

तथाहि—ताल्वादिस्थानजातयः सर्वपूरुषसमवायिताल्वादिसमवायात्सर्वपुरुषेषु
व्यवस्थिताः । प्रयोक्ता च ताभिरेव ताल्वादिजातिभिस्ताल्वादीन्युपलक्ष्यावधार्य
पश्चाद्ध्वनीन्व्यञ्जकान्वायून्निरस्यति—प्रेरयति । नागृहीतविशेषणा विशेषे बुद्धिरिति
न्यायात् । तेषां ध्वनीनां यद्यप्यनित्यत्वम्, तथापि गवाश्वादिजातिवद्यावद्वर्णं या
वन्तो वर्णास्तावत्यो जातयः सन्ति, ता एव व्यक्तिसहायिन्यः शब्दाभिव्यक्तिहेतवो
भवन्ति । यद्वा—ध्वनिव्यक्तय एव जातिसहायिन्यो वर्णानुरूपेण व्यञ्जनाय प्रव
र्त्तत इति पक्षान्तरम् ॥ २२९३ ॥ २२९४ ॥


ननु च यद्यपि ध्वनीनां जातयो भिन्नाः सन्ति, तथापि ते ध्वनयो जात्युपल
क्षिता अपि न क्रममन्तरेण वर्णाभिव्यक्तिक्रमं सम्पादयितुमलम् । तथाहि—तेषां
जातिभेदेन भिन्नानामपि न स्वतः क्रमोऽस्ति, निरवयवत्वात् । तत्कथं व्यञ्जकक्रम
कृतो वर्णानां क्रमावसाय इत्याशङ्क्याह—तत्रेत्यादि ।


तत्र ताल्वादिसंयोगविभागक्रमपूर्वकम् ।

ध्वनीनामानुपूर्व्यं स्याज्जात्या चोभयनित्यता ॥ २२९५ ॥

632

यद्यपि ध्वनीनामानुपूर्व्यं न स्वतः, तथापि तेषां ताल्वादिसंयोगविभागा एवानु
पूर्व्यं सम्पादयन्ति । उभयल्य च ताल्वादिसंयोगादिक्रमस्य ध्वनिक्रमस्य च स्वाश्रय
समवेतजातिद्वारेण नित्यतेति सर्वमनाकुलम् ॥ २२९५ ॥


कथं पुनर्जात्या क्रमस्यानित्यस्यापि सतो नित्यत्वं लक्षयितुं शक्यम् । येन तथो
पलक्षितो व्यवहाराङ्गतां यास्यतीत्याह—यथैवेत्यादि ।


यथैव भ्रमणादीनां भागा जात्यादिलक्षिताः ।

क्रमानुवृत्तिरेवं स्यात्ताल्वादिध्वनिवर्णभाक् ॥ २२९६ ॥

यथा भ्रमणरेचनादीनां क्रियाविशेषाणाम्—आदिशब्दात्पिपीलिकादीनां ग्रह
णम्, तेषां क्रमानुवृत्तिर्यथा भावा(व ?)जात्यादिना लक्षिता व्यवहाराङ्गम् । अत्रा
प्यादिशब्देन पिपीलिकादिजातिपरिग्रहः । तथा ताल्वादिध्वनिवर्णभाक्क्रामानुवृत्ति
स्ताल्वादिजातिभिर्लक्षिता व्यवहाराय सम्पद्यत इति सम्बन्धः । ताल्वादिध्वनि
वर्णभागि
ति । ताल्वादयश्च ध्वनयश्च वर्णाश्चेति विगृह्य समासः, तान्भजत इति
तथोक्ता । अनेन ताल्वादिसंयोगादिक्रमः स्वजात्युपलक्षितो ध्वनिनिरासहेतुः, ध्व
निक्रमोऽपि ताल्वादिसंयोगविभागक्रमपूर्वकः स्वजात्युपलक्षितो वर्णाभिव्यक्तिक्रमः
निबन्धनम्, सोऽप्यर्थप्रतीतेरित्युक्तं भवति । क्वचिद्भागा इति पाठः । तत्रैवं स
म्बन्धः । यथा भ्रमणादीनां कर्मणां भागा अंशाः क्रमवन्तो जात्या तदन्येन वा केन
चिद्धर्मेणोपलक्षिता व्यवहारहेतवो भवन्ति । यथा ताल्वादिभाक्क्रमानुवृत्तिर्व्यवहारा
ङ्गमिति । केचित्—क्रमानुस्मृतिरेवं स्यादिति पठन्ति । तत्रैवं योजना—यथा
(भ्रमण) रेचनादीनां भागा जात्यादिलक्षिताः स्मर्यन्ते । एवं ताल्वादिध्वनिवर्णभाक्
ताल्वादिविषया ताल्वादिजात्युपलक्षिताः क्रमानुस्मृतिर्भविष्यति ॥ २२९६ ॥


अथवा न ध्वनीनां ताल्वादिसंयोगविभागक्रमकृतमानुपूर्व्यम्, अपि तु स्वत
एव, सावयवत्वादिति दर्शयन्नाह—व्यक्तीनामिति ।


व्यक्तीनामेव वा सौक्ष्म्याज्जातिधर्मावधारणम् ।

तद्वशेन च वर्णानां व्यापित्वेऽपि क्रमग्रहः ॥ २२९७ ॥

ध्वनीनाम् । तेषां हि ये भागा आरम्भकाः क्रमवन्तस्ते सूक्ष्मा न तैर्व्यवहार
सिद्धिः । अतस्तेषु जातिस्वभावा धर्मा नित्यत्वादयः प्रतिनियतशब्दाभिव्यक्तिहेतवो
निरूप्यन्ते । निश्चीयन्त इति यावत् । ततः किं सिद्धं स्यादित्याह—तद्वशेनेत्यादि ।
सत्यपि हि व्यापित्वे वर्णाः क्रमवद्ध्वनिवशात्क्रमवन्त इव भासन्ते ॥ २२९७ ॥


633

एवमित्यादिना प्रकृतमुपसंहरति ।


एवं ध्वनिगुणात्सर्वान्नित्यत्वेन व्यवस्थितान् ।

वर्णा अनुपतन्तः स्युरर्थभेदावबोधिनः ॥ २२९८ ॥

ध्वनिगुणाः—क्रमतीव्र(त्व)मन्दत्वप्रदेशवृत्तित्वादयः । नित्यत्वेन व्यवस्थिता
निति । जातिद्वारेण । अनुपतन्तः—अनुवर्त्तमानाः ॥ २२९८ ॥


एवं यदि नाम नित्यत्वसर्वगतत्वाभ्यां वर्णानां स्वतःक्रमादयो न सम्भवन्ति,
तथापि व्यञ्जकध्वनिगता एते वर्णेष्वर्थप्रतिपत्त्यङ्गमिति विस्तरेण प्रतिपादितम् ।
साम्प्रतम्—यद्वा कालगता एवैते ध्वन्युपाधिकाः प्रविभागा वर्णेषु गृह्यमाणाः
प्रतिपत्त्यङ्गमिति पक्षान्तरं दर्शयन्नाह—आनुपूर्वीत्यादि ।


आनुपूर्वी च वर्णानां ह्रस्वदीर्घप्लुताश्च ये ।

कालस्य प्रविभागास्ते ज्ञायन्ते ध्वन्युपाधयः ॥ २२९९ ॥

ध्वनयो व्यञ्जका वायव उपाधयो विशेषणभूता येषां कालविभागानां ते
तथोक्ताः ॥ २२९९ ॥


ननु च काल एको व्यापी नित्यश्चेतीष्टं कालवादिनाम् । यथोक्तम्—व्यापा
रव्यतिरेकेण परिमाणक्रियावताम् । नित्यमेकं विभुद्रव्यं कालमेके प्रचक्षते ॥
इति,
तत्कथं तस्य प्रविभागो युज्यत इत्याह—कालश्चैक इत्यादि ।


कालश्चैको विभुर्नित्यः प्रविभक्तोऽपि गम्यते ।

वर्णवत्सर्वभावेषु व्यज्यते केनचित्क्वचित् ॥ २३०० ॥

वर्णेषु व्यज्यमानस्य तस्य प्रत्यायनाङ्गता ।

अन्यत्रापि तु सद्भावात्तत्स्वरूपस्य नित्यता ॥ २३०१ ॥

प्रविभक्तोऽपीत्यपिशब्द एकोऽपि नित्योऽपि विभुरपीति सम्बन्धनीयो भिन्नक
मत्वात् । कथं प्रविभक्त इत्याह—वर्णवत्सर्वभावेष्विति । एतदुक्तं भवति—यथै
कोऽपि नित्यो गकारादिवर्णो यदा केनचिद्ध्वनिविशेषेण क्वचित्प्रदेशे वा व्यज्यते,
तदा देशादिविभागेन प्रविभक्तो गम्यते, तथा कालोऽपि । यद्यपि चासौ सर्वपदा
र्थव्यापी, तथापि यदा केनचित्क्रियाविशेषेण क्वचित्पदार्थ व्यज्यते, तदा प्रविभक्तो
गृह्यते, यदा तु वर्णेषु व्यज्यते तदाऽर्थप्रत्ययाङ्गं भवति । यदि तर्हि प्रविभक्तो नित्य
विभुत्वं कथं तस्यावगतमित्याह—अन्यत्रापीत्यादि । अन्यत्रापि लताकिसलयादौ
634 सद्भावात्सत्तावत्तस्य नित्यत्वं विभुत्वं च सिद्धम् । नित्यताग्रहणमुपलक्षम् ॥ २३०० ॥
॥ २३०१ ॥


तस्मान्न पदधर्मोऽस्ति विनाशी कश्चिदीदृशः ।

तेन नित्यं पदं सिद्धं वर्णनित्यत्ववादिनाम् ॥ २३०२ ॥

तस्मादित्यादिना स्वपक्षसिद्धेरुपसंहारः । कश्चिदीदृश इति । क्रमादिरूपः २३०२


यदि तर्हि कालधर्मो व्यञ्जकध्वनिधर्मो वा क्रमः, नतु परमार्थतो वर्णधर्मस्तत्क
थमस्य प्रत्यायनाङ्गत्वम् । न ह्यन्यधर्मोऽन्यस्य भवतीत्याह—परधर्मेऽपीत्यादि ।


परधर्मेऽपि चाङ्गत्वमुक्तमश्वजवादिवत् ।

नित्यतायां च सर्वेषामर्थापत्तिप्रमाणता ॥ २३०३ ॥

उक्तमिति । नावारूढाश्च गच्छन्त इत्यादिना । नावारूढवचनं हि सकलयानारू
ढोपलक्षणम् । अश्वजवादिवदिति । यथा—अश्वादिगतो जवस्तदारूढानां पुंसां
देशान्तरप्राप्तेर्वृक्षादेश्च गमनप्रतिपत्तेरङ्गं भवति, तथा ध्वनिगतोऽपि क्रमो वर्णस्यार्थ
प्रत्यायनाङ्गमिति । एवं विस्तरेण शब्दानित्यत्वप्रतिज्ञाया अर्थापत्तिप्रमाणबाधितत्वं
समर्थ्य, उपसंहरन्नाह—नित्यतायामित्यादि । तस्मादित्युपसंहारोऽत्र द्रष्टव्यः ।
सर्वषामिति । न केवलं वर्णस्यार्थप्रतीत्यन्यथानुपपत्त्या नित्यत्वं सिद्धम्, किं तर्हि ?,
ताल्वादीनां ध्वनीनां च । यथोक्तं भाष्ये— उच्चरितमात्रे हि विनष्टे शब्दे नचान्यो
ऽन्यानर्थं प्रत्याययितुं शक्नुयादतो न परार्थपरमार्थमुच्चार्येत । अथ न विनष्टस्ततो बहुश
उपलब्धत्वादर्थावगम इति युक्त
मिति ॥ २३०३ ॥


स्ववचनाभ्युपेतागमप्रतीतिबाधामपि प्रतिज्ञायाः प्रतिपादयन्नाह—स्ववाक्या
दी
त्यादि ।


स्ववाक्यादिविरोधश्च शब्दानित्यत्वसाधने ।

प्रतिज्ञोच्चार्यते सर्वा साध्यार्थप्रतिपत्तये ॥ २३०४ ॥

नचानित्या ब्रवीत्येषा स्वार्थमित्युपपादितम् ।

तेनार्थप्रत्ययापन्नान्नित्यत्वान्नाशबाधनम् ॥ २३०५ ॥

आदिशब्देनाभ्युपेतादिविरोधग्रहणम् । उपपादितमिति । नचादृष्टार्थसम्बन्धः
शब्दो भवति वाचक
इत्यादिना । तेनार्थप्रत्ययापन्नादिति । अर्थप्रत्ययात्—अर्थ
प्रतीतेः, आपन्नं—सिद्धम्, अर्थप्रत्ययापन्नम् । अर्थप्रतीत्यन्यथानुपपत्तिसिद्धान्नित्य
त्वादिति यावत् ॥ २३०४ ॥ २३०५ ॥


635

अभ्युपेतबाधामाह—(अर्थाभिधानेति)


अर्थाभिधानसामर्थ्यमभ्युपेत्य च साधयन् ।

पूर्वाभ्युपगतेनापि नाशित्वं बाधते पररःनरः ॥ २३०६ ॥

अर्थप्रतीतिसामर्थ्यैः प्रतिशास्त्रमुपाश्रितैः ।

आगमेनापि नाशित्वं बाध्यते सर्ववादिनाम् ॥ २३०७ ॥

(आगमबाधामाह—) अर्थप्रतीतिसामर्थ्यैरित्यादि । अर्थप्रतीतौ सामर्थ्यानि
यानि शब्दानां तैः । प्रतिज्ञार्थस्य बाधनादित्युपस्कारः ॥ २३०६ ॥ २३०७ ॥


प्रतीतिबाधामाह—सर्वलोकेत्यादि ।


सर्वलोकप्रसिद्ध्या च बाधः पूर्वोक्तया दिशा ।

अनुमानविरोधोऽपि प्रागुक्तेनैव हेतुना ॥ २३०८ ॥

श्रोत्रजप्रत्यभिज्ञानाच्छब्दाभेदावसायतः ।

प्रत्यक्षेण विरुद्धत्वं प्रागेव प्रतिपादितम् ॥ २३०९ ॥

पूर्वोक्ता दिक्—समनन्तरश्लोकाक्ता । एवं तु पठितव्यम् । —अर्थप्रतीति
सामर्थ्यैः सर्वलोकावधारितैः । लोकप्रसिद्ध्या नाशित्वं बाधते सर्ववादिनाम् ॥
इति । पूर्वोक्तमनुमानादिविरोधं स्मारयन्नाह—अनुमानविरोधोऽपीत्यादि । प्रागुक्तो
हेतुर्नानाप्रकारः— देशकालादिभिन्नाश्च गोशब्दव्यक्तिबुद्ध्यः । समानविषयाः सर्वा
नवा नानार्थगोचराः ॥ गौरित्युत्पद्यमानत्वात्सम्प्रत्पन्नबुद्धिव
दित्यादिना । प्रागे
वे
ति । किंच शब्दस्य नित्यत्वं श्रोत्रजप्रत्यभिज्ञया । विभुत्वं च स्थितं तस्य कोऽ
ध्यवस्येद्विपर्ययम् ॥
इत्यनेन ॥ २३०८ ॥ २३०९ ॥


शिष्टानपि पक्षदोषान्हेतुदोषांश्च कांश्चित्प्रतिपिपादयिषुराह—वक्तव्यमित्यादि ।


वक्तव्यं चैष कः शब्दो विनाशित्वेन साध्यते ।

त्रिगुणः पौद्गलो वाऽयमाकाशस्याथवा गुणः ॥ २३१० ॥

वर्णादन्योऽथ नादात्मा वायुरूपमवाचतम् ।

पदवाक्यात्मकः स्फोटः सारूप्यान्यनिवर्त्तने ॥ २३११ ॥

एतेषामस्त्वनित्यत्वं नास्माकं तेषु नित्यता ।

अप्रसिद्धविशेषत्वमाश्रयासिद्धहेतुता ॥ २३१२ ॥

सिद्धान्तभेदेन शब्दगतान्विकल्पानाह । तत्र सत्वरजस्तमःस्वभावत्वात्रिगुणः
636 साङ्ख्यैरिष्टः शब्दः । पौद्गलो दिगम्बरैः । पुद्गलाः परमाणव उच्यन्ते । तेषामयं
पौद्गलः । तदात्मक इति यावत् । आकाशगुणः काणादैरिष्टः । वर्णव्यतिरिक्तो ना
दात्मा लैकिकैः । यथोक्तं पातञ्जले भाष्ये— अथवा प्रतीतपदार्थको लोके ध्वनिः
शब्द
इति । वायुरूपमवाचकं शिक्षाकारैः । यथाहुः—वायुरापद्य(ते) शब्दमा
(वा ?)
निति । पदस्फोटात्मको वाक्यस्फोटात्मकश्च वैयाकरणैरिष्टः । तद्यथाहुः—
नादैराहितबीजायामन्त्येन ध्वनिना सह । आवृत्तिपरिपाकायां बुद्धौ शब्दोऽवधा
र्यते ॥
इति । सारूप्यं—सादृश्यं विन्ध्यवासीष्टम् । बौद्धैरन्यनिवर्त्तनमन्यापोहो
वाचकत्वेन य इष्टः । तत्र यद्येवं साङ्ख्यादीष्टानामनित्यत्वं साध्यते तदा सिद्धसा
ध्यता पक्षदोषः । स्वरूपेणैव निर्दिश्यत इत्यनेन सिद्धरूपस्य निरस्तत्वात् । नच
मीमांसकैरीदृशे शब्दे नित्यत्वं साधयितुमिष्टम् । किञ्चास्मान्प्रति त्रिगुणाद्यात्मकस्य
शब्दस्य धर्मिणो विशेषस्यासिद्धत्वादप्रसिद्धविशेषत्वं पक्षदोषः । हेतोश्चाश्रयासिद्धता
दोषः । तथाविधस्य धर्मिणोऽसिद्धत्वात् ॥ २३१० ॥ २३११ ॥ २३१२ ॥


अथेति ।


अथास्मदिष्टः पक्षः स्यात्स्वयमेतद्द्वयं तव ।

शब्दमात्रमथोच्येत शब्दत्वं वस्तथासति ॥ २३१३ ॥

अनित्यं तच्च सर्वेषां नित्यमिष्टं विरुध्यते ।

यत्किञ्चिदिह सामान्यं नित्यं सर्वेण कल्प्यते ॥ २३१४ ॥

अथास्माभिर्मीमांसकैर्योऽभिमतो वर्णा एव गकारादयः शब्दो न व्यतिरिक्तः इत्येष
पक्षः स्यात् । तथासति बौद्धादेरेतद्द्वयम्—अप्रसिद्धविशेषत्वं प्रतिज्ञादोष आश्रयासिद्धता
च हेतुदोष आपद्यते । शब्दमात्रमथोच्येत, साध्यधर्मित्वेनेति शेषः । ततश्च शब्दत्व
सामान्यं वो युष्माकमनित्यम्, प्राप्नोतीत्यध्याहार्यम् । तथाहि—मात्रशब्देन सर्वविशे
षत्यागे कृते किमपरमन्यत्सामान्याच्छब्दमात्रं भवेत् । तस्मात्सामर्थ्याद्भवद्भिः
शब्दत्वमेवानित्यं प्रतिज्ञानं स्यात् । भवत्वेवमिति चेत्, नेत्याह—तच्च सर्वेषां
नित्यमिष्ट
मित्यादि । तथाहि बौद्धैरप्यन्यापोहवादिभिरुक्तम्— जातिधर्मव्यवस्थि
ते
रिति । अनेनाभ्युपेतबाधादोष उक्तः । तदेव दर्शयति—यत्किञ्चिदिहेत्यादि ।
यत्किञ्चित्स्वसिद्धान्तानुसारेण सामान्यं व्यवस्थापितं तत्सर्वं सर्ववादिभिर्नित्यमि
ष्यते । अन्यथा व्यक्तिवदपरापरोत्पत्तेर्व्यक्तयन्तर्गत्यापना (पाता ?) त्तस्य सामान्यरू
पतैव हीयते ॥ २३१३ ॥ २३१४ ॥


637

एवं तावत्साध्यधर्मिविकल्पेन पक्षदोषमुद्भाव्येदानीं साध्यधर्मविकल्पेनोद्विभा
वयिषुराह—अनित्यत्वं चेत्यादि ।


अनित्यत्वं च नाशित्वं यद्यात्यन्तिकमुच्यते ।

ततोऽस्मान्प्रति पक्षः स्यादप्रसिद्धविशेषणः ॥ २३१५ ॥

यथाकथंचिदिष्टा चेदनित्यव्यपदेश्यता ।

अनभिव्यक्त्यवस्थातः साऽभिसा हि व्यक्त्यात्मतेष्यते ॥ २३१६ ॥

यद्यात्यन्तिकं निरन्वयप्रध्वंसलक्षणं नाशित्वं यत्तदनित्यत्वमिष्टं साध्यत्वेन तदा
अस्मात्—मीमांसकान्प्रत्यप्रसिद्धविशेषणः पक्षदोषः । तथाहि मीमांसकानां कापि
लानामिव निरन्वयविनाशित्वविशेषणमसिद्धम् । तिरोभावेऽपि घटादीनां शक्तिरू
पेणावस्थानात् । प्रदीपादावपि लघवो ह्यवयवास्तदा देशान्तरं लघु लघु प्रयान्तीति
मतत्वात् । अथ यथाकथञ्चिदनित्यव्यपदेशत्वं साधयितुमिष्टं तदा सिद्धसाध्यता
दोषः । तथाहि—नित्येष्वप्यभिव्यक्त्यनभिव्यक्त्यवस्थाश्रयेणानित्यव्यपदेश इष्ट एव
॥ २३१५ ॥ २३१६ ॥


एवं तावदनित्यः शब्द इत्येषा प्रतिज्ञा विस्तरेण दूषिता, इदानीमैन्द्रियकत्वादि
त्यस्य हेतोर्दोषमुद्भावयन्नाह—केवलैन्द्रियेत्यादि ।


केवलैन्द्रियकत्वे च हेतावत्र प्रकल्पिते ।

जात्या साधितयेदानीं व्यभिचारः प्रतीयते ॥ २३१७ ॥

केवलमैन्द्रियकत्वम्—कार्यत्वे सतीत्यादि विशेषणरहितम्, तस्मिन्निर्विशेषण
हेतौ सति, जात्या—सामान्येन, प्राक् प्रसाधितयाऽनैकान्तिको हेतुः । व्यतिरेका
सिद्धेः ॥ २३१७ ॥


स्यादेतत्—यदि नाम प्रतिवादिनो जातेरभ्युपगमाव्द्यतिरेको न सिद्धस्तथापि
बौद्धादेः स्ववादिनो जातेरनभ्युपगमात्सिद्ध एव तत्कथनमनैकान्किकतेत्याह—असिद्ध इत्यादि ।


असिद्धे पक्षधर्मत्वे यथैव प्रतिवादिनः ।

न हेतुर्लभ्यते तद्वदन्वयव्यतिरेकयोः ॥ २३१८ ॥

य एव तूभयनिश्चितवाची स एव साधनं दूषणं वेति न्यायात् यथा पक्षधर्मस्या
न्यतरासिद्धौ हेतुर्दुष्टो भवति तथाऽन्वयव्यतिरेकयोरन्यतरासिद्धौ दुष्ट एव । अन्व
यव्यतिरेकयोरसिद्धयोरिति वचनविपरिणामेन सम्बन्धः ॥ २३१८ ॥


638

यद्युभयसिद्धमेव साधनं दूषणं वा तत्कथं बौद्धं प्रत्यसिद्धया जात्या व्यभिचारो
ऽभ्यधायि भवतेत्याह—तत्रेत्यादि ।


तत्र यद्यप्यसिद्धा स्याज्जातिः साधनवादिनः ।

तावत्तथाऽप्यहेतुत्वं यावत्सा न निराकृता ॥ २३१९ ॥

यद्यपि बौद्धादेः साधनवादिनो न जातिर्विपक्षत्वेन सिद्धा, तथाप्याशङ्का न
निवर्त्तते । तस्याः प्रतिषेद्धुमशक्यत्वात् । ततश्च संदिग्धविपक्षव्यावृत्तिकतेति भावः
॥ २३१९ ॥


अपरमपि साध्यसाधनयोर्विकल्पान्तरेण दूषणमाह—कार्या चैन्द्रियकत्वा
दा
विति ।


कार्या चैन्द्रियकत्वादौ किंवस्त्विति निरूपणा ।

व्यक्तिभ्योऽनन्यनानात्वभेदाभेदेषु च स्फुटा ॥ २३२० ॥

तत्रासाधारणासिद्धसाध्यहीनसपक्षताःक्षता ।

विकल्पितानुसारेण वक्तव्या वाद्यपेक्षयाचाद्यपेक्षया ॥ २३२१ ॥

आदिशब्देनानित्यत्वपरिग्रहः । तत्र किमात्मकमैन्द्रियकत्वादीति निरूपणा कार्या,
किं व्यक्तिभ्योऽनन्यदाहोस्विद्व्यतिरिक्तम्, तथा व्यतिरेकपक्षे तदा भेदेषु च विचा
रणा कार्या, किं तद्व्यतिरिक्तं भिन्नभिन्नमाहोस्विदभिन्नमेकमेवेति यावत् । तत्राव्य
तिरेकपक्षे ऐन्द्रियकत्वस्य हेतोरसाधारणता, व्यक्तेरव्यतिरेकात्, तत्स्वरूपवत्तस्य
व्यक्त्यन्तरानुगमाभावात् । व्यतिरेकपक्षेऽपि मीमांसकस्य व्यतिरेकानिष्टेः प्रतिव्य
क्तिभिन्नमभिन्नं वा असिद्धमित्यसिद्धता हेतोः । अतएव भेदाभेदपक्षे दोषो नोक्तः ।
सिद्धे हि व्यतिरेके तस्यावकाशात् । अनित्यत्वस्यापि व्यतिरेकपक्षे साध्यहीनसप
क्षता । दृष्टान्तस्य साध्यविकलतेति यावत् । अव्यतिरेकपक्षेऽपि साध्यहीनतैव दृष्टा
न्तस्य, व्यक्तेर्व्यक्तयन्तरानुगमाभावात् ॥ २३२० ॥ २३२१ ॥


इदानीं प्रयत्नानन्तरीयत्वादित्यस्य हेतोरनैकान्तिकत्वमाह—प्रयत्नानन्तरमि
त्यादि ।


प्रयत्नानन्तरं ज्ञानं कृतकानित्यसाधनम् ।

यत्तत्राप्यस्त्यनेकान्तः क्षणिकव्यतिरेकिणः(भिः ?) ॥ २३२२ ॥

प्रतिसङ्ख्याऽप्रतिसङ्ख्यनिरोधव्योमभिस्त्रिभिः ।

बुद्धिपूर्वविनाशे हि प्रतिसङ्ख्यानिरोधधीः ॥ २३२३ ॥

639
अबुद्धिपूर्वकस्तेषां निरोधोऽप्रतिसङ्ख्यया ।

तौ च द्वावप्यनाशित्वादिष्टावकृतकावपि ॥ २३२४ ॥

प्रयत्नानन्तरमुपलभ्यमानत्वं हि प्रयत्नानन्तरीयत्वमुच्यते । तच्च विपक्षेऽपि हेतो
रनैकान्तिकत्वान्न कृतकानित्यत्वसाधनम् । तथाहि बौद्धैः प्रतिसङ्ख्यानिरोधोऽप्रतिस
ङ्ख्यानिरोध आकाशं चेति त्रिविधमसंस्कृतं वस्तु क्षणिकव्यतिरिक्तमक्षणिकं नित्यं
चेष्टम् । तत्र चास्य हेतोर्वृत्तिरिति दर्शयन्नाह—बुद्धिपूर्वेत्यादि । यो बुद्धिपूर्वो घटा
दीनां विनाशः स प्रतिसङ्ख्यानिरोधः, यत्स्वबुद्धिपू्र्वः सोऽप्रतिसङ्ख्यानिरोध इत्येषा
किल बौद्धप्रक्रिया । तेषामिति । घटादीनाम् । तौ चेति । प्रतिसङ्ख्याऽप्रतिसङ्ख्या
निरोधौ । अकृतकावपीति । अपिशब्दान्नित्यावपि ॥ २३२२ ॥ २३२३ ॥ २३२४ ॥


यथा चानयोरकृतकत्वनित्यत्वे । यथा न तत्र हेतौ वृत्तिस्तथा परमतेनैवोपपा
दयन्नाह—आहुरित्यादि ।


आहुः स्वभावसिद्धं हि ते विनाशमहेतुकम् ।

भवति ह्यग्निसम्बन्धात्काष्ठादङ्गारसन्ततिः ॥ २३२५ ॥

स्वाभाविको विनाशस्तु जातिमात्रप्रतिष्ठितः ।

सूक्ष्मः सदृशसन्तानवृत्तेरनुपलक्षितः ॥ २३२६ ॥

यदा विलक्षणो हेतुः पतेत्सदृशसन्ततौ ।

विलक्षणेन कार्येण स्थूलोऽभिव्यज्यते तदा ॥ २३२७ ॥

तेनासदृशसन्तानो हेतोः संजायते यतः ।

तेनैवाक्रियमाणोऽपि(नाशोऽ)भिव्यज्यते स्फुटः ॥ २३२८ ॥

इति बौद्धाः । ननु च (नाश्यते) अग्निना काष्ठं दण्डेन घट इति नाशहेतवो
दृश्यन्ते, तत्कथमहेतुकत्वमस्येत्याह—भवति हीत्यादि । वह्न्यादयो हि तत्राङ्गारा
दिपदार्थान्तरहेतुत्वेनान्वयव्यतिरेकाभ्यां निश्चिता न विनाशस्य । तस्य निसर्ग
सिद्धत्वात् । यदि तर्हि स्वाभाविको नाशः किमिति वह्न्यादिसंपातात्प्रागपि नोप
लक्ष्यत इत्याह—सूक्ष्म इत्यादि । सदृशापरापरोत्पत्तेर्विप्रलब्धा हि मन्दा नावस्यन्ति
(सूक्ष्मं नाशम्) । सदृशसन्तानोत्पत्त्या तूत्प्रेक्षन्ते (अविनष्टमेव ।) विलक्षणो हेतु
र्मुद्गरादिः । विलक्षणं कार्यं कपालादि । अस्यां किलावस्थायां विनाशस्य स्थूलत्वं
व्यक्तीभवति । तेनेत्यादिनोपसंहारः । असदृशसन्तान इति । विलक्षणः । हेतो
640 र्यत इति सामानाधिकरण्यम् । तेनैवेति । हेतुना । यत इति यो निर्दिष्टः । तस्या
भिव्यज्यत इति परेणाभिसम्बन्धः ॥ २३२५ ॥ २३२६ ॥ २३२७ ॥ २३२८ ॥


विपक्षवृत्तितां हेतोरुपदर्शयन्नाह—स मुद्गरेत्यादि ।


स मुद्गरप्रहारादिप्रयत्नानन्तरीयकः ।

यस्मादकृतको दृष्टो हेतुः स्याद्व्यभिचार्यतः ॥ २३२९ ॥

इति । द्विविधोऽपि निरोधः, मुद्गरप्रहारादिप्रयत्नानन्तरज्ञानो मुद्गरप्रहारादि
प्रयत्नानन्तरीयक उच्यते ॥ २३२९ ॥


त्रिभिरित्युक्तम् । तत्र द्वाभ्यां व्यभिचारमुपदर्श्य तृतीयेनाप्याकाशेन व्यभिचार
मुपदर्शयन्नाह—आकाशमपीत्यादि ।


आकाशमपि नित्यं सद्यदा भूमिजलावृतम् ।

व्यज्यते तदपोहेन स्वननोत्सेच(च्छेद ?) नादिभिः ॥ २३३० ॥

प्रयत्नानन्तरं ज्ञानं यदा तत्रापि दृश्यते ।

तेनानैकान्तिको हेतुर्यदुक्तं तत्र दर्शनम् ॥ २३३१ ॥

तदपोहेनेति । तस्य भूम्यादेः स्वननादिकरणभूतैरपनयेन । तत्रेति । शब्दे ।
दर्शनम्—प्रयत्नानन्तरज्ञानम् ॥ २३३० ॥ २३३१ ॥


एवं हेतुदोषानभिधाय दृष्टान्तदोषान्वक्तुकाम आह—सपक्षोऽपीत्यादि ।


सपक्षोऽपि विकल्पोऽत्र श्रुत्यर्थे साध्यहीनता ।

व्यक्तिलक्षणपक्षेऽपि जात्यन्यानन्यकल्पना ॥ २३३२ ॥

अन्यत्वे धर्म्यसिद्धेर्नोऽनन्यत्वेपि परान्प्रति ।

अविशेषेऽपि नानित्यं न नित्यं वस्तु तन्मम ॥ २३३३ ॥

अंशो ह्येतस्य जात्याख्यो नित्यो ध्वंसीतरो मतः ।

शबलाकारमेकं हि वस्तु प्राक्प्रतिपादितम् ॥ २३३४ ॥

सपक्षो दृष्टान्तः । स किं श्रुत्यऽर्थोऽभिप्रेतः आहोस्विद्व्यक्तिः । यदि श्रुत्यर्थस्तदा
साध्यविकलता दृष्टान्तदोषः । तथाहि—श्रुतिः शब्दः । तस्यार्थोऽभिधेयः । स
पुनः सामान्यं घटत्वादि, नच (तच्च ?) सर्ववादिनां नित्यमेवेष्टमिति न तत्रानित्य
त्वस्य साध्यधर्मस्यानुगमः । क्वचिज्जात्यर्थ इति पाठः । तत्र कर्मधारयः समासः
कार्यः । अर्थस्तुल्य एव । अथ द्वितीयः पक्षस्तदाऽपि तस्या व्यक्तेर्दृष्टान्तत्वेनेष्टाया
641 जात्यन्यानन्यकल्पना कार्या । किं सा व्यक्तिर्जातेरन्या, आहोस्विदनन्या । य(दाऽ
न्या) तदा दृष्टान्तधर्मिणो मीमांसकं प्रत्यसिद्धिः । नहि मीमांसको वैशेषिकादिव(दे)
कान्तेन व्यक्तेरन्यां जातिमिच्छति । यथोक्तम्— स्थितं नैव तु जात्यादेः परत्वं
व्यक्तितो हि न
इति । अथानन्यपक्षस्तदा परान् बौद्धादीन्प्रति दृष्टान्तधर्म(र्म्य?)
सिद्धिः । नहि परे व्यक्तेरनन्यां जातिं मन्यन्ते । अथ भेदाभेदविकल्पमवधूय घटो
निदर्शनत्वेनोपादीयते, तदाऽप्यस्मान्प्रति साध्यविकलता दृष्टान्तस्ये(ति) निदर्शय
त्राह—अविशेषेऽपीत्यादि । दिति । घटवस्तु । कथमित्याह—अंश इत्यादि ।
एतस्य हि घटवस्तुनो जातिसंज्ञको भागो नित्यः । इतरस्तु व्यक्तिसंज्ञको ध्वंसी—
विनाशी । स्यादेतत्कथमेकस्य परस्परविरुद्धं स्वभावद्वयं युक्तमित्याह—शबलाका
मित्यादि ॥ २३३२ ॥ २३३३ ॥ २३३४ ॥


पुनरपि साध्यधर्मविकल्पमुखेन दृष्टान्तदोषान्वक्तुकाम आह—अनित्यतेत्यादि ।


अनित्यता विकल्प्यैवं नाशश्चेत्साध्यहीनता ।

ममान्यस्यां तु भवतामित्येषा दूषणोक्तिदिक् ॥ २३३५ ॥

यद्यनित्यता निरन्वयविनाशलक्षणा साध्यत्वेनेष्टा तदा मम मीमांसकस्य दृष्टान्ते
साध्यविकलता । न ह्यस्माभिरत्यन्तसमुच्छेदो भावानामिष्टः, शक्तिरूपेणावस्थानात् ।
यद्यपि नाश इति सामान्यशब्दस्तथापि प्रकरणान्निरन्वयविनाशात्मकेऽर्थविशेषेऽस्य
वृत्तिर्विज्ञायते । अन्यथा कथं साध्यविकलताप्रसङ्गो दृष्टान्तस्य योक्ष्यते । ननु चा
नित्यत्वं नाशित्वं यद्यात्यन्तिकमुच्येतेत्यादिना अनित्यता विकल्पितैव, तत्किमिति
भूयोऽपि विकल्प्यते । सत्यम्, सा हि पक्षस्य दोषोद्भावनार्थमिदानीं तु दृष्टान्त
स्येति विशेषः । अथ न निरन्वयविनाशलक्षणाऽनित्यताऽभिप्रेता किं त्वन्यैवाविर्भा
वतिरोभावलक्षणा, अत्राह—अन्यस्यामिति । अनित्यतायामिति सम्बन्धः । भव
ता
मिति । साध्यहीनतेति योजनीयम् । तत्रापि दृष्टान्तस्येति शेषः । नहि भवद्भि
र्बौद्धैः साङ्ख्यैरिव सान्वयो विनाश इष्यते । तस्मादृष्टान्तस्य साध्यविकलता भव
त्पक्षे स्यादित्येष शब्दानित्यत्वसाधनदूषणमार्गो विदुषामाख्यातः, अन्यदपि प्राज्ञैः
स्वयमभ्यूह्य कर्त्तव्यम् ॥ २३३५ ॥


पदार्थेत्यादिना परस्य चोद्यमाशङ्कते ।


पदार्थपदसम्बन्धनित्यत्वे साधितेऽपि वा ।

नैव वेदचेह प्रमाणत्वं वाक्यार्थं प्रति सिध्यति ॥ २३३६ ॥

642
समयात्पुरुषाणां हि गुणवृद्ध्यादिवन्मतिः ।

निष्कारणोऽपि सन्नर्थो याज्ञिकैः परिकल्पितः ॥ २३३७ ॥

अपिचास्य कथावत्तु सङ्घातात्पौरुषेयता ।

नचाप्तः पुरुषो वास्ति तेन वेदाप्रमाणता ॥ २३३८ ॥

विशिष्टसाधनावच्छिन्नक्रियाविशेषविधिप्रतिषेधलक्षणो हि वाक्यार्थः । तत्रैव
चोदनायाः प्रमाण्यं न पदार्थे । ततश्च वेदस्य प्रामाण्ये साध्ये यत्पदपदार्थतत्स
म्बन्धानां त्रयाणामपि नित्यत्वप्रतिपादनं तत्प्रकृतानुपयोगि । किं च—या या
वाक्यार्थप्रतिपत्तिः सा सङ्केतप्रभवा, यथा—आद्गुणइत्यादेर्वाक्यात् गुणवृद्ध्यादिमतिः,
वाक्यार्थप्रतिपत्तिश्च चोदनावाक्यसमुद्भवेति स्वभावहेतुः । एतदेव दर्शयति—
समयादित्यादि । गुणवृद्ध्यादिवदिति । सप्तम्यर्थे वतिः । अस्यैव समर्थनमाह—
निष्कारणोऽपीत्यादि । निष्कारणोऽपि निर्निबन्धनोऽपि सन् स्वोत्प्रेक्षया निरङ्कु
शया याज्ञिकैराजीविकार्थमेवाग्निहोत्रं जुहुयात्स्वर्गकाम इत्यादिवेदवाक्यार्थः परिक
ल्पित इति सम्भाव्यम् । किं च यत्सङ्घातरूपं तत्पौरुषेयं, यथा नाटकाख्यायिकादि
कथा, पदसङ्घातश्च वेद इति स्वभावहेतुः । ततश्च पौरुषेयत्वाद्रथ्यापुरुषवाक्यवद
प्रमाणं वेदः स्यात् । आप्तप्रणीतत्वात्पौरुषेयोऽपि प्रमाणं भविष्यतीति चेदाह—
चाप्त
इत्यादि ॥ २३३६ ॥ २३३७ ॥ २३३८ ॥


सम्बन्धेत्यादिना प्रतिविधत्ते ।


सम्बन्धाकरणन्यायाद्वक्तव्या वाक्यनित्यता ।

दृष्टार्थव्यवहारत्वाद्वृद्ध्यादौ सम्भवेदपि ॥ २३३९ ॥

मतिः सामयिकी वेदे न त्वेषा युज्यते यतः ।

स्वर्गयागादिसम्बन्धः केन दृष्टो ह्यतीन्द्रियः ॥ २३४० ॥

पदपदार्थयोः सम्बन्धाकरणे यो न्याय उक्तः— श्रोतुः कर्तुं चकर्तुश्च सम्बन्धं वक्ता कं
प्रतिपद्यता
मित्यादिना, तत एव वैदिकवाक्यस्यापि नित्यता वक्तव्या । समयात्पुरु
षाणां हि गुणवृद्ध्यादिवन्मति
रित्यत्रानैकान्तिकतामाह—दृष्टार्थव्यवहारत्वादि
त्यादि । अदेङादौ दृष्टेऽर्थे गुणादिव्यवहारात्समयात्तत्र सम्भाव्यत एव प्रतीतिः,
नतु वेदे, स्वर्गादेरतीन्द्रियत्वेन समयस्य कर्तुमशक्यत्वात् ॥ २३३९ ॥ २३४० ॥


यद्येवमानर्थक्यं तर्हि प्राप्तमस्येत्याह—नचानर्थकता तस्येति ।


643
नचानर्थकता तस्य तदर्थप्रत्ययोदयात् ।

सङ्घातत्वस्य वक्तव्यमीदृशं प्रतिसाधनम् ॥ २३४१ ॥

वेदस्याध्ययनं सर्वं गुर्वध्ययनपूर्वकम् ।

वेदाध्ययनवाच्यत्वादधुनाध्ययनं यथा ॥ २३४२ ॥

तस्येति । वेदस्य । सङ्घातत्वादित्यत्रापि साधने प्रतिसाधनेनानैकान्तिकतामेव
दर्शयन्नाह—सङ्घातत्वस्येत्यादि ॥ २३४१ ॥ २३४२ ॥


ननु च भारताध्ययनेऽपि शक्यमेवं वक्तुम्, यद्भारताध्ययनं तत्सर्वं गुर्वध्ययन
पूर्वकं यथेदानीन्तनमिति । न चैवं शक्यते कर्त्तुम् । तस्मात्तद्वदनैकान्तिकता प्रतिसाध
नस्येत्याशङ्क्याह—भारतेऽपीत्यादि ।


भारतेऽपि भवेदेवं कर्तृस्मृत्या तु बाध्यते ।

वेदे तु तत्स्मृतिन स्मृतिर्यापि साऽर्थवादनिबन्धना ॥ २३४३ ॥

भारतेऽपि भवेदेवं प्रसञ्जनं, तत्र कर्त्ता व्यासः स्मर्यत इति तया कर्तृस्मृत्या
प्रतिज्ञार्थस्य बाधितत्वादप्रसङ्गः । वेदे तु न स्मृतिः । कर्तुरिति शेषः । ननु च वेदे
ऽपि कर्त्ता स्मर्यत एव । यथा— अग्निरावश्चक्रुः सामानि सामगिरौ भगवति क
पोतके अधर्वानाङ्गिरस
इत्यत आह—यापि साऽर्थवादनिबन्धनेति । यापि वेदे
कर्तुः स्मृतिः साऽर्थवादनिबन्धना—अर्थपरं वचनमर्थवादः, तन्निबन्धनं यस्याः
सा तथोक्ता । तथाहि चक्रुरिति न करणार्थपरः करोतिः । किं तर्हि स्मरणार्थः ।
चक्रुः—स्मृतवन्म इत्यर्थः ॥ २३४३ ॥


कथमयमर्थोऽवसित इत्याह—अतीतानागतावित्यादि ।


अतीतानागतौ कालौ वेदकारवियोगिनौ ।

कालत्वात्तद्यथा लोके (कालो ?) वर्त्तमानः समीक्ष्यते २३४४

ब्रह्मादयो न विद्यानां कर्त्तार इति गम्यताम् ।

पुरुषत्वादिहेतुभ्यस्तद्यथा प्राकृताप्रकृता नराः ॥ २३४५ ॥

प्रमाणद्वयं सुगमम् ॥ २३४४ ॥ २३४५ ॥


ततश्चेत्यादिना प्रकृतं सकलमुपसंहृत्य प्रमाणयति ।


ततश्च गम्यतां व्यक्तममृषा वैदिकं वचः ।

स्वार्थे वक्रनपेक्षत्वात्पदार्थे पदबुद्धिवत् ॥ २३४६ ॥

644
तत्कृतः प्रत्य(यः सम्यग्यदयं नित्यवाक्यजः ।

वाक्यस्वरूपविषयप्रत्ययस्तद्भवो यथा ॥ २३४७ ॥

चोदनावाक्यजनितप्रत्ययस्य प्रमाणता ।

आप्तवाक्यसमुद्भूतप्रत्ययस्येव सिद्ध्यति ॥ २३४८ ॥

यतोऽयं प्रत्ययस्तावदनाप्ताकृतवाक्यजः ।

कालावस्थादिभेदेऽपि विसंवादोऽस्य नास्ति यत् ) ॥ २३४९ ॥

प्रमाणेऽवप्रमाणे च स्थिते वेदे शिष्याचार्यपरम्परा ।

(अनादिः कल्प्यमानाऽपि) निर्दोषत्वाय कल्पते ॥ २३५० ॥

यद्यत्र कर्तृभूतवक्रनपेक्षं ज्ञानमुत्पादयति, तत्तत्र मृषा न भवति, यथा पदार्थे
पदं, कर्तृभूतपुरुषवक्रनपेक्षं स्वार्थे प्रत्ययमुत्पादयति वेदवाक्यमिति व्यापकविरुद्धो
पलब्धिः । कर्तृभूतपुरुषसापेक्षज्ञानोत्पादकत्वेन मृषात्वस्य व्याप्तत्वात् । तद्विरुद्धं च
स्वार्थे वक्रनपेक्षत्वम् । पदबुद्धिवदिति । पदानामविसंवादिप्रत्ययनिमित्तत्वप्रदर्शन
परमेतत् । नतु पदबुद्धिर्दृष्टान्तत्वेनाभिप्रेता । किं तर्हि ? । पदान्येव । तथाह्यत्र
शब्दात्मकः साध्यधर्मी, तस्य चाविसंवादिज्ञानोत्पत्तिनिमित्तत्वेनामृषात्वे साध्ये
तथाभूत एव दृष्टान्तधर्मी न्याय्यः । अन्यथा साध्यविकलता दृष्टान्तस्य स्यात् ।
तथाऽपरः प्रयोगः—यो नित्यवाक्यजनितः प्रत्ययः स यथार्थत्वेन सम्यक्, यथा
वाक्यस्वरूपविषयः, नित्यवाक्यजनितश्चाग्निहोत्रादेः स्वर्गादिसंसिद्धिनिश्चय इति स्व
भावहेतुः । पूर्वं विस्तरेण नित्यत्वस्य प्रतिपादितत्वान्नासिद्धो हेतुः । चोदनेत्यादि
पूर्वमेव व्याख्यातम् । तथाऽपरौ प्रयोगौ—योऽनाप्तायोऽनाप्तप्रणीतवाक्यजनितः प्रत्ययो(य)श्च
देशकालनरावस्थाभेदादौ विसंवादरहितः स प्रमाणम्, यथाऽऽप्तवाक्यजनितः प्र
त्ययः, तथा चायं चोदनावाक्यजनितः प्रत्यय इति स्वभावहेतुः । प्रथमस्य हेतो
र्नासिद्धिः । विस्तरेणापौरुषेयत्वस्य प्रसाधितत्वात् । नापि द्वितीयस्य । यथोक्तम्—
नच स्वर्गकामो यजेतेत्यतो वचनात्संदिग्धमवगम्यते, भवति वा स्वर्गो न वा भव
तीति । नचासंदिग्धमवगम्यमानमिदं मिथ्या स्यात् । यो हि जनित्वा प्रध्वंसते
नैतदेवमिति स मिथ्याप्रत्ययो न चैष कालान्तरे अवस्थान्तरे पुरुषान्तरे वा विप
र्येति तस्मादवितथ
इति । तस्मात्सिद्धमालोकवत्सर्वलोकसाधारणो धर्मादिव्यवस्था
हेतुः स्वत एव प्रमाणं वेद इति । ततश्च चित्तमात्रतादिनयो यो बौद्धादिभिर्वर्ण्यते
सोऽयुक्त इति स्थितम् ॥ २३४६ ॥ २३४७ ॥ २३४८ ॥ २३४९ ॥ २३५० ॥


645

ननु यदि स्वत एव प्रमाणमालोकवत्सर्वसाधारणो वेदः किमिति केचित्तत्र बौ
द्धादयो विप्रतिपद्यन्ते । नहि तान्प्रति तस्याप्रामाण्यं युक्तमित्याशङ्क्याह—तस्मा
दित्यादि ।


तस्मादालोकवद्वेदे सर्वलौकिकचक्षुषि ।

उलूकवत्प्रतीघातः किलान्येषामधर्मजः ॥ २३५१ ॥

यथा किल पटुतरकिरणनिकरप्रोत्सारितसकलतिमिरप्रसरे सवितरि सकलजन
साधारणचक्षुषि च समन्ताद्भात्यपि स्वकर्मापरावा(धा?)नुरूपासंज्ञापटुतरलोचनस्यो
लूकादेर्न रूपमवतरति दर्शनपथम्, एवमधर्मतिमिरोपहतबुद्धिलोचनाः प्रतिहतिमे
वासादयन्ति स्थितेऽपि सकललोकैकचक्षुषि वेदे शाक्यादय इति । किलशब्दोऽरु
चिसूचकः ॥ २३५१ ॥


तामेवाभिव्यनक्ति—सर्वमेतदित्यादि ।


सर्वमेतद्द्विजातीनां मिथ्यामानविजृम्भितम् ।

घुणाक्षरवदापन्नं सूक्तं नैषां हि किञ्चन ॥ २३५२ ॥

घुणाक्षरवदिति । काकतालीयन्यायेनापीत्यर्थः ॥ २३५२ ॥


तत्र यदुक्तं यन्मिथ्यात्वहेतुदोषसंसर्गरहितं तदवितथज्ञानकारणमित्यादि । तदत्र
हेतोस्तावत्सिद्धत्वमभ्युपगम्यानैकान्तिकतामुद्भावयन्नाह—कर्तर्यसत्यपीत्यादि ।


कर्तर्यसत्यपि ह्येषा नैव सत्यार्थतां व्रजेत् ।

तद्धेतुगुणवैकल्याद्दोषाभावे मृषार्थवत् ॥ २३५३ ॥

एषेति ।श्रुतिः । यथा रागादियुक्तो मृषावादी दृष्ट इत्यन्वयव्यतिरेकाभ्यां गिरा
मिथ्यात्वहेतवो दोषा निश्चितास्तथा कृपादिगुणयुक्तः सत्यवाक् दृष्ट इति कृपादयो
गुणाः सत्यत्वहेतव इति । ततश्च कारणनिवृत्त्या मिथ्यात्ववत्सत्यत्वमपि निवर्त्तेत ।
सत्यप्यपौरुषेयत्वे सत्यत्वं न सिद्ध्यत्य(तोऽ)नैकान्तिकता हेतोः ॥ २३५३ ॥


अथ गुणनिवृत्तिः कथं निश्चितेत्याह—गुणाः सन्तीत्यादि ।


गुणाः सन्ति न सन्तीति पौरुषेयेषु शङ्क्यते ।

आनर्थक्यमतः प्राप्तं गुणाशङ्कैव नास्ति नः ॥ २३५४ ॥

यदेव दोषाभावे कारणं भवताऽभ्यधायि तदेव सत्यत्वहेतुगुणाभावेऽपीति दर्श
यति ॥ २३५४ ॥


646

अत इत्यादिनोपसंहृत्य, कारणानुपलब्ध्या सत्यत्वमिथ्यात्वयोरभावप्रसङ्गं
दर्शयति ।


अतः सत्यत्वमिथ्यात्वहेतूनां नच संश्रयात् ।

प्रज्ञादयाऽकृपादीनामभावान्नास्ति तद्द्वयम् ॥ २३५५ ॥

तत्र प्रज्ञादयः सत्यत्वहेतवो मिथ्यात्वहेतवस्त्वकृपादय इति यथाक्रमं सम्बन्धः ।
द्वयमिति । सत्यत्वमिथ्यात्वे ॥ २३५५ ॥


द्वयाभावे सति यत्प्रसज्यते तद्दर्शयति—आनर्थक्यमित्यादि ।


आनर्थ्यक्यमतः प्राप्तं षडपूपादिवाक्यवत् ।

अर्थाश्चेत्सम्प्रतीयन्ते क्रियाकारकयोगिनः ॥ २३५६ ॥

एषा स्यात्पुरुषाख्यानादुर्वशीचरितादिवत् ।

प्रतिपत्तिरतादर्थ्येऽप्यस्य प्रकृतितस्तव ॥ २३५७ ॥

षडपूपा दश दाडिमानीत्याद्युन्मत्तकवाक्यवदानर्थक्यं वेदस्य प्राप्तम् । ननु चान
र्थक्यं वेदस्य साधयतो बौद्धस्य दृष्टबाधा प्रतिज्ञाया भवेत् । तथा ह्यग्निहोत्रात्स्वर्गो
भवतीत्यतो वाक्यादर्थप्रतीतिः प्रत्यक्षमनुभूयते । सा कथमपोह्यत इत्याशङ्क्य परस्य
वचनावकाशं परिहरति—एषेत्यादि । एवं मन्यते—यदि हि स्वातन्त्रेणानर्थक्यं वे
दस्य साध्येत तदा स्यात्प्रतिज्ञाबाधा, यावता प्रसङ्गापादनमेतत्क्रियते । न च तत्र
प्रसङ्गेन प्रतिज्ञाबाधासम्भवः, तत्र प्रतिज्ञायमानस्याभावात् । केवलं परस्यैव व्याप
कधर्मनिवृत्त्यापि व्याप्यनिवृत्तिमनिच्छतोऽनिष्टापत्त्या वचनव्याघातः प्रतिपाद्यते ।
नापि दृष्टबाधा । तथाहि—पुरुषव्याख्यानवशादेषा प्रतीतिर्भवेदनर्थकादपि वेदात् ।
यथा केनचिदग्निहोत्रात्स्वर्गो भवतीत्यादिवेदवाक्यस्य भरतोर्वश्यादिचरितमनेनाभि
धीयत इत्यस्मिन्नर्थेऽनभिज्ञाय व्याख्याते पश्चात्तस्य ततो वाक्यात्तदर्थप्रतीतिर्भवत्येव ।
नच तत्तेनार्थेनार्थवत् । तद्वदियमर्थप्रतीतिः प्रकृत्या निरर्थकादपि वेदाद्भवेदिति कुतो
दृष्टबाधा प्रतिज्ञायाः ॥ २३५६ ॥ २३५७ ॥


किञ्च—भवतु नाम मिथ्यात्वहेतोर्दोषस्यैव निवृत्तिर्न गुणस्य, तथापि हेतोरनै
कान्तिकत्वमनिवार्यमेवेति दर्शयन्नाह—दोषाभावेऽपीत्यादि ।


दोषाभावेऽपि सत्यत्वं न सिद्ध्यत्यन्यभावतः ।

आनर्थक्याख्यमप्यस्ति तस्माद्राश्यन्तरं परम् ॥ २३५८ ॥

647

यदि हि सत्यत्वमिथ्यात्वव्यतिरेकेण शब्दानां राश्यन्तरं न स्यात्, तदैकराश्य
भावे द्वितीयराशिसद्भावो नान्तरीयकः स्यात् । यदा त्वानर्थक्यमपि तृतीयं राश्य
न्तरमस्ति, तदा न मिथ्यात्वनिवृत्त्या सत्यत्वनिश्चयोऽपरस्यापि तृतीयस्यानर्थकस्या
विनिवृत्तेः ॥ २३५८ ॥


अथ सत्यार्थविज्ञानजन्मशक्तः स्वतः स्थितः ।

वेदो नरनिनरः(वा?)निराशंसः सत्यार्थोयमतो मतः ॥ २३५९ ॥

यद्येवं सर्वदा ज्ञानं नैरन्तर्येण तद्भवेत् ।

सदाऽवस्थितहेतुत्वात्तद्यथाभिमते क्षणे ॥ २३६० ॥

एकविज्ञानकाले वा तज्जन्यं सकलं भवेत् ।

शक्तं हेतुतया यद्वत्तद्विज्ञानं विवक्षितम् ॥ २३६१ ॥

स्यादेतत्—यदि वेदे कृपादिगुणहेतुकं सत्यत्वमभ्युपगतं स्यात्तदा गुणानां पुरु
षाश्रितत्वेन पुरुषनिवृत्त्या निवृत्तौ सत्यां मिथ्यात्ववत्सत्यत्वमपि निवर्त्तेत । यावता
स्वतःप्रामाण्याद्वेदस्य प्रकृत्यैव सत्यार्थज्ञानहेतुत्वं नतु पुनर्गुणकृतं तेन नानैकान्ति
कता हेतोः, नाप्यानर्थक्यप्रसङ्गो वेदस्येत्येतत् । परस्योत्तरमाशङ्क्य परिहरन्नाह—
यद्येवमित्यादि । यथैव हि प्रकृत्याऽर्थवत्त्वमस्य वेदस्य तथा मिथ्यात्वमपि सम्भा
व्यत इत्यनैकान्तिकतैव हेतोरित्यभिप्रायः । एतच्च पश्चादभिधास्यति । प्रकृत्या च
ज्ञानहेतुत्वे सर्वदा युगपच्च तद्भाविज्ञानं प्राप्नोत्यविकलकारणत्वादिति कथमानर्थक्या
प्रसङ्गः । प्रयोगः—यदा यदविकलकारणं तत्तदा भवत्येव, यथा—अभिमतक्षणा
वस्थायां अग्निहोत्रादिवाक्यसम्भूतं ज्ञानम्, अविकलकारणं च वेदवाक्यहेतुकं सर्व
ज्ञानं सर्वस्यामवस्थायामिति स्वभावहेतुः ॥ २३५९ ॥ २३६० ॥ २३६१ ॥


युगपज्ज्ञानप्रसङ्गपक्षे च दोषान्तरमाह—ततः परमित्यादि ।


ततः परमतो ज्ञानजन्मशक्तिपरिक्षयात् ।

न नित्यः स्यादयं वेदः शक्तौ वा धीः पुनर्भवेत् ॥ २३६२ ॥

तथाहि—यदि युगपदशेषज्ञानान्युत्पाद्योत्तरकालं ततो ज्ञानोत्पादनशक्तेः परि
हीयते वेदस्तदा शक्तेरात्मभूतायाः परिक्षयात् क्षयी प्राप्नोति । अथ न परिहीयते
तदोत्तरकालं पुनरपि ज्ञानोत्पत्तिप्रसङ्ग इति न कथञ्चिन्नित्यस्यार्थक्रियासामर्थ्यम्
॥ २३६२ ॥


648

अथापीत्यादिना यदविकलकारणमित्यस्य हेतोरसिद्धतामाशङ्कते ।


अथापि सहकारीणि व्याख्यादीनि व्यपेक्षते ।

तेषां च क्रमसद्भावात्तद्विज्ञानं क्रमीष्यते ॥ २३६३ ॥

व्याख्यादीनीत्यादिशब्देन सङ्केतादिपरिग्रहः । तेषां चेति । व्याख्यादीनाम्
॥ २३६३ ॥


नैवमित्यादिना परिहरति ।


नैवं तस्य हि शक्तस्य व्यपेक्षा कीदृशी भवेत् ।

तद्योगात्स समर्थश्चेन्नित्यताशेह का तव ॥ २३६४ ॥

असमर्थो हि परमपेक्षेत ततः समर्थस्वभावोत्पादलिप्सायाम् । यस्तु समर्थस्तस्य
न किञ्चित्स्वभाववैकल्यमस्तीति कीदृशी तस्य व्यपेक्षा । अथ प्रागसमर्थः सहका
रिकारणयोगात्पश्चात्समर्थो भवतीत्यभ्युपेयते, तदा जहतु भवन्तो वेदे नित्यताशाम्
॥ २३६४ ॥


कथमित्याह—प्रागशक्त इत्यादि ।


प्रागशक्तः समर्थश्च यदि तैः क्रियते पुनः ।

प्रसक्तः पौरुषेयोऽयं ज्ञानाङ्गं हि नराश्रयात् ॥ २३६५ ॥

शक्तेरव्यतिरेकादिति भावः । व्यतिरेके तु सम्बन्धासिद्धेर्वेदस्याकारकत्वप्रसङ्गः,
शक्तेरेव कार्योत्पत्तेरिति वाच्यम् । ज्ञानाङ्गमिति । ज्ञानस्याङ्गं यो भवति वेदः स
नराश्रयाज्जातः, वेदस्वरूपं च नराश्रयाज्जातं, तच्च वेदाव्यतिरेकात्, सोऽपि जात
एव ॥ २३६५ ॥


किञ्च—न केवलं परापेक्षायामनित्यत्वप्रसङ्गः, अपौरुषेयत्वकल्पना च व्यर्था
प्राप्नोतीति दर्शयन्नाह—नहीत्यादि ।


नहि तावत्स्थितोऽप्येष ज्ञानं वेदः करोति नः ।

यावन्न पुरुषैरेव दीपभूतैः प्रकाशितः ॥ २३६६ ॥

ततश्चापौरुषेयत्वं भूतार्थज्ञानकारणम् ।

न कल्प्यं ज्ञानमेतद्धि पुंव्याख्यानात्प्रवर्त्तते ॥ २३६७ ॥

सत्यप्येषा निरर्थाऽतो वेदस्यापौरुषेयता ।

यदिष्टं फलमस्या हि ज्ञानं तत्पुरुषाश्रितम् ॥ २३६८ ॥

649

यथार्थज्ञानार्थमस्यापौरुषेयता कल्प्यते । सा च कल्पनाऽपि न पुरुषनिरपेक्षा
तज्ज्ञानोत्पादने समर्थेति व्यर्था तत्कल्पना । पुरुषा एव प्रमाणभूताः प्रणेतारो
यथार्थज्ञानकारणं सन्तु । किमिदानीमपौरुषेयतया सिद्धोपस्थायिन्या ॥ २३६६ ॥
॥ २३६७ ॥ २३६८ ॥


अथ माभूदनित्यत्वप्रसङ्गोऽपौरुषेयत्वकल्पनायाश्च व्यर्थतेति सर्वदैव शक्तो वेदो
ऽभ्युपगम्यते तदा पूर्ववद्दोषप्रसङ्ग इति दर्शयति—शक्तश्चेदित्यादि ।


शक्तश्चेत्सर्वदैवायं तत्किमन्यदपेक्षते ।

शक्तैकहेतुभावे तु ज्ञानं स्यादेव तेन वः ॥ २३६९ ॥

स्यादेतत्—पुरुषापेक्षायां नापौरुषेयता व्यर्थायते । यथावस्थित एवार्थः पुरुषैः
प्रकाश्यते नापूंर्वः क्रियते । अपूर्वकरणे हि स्वातन्त्र्यमेषामभ्युपगतं स्यात् । ततश्च
रागादिभिरुपप्लुता विपरीतार्थां श्रुतिमारचयन्तः केन प्रतिबध्येरन् । तदेतद्व्या
ख्यायामपि पुरुषैः क्रियमाणायां दोषजातं समानमिति दर्शयन्नाह—स्वतन्त्रा इत्यादि ।


स्वतन्त्राः पुरुषाश्चेह वेदे व्याख्यां यथारुचि ।

कुर्वाणाः प्रतिबद्धुं ते शक्यन्ते नैव केनचित् ॥ २३७० ॥

मोहमानादिभिर्दोषैरतोऽमी विप्लुताः श्रुतेः ।

विपरीतामपि व्याख्यां कुर्युरित्यभिशङ्क्यते ॥ २३७१ ॥

अपि च न वेदार्थस्यातीन्द्रियार्थस्य कश्चित्स्वातन्त्र्येण परिज्ञाता नरोऽभ्युपगतो
यो वेदार्थमाख्यास्यति । तथाहि वेदार्थपरिज्ञानद्वारेणातीन्द्रियार्थदर्शित्वमस्य न
स्वातन्त्र्येण, वेदार्थपरिज्ञानं तनो(तु ना ?)तीन्द्रियार्थदर्शित्वमन्तरेणेति व्यक्तमवतरति
नितरामितरेतराश्रयत्वमिति दर्शयन्नाह—नचातीन्द्रियदृगित्यादि ।


नचान्तीन्द्रियदृक्तेषामिष्ट एकोऽपि मानवः ।

स्वर्गयागादिसम्बन्धज्ञानं नैव ह्यचोदनम् ॥ २३७२ ॥

यस्मादतीन्द्रियार्थानां द्रष्टा साक्षान्न चास्ति वः ।

वचनेन हि नित्येन यः पश्यति स पश्यति ॥ २३७३ ॥

अविद्यमाना चोदना अस्येत्यचोदनं ज्ञानम् । चोदनानिरपेक्षमिति यावत् । अत्र
कारणमाह—यस्मादिति । एतदपि कथमित्याह—वचनेनेत्यादि । तदुक्तम् तस्मा
650 दतीन्द्रियार्थानां साक्षात् द्रष्टा न विद्यते । वचनेन तु नित्येन यः पश्यति स
पश्यतीति
 ॥ २३७२ ॥ २३७३ ॥


स्यादेतद्वेद एव स्वयं पुरुषव्यापारमनपेक्ष्यास्मै पुरुषाय स(स्व?)मर्थमावेदयि
ष्यते । तेनेतरेतराश्रयत्वप्रसङ्गो नावतरतीत्याह—वेद इत्यादि ।


वेदो नरं निराशंसो ब्रूतेऽर्थं न सदा स्वतः ।

अन्धात्तयष्टितुल्यां तु पुंव्याख्यां समपेक्षते ॥ २३७४ ॥

नहि प्रथमश्रुतोऽसमयज्ञस्य स्वयं स(स्व?)मर्थमावेदयते वेदः । किन्नाम कुरुत
इत्याह—अन्धात्तेत्यादि । अन्धैरात्ता गृहीता (यष्टिः) तया तुल्येति विग्रहः
॥ २३७४ ॥


अपेक्षतां को दोष इत्याह—स तयेत्यादि ।


स तया कृष्यमाणश्च कुवर्त्मन्यपि सम्पतेत् ।

ततो नालोकवद्वेदश्चक्षुर्भूतश्च युज्यते ॥ २३७५ ॥

स इति । वेदः । तयेति । पुंव्याख्यया । कुवर्त्मन्यपि सम्पतेदिति । विपरी
तार्थप्रकाशनात् । ततश्च यदुक्तम्—तस्मादालोकवद्वेदे सर्वलोकैकचक्षुषि । नैव
विप्रतिपत्तव्यमिति
तदनुपपन्नम् ॥ २३७५ ॥


स्वतन्त्रस्येइत्यादिना प्रकृतमुपसंहरति ।


स्वतन्त्रस्य च विज्ञानजनकत्वे सति स्फुटम् ।

प्रामाण्यमपि नैवास्य सम्भाव्यं पुरुषेक्षणात् ॥ २३७६ ॥

शक्तस्य हि न पुरुषापेक्षया ज्ञानजनकत्वं युक्तमिति प्रतिपादितम् । भवतु नाम
पुरुषापेक्षया शक्तस्यापि ज्ञानजनकत्वं तथापि—पुरुषापेक्षया ज्ञानजनकत्वेऽपि,
प्रामाण्यमस्य स्फुटं न सम्भाव्यमिति पदार्थयोजना । अपिशब्दो भिन्नक्रमः ज्ञान
जनकत्वेसतीत्यस्यानन्तरं द्रष्टव्यः ॥ २३७६ ॥


अस्यैवार्थं व्यक्तीकुर्वन्नाह—यथार्थबोधेत्यादि ।


यथार्थबोधहेतुत्वात्प्रामाण्यं ह्यवकल्पते ।

पुंव्याख्यापेक्षणे चास्य न साध्वी मानकल्पना ॥ २३७७ ॥

न साध्वी मानकल्पनेति । स तया कृष्यमाणश्च कुवर्त्मन्यपि सम्पतेदित्यनेन
पूर्वमसाधुत्वस्य प्रतिपादितत्वात् ॥ २३७७ ॥


651

ततश्च, यदुक्तम्—प्रमाणेऽवस्थिते वेदे शिष्याचार्यपरम्परा । अनादिः कल्प्यमा
नापि निर्दोषत्वाय कल्पते
इति तदयुक्तमिति दर्शयन्नाह—इत्थमित्यादि ।


इत्थं मानेऽस्थिते वेदे शिष्याचार्यपरम्परा ।

अनादिः कल्प्यमानाऽपि नादोषत्वाय युज्यते ॥ २३७८ ॥

अस्थित इत्यकारप्रश्लोषोऽनुद्रष्टव्यः ॥ २३७८ ॥


कथं न युज्यत इत्याह—यस्मादेकोऽपीत् ।


यस्मादेकोऽपि तन्मध्ये नैवातीन्द्रियदृग्मतः ।

अनादिः कल्पिताऽप्येषा तस्मादन्धपरम्परा ॥ २३७९ ॥

यदि नामान्धपरम्परा जाता, ततः किमित्याह—अन्धेनान्ध इत्यादि ।


अन्धेनान्धः समाकृष्टः सम्यग्वर्त्म प्रपद्यते ।

ध्रुवं नैव तथाऽप्यस्या विफलाऽनादिकल्पना ॥ २३८० ॥

यथोक्तं शाबरे भाष्ये— नैवंजातीकेष्वर्थेषु पुरुषवचनं प्रामाण्यमुपैति, अन्धा
नामिव वचनं रूपविशेषेष्वि
ति ॥ २३८० ॥


एवमनादित्वं शिष्यपरम्परया सिद्धमभ्युपगम्य दोष उक्तस्तदपि न सिद्धमिति
दर्शयन्नाह—परत इत्यादि ।


परतो वेदतत्त्वज्ञा मनुव्यासादयोऽपि च ।

तैरेवारचितो नायमर्थ इत्यत्र न प्रमा ॥ २३८१ ॥

न प्रमेति । अत्यन्तपरोक्षत्वात् ॥ २३८१ ॥


स्यादेतत्—नावितथज्ञानहेतुत्वादपौरुषेयत्वेन प्रामाण्यमिष्टम्, किं तर्हि ? सत्या
र्थान्नित्याच्छब्दार्थसम्बन्धमात्रत् । नवा (स चा ?) पौरुषेयतायां सत्यां भवतीति
तदत्राप्यनैकान्तिकमेव । को ह्यत्र नियमे हेतुर्यदपौरुषेयेण सत्यार्थेन भवितव्यमिति ।
भवंतु नाम तथाऽपि दोष एवेति दर्शयन्नाह—


सत्यार्थनित्यसम्बन्धमात्रात्प्रामाण्यमस्तु वा ।

अतीन्द्रियं तु तं योगं नैव कश्चिद्व्यवस्यति ॥ २३८२ ॥

अतीन्द्रिया यतस्तेऽर्थास्तत्स्थो योगोऽप्यतीन्द्रियः ।

अनत्यक्षदृशः सर्वे नराश्चैते स्वतस्सदा ॥ २३८३ ॥

सत्यार्थश्चासौ नित्यसम्बन्धश्चेति विग्रहः । कल्पितो हि नित्यः सम्बन्धः, यद्य
652 सावर्थप्रतीतिहेतुर्न भवेत्तदा व्यर्था तत्कल्पना । नचान्यत्तस्य रूपमन्यत्रार्थप्रतीति
जनकत्वात् । इयानेव हि सम्बन्धस्य व्यापारो यदर्थप्रतीतिजननम्,तदकुर्वाणः
कथं सम्बन्धः स्यात् । नाप्यसौ सत्तामात्रेणार्थप्रतीतिहेतुः किं तर्हि ?, ज्ञातः सन,
अन्यथा ह्यगृहीतसमयस्यापि ततः प्रतीतिर्भवेत्, न चासौ ज्ञातुं केनचिच्छक्यते,
सम्बन्धिनः स्वर्गादेरतीन्द्रियत्वेन तस्याप्यतीन्द्रियत्वात् । अतीन्द्रियार्थदर्शिनस्तर्हि
तं ज्ञास्यन्तीति चेदित्याह—अनत्यक्षदृश इत्यादि । तदुक्तम्— तस्मादतीन्द्रिया
र्थानां साक्षाद्द्रष्टा न विद्यते । वचनेन तु नित्येन यः पश्यति स पश्यति ॥
इति
अनत्यक्षदृशः—अतीन्द्रियार्थादर्शितः ॥ २३८२ ॥ २३८३ ॥


श्रुतिरेव स्वयमावेदयिष्यतीति चेदाह—अयं ममेत्यादि ।


अयं ममार्थसम्बन्ध इत्याह च न सा श्रुतिः ।

नरक्लृप्तोऽर्थयोगस्तु पौरुषेयान्न भिद्यते ॥ २३८४ ॥

न ह्येते भवन्तो ब्राह्मणा ममायमर्थो गृह्यतामित्याहूय प्रवृद्धतरकारुण्यः पुण्यैक
प्रवणचेताः परहितनिरतः सन्वदान्य इव ब्राह्मणेभ्यः स्वयं स्वमर्थमर्पयति वेदपुरुषः ।
तर्हि स्वयमेवोत्प्रेक्षिष्यन्त इत्याह—नरक्लृप्त इत्यादि ॥ २३८४ ॥


तमेवाभेदं दर्शयति—तद्यथेत्यादि ।


तद्यथा पौरुषेयस्य शङ्क्यते विपरीतता ।

नरैरुत्प्रेक्षितस्यापि सा शङ्क्यैव न किं भवेत् ॥ २३८५ ॥

अपि नाम सङ्कीर्णमर्थं जानीयामिति सङ्करहेतुः पुरुषोऽपाकीर्णे यथा पुरुषैः
स्वयं प्रयुक्ताः शब्दाः सङ्कीर्यन्ते (?) तथा तैरुपकल्पितार्था अपीति कोऽत्र विशेषः ।
सेति । विपरीतता । शङ्क्येति । शङ्कनीया ॥ २३८५ ॥


पूर्वमप्रामाण्याद्वेदस्य शिष्याचार्यपरम्पराकल्पना व्यर्थेति प्रतिपादितम्, इदानीं
भवतु नाम नित्यसम्बन्धद्वारेण प्रामाण्यम्, उभयथा शिष्याचार्यपरम्परोपकल्पना
व्यर्थेत्युपदर्शयति—माने स्थितेऽपीत्यादि ।


माने स्थितेऽपि वेदेऽतः शिष्याचार्यपरम्परा ।

अनादिः कल्पिताऽप्येषा संजाताऽन्धपरम्परा ॥ २३८६ ॥

यदुक्तम्—नरैरुत्प्रेक्षितस्यापि सा शङ्कैव न किं भवेत् इति, अत्र परोऽसम्भव
माशङ्काया दर्शयति—नन्वित्यादि ।


653
नन्वारेकादिनिर्मुक्ता स्वर्गादौ जायते मतिः ।

अग्निहोत्रादिवचसो निष्कम्पाध्यक्षबुद्धिवत् ॥ २३८७ ॥

नावलम्बेत तां कुर्वन्कथं वेदः प्रमाणताम् ।

न ह्यतो वचनादर्थं संदिग्धं वेत्ति कश्चन ॥ २३८८ ॥

आरेकः—संशयः । आदिशब्देन विपर्यासो गृह्यते । यथोक्तं भाष्ये शाबरे—
न च स्वर्गकामो यजेतेत्यतो वचनात्संदिग्धमवगम्यन्ते—भवति वा स्वर्गो न वा
भवतीति । न च विनिश्चितमवगम्यमानमिदं मिथ्या स्यात् । यो हि जनित्वा प्रध्वं
सते नैतदेवमिति स मिथ्याप्रत्ययः । न चैष देशान्तरे कालान्तरे विपर्येति । तस्मा
दवितथ
इति । अन्यथा हि प्रत्यक्षं स्फुटत्स्फुलिङ्गप्रकरप्रसरोपरुद्धान्तरालमकृश
कृशानुराशिमनुभवतोऽपि भवतः किमिति संशयदोलाविलोलं मनो न भवेत् ।
ततश्च न किञ्चिदपि ते प्रमाणं स्यादिति परस्याभिप्रायः । प्रयोगः—यः संशयवि
पर्यासरहितः प्रत्ययः स प्रेक्षावतां प्रमाणव्यवहारविषयः, यथा—वह्नावभ्रान्तचे
तसो दाहपाकाद्यर्थिनस्तन्निश्चयहेतुः प्रत्ययः, संशयविपर्यासरहितश्चाग्निहोत्रादिवाक्यो
द्भवः प्रत्यय इति स्वभावहेतुः । नावलम्बेतेति । प्रमाणतामित्यनेन सम्बन्धः ।
तां कुर्वन्निति । मतिम् ॥ २३८७ ॥ २३८८ ॥


नैवमित्यादिना प्रतिविधत्ते ।


नैवं संशयसंजातेर्विपरीतान्यवाक्यवत् ।

प्रेक्षावन्तो हि नैतेषां भेदं पश्यन्ति कञ्चन ॥ २३८९ ॥

नातीन्द्रिये हि युज्येते सदसत्ताविनिश्चयौ ।

निश्चयो वेदवाक्याच्चेदन्यादृग्न किमन्यतः ॥ २३९० ॥

यदि तावत्प्रेक्षावतां संशयादिरहितः प्रत्ययो वेदवाक्याद्भवतीति हेत्वर्थस्तदा
हेतोरसिद्धता । तथाहि प्रेक्षावतामग्निहोत्रात्स्वर्गो न भवतीत्यतो विपरीतान्यवाक्या
दिवाग्निहोत्रात्स्वर्गो भवतीत्यतोऽपि संशयः समान एव, अतीन्द्रियेऽर्थे सदसत्तानिश्चय
कारणाभावादर्थसंवादस्योभयत्राप्यनुपलम्भात् । विपरीतान्यवाक्यवदिति । सप्त
म्यन्ताद्वतिः । अथापि स्याद्वेदवाक्यादेव निश्चयो भवति तत्किमन्येन कारणेन पर्ये
षितेनेत्यत आह—अन्यादृगित्यादि । वेदार्थविपरीतार्थाध्यवसायी निश्चयः ।
न्यत
इति । पौरुषेयात् । किं न भवति—भवत्येवेति यावत् । ततश्च साऽपि प्रमाणं
स्यादुभयोरपि तदानीं बाधाऽनुपलम्भेनाविशेषात् ॥ २३८९ ॥ २३९० ॥


654

अथ प्रेक्षावतां श्रोत्रियाणामकम्प्यो जायते प्रत्यय इत्यतो नासिद्धता हेतोरिति
चेत्, जायतां तथापि यदि नामासिद्धता न भवेत्, अनैकान्तिकता तु दुर्वारेति
दर्शयति—श्रोत्रियाणामित्यादि ।


श्रोत्रियाणां तु निष्कम्पा बुद्धिरेषोपजायते ।

श्रद्धाविवशबुद्धीनां साऽन्येषामन्यतः समा ॥ २३९१ ॥

तथाहि सौगतादीनां धीरकम्पोपजायते ।

अपायादुःखसम्भूतिर्यागात्प्राणिवधान्वितात् ॥ २३९२ ॥

अस्याश्च न धियः काचिद्बाधा सम्प्रति दृश्यते ।

क्वचित्कदाचिच्छङ्क्या चेद्वेदवाक्येऽपि सा समा ॥ २३९३ ॥

सेति । अकम्पा बुद्धिः । अन्येषामिति । बौद्धादीनाम् । अन्यत इति यागा
त्प्राणिवधाश्रितापायदुःखसम्भूतिरित्यतो वाक्यात् । एतदेव दर्शयति—तथा ही
त्यादि । सुबोधम् ॥ २३९१ ॥ २३९२ ॥ २३९३ ॥


भूयोऽप्यनैकान्तिकतामपौरुषेयत्वस्य दर्शयति—नरेच्छेत्यादि ।


नरेच्छाधीनसङ्केतनिरपेक्षो यदि स्वयम् ।

वेदः प्रकाशयेत्स्वार्थं प्रमाणं युज्यते तदा ॥ २३९४ ॥

तदा हि मोहमानादिदोषोपप्लुतबुद्धिभिः ।

अन्यथाऽऽख्यायमानो हि(पि?)निजमर्थं न मुञ्चति ॥ २३९५ ॥

यस्मात्तद्विषयामेव धियमुत्पादयत्यरम् ।

न त्विष्टं पुरुषैरर्थमपरं द्योतयत्ययम् ॥ २३९६ ॥

नरेच्छायास्त्वपेक्षायां पौरुषेयान्न भिद्यते ।

द्योतनं हि तदायत्तं विपर्यस्ताऽपि सा भवेत् ॥ २३९७ ॥

इच्छायाः स्वातन्त्र्यात्तदधीनसङ्केतसापेक्षस्य वेदस्य स्वार्थप्रकाशने नेष्टार्थप्रकाशनं
स्यान्नियमाभावात्, यदा तु तन्निरपेक्षो वेदोऽर्थ बोधयेत्तदा प्रमाणं युज्येत, पुरुष
व्याख्यामनादृत्य क्षिप्रतरं स्वार्थप्रतीतिजननात्, अन्यथा व्याख्यायमानस्यापि
चक्षुरादिवत्प्रकृत्यैव स्वार्थप्रकाशनापरित्यागादिति समुदायार्थः । आख्यायमान इति । व्याख्यायमानः । अरमिति । क्षिप्रम् । झगितीति यावत् । विपर्यस्ताऽपि
से
ति । नरेच्छा ॥ २३९४ ॥ २३९५ ॥ २३९६ ॥ २३९७ ॥


655

भवतु नाम स्वाभाविकोऽर्थसम्बन्धोऽपौरुषेयत्वेन वेदस्य, तथापि नेष्टसिद्धिरित्य
नैकान्तिकतामेव समर्थायमान आह—अपि चेत्यादि ।


अपिचापौरुषेयस्य यथा प्राकृतमिष्यते ।

सत्यार्थत्वमसत्यत्वमेवमाशङ्क्यते न किम् ॥ २३९८ ॥

स्वतः सत्यार्थबोधस्य हेतुत्वात्सत्यताऽस्य हि ।

एवं मिथ्यात्वबोधेऽपि हेतुत्वं शङ्क्यते स्वतः ॥ २३९९ ॥

प्रकृतौ भवं प्राकृतम्—स्वाभाविकमित्यर्थः ॥ २३९८ ॥ २३९९ ॥


प्रमाणभूतपुरुषकृतत्वमेव प्रामाण्यकारणमास्थीयतां वेदस्य किं जाड्यसंसूचकेना
कृतकत्वेनेति दर्शयन्नाह—किं चेत्यादि ।


किंच वेदप्रमाणत्वे निर्बन्धो यदि वो ध्रुवम् ।

निर्दोषकर्तृकत्वादौ तदा यत्नो विधीयताम् ॥ २४०० ॥

निर्दोषेण हि कर्त्राऽयं कृतोऽदोषैः प्रकाशकैः ।

द्योतमानश्च लोकेऽस्मिन्भूतार्थज्ञानसाधनः ॥ २४०१ ॥

निर्दोषकर्तृकत्वादावित्यादिशब्देन व्याख्यातृत्वं गृह्यते ॥ २४०० ॥ २४०१ ॥


अथ निर्दोषैः कृतव्याख्यातस्यापि कथं प्रामाण्यं सिद्ध्यतीत्याह—प्रज्ञाकृपादि
युक्ताना
मित्यादि ।


प्रज्ञाकृपादियुक्तानां तथाहि सुविनिश्चिताः ।

पौरुषेय्योऽपि सद्वाचो यथार्थज्ञानहेतवः ॥ २४०२ ॥

यथोक्तं शबरस्वामिना— यत्तु लौकिकं वचनं तच्चेत्प्रत्यायितात्पुरुषादिन्द्रिय
विषयं वाऽवितथमेव तदि
ति । सद्वाच इति । शोभनाः ॥ २४०२ ॥


पुनरप्यपौरुषेयत्वस्यानैकान्तिकतां प्रतिपादयन्नाह—न नराकृतमित्यादि ।


न नराकृतमित्येव यथार्थज्ञानकारि तु ।

दृष्टा हि दाववह्न्यादेर्मिथ्याज्ञानेऽपि हेतुता ॥ २४०३ ॥

नहि पुरुषदोषोपधानादेवार्थेषु ज्ञानविभ्रमस्तद्रहितानामपि दाववह्न्यादीनां नीलो
त्पलादिषु वितथज्ञानजननात् । दावो वनगतो वह्निः । स पुनर्यः स्वयमेव वेण्वा
दीनां संघर्षसमुद्भूतः स इह व्यभिचारविषयत्वेन द्रष्टव्यः । यस्त्वरणिनिर्मथनादि
पुरुषैर्निवृत्तं तत्रापौरुषेयत्वासम्भवात्ततो न हेतोर्व्यभिचार इति भावः । आदिश
ब्देन मरीच्यादिपरिग्रहः ॥ २४०३ ॥


656

तामेव मिथ्याज्ञानहेतुतां दर्शयति—रक्तमित्यादि ।


रक्तं नीलसरोजं हि वह्न्यालोके सतीष्यते ।

वह्न्यादिः कृतकत्वाच्चेन्न हेतुरुपपद्यते ॥ २४०४ ॥

अथापि स्यान्नापौरुषेयत्वमेव केवलमस्माभिर्हेतुत्वेन वर्णितम् । किं तर्हि ? । अकृ
तकत्वे सतीति विशेषणम् । यद्वा—पौरुषेयग्रहणमकृतकोपलक्षणमतो न दावव
ह्निना कृतकेन व्यभिचार इति मन्यमानस्य परस्योत्तरमाशङ्कयन्नाह—वह्न्यादेरि
त्यादि । तद्धेतुः—मिथ्याज्ञानहेतुः ॥ २४०४ ॥


किं वैकृतकतेत्यादिना परिहरति ।


किं वैकृतकताऽर्थानां मिथ्याज्ञाननिबन्धनम् ।

एवं हि नैव धूमोऽग्नेर्यथावद्द्योतकं भवेत् ॥ २४०५ ॥

तद्विशेषणं भवति यद्विपक्षाद्धेतुं व्यवच्छिनत्ति, अन्यथा हि येन केनचिद्विशेषणेन
हेतौ यद्यैकान्तिकता लभ्येत तदा न कश्चिदनैकान्तिको हेतुः स्यात्, इच्छाप्रतिब
द्धत्वेन सर्वत्र विशेषणस्य सौकर्यात् । नचाकृतकत्वं विशेषणं वेदस्य मिथ्याज्ञान
हेतुतां निवर्त्तयति । तथाहि—यदि कृतकता मिथ्याज्ञानहेतुत्वेन सिद्धा स्यात्तदा
सा निवर्त्तमाना तामपि निवर्त्तयेत् । कदाचित्परो ब्रूयात्सिद्धैवेति,आह—एवं ही
त्यादि । यदि कृतकता मिथ्याज्ञाननिबन्धनं तदा सम्यग्ज्ञानस्याकृतकता हेतुरिति
प्राप्तः । सम्यग् मिथ्याज्ञानयोः परस्परविरुद्धयोरेककारणानुपपत्तेः, नहि वह्नेरुष्णस्पर्श
होतोः शीतहेतुता युक्ता । ततश्च कृतकत्वाद्धूमो वह्नौ यथावत्प्रतीतिहेतुर्न स्यात् २४०५


अथापि स्यान्नैवमधारितं मिथ्याज्ञानस्यैव कृतकता हेतुर्नान्यस्येति । किं तर्हि ? ।
मिथ्याज्ञाने कृतकतैव निबन्धनं नान्यदित्यन्यहेतुकताऽस्य निषिध्यते । न तु सम्यक्
ज्ञानस्य कृतकहेतुकत्वनिषेधः । नच सर्वस्य कृतकस्याविशेषेण मिथ्याज्ञानहेतुत्वमि
ष्टम् । येन परस्परविरुद्धत्वात्सम्यङ्मिथ्याज्ञानयोः सामर्थ्यात्कृतकविपरीतस्य सम्य
ग्ज्ञानहेतुत्वं स्यात् । किन्तु कृतकस्य बहुभिन्नत्वात्किञ्चिदेव मिथ्याज्ञानकारणं यथा
कामलादि, किञ्चित्सम्यग्ज्ञानकारणं यथाऽनुपहेतिन्द्रियादिकलापः । अन्यथा हि
शीतस्पर्शं प्रति हिमादेः कृतकस्य कस्यचित्कारणत्वोपलम्भात्सामर्थ्याच्छीतविरुद्धो
ष्णस्पर्शं प्रत्यकृतको हेतुः कल्पनीयः स्यात् । नचैवम् । तस्मात्कृतकस्य सम्यग्ज्ञानं
प्रति हेतुत्वानिषेधाद्भवत्येव धूमः सम्यग्ज्ञाननिबन्धनमित्येतदाशङ्क्याह—एवं चा
पौरुषेयोऽपी
त्यादि ।


657
एवंचापौरुषेयोऽपि (सम्यग्ज्ञाने)निबन्धनम् ।

वेदः सन्तिष्ठते नैव तद्वृथैवास्य कल्पना ॥ २४०६ ॥

यदि हि सम्यङ्मिथ्यात्वयोरुभयोरपि कृतकता निबन्धनं सा निवर्त्तमाना मिथ्या
सम्यग्ज्ञाने निवर्त्ततीति न वेदस्याकृतकत्वेन सम्यग्ज्ञानहेतुत्वमवतिष्ठेत, तस्य तत्रा
निबन्धनत्वात्, ततश्च व्यर्थं विशेषणमित्यनैकान्तिकतैव हेतोः । अथापि स्यान्नरा
कृततयेत्यनेन नान्वयिव्यतिरेकी यथोक्तो हेतुः संसूचितः, किं तर्हि ?, व्यतिरेकी
प्रयोग एवायम् । यथाहि हेतुविपरीतेन कृतकत्वेन साध्यविपरीतं मिथ्यात्वं व्या
प्तम्, पौरुषेयेष्वेव मिथ्यात्वस्य दर्शनात्, ततश्च यत्र मिथ्यात्वव्यापकविरुद्धमकृत
कत्वं सन्निधीयते, तत्र विरोधेनाकृतकत्वस्य मिथ्यात्वव्यापकस्य निवृत्तौ व्याप्यस्यापि
मिथ्यात्वस्य सामर्थ्यान्निवृत्तिसिद्धिरित्यकृतकं सत्यार्थमिति सामर्थ्याद्भवेद्विनाप्यन्व
येनेति व्यर्थमन्वयप्रदर्शनम् । सत्यमेवमेतत् । यदि विपर्ययस्य यो व्याप्यव्यापक
भावः सिद्ध्येत् । स तु न सिद्ध । तथाहि साध्यविपक्षे हेतौ यदि बाधकं प्रमाणं
स्यात्, तदा भवेद्विपक्षयोर्व्याप्तिः, तच्च नास्ति । नचानुपलम्भमात्रादभावसिद्धिर्व्य
भिचारात् । स्यादेतदकृतकविरुद्धे कृतके मिथ्यात्वस्य दर्शनात्सामर्थ्यादकृतके तस्या
भावः सिद्ध्यतीति । तदेतदसम्यक् । न ह्येकत्र दृष्ट्याऽन्यत्राभावनिश्चयः शक्यते
कर्तुम्, एकस्यापि हि विरुद्धव्यापकदर्शनात् । तथाह्येकमनित्यत्वं विरुद्धौ प्रयत्नान
न्तरीयकेतरौ व्याप्नुवद्दृश्यते । नह्यनीत्यत्वं प्रयत्नानन्तरीयके दृष्टमित्यप्रयत्नानन्तरी
यके तस्याभावः स्यात् । किञ्च—तत्र दृष्टमित्येतावन्मात्रेण यदि मिथ्यात्वं कृतक
त्वेन व्याप्येत सत्यत्वमपि पौरुषेये क्वचिद्दृष्टमिति तदपि तेन व्याप्येत, ततश्च कृत
कत्वनिवृत्तौ मिथ्यात्ववत्सत्यत्वस्यापि निवृत्तेर्नापौरुषेयत्वात्सत्यार्थत्वं सिद्ध्येदित्यलम्
॥ २४०६ ॥


एवं तावद्यन्मिथ्यात्वहेतुदोषसंसर्गरहितमित्यस्य हेतोर्नराकृततयेत्यनेनाक्षिप्तस्या
कृतकस्य वा तदुपलक्षितस्यापौरुषेयत्वस्य वा स्वशब्देनोपात्तस्य विस्तरेणानैकान्ति
कतां प्रतिपाद्य प्र(अ?)सिद्धतां प्रतिपिपादयिषुरुसंहरन्नाह—तत्तश्चेत्यादि ।


ततश्चापौरुषेयत्वव्यक्तिनित्यत्वसाधनम् ।

नित्यशब्दार्थयोगश्च व्यर्थ ए(वोपवर्णि)तः ॥ २४०७ ॥

तस्मिन् सत्यपि नैवास्य यथार्थज्ञानहेतुता ।

उपगम्यत इत्युक्तं व्यासतः समनन्तरम् ॥ २४०८ ॥

658
तेनैवैतत्प्रतिक्षेपे नास्माकं गुरु(रादरः) ।

(अ)प्रस्तुतोपयोगस्य को हि कुर्यान्निषेधनम् ॥ २४०९ ॥

अपौरुषेयत्वं च व्यक्तिश्च नित्यत्वं चेत्यपौरुषेयत्वव्यक्तिनित्यत्वानि, तेषां साध
नमिति समासः । साध्यतेऽनेनेति साधनं हेतुः । तच्च नानाविधं पूर्वमुक्तम् ।
स्मि
न्निति । अपौरुषेयत्वादौ । अस्येति । वेदस्य । उपगम्यत इति । उपपद्यते ।
व्यासत इति । विस्तरेण । एतत्प्रतिक्षेप इति । अपौरुषेयत्वादिदूषणे । सत्यपि
तस्मिन्नाभिमतार्थासिद्धिरिति प्रतिपादितत्वात्क्रियमाणे तद्दूषणे प्रकृतानुपयोगित्वं
स्यात् ॥ २४०७ ॥ २४०८ ॥ २४०९ ॥


एतदेव दर्शयति—यथार्थेत्यादि ।


यथार्थज्ञानहेतुत्वं श्रुतेः प्रकृतमत्र हि ।

न नराकरणेऽप्येतत्सिद्ध्यतीति च साधितम् ॥ २४१० ॥

आहोपुरुषिका येति ।


आ(होपुरु)षिका याऽत्र संक्षिप्तं किंचिदुच्यते ।

विसरन्ति यथाऽनेन गतयः सूक्ष्मधीदृशाम् ॥ २४११ ॥

अहोपुरुष इति यस्याभिमानोऽस्ति सोऽहोपुरुषस्तद्भाव आहोपुरुषिका । मनो
ज्ञादित्वाद्वुञ् । अभिमान एवोच्यते । धीरेव दृक्, साधर्म्याद्दृक्सा, सूक्ष्मा धीदृक्
येषां ते तथोक्ताः ॥ २४११ ॥


यदुक्तं—च पञ्चभिरगम्यत्वादित्यादि, तत्राह—प्रमाणानामित्यादि ।


प्रमाणानां निवृत्त्याऽपि न प्रमेयं निवर्त्तते ।

यस्माद्व्यापकहेतुत्वं तेषां तत्र न विद्यते ॥ २४१२ ॥

अनेनासिद्धतां मौले हेतौ प्रतिपादयति । व्यापको हि स्वभावः कारणं वा निव
र्त्तमानं व्याप्यं कार्यं वा निवर्त्तयति । तादात्म्यतदुत्पत्तिभ्यां तयोस्तत्र प्रतिबद्ध
त्वात् । तदभावेऽपि भवतः कार्यव्याप्यत्वानुपपत्तेः । नतु तेषां प्रमाणानां तत्र
सर्वस्मिन्वस्तुनि व्यापकहेतुत्वे सम्भवतः । तथाहि—देशकालस्वभावा(त्) विप्रकृ
ष्टस्य वस्तुनो विनापि प्रमाणेन सम्भवान्न तेन व्याप्तिः, नापि कारणं प्रमाणमत
एव, प्रमाणस्यैव च प्रमेयकार्यत्वात् । नच कार्यं निवर्त्तमानं कारणमात्रं निवर्त्तयति
व्यभिचारदर्शनात् । नचाहेत्वव्यापकयोर्निर्व(व?)र्तकत्वं युक्तमतिप्रसङ्गात् । तस्मा
त्प्रमाणमात्राभावो व्यभिचारी प्रमेयमात्राभावे साध्य इति स्थितम् ॥ २४१२ ॥


659

तामेव व्यभिचारितां विपक्षे सम्भवोपदर्शनेन व्यक्तीकुर्वन्नाह—तत्पञ्चभिरि
त्यादि ।


तत्पञ्चभिरगम्योऽपि नाभावेनै(वोऽस्या?)व गम्यते ।

कर्त्ता श्रुतेरविज्ञातकर्तृकाख्यायिकादिवत् ॥ २४१३ ॥

तदिति । तस्मात् । पञ्चभिरगम्योऽपीति कर्त्ता श्रुतेरिति व्यवहितेन सम्बन्धः ।
अविज्ञानः कर्त्ता येषामाख्यायिकादीनां ते तथोक्ताः । पश्चादाख्यायिकादिशब्देन
कर्मधारयस्ततः षष्ठ्यन्ताद्वतिः कार्यः ॥ २४१३ ॥


अथापीत्यादिना हेतोर्व्यभिचारविषयासिद्धिमाशङ्कते ।


अथापि सार्थकत्वेन विभक्तार्थतयाऽपि वा ।

तेषां कर्त्ताऽनुमीयेत, श्रुतेरपि तथा न किम् ॥ २४१४ ॥

तेषामिति । आख्यायिकादीनाम् । श्रुतेरपि तथा न किमिति । वेदस्यापि
तथैव सार्थकत्वविभक्तार्थत्वाभ्यां किं न कर्त्ताऽनुमीयते विशेषाभावात् । ततश्च प्रमा
णाभावोऽसिद्धः ॥ २४१४ ॥


किञ्च—सर्वसत्त्वप्रमाणनिवृत्ति(:स्वस्य प्रमाणनिवृत्ति)र्वेति पक्षद्वयम् । तत्राद्ये
पक्षे सन्दिग्धासिद्धता हेतोः, द्वितीयेऽप्यनैकान्तिकतेति दर्शयन्नाह—सर्वसत्त्वेत्यादि ।


सर्वसत्त्वैरगम्यत्वं संदिग्धं तु कदाचन ।

केनचित्कोऽपि मानेन वेत्तीत्यपि हि शङ्क्यते ॥ २४१५ ॥

येन (यन्न ?) त्रिभुवनान्तस्थाः सर्वे प्राणभृतः स्फुटम् ।

सर्वात्मनाऽपरिच्छिन्नाः सुनिश्चेतुमिमं क्षमाः ॥ २४१६ ॥

स्वयं त्वगम्यमानत्वं व्यभिचारि तथाहि ते ।

पुरुषान्तरसंकल्पैस्तदभावो न निश्चितः ॥ २४१७ ॥

इममिति । सर्वसत्त्वैर्न वेदस्य कर्ता ज्ञायत इत्येवम् । तथाहीत्यादिना पुरुषा
न्तरभाविमिश्छात्रादिसङ्कल्पैर्व्यभिचारितामेव समर्थयते ॥ २४१५ ॥ २४१६ ॥
॥ २४१७ ॥


यदुक्तं कर्त्ता तावददृष्ट इति, अस्यासिद्धतां प्रतिपादयन्नाह—अध्येतारश्चेच्यादि ।


अध्येतारश्च वेदानां कर्त्तारोऽध्यक्षतो मताः ।

नहि ते व्यञ्जका युक्ता नित्यानां व्यक्त्यसम्भवात् ॥ २४१८ ॥

660

यदि यः कश्चित्कर्त्ता न दृष्ट इत्यभ्युपगम्यते तदाऽध्येतॄणां दृष्टत्वात्स्फुटतरमव
तरत्यसिद्धता । अथादिकर्त्ता न दृष्ट इतीष्टं तदापि संदिग्धासिद्धतैव । कदाचित्के
नचिद्दृष्टोऽभूदिति सम्भाव्यमानत्वात् । अथापि स्यादध्येतारो न कर्त्तारः सिद्धाः,
किं तर्हि ?, व्यक्तार इत्याह—न हीत्यादि । इति । अध्येतारः । यथा च नि
त्यानां व्यक्तेरसम्भवस्तथा पश्चात्प्रतिपादयिष्यति । अनित्यस्यापि घटादेः कथं व्य
ञ्जक इति चेत् । सत्यम् । तत्रापि न कश्चिद्व्यञ्जकः सम्भवति । कथं तर्हि दीपा
दयो व्यञ्जकत्वेने प्रतीता इति चेत् । न । तत्र हि विज्ञानजनने योग्यं घटं जनय
न्प्रदीपादिर्जनक एव । विशिष्टजनकस्वभावख्यापनाय लोके व्यञ्जक इति प्रतीयते ।
नतु तथा वेदस्य कश्चिद्व्यञ्जकः सम्भवति, अव्यक्तानुत्पन्नपूर्वापरस्वभावत्वात्तस्य
॥ २४१८ ॥


भवतु नाम नित्यस्य व्यञ्जकस्तथाप्यसौ कारकान्न विशिष्यत इति दर्शयन्नाह—
उपलभ्येत्यादि ।


उपलभ्यस्वभावानां तद्व्यापारे समुद्भवः ।

तेषां प्रागपि सद्भावे उपलब्धिः प्रसज्यते ॥ २४१९ ॥

नह्यकिञ्चित्करो व्यञ्जको युक्तोऽतिप्रसङ्गात् । किञ्चित्करत्वे जनकत्वमेवास्या
भ्युपगतं स्यात् । जन्यमानस्य विशेषस्य स्वभावान्तरोत्पत्तिलक्षणत्वात् । उपलभ्य
स्वभावाना
मिति । वेदनाम् । अथापि स्यात्प्रागप्युपलभ्यस्वभावाः वेदाः स्थिता
एव, तत्कथं तद्व्यापारेण सम्भवस्तेषामित्याह—तेषामित्यादि । तेषामिति । उप
लभ्यस्वभावानां वेदानाम् ॥ २४१९ ॥


तत्कार्येत्यादिना प्रमाणयति ।


तत्कार्यव्यवहारादियोग्यो वेदोऽवसीयते ।

तद्व्यापारेऽस्य सद्भावाद्बीजादेरङ्कुरादिवत् ॥ २४२० ॥

प्रयोगः—यो यद्व्यापारे सति भवति स तत्कार्यव्यवहारादियोग्यः, यथा
बीजादिव्यापारे सति भवन्नङ्कुरादिस्तत्कार्यः, अध्येतृव्यापारे सति भवत्युपलभ्यस्व
भावो वेद इति स्वभावहेतुः । हानोपादानलक्षणमनुष्ठानं व्यवहारः । आदिशब्देन
ज्ञानाभिधानपरिग्रहः । नासिद्धो हेतुः, प्रागप्युपलब्धिप्रसङ्गात् । नाप्यनैकान्तिकः,
कार्यव्यवहारस्य निमित्तान्तराभावात् ॥ २४२० ॥


661

यदुक्तमदृष्टपूर्वसम्बन्ध इत्यादि, तत्राह—व्यञ्चनेत्यादि ।


व्यञ्जनक्रमरूपत्वान्नाटकाख्यायिकादिवत् ।

वेदानां पौरुषेयत्वमनुमाऽप्यवगच्छति ॥ २४२१ ॥

प्रयोगः—यद्व्यञ्जनक्रमरूपं तत्पौरुषेयम्, यथा नाटकाख्यायिकादि, व्यञ्जन
क्रमरूपश्च वेद इति स्वभावहेतुः । नासिद्धो हेतुः, क्रमेणैव वर्णानां प्रतिभासनात्
॥ २४२१ ॥


नाप्यनैकान्तिक इति दर्शयन्नाह—अन्यथेत्यादि ।


अन्यथा क्रमरूपत्वं नित्यत्वाद्व्याप्तितश्च न ।

नाभिव्यक्तिक्रमश्चास्ति नित्यत्वे व्यक्त्ययोगतः ॥ २४२२ ॥

अन्यथेति । यदि पौरुषेयत्वं न स्यादपि तु नित्यत्वं विभूत्वं च वर्ण्येत तदा
क्रमो न स्यात् । तथाहि—न तावद्बीजाङ्कुरलतादिवत्कालकृतः क्रमो युज्यते, नि
त्यत्वेन सर्वेषां समकालत्वात् । नापि पिपीलिकादिपङ्क्तिवद्देशकृतः, व्यापित्वेन
सर्वेषामेकनभोदेशावस्थानात् । नाप्यभिव्यक्तिकृतः, अनाधेयातिशयत्वेन नित्यस्य
व्यक्तेरयोगात् ॥ २४२२ ॥


यदुक्तमागमोऽपि न तत्सिद्ध्यै कृतकाकृतकोऽस्तीत्यादि, अत्राह—आगमस्ये
त्यादि ।


आगमस्योपमायाश्च सार्थापत्तेः प्रमाणता ।

निषिद्धा प्राक्ततस्तासामुपन्यासो न युज्यते ॥ २४२३ ॥

निषिद्धेति । प्रमाणपरीक्षायाम् । तासामिति । आगमोपमानार्थापत्तीनाम्
॥ २४२३ ॥


यदुक्तमप्रामाण्यनिवृत्त्यर्थेत्यादि । अत्राह—अप्रामाण्येत्यादि ।


अप्रामाण्यनिवृत्त्यर्था वेदस्यापौरुषेयता ।

येष्टा साऽपिच वस्तुत्वात्साधनीयैव साधनैः ॥ २४२४ ॥

कथं वस्तुत्वं तस्या इत्याह—श्रुतेरित्यादि ।


श्रुतेः स्वतन्त्रतैषादि(तेष्टा हि ?) पुंव्यापारानपेक्षणात् ।

सा च वस्तुगतो धर्मो वस्त्वात्मा वा तथाविधः ॥ २४२५ ॥

अपौरुषेयतेत्यनेन श्रुतेः स्वतन्त्रताऽभिधीयते । पुरुषव्यापारनिरपेक्षा तत एव
662 श्रुतिः प्रमाणमित्यभिसम्बन्धेन प्रयोगात् । अन्यथा हि कोऽतिशयः पौरुषेयत्वनिवृ
त्तिमात्रे प्रतिपादिते प्रतिपादितः स्यात् । सा चापौरुषेयता वस्तुधर्मो येषां धर्मध
र्मिभेदः पारमार्थिकः । परमार्थतस्तु स्वभाव एव वस्तुनो भेदान्तरप्रतिक्षेपजिज्ञासायां
तथोच्यत इति दर्शयति—वस्त्वात्मा वेति । तथाविध इति । स्वतन्त्रः ॥ २४२५ ॥


यदुक्तम्—भावपक्षप्रसिद्ध्यर्थमित्यादि, तत्राह—भावपक्षेत्यादि ।


भावपक्षप्रसिद्ध्यर्थमुच्यते यच्च साधनम् ।

निराकृतेऽपि ते तस्मिन्नाभावः सिद्ध्यति स्वयम् ॥ २४२६ ॥

तद्भावसाधनेऽप्यस्ते न स्यात्तद्भावनिश्चयः ।

तद्भावविनिवृत्तेस्तु तन्मात्रान्नास्ति निश्चयः ॥ २४२७ ॥

निवृत्तावपि मानानामर्थाभावाप्रसिद्धितः ।

तेनैतावद्भवेन्नास्ति पक्षसिद्धिर्द्वयोरपि ॥ २४२८ ॥

यस्य हि वस्तुनो निश्चयाय साधनमुपादीयते तस्मिन्निराकृते तत्र वस्तुनि ततो
निश्चयो न भवतीत्येतावन्मात्रं स्यात्, न वस्तुनोऽपि निवृत्तिः, यतः प्रमाणनिवृत्ता
वपि प्रमेयस्य न निवृत्तिरिति प्रतिपादितम् । तस्य हेतुत्वव्यापकत्वविकल्पात् । अस्त इति । क्षिप्ते । एतावत्तु वक्तुं युक्तं द्वयोरपि पक्षसिद्धिर्नास्तीति । इतिशब्दोऽध्या
हार्यः । स च नास्तीत्यस्यानन्तरं द्रष्टव्यः ॥ २४२६ ॥ २४२७ ॥ २४२८ ॥


एतदेवोदाहरणेन द्रढयन्नाह—नामूर्त्तत्वादिति ।


नामूर्त्तत्वाद्यथा शब्दः सुखादौ व्यभिचारतः ।

इत्युक्तेऽपि न शब्दस्य विनाशित्वं प्रसिद्ध्यति ॥ २४२९ ॥

यथाहि नित्यवादिना शब्दस्य वस्तुभूतं नित्यत्वं सिसाधयिषता नित्यः शब्दो
अमूर्त्तत्वादाकाशवदिति प्रयोगे कृते, प्रतिवादिना नामूर्त्तत्वान्नित्यः शब्दो युक्तः
सुखादिभिरनैकान्तादित्येवं वस्तुभूतनित्यत्वे साधने निराकृतेऽपि नहि शब्दस्यानि
त्यत्वं सिद्ध्यति, तथेदमपीति शेषः । यथेति भिन्नक्रमः । उक्तेऽपीत्यस्यानन्तरं
द्रष्टव्यः । शब्द इत्यस्यानन्तरं नित्यः सिद्ध्यतीत्येतदध्याहार्यम् । एकदेशप्रयोगो वा
भीमादिवद्द्रष्टव्यः ॥ २४२९ ॥


यत्तु पूर्वापरयोरित्यादावाह—तत्पूर्वापरयोरित्यादि ।


तत्पूर्वापरयोः कोट्योर्यदुक्तं साधनं परैः ।

तन्निराकरणेऽप्येतेऽकृतार्था वेदवादिनः ॥ २४३० ॥

663

तदिति । तस्मात् । अकृतार्था इति । स्वपक्षासिद्धेः ॥ २४३० ॥


यदुक्तम्—अकृतत्वाविनाशाभ्यां नित्यत्वं हि विवक्षितमित्यादि । तत्राह—
कृतत्वे
त्यादि ।


अकृतत्वाविनाशाभ्यां नित्यत्वं चेद्विवक्षितम् ।

निषेधमात्ररूपाभ्यां निरुपाख्येऽपि तत्समम् ॥ २४३१ ॥

अतो गगनराजीव नित्यताऽस्ति न वास्तवी ।

यथा तथैव वेदेऽपि तत्प्रामाण्यं न सिद्ध्यति ॥ २४३२ ॥

अत्र द्वयीकल्पना, किं प्रसज्यप्रतिषेधरूपाभ्यामकृतकत्वाविनाशाभ्यां नित्यत्वमि
ष्टम्, पर्युदासरूपाभ्यां वा । तत्राद्ये पक्षे गगनपद्मादिनाऽनैकान्ताद्वेदस्य न वस्तु
भूतनित्यत्वसिद्धिः । तथाह्याकाशकुशेशयस्य कृतकत्वविनाशित्वनिषेधेऽपि न वस्तु
भूतनित्यत्वसिद्धिः । तथा वेदेऽपीत्यनैकान्तिकता हेतोः । ततश्चाकाशकुसुमवदेव
प्रामाण्यमपि न स्यात् ॥ २४३१ ॥ २४३२ ॥


असिद्धतामपि दर्शयन्नाह—कृतकत्वेत्यादि ।


कृतकत्वविनाशित्वनिषेधोऽपि न सिद्ध्यति ।

साधनेऽस्त इति प्रोक्तं तन्नित्यत्वं न सिद्ध्यति ॥ २४३३ ॥

अस्त इति दूषिते । दिति तस्मात् ॥ २४३३ ॥


अथ द्वितीयः पक्षः, न तर्हि वक्तव्यमेतत्—तौ चाभावात्मकत्वेन नापेक्षेते
स्वसाधनमिति । तद्दर्शयति—पर्युदासात्मकाभ्यामित्यादि ।


पर्युदासात्मकाभ्यां चेन्नाभ्यां नित्यत्वमिष्यते ।

तौ तद्भावात्मकत्वेन व्यपेक्षेते स्वसाधनम् ॥ २४३४ ॥

नित्यत्वं वस्तुरूपं यत्तदसाधयतां न तत् ।

स्वयं भवति तत्सिद्धिः पूर्वपक्षद्वये हते ॥ २४३५ ॥

सुबोधम् ॥ २४३४ ॥ २४३५ ॥


यदुक्तं वेदवाक्यार्थमिथ्यात्वं यो वदत्यनुमानत इत्यादि । तत्राह—विनिश्चित
त्रिरूप
मित्यादि ।


विनिश्चितत्रिरूपं च साधनं यत्प्रकाशितम् ।

निषेधः शक्यते तस्य त्वत्पित्राऽपि न जातुचित् ॥ २४३६ ॥

664

प्रकाशितमिति । अनुमानपरीक्षायां स्वभावकार्यानुपलम्भलिङ्गजम् । तन्न
शक्यते प्रतिषेद्धुम्, वस्तुप्रतिबद्धत्वादस्य । नच वस्तुनः स्वभावान्यथात्वं केनचि
त्क्रियेत, स्वभावान्तरोत्पत्तिलक्षणत्वात्तस्य । नच स्वभावान्तरकरणे तस्य किञ्चित्कृतं
भवत्यतिप्रसङ्गात् । तस्माद्यत्प्रमाणसिद्धवस्तु न तस्य केनचिद्बाधा । अन्यथा हि
प्रमाणलक्षणोपपन्नस्य बाधायां तल्लक्षणमेव दूषितं स्यादिति सर्वत्रानाश्वासान्न क्वचि
त्तत्प्रमाणं स्यात् ॥ २४३६ ॥


एतदेव दर्शयति—नहि शीर्यत इत्यादि ।


न हि शीर्यत इत्युक्तो वेदे यः पुरुषोऽस्य च ।

बाधाऽनुमानतः स्पष्टा नैरात्म्ये प्रतिपादिता ॥ २४३७ ॥

जात्याद्यन्यदपि प्रोक्तं बाधितं तत्र साधितम् ।

ज्ञापितप्रतिबन्धा च साऽनुमा प्राक्प्रबाधिका ॥ २४३८ ॥

तथोक्तं वेदे स एवाय मात्मेति प्रकृत्यामनन्ति—अशीर्यो नहि शीर्यत इति । पुनश्चोक्तम्— अविनाशी वा अरेऽयमात्माऽनुच्छित्तिधर्मेति । न शीर्यत
इत्यशीर्यो नित्य इत्यर्थः । अरे इत्यामन्त्रणपदम् । जात्यादीत्यादिशब्देन गुणद्रव्यक
र्मादिपरिग्रहः । तच्च जात्यादि यथा प्रमाणबाधितं तच्च षट्पदार्थपरीक्षायां साधि
तम् । या चात्मनो बाधिकाऽनुमा साऽपि ज्ञापितप्रतिबन्धा नैरात्म्याधिकारे
॥ २४३७ ॥ २४३८ ॥


ननु च वेदे प्र(मी)यमाणं तत्कथमत्र(नु ?)मया बाध्यते, अथ प्रमाणमपि बाध्येत ।
अनुमाऽपि कस्मात्तेन न बाध्यत इत्याशङ्क्याह—तस्या इत्यादि ।


तस्या वस्तुनिबद्धायाः को बाधां मंस्यते जडः ।

शब्दमात्रेण तुच्छेन तद्भाविन्याऽथवा धिया ॥ २४३९ ॥

तस्या इति । अनुमायाः । शब्दस्येच्छामात्रनिबन्धनत्वान्न प्रमेये वस्तुनि प्रतिब
न्धोऽस्तीति न स तत्र प्रमाणम् । अनुमा तु तादात्म्यतदुत्पत्तिप्रतिबद्धलिङ्गबलेनो
त्पद्यमाना तत्र वस्तुनि प्रतिबद्धेति सैव प्रमाणमतो बाधिका । तद्भाविन्येति ।
शब्दभाविन्या ॥ २४३९ ॥


अथाप्रतिबद्धोऽपि वस्तुनि शब्दः प्रमाणं स्यात्तदाऽतिप्रसङ्गः स्यादित्यादर्शयति
पुंवाक्यादपीति ।


665
पुंवाक्यादपि विज्ञानं यत्प्रवृत्तमतीन्द्रिये ।

तस्याप्यध्यक्षतुल्यत्वं कस्मादभिमतं न वः ॥ २४४० ॥

अग्निहोत्रात्स्वर्गो न भवतीत्यस्यापि वाक्यस्य किं न प्रामाण्यं स्यात्, उभयत्रा
प्रतिबद्धत्वेनाविशेषात् ॥ २४४० ॥


तमेवाविशेषं दर्शन्नाह—दृष्टान्तेत्यादि ।


दृष्टान्तनिरपेक्षत्वाद्दोषाभावोऽप्यदृष्टितः ।

तस्याप्यस्त्येव बाधा चेच्छङ्क्यतेऽस्य नराश्रयात् ॥ २४४१ ॥

यद्येवं वैदिकेऽप्येषा न शङ्का विनिवर्त्तते ।

मिथ्यावबोधहेतुत्वं तस्य हि प्राकृतं भवेत् ॥ २४४२ ॥

अथापि स्यात्—यदि नाम तदानीं दोषो नोपलभ्येत तथापि पुरुषाश्रयत्वेन
सम्भाव्यत इति, एतद्वेदेऽपि समानम्, यथा हि तस्य प्राकृतं सत्यार्थत्वं तथा
मिथ्यार्थत्वमपि सम्भाव्येतेति न कश्चिद्विशेषः ॥ २४४१ ॥ २४४२ ॥


यदुक्तं ममाप्रमाणमित्यादि, तदेतत्पौरुषेयेऽप्यग्निहोत्रात्स्वर्गो न भवतीत्यादौ
वाक्ये शक्यमेव वक्तुमित्यादर्शयति—ममाप्रमाणमित्यादि ।


ममाप्रमाणमित्येवं शब्दोऽर्थं बोधयन्नपि ।

नारोऽसौ द्वेषमात्रेण शक्यो वक्तुं न साधुना ॥ २४४३ ॥

अग्निहोत्रात्स्वर्गो न भवतीत्ययं नारः—पौरुषेयशब्दोऽर्थं बोधयन्नपि मम मीमां
सकस्याप्रमाणमित्येवं न साधुना द्वेषमात्रेण शक्यं वक्तुमिति वाक्यार्थः । अनेन
(पौरुषा) पौरुषेययोरत्यन्तपरोक्षेऽर्थे तुल्यं प्रतीतिनिबन्धनत्वमाह । ततश्च तुल्ये
प्रतीतिनिबन्धनत्वे यदपौरुषेयस्यैव प्रामाण्यं तद(नेतर?)स्येति निर्युक्तिकमेतत् ।
नच दोषाणां पुरुषाश्रयत्वात्तत्र मिथ्यात्वं शङ्क्यते नापौरुषेयेष्विति शक्यं वक्तुम् ।
अपौरुषेयेष्वपि मिथ्यार्थप्रत्ययहेतुत्वस्य सम्भाव्यमानत्वात् ॥ २४४३ ॥


एनमेवार्थं दर्शयति—इत्यत्यक्षेष्विति ।


इत्यत्यक्षेषु सर्वोऽपि शब्दस्तुल्यबलाबलः ।

एकत्रैवानुरागोऽयं तद्वः केनेह हेतुना ॥ २४४४ ॥

सर्व इति । पौरुषेयः । एकत्रैवेति । अपौरुषेये ॥ २४४४ ॥


666

यदुक्तं द्विषतोऽपीत्यादि, तत्राह—अनन्तरोदितमित्यादि ।


अनन्तरोदितं न्यायं वेदाप्रामाण्यकारणम् ।

प्राज्ञा जल्पन्ति तेनामी भवेयुः सत्यवादिनः ॥ २४४५ ॥

अनन्तरोदितमिति । शब्दस्येच्छामात्रवृत्तित्वेन वस्तुनि प्रतिबन्धाभावादित्यादि ।
प्राज्ञा इति । सौगताः । यथो(च्चो?)क्तं भाष्यकारेण—प्रत्यक्षस्तु वेदवचने
प्रत्ययो न चानुमानं प्रत्यक्षविरोधेन प्रमाणीभवती
ति, यच्चेदमुक्तं—चोदना हि भूतं
भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवंजातीयकमर्थं शक्नोत्यवगमयितुं
नान्यत्किञ्चिनेन्द्रिय
मित्येवमादि, तत्सर्वम(मे?)तेनैव प्रत्यक्षं ( स्तं? ) भवति ।
पौरुषेयेऽपि वाक्ये सर्वस्यैतस्य समानत्वात् ॥ २४४५ ॥


यदुक्तं धारणाध्ययनव्याख्येत्यादि, तत्राह—मिथ्यानुरागेत्यादि ।


मिथ्यानुरागसंजातवेदाध्यानजडीकृतैः ।

मिथ्यात्वहेतुरज्ञात इति चित्रं न किंचन ॥ २४४६ ॥

नहि मातृविवाहादौ दोषः कश्चिदपीक्ष्यते ।

पारसीकादिभिर्धूर्तैस्तदाचारपरैः सदा ॥ २४४७ ॥

मिथ्यानुरागेण संजातं च तद्वेदाध्यानं चेति समस्य तेन जडीकृता इति पश्चा
त्तृतीयासमासः । आध्यानं चानुपूर्व्येण चिन्ता । मिथ्यानुरागेण हि विद्यमानस्यापि
दोषस्यादर्शनात् । यथा पारसीकादिभिर्मातृविवाहादेरिति न किञ्चिदाश्चर्यम्
॥ २४४६ ॥ २४४७ ॥


यदुक्तं किञ्च शब्दस्य नित्यत्वमित्यादि, तत्राह—प्रत्यक्षेत्यादि ।


प्रत्यक्षप्रत्यभिज्ञा तु प्रागेव विनिवारिता ।

भ्रान्तेः सकल्पनत्वाच्च नातो नित्यत्वनिश्चयः ॥ २४४८ ॥

कल्पनापोढमभ्रान्तमिति हि प्रत्यक्षलक्षणम्, नच प्रत्यभिज्ञानं कल्पनापोढम्,
स एवायमिति शब्दाकारोल्लेखेन प्रवृत्तेः । नाप्यभ्रान्तं पूर्वदृष्टप्रत्युत्पन्नयोरैक्यानु
सन्धानात् । नच यदेव पूर्वदृष्टं तदेव पश्चाद्दृश्यते, अक्रमिणः सकाशात् क्रमिज्ञा
नानुत्पत्तेः । कार्यं हि कुतश्चिद्भवनधर्मि, यत्कदाचिन्न भवति तत्तस्याविकलं चेत्का
रणं किमिति कार्याणि परिलम्बन्ते । नचापि नित्यस्यानुपकार्यतया काचिदपेक्षा
सम्भविनी । तस्मात्तद्भावीनि ज्ञानानि युगपद्भवेयुः । प्रयोगः—यद्यदाऽविकलका
रणं तत्तदा भवत्येव, यथा समवहितसकलचक्षुरादिकारणकलापं चक्षुर्ज्ञानम् । अवि
667 कलकारणानि च सर्वस्यामवस्थायां गवादिशब्दभावीनि विज्ञानानीति स्वभावहेतुः ।
तस्माद्भ्रान्तेः सविकल्पकत्वाच्च प्रत्यभिज्ञा न प्रत्यक्षत्वेन सिद्धेति प्रागेव स्थिरभावप
रीक्षायां प्रतिपादितम् ॥ २४४८ ॥


नचापि स्वरूपतः सर्वंत्र प्रत्यभिज्ञानं सिद्धमित्यादर्शयन्नाह—व्यावर्त्तमानेत्यादि ।


व्यावर्त्तमानरूपश्च भूयसा प्रत्ययो ध्वनौ ।

शुकस्य व्याहृतं चेदं शारिकाया इतीक्षणात् ॥ २४४९ ॥

सोऽयं व्यञ्जकभेदाच्चेद्वक्ष्यामो व्यक्त्यपाक्रियाम् ।

अस्मादेव च ते न्यायात्सर्वमेकमिदं भवेत् ॥ २४५० ॥

ततो न व्यञ्जकं किंचिद्व्य(ङ्ग्यं किञ्चिन्न वा भवेत् ) ।

एकस्मिन्नविभक्ते हि व्याहता भेदकल्पना ॥ २४५१ ॥

पौरुषेया इमे शब्दा एते चानरकर्तृकाः ।

व्यवस्थैषाऽपि वो न स्यात्प्रत्यभिज्ञोपजीविनी ॥ २४५२ ॥

यदाहि शुकसारिकादिभिर्व्याह्रियते शब्दस्तदा—इदं सारिकाया व्याहृतमिदं
शुकस्येति परस्पंरभिन्नविषयाध्यवसायाद्व्यावर्त्तमानः प्रत्ययो भवतीति न सर्वत्र
सिद्धा प्रत्यभिज्ञा । अथापि स्याद्व्यञ्जकभेदादयं शुकादिव्याहारे परस्परव्यावृत्तः प्र
त्ययो जायत इति, एतदपि वार्त्तम्, व्यञ्जकस्य निराकरिष्यमाणत्वात् । एतदेवाह—
सोऽयमित्यादि । सोऽयमिति । व्यावर्त्तमानरूपः प्रत्ययः । किञ्च—यदि सिद्धो
ऽपि भेदः शब्दानां व्यञ्जककृतो व्यवस्थाप्यते, न स्वतः, तदा सर्वत्रानाश्वास इत्य
तिप्रसङ्गमापादयन्नाह—अस्मादेव चेत्यादि । सर्वमिति । विश्वम् । भवत्वेवमिति
चेदाह—ततो नेत्यादि । इदं व्यञ्जकमयं व्यङ्ग्य इति भेदनिबन्धनो व्यवहारो न
स्या(द)भेदात् । तथा—इमे पौरुषेया एते च शंनो देवीरित्यादयोऽपौरुषेया इति व्य
वस्था प्रत्यभिज्ञानपरायणानां भवतां नैव भवेद्विशेषाभावात् ॥ २४४९ ॥ २४५० ॥
॥ २४५१ ॥ २४५२ ॥


केचिदित्यादिना परो वैदिकलौकिकभेदव्यवस्थां दर्शयति ।


(केचिदेक)क्रमा एव व्यञ्जकक्रमसंस्थितेः ।

इष्टा अपौरुषेयास्ते नियतक्रमयोगिनः ॥ २४५३ ॥

व्यञ्जकक्रमस्य संस्थितेर्नियतत्वात्केचिच्छंनो देवीरित्यादयो नियतक्रमा एव प्रती
668 यन्ते, अतस्ते नियतक्रमयोगिनोऽपौरुषेया इष्टाः, तद्विपरीताः सामर्थ्यात्पौरुषेया
इति सिद्धम् ॥ २४५३ ॥


नन्वयमित्यादिना दूषयति ।


नन्वयं पौरुषो धर्मस्ताल्वा(दिव्यञ्जकक्रमः) ।

(तस्मात्कदाचित्तस्यापि सम्भाव्येत)विपर्ययः ॥ २४५४ ॥

नियतक्रमयोगित्वमसिद्धम् । तथाहि—व्यञ्जकक्रमनियमात्तदिष्टं, स च व्यञ्ज
कानां ताल्वादीनां क्रमः पुरुषेच्छायत्तवृत्तित्वादनियतः, पुरुषेच्छायाः स्वातन्त्र्यात् ।
यदाह—यत्र स्वातन्त्र्यमिच्छाया नियमो नाम तत्र क इति । ततश्च शंनो देवीरित्यादेः
सर्वकालमयमेव क्रमोऽभूद्भविष्यतीत्यत्र नियामकप्रमाणाभावात्कदाचिदन्यथाऽपि
सम्भाव्येत क्रमः ॥ २४५४ ॥


यदुक्तं ज्वालादेः क्षणिकत्वेऽपि प्रत्यभिज्ञेत्यादि, तत्राह—तेजस्त्वादीत्यादि ।


तेजस्त्वादि च सामान्यं विस्तरेण निराकृतम् ।

तत्रातः प्रत्यभिज्ञेयं सामान्यं नित्यमेव नः(न?) ॥ २४५५ ॥

सर्वमेतद्वर्णेष्वपि कल्पयितुं शक्यत इति दर्शयन्नाह—वर्णेष्वित्यादि ।


वर्णेषु शक्यते (चेयं प्रत्यभिज्ञा) विनाशिषु ।

सामान्यं प्रत्यभिज्ञेयं मत्वा(तं?) ये वा (षां?)विशेषतः२४५६

भेदबुद्धिस्तु यत्रांशे द्रुतमन्दादिके भवेत् ।

तत्र न प्रत्यभिज्ञानं भवे(.........) ॥ २४५७ ॥

सामान्यमिति । अन्यव्यावृत्तिलक्षणम् ॥ २४५६ ॥ २४५७ ॥


देशकालादिभिन्नाश्च गोशब्दव्यक्तिबुद्धय इत्यादावाह—शब्दैकत्वेत्यादि ।


(शब्दैकत्वप्रसिद्ध्यर्थं)प्रयुक्तेषु तु हेतुषु ।

विजातीयाविरोधित्वात्प्रतिबन्धो न सिद्ध्यति ॥ २४५८ ॥

शब्दैकत्वप्रतिपादनाय ये अनुमानप्रयोगा उक्तास्तेषु सिद्धे विपर्यये हेतोर्बाधक
प्रमाणानुपदर्शनात् सर्वथैवानैकान्तिकता ॥ २४५८ ॥


यदुक्तम्—य ईदृक् स स्थिरो दृष्टो धूमसामान्यभागवदित्यस्य दृष्टान्तस्य साध्य
विकलतामादर्शयन्नाह—धूमसामान्येत्यादि ।


धूमसामान्यभागोऽपि नैव(.........) ।

(...............) सिद्धसाधनम् ॥ २४५९ ॥

669

वस्त्वेव विजातीयपरावृत्तं सामान्यं लिङ्गमुच्यते नान्यत्, तच्चानित्यमेवेति
साध्यविकलता दृष्टान्तस्य ॥ २४५९ ॥


यदुक्तं घटादेरेकतापत्तावित्यादि, तदयं वर्णेष्वपि परिहारः समान इत्यादर्शयति
गादेरित्यादि ।


गादेरप्येकतापत्तौ जात्येष्टं सिद्धसाधनम् ।

अतद्रूपपरावृत्तिरभिन्ना कल्पितैव हि ॥ २४६० ॥

व्यक्तीना(मेकतापत्तावनैकान्तिकता भवेत् ) ।

(प्रति) प्रयोगमाक्षाद्यैर्वर्णभेदविनिश्चयात् ॥ २४६१ ॥

देशकालादिभिन्नाश्चेत्यादिना प्रयोगप्रपञ्चेन यद्यन्यापोहलक्षणस्य सामान्यस्यै
कत्वं साध्यते तदा सिद्धसाध्यता, सर्वत्रातद्रूपव्यावृत्तिलक्षणस्य सामान्यस्यैकबु
द्ध्यध्यवसायवशेनैकत्वस्येष्टत्वात् । अथ व्यक्तीनां स्वलक्षणानामेकत्वं साध्यते तदा
प्रत्यक्षानुमानाभ्यां व्याप्तेर्बाधितत्वादनैकान्तिकता हेतूनाम् । आक्षाद्यैरिति । अक्ष
मिन्द्रियं तत्र भवमाक्षम्, प्रत्यक्षमिति यावत् । आदिशब्देनानुमानपरिग्रहः । बहु
वचनं व्यक्तिभेदापेक्षया ॥ २४६० ॥ २४६१ ॥


कथं प्रत्यक्षतो भेदोऽवगत इत्याह—यन्मनोज्ञेत्यादि ।


यन्मनोज्ञामनोज्ञादिभेदः प्रत्यक्षतो गतः ।

बुद्धीनां क्रमभावित्वाद्भेदः सिद्धः(कुमारिवत् ) ॥ २४६२ ॥

(देशका)लादिभिन्ना हि गोशब्दव्यक्तिबुद्धयः ।

नैकार्था भिन्ननिर्भासाद्रसरूपादिवृद्धिवत् ॥ २४६३ ॥

षड्जादिभेदनिर्भासः प्रत्यक्षेण हि निश्चितः ।

नच व्यञ्जकव.........तदभिधास्यते ॥ २४६४ ॥

अनुकूलो मनोज्ञः । विपर्ययाद्विपर्ययः । अनुमानतोऽपि बाधामाह—बुद्धीना
मित्यादि । अस्यार्थो ह्यस्तनाद्यतना इत्यादिना स्पष्टीकरिष्यते । प्रयोगः—या या
भिन्नावभासा बुद्धयस्ताः सर्वा नैकविषयाः, यथा रसरूपादिविषयाः, भिन्ननिर्भा
साश्च देशकालादिभिन्ना गोशब्दव्यक्तिबुद्धय इति व्यापकविरुद्धोपलब्धिः । अ
सिद्धतामस्य परिहरन्नाह—षड्जादीत्यादि ॥ २४६२ ॥ २४६३ ॥ २४६४ ॥


बुद्धीनां क्रमभावाच्च भेदः सिद्धः कुमारिवदित्यस्यार्थं प्रमाणयन्नाह—ह्यस्तना इत्यादि ।


670
ह्यस्तनाद्यतनाः सर्वे गोशब्दप्रत्यया इमे ।

नैकार्थाः क्रमसम्भूते रूपगन्धादिबुद्धिवत् ॥ २४६५ ॥

प्रयोगः—ये ये क्रमिणः प्रत्ययास्ते नैकविषयाः, तद्यथा रसरूपादिप्रत्ययाः
क्रमिणः, क्रमभाविनश्चेमे ह्यस्तनाद्यतना गोशब्दविषयाः प्रत्यया इति व्यापकवि
रुद्धोपलब्धिः ॥ २४६५ ॥


अन्यथेत्यादिना द्वयोरपि हेत्वोरनैकान्तिकतां परिहरति ।


अन्यथा सर्वबुद्धीनामेकालम्ब(नता भवे)त् ।

क्रमभावविरोधश्च शक्तकारणसन्निधेः ॥ २४६६ ॥

सर्वबुद्धीनामिति । रसरूपादिबुद्धीनाम् । परस्परमभिन्नालम्बनत्वप्रसङ्गो भिन्न
निर्भासादित्येतस्य हेतोर्बाधकं प्रमाणम् । क्रमभावविरोधश्चेत्येतत्तु क्रमसंभूतेरित्येतस्य
॥ २४६६ ॥


यदुक्तं कृत्रिमत्वे च सम्बन्ध इत्यादि, तत्राह—प्रकृत्यैवेत्यादि ।


प्रकृत्यैव पदार्थानामेकप्रत्यवमर्शने ।

भेदेऽपि शक्तिनियमः पुरस्तात्प्रतिपादितः ॥ २४६७ ॥

......प्रत्यवमर्षाच्च शब्दैकत्वादयोऽपि न ।

लोकः प्रयोगभूयस्त्वं शब्दस्यैकस्य मन्यते ॥ २४६८ ॥

अनेकव्यक्तिनिष्ठत्वात्सम्बन्ध उपपद्यते ।

तस्मात्सार्वत्रिको नाके(नैको?)व्यक्तीनां ह्येकतां गतः२४६९

सुबोधम् ॥ २४६७ ॥ २४६८ ॥ २४६९ ॥


अथ कस्माल्लोक इत्युच्यत इत्याह—वस्तुतस्त्वित्यादि ।


वस्तुतस्तु न सम्बन्धः शब्दस्यार्थेन विद्यते ।

भेदात्तस्मादनुत्पत्तेर्भ्रान्तैरारोपितस्ततः ॥ २४७० ॥

तथाहि विस्तरेणैषा प्रागेव प्रतिपादिता ।

शब्दार्थसंस्थितिः सर्वा विप्लुता व्याप्त्यसम्भवात् ॥ २४७१ ॥

भेदादित्यनेन तादात्म्यलक्षणं सम्बन्धं निषेधति । तस्मादनुत्पत्तेरित्यनेन तदु
त्पत्तिलक्षणम् । नचाभ्यामन्यः सम्बन्धोऽस्ति, नच प्रतिबन्धमन्तरेण शब्दस्यार्थप्रति
पादकत्वनियमो युक्तोऽतिप्रसङ्गात् । तस्मादारोपितः शब्दार्थयोः सम्बन्ध इति प्रागे
वान्यापोहचिन्तायां प्रतिपादितम् ॥ २४७० ॥ २४७१ ॥


671

तस्मादकृत्रिमः शब्दः इत्यादिप्रयोगे हेतुदृष्टान्तयोरसिद्धत्वमुद्भावयन्नाह—गोत्वं
नित्यमि
त्यादि ।


गोत्वं नित्यमपास्तं च सम्बन्धोऽपि च कल्पितः ।

अण्वाकाशाद्यपि च क्षिप्तं हेतूदाहरणे न तत् ॥ २४७२ ॥

गोत्वं नित्यमपास्तमित्यनेन नित्यस्यासिद्धतामाह । सम्बन्धोऽपि च कल्पित इत्य
नेनापि सम्बन्धादित्यस्य, अण्वाकाशाद्यपि च क्षिप्तमित्यनेनाकाशपरिमाणुवन्नि(त्य
मि)त्यस्यासिद्धतामाह—अपास्तमिति । प्रतिक्षिप्तं षट्पदार्थपरीक्षायाम् । नेति प्रति
षेधि । तदिति तस्मादर्थे ॥ २४७२ ॥


संमुखानेकसामान्येत्यादावाह—निष्कृष्टेत्यादि ।


निष्कृष्टगोत्ववाचित्वं चिरेण प्रतिपद्यताम् ।

एकरूपतया भ्रान्तैर्जनैरध्यवसायतः ॥ २४७३ ॥

भ्रान्तत्वमस्य कथं सिद्धमित्याह—भावत इत्यादि ।


भावतः क्षणिकत्वात्तु तावत्कालमपि स्थिरः ।

नैवायमिति किं तस्य स्थितिः पश्चादपीष्यते ॥ २४७४ ॥

यथा शस्त्रादिभिश्छेद इत्यादावाह—घटादावपीत्यादि ।


घटादावपि नैवास्ति किंचिन्नाशस्य कारणम् ।

इतीदमपि निर्दिष्टं तत्क्व शब्दे भविष्यति ॥ २४७५ ॥

इतीदमपि निर्दिष्टमिति । स्थिरभावपरीक्षायाम् । विनाशस्याहेतुत्वप्रतिपाद
नेन । यदा घटादावपि नैव नाशकारणमस्तीति क्व शब्दे भविष्यतीति । नाशकार
णमिति व्यवहितेन सम्बन्धः । अनेन च सिद्धसाध्यता वैधर्म्यदृष्टान्तस्य चासिद्ध
तोक्ता भवति ॥ २४७५ ॥


देशकालप्रयोक्तॄणा मित्यादावाह—विप्लव इत्यादि ।


विप्लवे प्रत्यभिज्ञायाः पुरस्तादुपपादितः ।

देशकालप्रयोक्तॄणां भेदाद्धर्मो विभिद्यते ॥ २४७६ ॥

षड्जऋषभगान्धारपञ्चमादिप्रभेदतः ।

प्रत्यक्षतो हि विज्ञाता गव्यक्तिरपरा स्फुटा ॥ २४७७ ॥

नच व्यञ्जकभेदेन युक्तैषा भेदसंस्थितिः ।

व्यक्तिर्नित्येषु नास्तीति पुरस्तादभिधास्यते ॥ २४७८ ॥

672

सुगमम् ॥ २४७६ ॥ २४७७ ॥ २४७८ ॥


गकारोऽत्यन्तेत्यादिके प्रयोगे सिद्धसाध्यतादोषमाह—गकारव्यतिरिक्तं चे- त्यादि ।


गकारव्यतिरिक्तं च सामान्यं गत्वमिष्यते ।

वास्तवं न प्रयोगेऽतो दुर्वारा सिद्धसाध्यता ॥ २४७९ ॥

इष्यत इति । नेति वक्ष्यमाणेन सम्बन्धः ॥ २४७९ ॥


अन्यापोहात्मकस्यापि न गत्वस्य समाश्रयः ।

इत्थमेवेति चेन्नैवमाश्रयासिद्धताप्तितः ॥ २४८० ॥

अगकारपरावृत्तगवर्णाभावतो भवेत् ।

गान्यबुद्ध्यनिरूप्यत्वं कस्य धर्मो हि धर्मिणः ॥ २४८१ ॥

अथापि स्यात्—अन्यापोहात्मकस्यापि गत्वस्याश्रयो न भवतीति, इत्यमनेन
प्रकारेण साध्यते, तेन सिद्धसाध्यता न भवति, नह्यन्यापोहाधारो गकारादिर्भवतो
नेष्ट इति पूर्वपक्षं प्रतिक्षिपति । एवं हि साध्यमाने हेतोरसिद्धिता प्राप्नोति । तथाहि
—न ह्यन्यापोहो नामान्य एव कश्चिदन्यत्र व्यावृत्तात्पदार्थात् । किं तर्हि ? । तदेव
गकारादिव्यक्तिरूपं विजातीयव्यावृत्तिभेदान्तरप्रतिक्षेपेण तन्मात्रजिज्ञासायामन्य
व्यावृत्तिरन्यापोह इत्यादिभिः पर्यायैः कथ्यते । तस्य तु धर्मिस्वरूपस्याभावे साध्ये
गान्यबुद्ध्यनिरूपणादित्ययं हेतुः कस्य धर्मिणो धर्मो भवेत्, नैव कस्यचित्
॥ २४८० ॥ २४८१ ॥


यश्च परकल्पितगत्ववदिति दृष्टान्तः सोऽपि धर्म्यसिद्ध इति दर्शयन्नाह—वा
स्तवी
त्यादि ।


वास्तवी चानुमा सर्वा द्वयसिद्धमपेक्षते ।

दृष्टान्तादि ततस्तेन दृष्टान्तो धर्म्यसिद्धिभाक् ॥ २४८२ ॥

दृष्टान्तादीत्यादिशब्देन हेत्वादिपरिग्रहः ॥ २४८२ ॥


किञ्च—अनुक्तोऽपि वादिना य एवेच्छया विषयीकृतः स एवायं इष्यते ।
न चापि भवता गत्वमात्रं सिसाधयिषितम् । किं तर्हि ? । अनेनोपायेन गकारास्यै
कत्वं प्रतिपादयितुमिष्टम् । अस्यां च प्रतिज्ञायां प्रत्यक्षादिबाधापूर्वमुक्तेति दर्शय
न्नाह—सर्वश्चायमिति ।


673
सर्वश्चायं प्रयत्नस्ते गकारैकत्वसिद्धये ।

तत्र प्रत्यक्षबाधा च दुर्निवारोदिता तव ॥ २४८३ ॥

अयमिति व्यतिरिक्तगत्वाधारनिषेधः । प्रत्यक्षबाधा चेति । चशब्दादनुमान
बाधापरिग्रहः । उदितेति । यन्मनोज्ञामनोज्ञेत्यादिनोक्ता ॥ २४८३ ॥


यदुक्तं द्वयसिद्धस्त्वित्यादि, तत्राह—ह्यस्तनेत्यादि ।


ह्यस्तनाद्यतनाद्याश्च गवर्णप्रत्यया इमे ।

क्रमभावेन नैकार्था रसरूपादिबुद्धिवत् ॥ २४८४ ॥

अतो न द्वयसिद्धोऽयमेको वर्णः सदा स्थितः ।

अदोषं(अपोह?)कल्पितस्यैव नित्यत्वं त्वस्य कल्पितम् २४८५

उदिता इत्यत्रापि लिङ्गविभक्तिपरिणामेन सम्बन्ध्यते । ततः प्रत्यक्षानुमानाभ्यां
शब्दभेदस्य प्रतिषिद्धत्वान्नैको द्वयसिद्धो वर्णात्माऽस्तीति कल्पितस्यैवान्यापोहस्य
नित्यत्वं कल्पितम्, तुल्यप्रत्यवमर्शप्रत्ययेनैकत्वाध्यवसायात् ॥ २४८४ ॥ २४८५ ॥


यदुक्तं नादेन संस्कृतादित्यादि, तत्राह—शब्दोपलम्भवेलायामित्यादि ।


शब्दोपलम्भवेलायां कर्णपर्यन्तवर्त्तिनः ।

न वायवोऽवगम्यन्ते श्रोत्रसंस्कारकारिणः ॥ २४८६ ॥

नादेन संस्कृताच्छ्रोत्राद्यदा शब्दः प्रतीयते ।

तदुपश्लेषतस्तस्य बोधोऽध्यक्षेण बाध्यते ॥ २४८७ ॥

यदि हि श्रोत्रसंस्कारकारिणो वायवः केनचित्प्रमाणेन सिद्धाः स्युः तदैवं स्याद्व
क्तुं—नादेन श्रोत्रं संस्क्रियत इति । न चैते सिद्धास्तस्मात् तदुपश्लेषतः—शब्दो
पश्लेषतः तस्य नादस्य बोधोऽध्यक्षमिति कल्पनास्पदमेतत् ॥ २४८६ ॥ २४८७ ॥


यदुक्तं मधुरं तिक्तरूपेणेत्यादि, तत्राह—तिक्तपीतादिरूपेणेत्यादि ।


तिक्तपीतादिरूपेण प्रवृत्तं मधुरादिषु ।

ज्ञानं निर्विषयं यद्वच्छब्दज्ञानं यथा भवेत् ॥ २४८८ ॥

एतेन—यदुक्तं शब्दे बुद्धिस्तु तद्वशादिति तदपास्तम् । नह्यनाकारस्य ज्ञान
स्यान्यो विषयो युक्तोऽतिप्रसङ्गात् ॥ २४८८ ॥


अथापि स्यात्—यदि नाम शब्दो न तस्य ज्ञानस्य विषयः, निर्विषयत्वं तु
तस्य कथमित्याह—द्रुतमध्यादीत्यादि ।


674
द्रुतमध्यादिभेदाद्धि नान्यः शब्दोऽवभासते ।

अतद्रूपे च ताद्रूप्यज्ञानं नाविषयं कथम् ॥ २४८९ ॥

द्रुतमध्यविलम्बिनाऽऽकारेण हि ज्ञानमुपजायते, न च शब्दस्य द्रुताकारः समस्ति,
तस्य नित्यव्यापित्वेनैकरूपत्वात् । न चान्यो द्रुताकारवानर्थः संभवति यः प्रत्य
वभासेत । तस्मादाकारान् (नु?)रूपस्यार्थस्याभावान्निर्विषयत्वमेवास्य ॥ २४८९ ॥


स्यादेतत्—स एव शब्दो द्रुतादिरूपेणान्यथा च भासमानस्तस्यालम्बनं भवि
ष्यति । यथोक्तम्— सर्वत्रालम्बनं बाह्यं देशकालान्यथात्मकः इति, अत्राह—
अन्यथा चेति ।


अन्यथा च तमेवार्थं वेत्तीति व्याहतं वचः ।

अन्याकारस्य संवित्तौ स ह्यर्थो विदितः कथम् ॥ २४९० ॥

निराकारे हि विज्ञाने बाह्याकारः स ते ध्रुवम् ।

बाह्यश्च न तदात्मेति किमसौ विद्यते तथा ॥ २४९१ ॥

साकारज्ञानपक्षेऽपि बाह्याकारानुरूपतः ।

ज्ञाने नर्भाससंभूतावर्थो विदित उच्यते ॥ २४९२ ॥

इह बाह्यानुरूपेण न तु ज्ञानं प्रवर्त्तते ।

तस्मान्निर्विषयं सर्वं भ्रान्तं चित्तमिति स्थितम् ॥ २४९३ ॥

व्याहतमिति । तत्त्वान्यथाकारयोः परस्परपरिहारस्थितलक्षणत्वेनैकत्र धर्मि
ण्ययोगात् । किञ्च—सर्वमेव भ्रान्तं निराकारपक्षे साकारपक्षे च निर्विषयमेवेति
प्रतिपादयन्नाह—निराकारे हीत्यादि । निराकारज्ञानवादिनां हि नीलाद्याकारोऽ
र्थगत एवानुभूयते । न च यथा भ्रान्तज्ञानप्रतिभासी पीतादिस्तथा शङ्खादिरर्थोऽव
स्थित इति स्फुटतरमेवाविषयत्वमस्य । ननु च पीताद्याकारो यदि नार्थगतस्तदा
ऽवश्यं तेन ज्ञानगतेन भवितव्यमन्यथोभयत्राभावे कथमनुभूयेत । ततश्च ज्ञानग
तत्वे कथं निराकारता विज्ञानस्येति वक्तव्यम् । सत्यमेतत् । किन्तु—अभ्युपगम्य
निराकारज्ञानवादिपक्षमेतद्विज्ञानस्य निर्विषयत्वमुच्यते । यस्तु निराकारं ज्ञानमि
च्छति तेनैवात्र परिहारो वाच्यः। साकारज्ञानपक्षेऽप्यर्थसदृशात्माकारानुभवादर्था
नुभवो व्यवस्थाप्यते । नच भ्रान्ते ज्ञानेऽर्थसदृशात्माकारानुभूतिरस्तीत्यविषयमेव ।
नच साकारनिराकाराभ्यामन्यः प्रकारोऽस्ति विषयग्रहणं प्रतीति । तस्मात्सर्वमेव
भ्रान्तं ज्ञानं निर्विषयमिति सिद्धम् ॥ २४९० ॥ २४९१ ॥ २४९२ ॥ २४९३ ॥


675

नचाप्यत्र भ्रान्तिनिमित्तं सम्भवतीति दर्शयन्नाह—नच व्यञ्जकसद्भाव इत्यादि ।


नच व्यञ्जकसद्भावो युक्तो नित्ये विशेषतः ।

तत्संस्कारानुरूपेण नातो भिन्ना धियो ध्वनौ ॥ २४९४ ॥

व्यञ्जकभेदो हि ध्वनौ—शब्दे भेदविभ्रमनिमित्तमुपवर्ण्यते, नच नित्यस्य कस्य
चिद्व्यञ्जकोऽस्ति, तस्य तत्राकिञ्चित्करत्वात, नचाकुर्वन् कञ्चिद्विशेषं तस्य व्यञ्जको
युक्तोऽतिप्रसङ्गात् । एवं हि यत्किञ्चिद्यस्य कस्यचिद्व्यञ्जकं स्यात् । तस्मान्न व्यञ्ज
कसंस्काराद्ध्वनौ—शब्दे भिन्ना बुद्धयो युक्ताः ॥ २४९४ ॥


यदुक्तं यथा घटादेर्दीपादिरभिव्यञ्जक इष्यत इत्यादि, तत्रेदं प्रथमं श्लोकार्थ
मुपक्षिप्यैकेन श्लोकेन द्वितीयादिश्लोकैर्दूषयन्नाह—घटादिग्रहणार्थं हीत्यादि ।


घटादिग्रहणार्थं हि यथा शक्तिंव्यक्तिं नियच्छति ।

नेत्रेन प्रदीपस्तथा श्रोत्रे ध्वनिः शब्दोपलब्धये ॥ २४९५ ॥

श्रोत्रोपलब्धौपलब्धो योग्यश्चेच्छब्दः प्रकृतिसंस्थितः ।

असंस्कृतेऽपि तच्छ्रोत्रे किमर्थं नोपलभ्यते ॥ २४९६ ॥

योग्यकारणसद्भावाद्भवेदेवोपलम्भनम् ।

संस्कृतश्रोत्रसद्भाववेलायामिव तस्य तत् ॥ २४९७ ॥

नोपलब्धौ स योग्यश्चेत्पश्चादपि कथं भवेत् ।

भावे च योग्यतायोगी शब्दो जातोऽपरो भवेत् ॥ २४९८ ॥

अथ पश्चादपि ज्ञानं नैव तद्बलभावि तत् ।

संस्कृतश्रवणादिभ्यस्तस्योत्पादस्तु वर्ण्यते ॥ २४९९ ॥

संस्कृतान्नाम श्रोत्रम्, इदं तु वक्तव्यम्, किन्नु प्रकृत्या शब्दः स्वविषयज्ञानो
त्पत्तौ समर्थ आहोस्विदसमर्थ इति । आद्ये पक्षे श्रोत्रसंस्कारात्प्रागप्युपलब्धिप्र
सङ्गः । एतदेवाह—असंस्कृतेऽपीत्यादि । तस्येति । शब्दस्य । दिति । त
स्मात् । प्रयोगस्तु यदि विकलकारणमित्यादिकः पूर्ववद्वाच्यः, श्रोत्रसंस्कारवैयर्थ्य
प्रसङ्गश्च । अथ द्वितीयपक्षस्तदा श्रोत्रसंस्कारोऽपि शब्दोपलम्भो न प्राप्नोति, सर्वं
दैव शब्दस्यायोग्यत्बात् । ततश्चास्मिन्नपि पक्षे श्रोत्रसंस्कारवैयर्थ्यमेव । प्रयोगः—
यो यदुत्पादनायोग्यावस्थातो न विशिष्यते न स तत्करोति, यथा कोद्रवः शाल्य
676 ङ्कुरम्, न विशिष्यते च संस्कृतेऽपि श्रोत्रे शब्दो ज्ञानोत्पादनायोग्यावस्थात इति
व्यापकानुपलब्धिः । नचायमसिद्धो हेतुरित्यादर्शयति—भाव इति । योग्यतया
सम्बन्धो यस्याऽस्ति स योग्यतायोगी ॥ २४९५ ॥ २४९६ ॥ २४९७ ॥
॥ २४९८ ॥ २४९९ ॥


ननु च यदि हिशब्दो ज्ञानोत्पत्तौ कारणमिष्टः स्यात्तदा तत्र तस्य योग्यायो
ग्यविकल्पोऽवतारं लभेत, यावता श्रोत्रमेव संस्कृतं शब्दोपलब्धौ कारणमिष्यते न
शब्दः, तेन न भवति यथोक्तदोषप्रसङ्ग इत्येतदागूर्य परिहरन्नाह—शब्दस्येत्यादि ।


शब्दस्याग्राह्यतैवं स्यात्तस्मिन्ननुपयोगतः ।

तस्य नैवं रसादिभ्यो विशेषः कश्चनास्ति हि ॥ २५०० ॥

एवं हि रसादिवच्छब्दस्यानुपयोगात्तज्ज्ञानज्ञेयता न प्राप्नोति । प्रयोगः—यो
यत्र ज्ञाने नोपयोगं प्रतिपद्यते न स तज्ज्ञानज्ञेयः, यथा रसादिः श्रोत्रज्ञाने, नोप
युज्यते च शब्दः श्रोत्रज्ञान इति व्यापकविरुद्धोपलब्धिः । नायमनैकान्तिकः, अनु
पकारकस्य ज्ञेयत्वे सति नियमाभावाद्रसादेरपि श्रोत्रविज्ञानविज्ञेयत्वप्रसङ्गात् २५००


ननु च स्वकारणस्य नियामकत्वान्नातिप्रसङ्गो भविष्यति, तथाहि—संस्कृतश्रो
त्रसमनन्तरप्रत्ययादिभ्यः समुत्पद्यमानं शब्दबोधात्मकमेवोत्पद्यते न रसादिबोधा
त्मकम्, कारणशक्तिप्रतिनियमात् । अवश्यं च शब्दस्य हेतुत्वाङ्गीकरणेऽपि कार
णशक्तिप्रतिनियमोऽङ्गीकर्त्तव्यः, तथाहि—तुल्येऽपि सर्वेषां हेतुत्वे कस्माच्छब्दबो
धात्मकमेव भवति शब्दज्ञानं न श्रोत्रादिबोधात्मकमिति चोद्ये हेतुशक्तिप्रतिनियमै
रेवोत्तरं वाच्यमित्येतत्सर्वमालोच्यानैकान्तिकतां परिहरन्नाह—शब्दबोधस्वभावं
वे
त्यादि ।


शब्दबोधस्वभावं वा जनितं नाम तैरिदम् ।

ज्ञानं शब्दनिराशंसैः संस्कृतश्रवणादिभिः ॥ २५०१ ॥

नामेत्यभ्युपगमे । यथा चायं पक्षो न युज्यते तथा पश्चात्— को वा ज्ञान
स्ये
त्यादिना प्रतिपादयिष्यति । संस्कृतश्रवणादिभिरिति । आदिशब्देन समन
न्तरप्रत्ययादिपरिग्रहः ॥ २५०१ ॥


यदि नाम शब्दो न कारणं तथापि दोष एव, तथाहि—किमसौ शब्दः प्रकृत्या
तज्ज्ञानज्ञेयस्वभाव उत नेति पक्षद्वयम्, प्रथमे पक्षे दोषमाह—तज्ज्ञानज्ञेयेत्यादि ।


677
तज्ज्ञानज्ञेयरूपो यं ययाऽपि त्वनुवर्त्तते ।

शब्द इत्यनुवृत्तिः स्याद्विज्ञानस्यापि तस्य ते ॥ २५०२ ॥

अन्यथा ह्यनुवृत्तं न ज्ञानं स त्वनुवर्त्तते ।

तज्ज्ञेयः शब्द इत्येवं परा स्याद्व्याहतिस्तव ॥ २५०३ ॥

ज्ञानज्ञेयस्वभावौ तौ बद्धौ शृङखलयेव हि ।

एकभावे द्वितीयस्य प्राप्तिरव्यभिचारतः ॥ २५०४ ॥

यदि तज्ज्ञानज्ञेयस्वभावः शब्दः स्यात्तदा सर्वकालं शब्दरूपवत्तद्विज्ञानस्यापि
नित्यत्वं स्यात्, तद्विज्ञेयस्वभावानुवृत्तेः । नहि देवदत्तस्य दण्डसम्बन्धस्वभावानु
वृत्तौ न दण्डस्यानुवृत्तिर्भवेत् । बद्धौ शृङ्खलयेव हीति । हिशब्दो यस्मादर्थे ।
यस्माज्ज्ञेयज्ञानयोः स्वभावौ शृङ्खलयेव बद्धौ, तस्मादेकस्वभावसद्भावे द्वितीयस्य
प्राप्तिसद्भावः प्राप्नोत्यव्यभिचारादिति सिद्धम् ॥ २५०२ ॥ २५०३ ॥ २५०४ ॥


भवत्वेवं को दोष इत्याह—संस्कृतेत्यादि ।


संस्कृतश्रवणोत्पाद्यज्ञानसम्बद्ध एव हि ।

श्रोत्रासंस्करणेऽपीति ज्ञानमाक्षिप्यते स्फुटम् ॥ २५०५ ॥

संस्कृतश्रवणोत्पाद्यज्ञानसम्बद्ध एव हीति । शब्दोऽनुवर्त्तत इत्यध्याहारः ।
यस्मात्संस्कृतश्रवणोत्पाद्येन ज्ञानेन सम्बद्धः शब्दः सर्वदाऽनुवर्त्तते तस्मादसंस्कृत
श्रोत्रस्यापि तद्विज्ञानं प्राप्नोतीति व्यर्थं श्रोत्रसंस्करणम् ॥ २५०५ ॥


द्वितीयेऽपि पक्षे दोषमाह—तज्ज्ञेयेत्यादि ।


तज्ज्ञेयात्मा न शब्दश्चेदतदात्मरसादिवत् ।

न तद्बोधस्वभावं यच्छ्रोत्रज्ञानं तथासति ॥ २५०६ ॥

सुबोधम् ॥ २५०६ ॥


एतच्च सर्वं तदनुपकार्यस्यापि ज्ञानस्य तद्बोधस्वभावत्वमभ्युपगम्योक्तम्, इदानीं
तद्बोधस्वभावत्वमेवासति सम्बन्धे ज्ञानस्यायुक्तमिति प्रतिपादयन्नाह—को वेति ।


को वा ज्ञानस्य सम्बन्धः शब्देन यत इष्यते ।

तच्छब्दबोधरूपं हि न तादात्म्यं विभेदतः ॥ २५०७ ॥

नच तस्य तदुत्पत्तिः शब्दस्याजनकत्व(तः) ।

तदुत्पत्तौ तु नियमात्सा सदाभाविनी भवेत् ॥ २५०८ ॥

678
एवं तद्विषयं ज्ञानं सदोत्पद्येत वा नवा ।

इत्येकान्ते स्थिते व्यर्था श्रोत्रसंस्कारकल्पना ॥ २५०९ ॥

द्विविध एव हि वस्तूनां प्रतिबन्धस्तादात्म्यं तदुत्पत्तिश्च अन्यत्रोपकाराभावात् ।
नचानुपकार्योपकारकयोः सम्बन्धो युक्तोऽतिप्रसङ्गात् । स च द्विविधोऽपि प्रति
बन्धो नास्ति शब्दज्ञानयोरिति कथं तद्बोधस्वभावज्ञानमसति प्रतिबन्धे भवेत् ।
अन्यथा ह्यतिप्रसङ्गः स्यात् । अथापि स्यात्तदाकारोत्पत्त्या तद्बोधस्वरूपं तज्ज्ञानं
व्यवस्थाप्यते विनाऽपि प्रतिबन्धेनेति । तदेतदसम्यक् । निराकारज्ञानाभ्युपगमात् ।
नहि मीमांसकैः साकारं ज्ञानमभ्युपगम्यते । भवतु वा तथाप्ययुक्तं शब्दस्य परो
क्षत्वप्रसङ्गात्, एवं हि शब्दपरोक्षत्वमेव स्यान्न प्रत्यक्षत्वं, ततश्च तत्साधकप्रमाणा
भावात्, तदाकारं तद्विज्ञानमित्येतदेव न सिद्ध्येत् । नापि कार्यव्यतिरेकात्तत्सिद्धिः,
तस्य जनकत्वानभ्युपगमात् । स्यादेतत्—यस्यापि साकारवादिनो जनक एव विष
यस्तस्यापि सर्वदैवार्थस्य परोक्षत्वात्कथमर्थाकारत्वं ज्ञानस्यावगमिति । सत्यम् ।
किन्त्वयं तस्योपायो यत्तत्कार्यव्यतिरेकतः कारणान्तरं निश्चितं, तद्विज्ञानस्य नीला
द्याकारभेदकत्वेन निश्चितमन्वयव्यतिरेकाभ्याम् । तथाहि—चक्षुरालोकमनस्काराणां
सर्वविज्ञानेषु तुल्यत्वान्न तत्कृतो ज्ञानस्य नीलादिभेद इति सामर्थ्याद्यत्तत्कारणान्तरं
व्यतिरेकतोऽनुमितं तत्कृतोऽयं भेद इति निश्चीयते । तेन तत्कृतत्वात्तस्यासावाकारो
ज्ञानेन गृहीत इति व्यवस्थाप्यते । न त्वयमपि भवतोऽस्त्युपायस्तस्य कारणत्वान
भ्युपगमात् । स्यादेतत्—चक्षुरादीनामपि सर्वदा परोक्षत्वात्सर्वविज्ञानेष्वविशिष्टत्वं
कथमवसितमिति । सत्यमेवमेतद्विज्ञानवादचिन्तायाम् । स हि विज्ञानवादी स्व
प्नादाविव समनन्तरप्रत्ययकृतमेव विज्ञानस्य विशेषं वर्णयति । न बाह्यकृतम् ।
किन्तु सति बाह्येऽर्थे सर्वमेतदुच्यते । अन्यथा हीदमेव चोदनीयं कार्यव्यतिरेकतो
ऽपि कथं बाह्यसिद्धिः स्यादिति कारणमात्रास्तित्वं सिद्ध्येन्न तु बाह्यम्, तत्तु कारणं
स्वप्नादाविवान्तरमपि सम्भाव्यमित्यलं प्रसङ्गेन । अथापि जनकत्वमभ्युपगम्यते
शब्दस्य तथापि दोष इति दर्शयन्नाह—तदुत्पत्तावित्यादि । सेति । तदुत्पत्तिः ।
एवमित्यादिनोपसंहरति । नवेत्यजनकत्वपक्षे । इत्येकान्त इति । नित्यं ज्ञानस्य
सदसत्तालक्षणे ॥ २५०७ ॥ २५०८ ॥ २५०९ ॥


एवं तावच्छ्रोत्रस्य संस्कारमभ्युपगम्य विषयस्य जनकाजनकस्वभावचिन्तया
679 श्रोत्रसंस्कारवैयर्थ्यमुक्तम्, इदानीं श्रोत्रसंस्कार एव न सम्भवतीति प्रतिपादयन्नाह
कादाचित्के हीत्यादि ।


कादाचित्के हि संस्कारे सत्येव ज्ञानसम्भवः ।

कादाचिदिति शोभेत संस्कारपरिकल्पना ॥ २५१० ॥

ज्ञानकार्यावसेयश्च संस्कारः शक्तिलक्षणः ।

तच्च ज्ञानं सदाभावि यदि वा भावि सर्वदा ॥ २५११ ॥

कादाचित्कं कथं नाम संस्कारं तस्य सूचयेत् ।

उत्तरं श्रोत्रसंस्कारान्नातः साधु प्रकाशितम् ॥ २५१२ ॥

एवं हि संस्कारकार्यं विज्ञानं कादाचित्कं युज्यते । यदि संस्कारः कादाचित्को
भवेत् । अन्यथा कारणे नित्यमविकले स्थिते तत्कार्यं किमिति कदाचिद्भवेत् । न च
संस्कारः कादाचित्को नित्यस्य श्रोत्रस्य युज्यते इति दर्शयन्नाह—ज्ञानकार्यावसे
यश्चे
त्यादि । तथाहि श्रोत्रादेः संस्कारो ज्ञानकार्येणावसीयमानः शक्त्यात्मक एव
संस्कारो भवेत्, शक्तेरेव कार्यावसेयत्वात्, सा च शक्तिः श्रोत्रस्यात्मभूतैव न
तद्व्यतिरेकिणी, ततः कार्योत्पत्तेः श्रोत्रस्याश्रोत्रस्य कारणत्वप्रसङ्गात् । सम्बन्धासिद्धेश्च
शक्तिसद्भावे तद्भविसद्भाविज्ञानं सदा भवेत् । अथासद्भावस्तदा न कदाचित्तद्भाविज्ञानं
भवेत् । ततश्च कादाचित्कत्वं ज्ञानस्य न स्यात्, तस्मात्कादाचित्कं विज्ञानं कथं
श्रोत्रस्य शक्तिलक्षणं संस्कारं सूचयेत्, नैव ॥ २५१० ॥ २५११ ॥ २५१२ ॥


अथापि सयान्नैव स्वाभाविकी शक्तिर्ज्ञानकार्याऽनुमेया । किं तर्हि ? नादैः श्रोत्र
स्यापूर्वैव कादाचित्की शक्तिराधीयते, सैव ज्ञानानुमेया, तेन कादाचित्कं विज्ञानं
शक्तेः सूचकमुपपद्यत एवेत्याह—शक्तिराधीयत इत्यादि ।


शक्तिराधीयते श्रोत्रे यदि वाऽव्यतिरेकिणी ।

व्योम्नो दिशो वा नित्यत्वं ततो हीयेत जन्मतः ॥ २५१३ ॥

आत्मभूता वा शक्तिराधीयेत, व्यतिरिक्ता वा, व्यतिरिक्ताव्यतिरिक्ता वेति
पक्षत्रयम् । प्रथमे पक्षे शक्तिस्वरूपवदनित्यत्वं श्रोत्रस्योभयात्मकस्यापि प्राप्नोति ।
कुतः ?, जन्मतः—उत्पत्तेः । अथापि स्यान्न श्रोत्रस्य शक्तितोऽनन्यत्वमभ्युपगतम् ।
किं तर्हिं शक्तेरेव श्रोत्रादिति, तदेतत्पश्यत महतो ह्यान्ध्यस्य विलसितम् । कथं हि
नामैकस्य स्वभावस्य संश्लेषे तदैवापरो दूरीभवेत् । परस्परस्वभावानुप्रवेशलक्षणत्वा
680 दभेदस्य । नहि सलिलं पयसो दवीयसि गोचरे वर्त्तमानमनुभवति तत्संश्लेषमिति
यत्किञ्चिदेतत् ॥ २५१३ ॥


भवतु चायं पक्षस्तथापि दोष एवेति दर्शयन्नाह—भावाच्चेत्यादि ।


भावाच्चाव्यतिरिक्तत्वान्नित्यत्वं संस्कृतेरपि ।

(प्राप्नोति, तेन वस्तूनां विज्ञानं सर्वदा भवेत्) ॥ २५१४ ॥

भावस्वरूपवत्संस्कारस्यापि नित्यत्वं प्राप्नोत्यव्यतिरेकात् । ततश्चायमपरो दोष
इत्याह—तेनेत्यादि ॥ २५१४ ॥


द्वितीयेऽपि पक्षे दोषमाह—व्यतिरेके त्वित्यादि ।


व्यतिरेके तु तस्येति सम्बन्धो नोपपद्यते ।

श्रोत्रस्याकारकत्वं च शक्तेर्ज्ञानसमुद्भवात् ॥ २५१५ ॥

शक्तेर्भावाव्द्यतिरेकेऽभ्युपगम्यमाने तस्यासौ शक्तिरिति सम्बन्धो न स्यात् ।
अनुपकार्यस्य पारतन्त्र्यायोगात् । अथ (नच ?) श्रोत्रं शक्तिमुपकरोति, व्यञ्जकस्यैव
नादादेरुपकारकत्वेनेष्टत्वात् । अथ श्रोत्रस्याप्युपकारकत्वं तदा शक्त्युपकारिण्या अपि
शक्तेः श्रोत्राद्व्यतिरेक इत्यनवस्था स्यात् । ततश्च शक्तीनामेव परम्परया घटनाच्छ
क्तेरेव कार्योत्पत्तेः श्रोत्रस्याकारकत्वं स्यात् । ततश्चावस्तुत्वप्रसङ्गः । अथ शक्त्युप
कारिण्याः शक्तेरव्यतिरेकोऽभ्युपगम्यते, क इदानीमाद्यायां शक्तावव्यतिरेके प्र
द्वेषः । किञ्च—नित्यं शक्त्युत्पत्तिप्रसङ्गः, तद्धेतोः श्रोत्रस्य नित्यत्वात्, न चानु
पकार्यस्य सहकार्यपेक्षा काचित् ॥ २५१५ ॥


तृतीयं पक्षमाह—भेदाभेदेत्यादि ।


भेदाभेदविनिर्मुक्तं व्यस्तं पक्षान्तरं ततः ।

उत्तरं श्रोत्रसंस्कारादसंस्कृततयोच्यते ॥ २५१६ ॥

एतेनैव निषेद्धव्या विषयोभयसंस्कृतिः ।

तस्मान्नित्येष्वभिव्यक्तिः सर्वथाऽपि निरास्पदा ॥ २५१७ ॥

ततश्च व्यक्तिमाश्रित्य दीर्घह्रस्वक्रमादयः ।

ये केचित्प्रविभज्यन्ते तेऽपि सर्वे निरास्पदाः ॥ २५१८ ॥

व्यस्तमिति । पुद्गलादिपरीक्षायाम् । एकस्यैकदा विधिप्रतिषेधायोगात् । तथाहि
681 भेदाभेदौ परस्परपरिहारस्थितलक्षणौ, तयोरेकस्वभावव्यवच्छेदेनैवापरस्य परिच्छे
दात्, यस्य हि यदात्मव्यवच्छेदमन्तरेण न स्वभावः परिच्छिद्यते स तत्परिहारेण
स्थितो यथा भावाभावयोरन्यतरः, यौ च परस्परपरिहारस्थितलक्षणौ तयोरेकस्व
भावनिषेधोऽपरविधिनान्तरीयक इत्यन्यत्वनिषेधे सामर्थ्यात्तादात्म्यविधिरिति तदानी
मेव तस्यापि प्रतिषेधो न युक्तः, अन्यत्वस्याप्यप्रतिषेधप्रसङ्गादित्येवमुभयपक्षे दोषो
वाच्यः । एतेनैवेति । प्रकृत्या ज्ञानोत्पादनयोग्यायोग्यस्वभावविकल्पद्वारेण । तस्मा
दित्यादिनोपसंहरति । क्रमादय इत्यादिशब्देन प्लुतोदात्तादिपरिग्रहः ॥ २५१६ ॥
॥ २५१७ ॥ २५१८ ॥


येषां त्वप्राप्तजातोऽयं शब्दः श्रोत्रेण गृह्यत इत्यादावाह—अप्राप्तिमात्रसाम्ये
ऽपी
त्यादि ।


अप्राप्तिमात्रसाम्येऽपि न सर्वस्य ग्रहो यथा ।

अयस्कान्तेन लोहस्य सामर्थ्यनियमस्थितेः ॥ २५१९ ॥

यद्यपि सर्वोऽप्राप्तस्तथाऽपि पदार्थानां शक्तिप्रतिनियमान्न पू्र्वस्य विषयस्य ग्रहः
—ग्रहणं प्राप्नोति । यथा—अयस्कान्तो नामोपलोऽप्राप्तमयः कर्षन्नापि न सर्वमप्राप्तं
कर्षति ॥ २५१९ ॥


अयस्कान्तप्रभेत्यादिना—शङ्करस्वामिमतेन दृष्टान्तासिद्धिमाशङ्कते ।


अयस्कान्तप्रभाप्राप्त्या तत्राप्याकर्षणं यदि ।

ननु प्रभा न दृश्येयं कथमस्तीति गम्यते ॥ २५२० ॥

स हि प्राह । तत्राप्ययस्कान्तमणिप्रभावेधवशादेवाकर्षणमयसोऽन्यथा सर्वदे
शावस्थितानामयसामाकर्षणं स्यात् । यद्यपि तस्य प्रभा प्रदीपप्रभावन्नोपलभ्यते,
तथाऽप्यनुमेया,ध्यवधारे ( अव्यवधानव्यवधाने ? ) दूरे चाकर्षण(णा?)दर्शनादिति । नन्वि
त्यादिना प्रतिविधत्ते । न दृश्येयमित्यनुपलम्भेन सद्व्यवहारनिषेधं करोति ॥ २५२० ॥


यदपि प्रसङ्गसाधनमुक्तं सर्वदेशावस्थितानामयसामाकर्षणप्रसङ्गादिति, तत्परि
हरन्नाह—कस्मादाप्तमित्यादि ।


कस्मादाप्तं न काष्ठादि सा समाकर्षति प्रभा ।

तच्छक्तिनियतत्वाच्चेदप्राप्तावपि तत्समम् ॥ २५२१ ॥

प्राप्रिपक्षेऽपि तुल्यः प्रसङ्गः, कस्मात्साऽयस्कान्तप्रभा सर्वं प्राप्तं काष्ठादिकं
682 नाकर्षतीति । पदार्थस्वभावप्रतिनियमान्नातिप्रसङ्ग इति चेदप्राप्तिपक्षेऽपि पदार्थस्व
भावस्य नियामकत्वं केनापहृतम्, येन तत्र नेष्यते, तस्माददृष्टप्रभाकल्पनं व्यर्थ
मेव ॥ २५२१ ॥


यदुक्तम्—तत्र दूरसमीपस्थग्रहणाग्रहणे समे । स्यातां न च क्रम इति तत्राह
दूरेत्यादि ।


दूरमध्यसमीपस्थैरक्रमेणैवे गम्यते ।

प्रयोगानन्तरं तत्र सर्वेषां ज्ञानजातितः ॥ २५२२ ॥

क्रमग्रहणमसिद्धं शब्दप्रयोगानन्तरं युगपद्विज्ञानोत्पत्तेः ॥ २५२२ ॥


यच्चोक्तम्—नापि तीव्रमन्दादिसम्भव इति, तत्राह—दूरासन्नादीत्यादि ।


दूरासन्नादिभेदेन स्पष्टास्पष्टं यथेक्ष्यते ।

रूपं तथैव शब्देऽपि तीव्रमन्दादिविद्भवेत् ॥ २५२३ ॥

यथा रूपमप्राप्य गृह्यमाणमध्या(व्या ?)पि च स्पष्टास्पष्टस्पष्टमीक्ष्यते तथा शब्देऽप्यध्या
(व्या?)पिन्यप्राप्य गृह्यमाणे च तीव्रमन्दादिवेदना भविष्यति । ननु च परस्य रूप
स्याप्यप्राप्य ग्रहणमसिद्धं तत्कथं दृष्टान्तत्वेनोच्यत इति । नैष दोषः । यद्यपि
परस्य वचनमात्रान्न सिद्धम्, तथापि यत्प्रमाणसिद्धं तदुभयोरपि सिद्धम् । किं पुनः
रत्र प्रमाणम्, सन्निकृष्टविप्रकृष्टयोस्तुल्यकालग्रहणम् । यो हि गतिमान्स सन्निकृ
ष्टमाशु प्राप्नोति, विप्रकृष्टं चिरेण, यथा देवदत्तो ग्रामाद्ग्रामान्तरं गच्छन्, शाखा
चन्द्रमसोस्तु तुल्यकालमुन्मेषसमनन्तरमेव ग्रहणं दृष्टं, तस्मादप्राप्यकारि चक्षुरिति
गम्यते । अत्रोद्योतकरः प्राह—ज्ञानानामाशूत्पत्तेः कालभेदस्याग्रहणान्मिथ्याप्र
त्यय एष उत्पलपत्रशतवेधवदिति । तदेतदसम्यक्, एवं हि सरो रस इत्यादावपि
क्रमव्यवसायो न स्यादाशूत्पत्तेस्तुल्यत्वात्, ततश्च प्रतीतिभेदो न स्यात्, सर्वासां
च बुद्धीनामाशूत्पत्तिरस्तीति न कदाचित्क्रमग्रहणं स्यादिति प्राग् निर्लोडितमेतद्वि
स्तरेण । पुनः स एवाह—यद्यप्राप्यकारि चक्षुर्भवेत्तदा न कु़ट्यादेरावरणस्य साम
र्थ्यमस्तीत्यावरणानुपपत्तिः । यच्च दूरीभूतस्याग्रहणं अन्तिके च ग्रहणं तत्र (न्न ?)
स्यादविशेषात् । स्यादेतत्—य एव हि चक्षुषो विषयीभवत्यर्थः स उपलभ्यते
यश्च न भवति नासावुपलभ्यत इति । तच्च नैवम् । सम्बन्धव्यतिरेकेण विष
यीभावानुपपत्तेः । कोऽयं सम्बन्धव्यतिरेकेण विषयीभावो नाम । केवलं मयोच्यते
683 सम्बन्ध इति भवताऽभिधीयते विषयीभाव इति न कश्चिद्विशेष इति । तदेतदस
म्यक् । कारणीभावो हि विषयीभाव उच्यतेऽस्माभिर्न सम्बन्धः । तथाहि—रूपा
दिर्विषयश्चक्षुषो विज्ञानोत्पत्तौ सहकारीतां प्रतिपद्यमानो विषयीभवतीत्युच्यते, नतु
तेन सहाश्लिष्यन् । द्विविधश्च सहाकारार्थः । परर्स्प(म्प?)रोपकारो वा, यथा—
प्रभावश्च (प्रस?)रादपवरकप्रतिष्ठस्य, एकार्थक्रिया वा, यथोन्मिषतमात्रेण रूपं
गृह्णतः । उभयथापि विज्ञानस्य कारणविशेष एव विषय उच्यते, नतु सम्बन्धी ॥
स एव कारणविशेषप्रतिनियमोऽसति सम्बन्धे न स्यादिति चेत् । न । स्वकारण
शक्तितः प्रतिनियमसिद्धेस्तथाभूत एवासौ स्वकारणादुत्पद्यमान उत्प(पप?)द्यते,
येन कश्चिदेव ज्ञानजनको भवति नान्यः, कारणभेदेन भिन्नस्वभावत्वात्सर्वभावा
नाम् । यथा च भवतस्तुल्येऽपि सम्बन्धे किमिति चक्षु रूपमेवोपलभते न रसम् ।
तेनासम्बन्धान्नोपलभत इति चेत्, स एव हि सम्बन्धः किमिति न स्यात्, देश
स्याभिन्नत्वात् । न ह्यत्र नियामकं किञ्चिदस्ति कारणम्, येनाभिन्नदेशत्वेऽपि रूप
मेवानुसरति चक्षुर्न रसं तद्देशवर्त्तिनमपि, नाप्यतिदूरदेशवर्त्ति रूपमिति । स्वहेतु
र्नियामक इति चेत् । तदेतदप्राप्तिपक्षेऽपि समानमित्यलं विस्तरेण ॥ २५२३ ॥


भिन्नाभानामित्यादिना परस्य चोद्यमाशङ्कते ।


भिन्नाभानां मतीनां चेदेकालम्बनता कथम् ।

तुल्यं रूपधियामेतच्चोद्यं बाह्यार्थवादिनाम् ॥ २५२४ ॥

कथं भिन्नाभानां मतीनामेको विषयो भवेत्, एवं हि रसरूपादिबुद्धीना
मेकालम्बनता स्यादिति परस्याभिप्रायः । परिहारमाह—तुल्यमित्यादि । रूपधियां
—रूपविषयाणामपि बुद्धीनाम, एतच्चोद्यं समानम्—कथमेकविषयता भवेद्दूरास
न्नादिभेदेन स्पष्टादिप्रतिभासानामिति । एतच्च बाह्यार्थवादिनां चोद्यम् । ये विष
यगतमेवाकारं वर्णयन्ति न विज्ञानगतम् ते पुनर्विज्ञानवादिनस्तेषां सर्वमेव विज्ञानं
निर्विषयमात्मसंवेदनं स्पष्टाद्याकारभेदवद्भिन्नमेवोपजायत इति न तेषां चोद्यम् ।
येषामपि बाह्यार्थावादिनां साकारं ज्ञानमिति पक्षस्तेषां सर्वात्मना विषयसारूप्यान
भ्युपगमात्केनचिदंशेन सारूप्याद्भिन्नाभानामपि मतीनामेकविषयत्वमविरुद्धमेवेति
न चोद्यम् ॥ २५२४ ॥


शब्दस्य तर्हि प्राप्तिग्रहणे किं बाधकं प्रमाणं अप्राप्तिग्रहणे च किं साधकमिति
प्रश्ने सत्याह—प्राप्तीत्यादि ।


684
प्राप्तिग्रहणपक्षे तु कर्णाभ्यन्तरपक्षवत् ।

न विच्छिन्न इति ज्ञानं मेघशब्दादिके भवेत् ॥ २५२५ ॥

कर्णाभ्यन्तरपक्षवदिति वैधर्म्यदृष्टान्तः । षष्ठ्यन्ताद्वतिः । यथा कर्णकण्डूविनो
दनकारिणः पतत्रिपक्षस्याविच्छिन्नं शब्दं उपलभ्यते, तथा मेघादिशब्दस्यापि कद
म्बगोलकन्यायेन प्रविसर्पतः कर्णदेशमागतस्यैव ग्रहणात्तुल्यं ग्रहणं प्राप्नोति । न च
स्वकारणसंयोगसमवायिदेशवशादयं विच्छेदविभ्रम इति शक्यं वक्तुम् । तेषां श्रोत्रे
णाग्रहणात् । न ह्यविषयीभूतपदार्थाकारमारोपयदुत्पद्यते क्वचिद्विज्ञानम् । नहि
चक्षुर्विज्ञानं रससारूप्यं समारोपयतीत ॥ २५२५ ॥


तदेवं प्राप्तिग्रहणे बाधकं प्रमाणमभिधायाप्राप्तिग्रहणे साधकमाह—तद्विच्छिन्न इत्याद ।


तद्विच्छिन्न इति ज्ञानजनकत्वाद्यथा मनः ।

श्रोत्रमप्राप्यकारि स्यान्नान्यथैवं त्वगादिवत् ॥ २५२६ ॥

तदिति । तस्मात् । नान्यथैवं त्वगादिवदिति वैधर्म्यदृष्टान्तः । यथा त्वगादेरि
न्द्रियस्य विच्छेदेन ग्रहणं न भवति तथाऽत्रापि स्यादिति यावत् ॥ २५२६ ॥


मनोपीत्यादिना दृष्टान्तस्य साध्यविकलतामाशङ्क्य परिहरति ।


मनोऽपि प्राप्यकारीति ये प्राहुः क्षणमात्रतः ।

विदुरतरदेशस्थं चेतस्तेषां न युज्यते ॥ २५२७ ॥

अत्रोद्योतकरकुमारिलादयः प्रमाणयन्ति—प्राप्यकारिणी चक्षुःश्रोत्रे बाह्ये
न्द्रियत्वात् घ्राणादिवत् । बाह्यग्रहणमन्तःकरणेन मनसा व्यभिचारपरिहारार्थम् ।
तथा करणत्वे सति व्यवहितार्थानुपलम्भकत्वात् घ्राणादिवत् । विषयनिवृत्त्यर्थं
करणत्वे सतीति विशेषणम् । तथा रूपशब्दो प्राप्यकारिबाह्येन्द्रियग्राह्यौ बाह्येन्द्रि
यार्थत्वात्, गन्धरसवत् । तथा रूपशब्दविज्ञाने प्राप्यकारिबाह्येन्द्रियग्राह्यविषया
लम्बने बाह्येन्द्रियार्थालम्बनत्वात, गन्धरसज्ञानवदिति । अत्र दूषणमाह—यत्त्वि
त्यादि ।


यत्तु बाह्येन्द्रियत्वादि प्राप्यकारित्वसाधनम् ।

अन्यधर्मविजातीयाद्विरोधाद्व्यभिचारि तत् ॥ २५२८ ॥

सुबोधम् ॥ २५२८ ॥


685

तस्माच्छ्रोत्रियदृष्टेयमित्यादावाह—व्यस्ता इत्यादि ।


व्यस्ताः पूर्वं च संयोगविभागव्यतिरेकिणः ।

वायोरक्षति(णि?)कत्वाच्च युक्ता नाव्यतिरेकिणः ॥ २५२९ ॥

अतएवाविशेषत्वाद्गतिर्नास्योपपद्यते ।

वेगाभावादतो नासौ यावद्वेगं प्रतिष्ठते ॥ २५३० ॥

पूर्वमिति । षट्पदार्थपरीक्षायाम् । अव्यतिरिक्तास्तर्हि भविष्यन्तीत्याह—वायो
रित्यादि । वायव एव हि संयुक्ता वियुक्ताश्चोत्पद्यमाना अव्यतिरिक्ताः संयोगविभागा
उच्यन्ते । नचाक्षणिकाः क्रमेणापि संयुक्तस्वभावा युज्यन्ते तेषामेकरूपत्वात्
॥ २५२९ ॥ २५३० ॥


यदुक्तम्—कर्णव्योमनि संप्राप्त इत्यादि, तत्राह—कर्णेत्यादि ।


कर्णव्योमनि संप्राप्तः शक्तिं श्रोत्रे करोति चेत् ।

तत्कशाघातवत्कस्माच्छब्दवित्तौ न तद्गतिः ॥ २५३१ ॥

शब्दावधानमेतस्य प्रतिबध्नाति वेदनाम् ।

इत्ययुक्तं कशाघातवातान्तरविदस्तथा ॥ २५३२ ॥

अत्र पक्षद्वयं कदाचिदसौ वायुरुपलभ्यस्वभावो वा भवेत् । अनुपलभ्यस्वभावो
वा । प्रथमे पक्षे शब्दवित्तिकाले कशाघातस्येव वायोरपि गतेरुगतिरूपलब्धिः प्राप्नोति ।
अथापि स्याद्युगपद्विज्ञानद्वयानुत्पत्तेः, शब्दावधानं—शब्दोपलम्भः, एतस्य वायो
र्वेदनामुपलब्धिं प्रतिबध्नातीति । तदेतदयुक्तं शब्दोपलब्धिकाले कशाघातवातान्त
रविदो वक्तुम् । यथाहि वातान्तरस्य व्यजनादिकृतस्य कशाघातस्य च शब्दोपल
म्भवेलायामनुभवो भवेत्तथा कर्णदेशप्राप्तस्यापि वायोः स्पर्शवित्तिः स्यात् । एतेन
युगपद्विज्ञानानुत्पत्तिप्रतिज्ञायाः प्रत्यक्षविरोधमाह ॥ २५३१ ॥ २५३२ ॥


न चाशूत्पत्तिबलाद्युगपद्ग्रहणभ्रान्तिरतिप्रसङ्गादिति प्रतिपादितम् । भवतु नाम
क्रमभागेऽपि लाघवकृतो यौगपद्यविभ्रमस्तथाप्येतदुत्तरमत्र प्रकृतानुपयोगित्वान्न
किञ्चिदिति प्रतिपादयति—लाघवादित्यादि ।


लाघवात्क्रमभावेऽपि युगपद्भ्रान्तिरित्यदः ।

न किंचित्सर्वथाऽप्यस्मिन्वायोरनुपलम्भनात् ॥ २५३३ ॥

यदि नाम विज्ञानस्योत्पत्तिलाघवाद्यौगपद्यविभ्रमो भवतीति, स्यात् । नतु पुन
686 रुपलब्धिलक्षणप्राप्तस्य सर्वथाऽनुपलम्भ एव भवति । तथाह्यत्र सर्वथैव क्रमेण
यौगपद्येन वा वायोः कर्णदेशप्राप्तस्यानुपलम्भ एव तस्माल्लाघवकृतोऽयं विज्ञानो यौ
गपद्यविभ्रम इत्येतदुत्तरं न किञ्चित् । तुच्छमित्यर्थः ॥ २५३३ ॥


अथापीत्यादिना द्वितीयपक्षमाह ।


अथाप्यतीन्द्रियो वायुः काणादैरिव वर्ण्यते ।

युष्माभिरपि तद्भव्य(द्भाष्ये?)स्पृष्ट्याप्तिस्तत्र किंकृता २५३४

काणादाः—वैशोषिकाः । तेषां शब्दलिङ्गो वायुः । भाष्यकृताऽपि शबरेणोक्तम्
वायवीयाः संयोगविभागा अप्रत्यक्षस्य वायोः कर्णशष्कुलीप्रदेशात्प्रादुर्भवन्तो
नोपलभ्यन्त
इति । अत्र दूषणमाह—स्पृष्ट्याप्तिस्तस्य किंकृतेति । स्पृष्टिः
स्पर्शः तस्याप्तिः प्राप्तिः प्रसङ्ग इति यावत् । एतदुक्तं भवति—तस्य वायोः स्पर्श
प्रसङ्गो योऽयं भाष्यकारेण कृतः स कथम्, तथाहि—वायुरापद्यते शब्दतामित्येवं
वादिनः शिक्षाकारन्प्रति भाष्यकृतोक्तम्— वायवीयश्च शब्दो भवेद्वायोः स
न्निवेशविशेषः स्यात् । नच वायवीयानवयवान्शब्दे सतः प्रत्यभिजानीमः । यथा
पटस्य तन्तुमयान् । न चैवं भवति । स्याच्चेदेवं स्पर्शनेनोपलभेमहि । नच वायवी
यानवयवान्शब्दगतान्स्पृशाम
इति ॥ २५३४ ॥


अभ्युपगम्याप्यतीन्द्रियत्वं दोषान्तरमाह—अस्तु वेत्यादि ।


अस्तु वाऽतीन्द्रियो वायुस्तत्तद्योगिगतस्य तु ।

उष्णशीतेतरस्य स्यात्स्प्रष्टव्यस्य विदन्यवत् ॥ २५३५ ॥

तेन तेन वायुना योगस्तत्तद्योगः, स यस्तास्ति जलतेजोजतीसंज्ञकस्य भूतत्र
यस्य तत्तथोक्तम् । तद्गतं तत्प्राप्तं तदाश्रितमिति यावत् । द्वितीयाश्रितेत्यादिना द्विती
यासमासः । एतच्च स्प्रष्टव्यस्येत्यनेन समानाधिकरणम् । तस्य स्प्रष्टव्यस्य शीतोष्णे
तरत्वभावस्य वित्—वेदना प्राप्नोति । अन्यवदिति । शब्दव्यञ्जकाभिमतकोष्ठवा
युगतादन्यस्येव । षष्ठ्यन्ताद्वतिः । यथा शिशिरसमये हिमनिचयव्यासङ्गवाहिनः
पवनस्य, यथा वा तरुणतरणिकरप्रसङ्गावरुद्धाशेषदिग्विभागे वहतो निदाघसमये
समीरणस्य, तथा शीतेतरविरहितकालवर्त्तिनो मातरिश्विनः स्प्रष्टव्यस्य शीतादेः संवि
द्भवति, तथेहापि स्यात् ॥ २५३५ ॥


687

अथापीत्यादिना परस्योत्तरमाशङ्कते ।


अथापि कर्णशष्कुल्या तस्यायोगान्न चेन्मतिः ।

कर्णव्योमनिव्योम न संप्राप्त इत्येतन्नु कथं ग(म?)तम् ॥ २५३६ ॥

तस्माच्छ्रोत्रियदृष्टेयं कल्पना निर्निबन्धना ।

विदुषां प्रीतये नेति श्रोत्रियेष्वेव राजते ॥ २५३७ ॥

तस्येति । वायोः । अयोग इति । असंसर्गः । कर्णशुष्कुल्येति सम्बन्धः । शेषं
सुबोधम् ॥ २५३६ ॥ २५३७ ॥


यदुक्तम—यद्वा वेदानुसारेणेत्यादि, तत्र समानत्वाद्दूषणस्येत्यत्रैवातिदेशं कुर्व
न्नाह—ये निरंशमित्यादि ।


ये निरंशं नभः प्राहुस्तान्प्रति प्रागुदीरिताः ।

दोषो ज्ञेया निरंशैकदिक्छ्रोत्रऽत्वेपि ते समाः ॥ २५३८ ॥

निरंशाकाशात्मकश्रोत्रपक्षे ये प्रागुक्ता दोषाः संस्कारवैयर्थ्यं संस्कारानुपपत्ति
श्चेत्यादयस्ते दिक्छ्रोत्रपक्षेऽपि समाना इति न पृथक् दूषणं वाच्यम् ॥ २५३८ ॥


यदुक्तम्—यद्यपि व्यापि चैकं चेत्यादि, तत्राह—एखव्यापिनभःपक्ष इत्यादि ।


एकव्यापिनभःपक्षे विभागो न प्रकल्प्यते ।

संस्कृताश्रयमन्यच्चेत्येकमेव हि तन्नभः ॥ २५३९ ॥

एकव्योमात्मकं श्रोत्रं नास्त्यसंस्कृतशष्कुलि ।

अतोऽधिष्ठानभेदेन संस्कारनियमोऽस्थितः ॥ २५४० ॥

तेनैकस्मिन्नधिष्ठाने लब्धसंस्कारमिन्द्रियम् ।

बोधकं सर्वदेशेषु विज्ञानोत्पत्तिरिष्यताम् ॥२५४१॥

पुंसां देहप्रदेशेषु विज्ञानोत्पत्तिरिष्यताम् ।

किन्तु प्रधानवैदेश्यमेकत्वान्नभसो न ते ॥ २५४२ ॥

निष्प्रदेशोऽपि चात्मा नः कार्त्स्न्येन च विदन्नपि ।

शरीर एव गृह्णातीत्येवमुक्तेऽपि दुष्यति ॥ २५४३ ॥

बाधिर्याद्यव्यवस्थानमेतेनैव च हेतुना ।

तदेवाभोग्यमन्यस्य नाविशेषाद्धि युज्यते ॥ २५४४ ॥

अन्यच्चेति । असंस्कृताश्रयम् । नह्यनवयवस्यायं विभागो युक्तः, सावयवत्वप्र
688 सङ्गात् । काल्पनिके तु विभागेऽर्थक्रियावृत्त्या(त्त्य?)वृत्तिविरोधः, नह्यारोपितार्था
नुविधायिन्योऽर्थक्रिया भवन्ति, तासां वस्तुप्रतिबद्धत्वात् । ततश्चैकस्मिन्नधिष्ठाने
यदि संस्कृतमिन्द्रियं तच्च बोधकस्वभावं तदाऽधिष्ठानान्तरे तदेव तत्परमार्थत इति
सर्वत्रैव तत्संस्कृतं बोधकं च प्राप्नोति । तेन यदुक्तं पुंसां देहप्रदेशेष्वित्यादि, तत्सर्वं
प्रत्युक्तम, एकस्य पारमार्थिकविभागायोगादिति दर्शयन्नाह—पुंसामित्यादि ।
प्रधानवैदेश्यमिति । प्रधानस्य शरीरस्य वैदेश्यं भिन्नाकाशदेशवर्त्तित्वम् । एवमु
त्त्केऽपि दुष्यती
ती । एकस्य विभागायोगात् । अव्यवस्थानमिति । व्यवस्थाना
भावः ॥ २५३९ ॥ २५४० ॥ २५४१ ॥ २५४२ ॥ २५४३ ॥ २५४४ ॥


अविशेषमेव दर्शयति—अत्यक्तपूर्वरूपं हीत्यादि ।


अत्यक्तपूर्वरूपं हि विशेषानुदये सति ।

कथं नाम भवेच्छ्रोत्रमभोग्यमपरस्य ते ॥ २५४५ ॥

अथापि स्याद्धर्माधर्माभ्यां वशीकृतत्वाद्विशेषोऽस्त्येवेत्याह—नित्यत्वादित्यादि ।


नित्यत्वादनपेक्षत्वाद्धर्माधर्भावशीकृतम् ।

सदैव च नभःश्रोत्रं सर्वाभोग्यं प्रसज्यते ॥ २५४६ ॥

नित्यत्वमनपेक्षत्वे हेतुः, तथाऽवशीकरणस्य ॥ २५४६ ॥


अथानपेक्षस्यापि वशीकरणं कस्मान्न भवतीत्याह—धर्माधर्मेत्यादि ।


धर्माधर्मोपकार्यं हि नभो नैव कदाचन ।

नित्यत्वात्कार्यताभावे चास्य केयं वशीक्रिया ॥ २५४७ ॥

अनपेक्षत्वेन ह्यकार्यत्वमुच्यते, यच्चाकार्य न तत्केनतिद्वशीक्रियते, यथा शशवि
षाणम्, अप्रतिसङ्ख्या निरोधादिर्वा, अकार्यं च श्रोत्रमिति व्यापकविरुद्धोपलब्धिः ।
नित्यत्वादित्यनेन हेतोरसिद्धतां परिहरति, कार्यताया अभावे केयं वशीक्रिये
त्यनेनानैकान्तिकतमाम् ॥ २५४७ ॥


ननु चाकार्यस्यापि वशीक्रिया दृश्यते, यथा—प्रागभोग्यस्य श्रोत्रस्य पश्चान्म
न्त्रौषधादिशक्त्या भोग्यत्वं भवति, ततश्च हेतोरनैकान्तिकतेति, तत्र परिहारमाह
मन्त्रौषधादीत्यादि ।


मन्त्रौषधादिशक्त्या च पुनर्भोग्यं कथं भवेत् ।

नित्यत्वान्नहि तत्तेभ्यो विशेषं प्रतिपद्यते ॥ २५४८ ॥

689

आदिशब्देनोल्लेखनादिपरिग्रहः । कथं भवेदिति । यदि तत्रापि न कार्यता भवे
दित्यध्याहारः । ननु चाकार्यस्यापि सतो विशेषोत्पत्तिमात्रेण वशीक्रिया भविष्यती
त्याह—नित्यत्वादित्यादि ॥ २५४८ ॥


एवं तर्ह्यधिष्ठानस्यानित्यत्वात्तत्संस्कारद्वारेण नित्यस्यापि श्रोत्रस्य वशीक्रिया
भविष्यतीत्याह—अधिष्ठाने त्वित्यादि ।


अधिष्ठाने त्वनित्येऽपि क्षणिकानित्यता न चेत् ।

तदात्मातिशयायोगाद्बाधिर्यादि न युज्यते ॥ २५४९ ॥

अनित्येऽपीति । कालान्तरविनाशात्तस्यापि ह्य(ह्या?)विनाशमेकरूपत्वान्नित्य
स्येव नातिशयोत्पत्तिः सम्भवतीति कुतः संस्कारः ॥ २५४९ ॥


अभ्युपगम्यातिशयं दोषमाह—अस्तु वेति ।


अस्तु वाऽतिशयस्तस्मिन् व्योम्नि त्वेष न विद्यते ।

नचाधिष्ठानसम्बन्धान्नित्यत्वादनपेक्षणात् ॥ २५५० ॥

अतस्तद्द्वारकोऽप्यत्र बाधिर्यादि न युज्यते ।

नभसो भागवत्त्वेऽपि नित्यतायामिदं समम् ॥ २५५१ ॥

एष इति । अतिशयः । यद्यपि न विद्यते तथाप्यधिष्ठानसम्बन्धात्तस्यापि भवि
ष्यतीत्याह—नचाधिष्ठानेत्यादि । यदुक्तम्—नचानवयवं व्योमेत्यादि, तत्रापि
सावयवस्य नभसो यदि नित्यत्वमभ्युपगम्यते तदा यदनवयवनित्यनभःपक्षे दूषणं
तत्सर्वं समानमित्यतिदिशति—नभस इत्यादि ॥ २५५० ॥ २५५१ ॥


यदुक्तम्—यथा तत्र भवन्नेवेत्यादि, तत्राह—तत्रैव भवत इत्यादि ।


तत्रैव भवतोऽप्येवं स्वामित्वादपकर्षणम् ।

न युक्तं यदि तस्यापि क्षणिकत्वं समस्ति न ॥ २५५२ ॥

को हि तस्याः समुत्पन्नः पश्चादतिशयो यतः ।

स्वामित्वादपकृष्टोऽसौ न भोगं पुनराप्नुयात् ॥ २५५३ ॥

सुबोधम् ॥ २५५२ ॥ २५५३ ॥


यदुक्तम्—व्यञ्जकानां हि वायूनामित्यादि, तत्राह—यदा चेत्यादि ।


यदा च संस्कृतिर्नैवं श्रोत्रे शब्दे च युज्यते ।

भेदाभेदविकल्पेन संस्कारानुपपत्तितः ॥ २५५४ ॥

690
व्यतिरेक हि संस्कारे श्रोत्रशब्दौ न संस्कृतौ ।

स्यातां ताभ्यां च सम्बन्धः संस्कारस्य न कश्चन ॥ २५५५ ॥

विभिन्नस्य हि सम्बन्धः कार्यकारणता भवेत् ।

तस्यां च सर्वदैवायं भवेद्धेतोः सदा स्थितेः ॥ २५५६ ॥

अनर्थान्तपक्षेऽपि तद्वन्नित्यो भवेदसौ ।

तन्न शक्यक्रियस्तस्मान्नित्यं ज्ञानं प्रसज्यते ॥ २५५७ ॥

तन्न सामर्थ्यनियमो वाय्वादेरुपपद्यते ।

कर्त्तव्यविषयायोगे सामर्थ्यस्याप्ययोगतः ॥ २५५८ ॥

यदेति । यतः कारणादित्यर्थः । एवम्—अनन्तरोक्तेन प्रकारेण । नित्यस्या
तिशयाभावान्नैव संस्कृतिर्युज्यते । तन्न सामर्थ्यनियमो वाय्वादेरुपपद्यत इति
वक्ष्यमाणेन सम्बन्धः । यथा चासौ संस्कृतिर्नोपपद्यते तथा तावद्विस्तरेण
दर्शयन्नाह—भेदाभेदेत्यादि । संस्कृतिर्भवन्ती व्यतिरिक्ता वा भवेदव्यतिरिक्ता
वेति पक्षद्वयं, वस्तुनः प्रकारान्तरासम्भवात् । प्रथमे पक्षे श्रोत्रशब्दयोः संस्कारा
सिद्धिप्रसङ्ग, अर्थान्तरकरणात्, नहि घटकरणे पटः संस्कृतो नाम । नापि तस्य
संस्कारस्य ताभ्यां सह सम्बन्धः सिद्ध्यति, येन तत्सम्बन्धिसंस्कारकरणद्वारेण तौ
संस्कृतौ स्याताम् । तथाहि—भेदाभ्युपगमान्न तादात्म्यलक्षणः सम्बन्धः । भिन्नस्य
च सम्बन्धो भवन्कार्यकारणतालक्षण एव भवेदन्यत्रोपकाराभावात् । तस्यां च
कार्यकारणतायां सत्यां सर्वदैवायं संस्कारो भवेत्, हेतोः श्रोत्रशब्दात्मकस्य सर्व
दाऽवस्थितत्वात् । द्वितीयेऽपि पक्षे दोषमाह—अनर्थान्तरेत्यादि । तद्वदिति ।
श्रोत्रशब्दस्वरूपवत् । असाविति । संस्कारः । ततश्च नित्यत्वादसौ संस्कारो न
केनचित्क्रियते । तस्माच्च संस्कारादिज्ञानोत्पत्ताविष्यमाणायां नित्यं ज्ञानं प्रसज्येतेति
नित्यत्वे दोषः। तन्नेत्यादिनोपसंहरति ॥ २५५४ ॥ २५५५ ॥ २५५६ ॥
॥ २५५७ ॥ २५५८ ॥


अत इत्यादिना शब्दानित्यत्वसाधने प्रमाणयति ।


अतोऽभिव्यक्त्ययोगेन शब्दज्ञानमिदं फलम् ।

ग्राह्योत्पादाविनाभाविघटादिव्यक्तिबुद्धिवत् ॥ २५५९ ॥

तस्मादुत्पत्त्यभिव्यक्त्योः कार्यार्थापत्तितः समः ।

सामर्थ्यभेदः सर्वत्र स्यात्प्रयत्नविवक्षयोः ॥ २५६० ॥

691

प्रयोगः—यत्कादाचित्कं तदुत्पत्तिमत्कारणजन्यम्, यथा घटव्यक्तिविषयं ज्ञा
नम्, कादाचित्कं च शब्दज्ञानमिति स्वभावहेतुः । नित्यं तज्ज्ञानासंवित्तेर्नासिद्धो
हेतुः । अभिव्यक्तेरपास्तत्वान्नाप्यनैकान्तिकः । सपक्षे भावान्न विरुद्धः । इदम्फ
लमिति । इदं ग्राह्योत्पादाविनाभाविलक्षणं फलमस्येति विग्रहः । शेषं सुबोधम्
॥ २५५९ ॥ २५६० ॥


दिक्श्रोत्रपक्षे पूर्वमेव दूषणस्योक्तत्वान्न पुनरुच्यते । अतएव पूर्वोक्तं तदेव दूषणं
स्मारयन्नाह—यावांश्चेत्यादि ।


यावांश्च कणभुङ्गकश्चन न्यायो नभोभागत्वदूषणे ।

दिग्भागेऽपि समस्तोऽसौ विज्ञेयो मतिशालिभिः ॥ २५६१ ॥

यदुक्तम्— विषयस्यापि संस्कारे तेनैकस्यैव संस्कृतिः । इत्यादि, तत्राह—
विषयस्येत्यादि ।


विषयस्यापि संस्कारे तेनैकस्यैव संस्कृतिः ।

नास्तत्वाच्छक्तिनियतेर्नातो विषयसंस्कृतिः ॥ २५६२ ॥

नेति । विषयस्यापि संस्कारे तेनैकस्यैव संस्कृतिरित्येतन्न । कुतः, अस्तत्वात्—
प्रतिक्षिप्तत्वात् । संस्कारस्येति शेषः । तथाहि व्यतिरिक्तोऽव्यतिरिक्तश्च संस्कारः
पूर्वं निरस्तः, इतोऽपि न विषयस्य संस्कारः । कुतः, शक्तिनियतेर्वक्ष्यमाणायाः ।
शक्तिनियतेश्चेति चकारो लुप्तनिर्दिष्टो द्रष्टव्यः । तेनायमर्थो भवति । शक्तिनियमा
च्चातो वक्ष्यमाणान्न विषयसंस्कारो युक्तः ॥ २५६२ ॥


तमेव शक्तिनियमं दर्शयति—ज्ञानोत्पत्तावित्यादि ।


ज्ञानोत्पत्तावयोग्यत्वे गम्येत न कदाचन ।

सर्वैः सर्वत्र शब्दोऽयं तज्ज्ञानेऽनुपयोगतः ॥ २५६३ ॥

ज्ञानोत्पत्तौ तु सामर्थ्ये सर्वैः सर्वत्र सर्वदा ।

अवगम्येत शब्दोऽयं ज्ञानहेतुतया स्थितेः ॥ २५६४ ॥

कदाचिदसौ शब्दः प्रकृत्या ज्ञानोत्पत्तावयोग्यो भवेन्नवेति पक्षद्वयम् । प्रथमे
पक्षे न कदाचित्केनचिदवगम्येत । द्वितीयेऽपि सर्वैः सर्वदैवावगम्येत, एकरूप
त्वात् । अतो न संस्कारस्य सामर्थ्यम् ॥ २५६३ ॥ २५६४ ॥


स्यादेतत्समर्थोऽपि विरोधिप्रत्ययबलात्कदाचिद्विज्ञानं नोत्पादयेत् । तथा अस
मर्थोऽपि सहकारिप्रत्ययाहितसामर्थ्यः सन्नुत्पादयिष्यतीति, तत्राह—तं हीत्यादि ।


692
तं हि शक्तमशक्तं वा प्रकृत्यैवात्मनि स्थितम् ।

विरोधी सहकारी वा कोऽर्थं क्षपयितुं क्षमः ॥ २५६५ ॥

नहि स्वभावमखण्डयन्ननुत्पादयन्वा विरोधी सहकारी वा युक्तोऽतिप्रसङ्गात् ।
खण्डनोत्पादनाभ्युपगमे नित्यत्वहानिप्रसङ्ग ॥ २५६५ ॥


यदुक्तम्—यथैवोत्पद्यमान इत्यादि । तत्राह—ज्ञानोत्पादनेत्यादि ।


ज्ञानोत्पादनयोग्यश्च कांश्चित्प्रति भवत्ययम् ।

तस्मादुत्पद्यमानोऽयं न सर्वैरवगम्यते ॥ २५५६ ॥

अथवा यत्समीपस्थैर्नादैः स्यादस्य संस्कृतिः ।

तैरेव श्रूयते शब्दो न दूरस्थैस्तु किं पुनः ॥ २५६७ ॥

उत्पत्तिपक्षे नायं दोषः, यतः प्रतिनियतविज्ञानोत्पत्तिसमर्थं एव स्वहेतोरुप
जायते, तेन न सर्वैः सर्वदा गम्यते । यस्य तु संस्क्रियते शब्दस्तस्यैवायं दोषो यदि
नाम संस्कारः संभवतीति दर्शयन्नाह—अथवेत्यादि । न केवलं प्रकृत्या ज्ञानोत्पा
दनसामर्थ्याभ्युपगमे दूरस्थस्यापि ग्रहणं प्राप्नोतीति दोषः, संस्कारपक्षेऽपि दोष एवे
त्यतः पक्षान्तरमुक्तम् । न दूरस्थैस्तु किं पुनरिति । श्रूयत इति सम्बन्धः । अपि
तु श्रुत ए(श्रूयेतै ?)वेति साक्षाद्दर्शयति ॥ २५६६ ॥ २५६७ ॥


एतदेव व्यक्तीकरोति—सामीप्येइत्यादि ।


सामीप्येऽपि हि संस्कारः कारणं परिकल्प्यते ।

संस्कारः स समानश्च तेषु दूरस्थितेष्वपि ॥ २५६८ ॥

शब्दोत्पत्तौ निषिद्धत्वादित्यादावाह—विशिष्टसंस्कृतेरित्यादि ।


विशिष्टसंस्कृतेर्जन्म ध्वनिभ्यो यदि गम्यते ।

शब्दोत्पत्तिः प्रतिक्षेप्तुं न शक्या केनचित्तदा ॥ २५६९ ॥

विशिष्टसंस्कृतिः शब्दात्सा हि न व्यतिरेकिणी ।

शब्दस्याज्ञेयताप्राप्तेस्ततः शब्दोऽपि जायते ॥ २५७० ॥

यदि संस्कृतिरुत्पद्यते तदा शब्दस्याप्युत्तिप्रसङ्गः, तस्य संस्कृतेरव्यतिरेकात् ।
अथ व्यतिरेकस्तदा संस्कारादेव ज्ञानोत्पत्तेः शब्दस्याकारकत्वादज्ञेयत्वप्रसङ्गः ।
(ततः) शब्दोऽपि जायत इत्यङ्गीकर्त्तव्यम् ॥ २५६९ ॥ २५७० ॥


अथापि स्याद्यथा प्रतिनियतज्ञानोत्पादनसमर्थः शब्द उत्पद्यते भवतां तथाऽ
693 स्माकमपि संस्कारप्रतिनियमो भविष्यति, तेन दूरस्थैर्न गम्यत इति । अत्राह—
संस्कृतश्चेत्यादि ।


संस्कृतश्चैकदा शब्दस्तमात्मानं न जातुचित् ।

जहात्यनित्यतासङ्गादुपलभ्येत चेत्सदा ॥ २५७१ ॥

यदि नाम प्रतिनियतपुरुषसन्तानवर्त्तिज्ञानोत्पादनसमर्थः संस्क्रियते तथापि
दोष एव । तथाहि—यदि ज्ञानोत्पादनयोग्यं संस्कृतस्वभावं न जहाति तदा सर्व
दैव तज्ज्ञानोत्पत्तिप्रसङ्गः । अथ जहाति तदाऽनित्यत्वप्रसङ्गः । तस्मादुत्पद्यत एवे
त्यङ्गीकर्त्तव्यम् ॥ २५७१ ॥


यदुक्तम्—संस्कारद्वयपक्षे त्वित्यादि तत्राह—द्वयेत्यादि ।


द्वयसंस्कारपक्षेऽपि सत्यं दोषद्वये (व)चः ।

यन्नान्यतरवैकल्यं प्राक्तनस्यानुवृत्तितः ॥ २५७२ ॥

येषामुत्पत्तिपक्षस्तेषां मतेनान्यतरवैकल्यं युज्यते । नतु संस्कारवादिनां पक्षे
तेषां सदैव प्राक्तनस्य संस्कृतस्य स्वभावस्यानुवृत्तेः ॥ २५७२ ॥


तथा हीत्यादिना तामेवानुवृत्तिं दर्शयति ।


तथाहि संस्कृताः श्रोत्रवर्णा यद्व्यञ्जकैः पुरा ।

न नष्टास्ते च्युतिप्राप्तेः सर्वैः सर्वश्रुतिस्ततः ॥ २५७३ ॥

च्युतिप्राप्तेरिति । अनित्यत्वप्रसङ्गादित्यर्थः । अन्यथा प्रतिज्ञाविशिष्टेः (सृष्टिः ?)
स्यात् । सर्वश्रुतिरिति । सर्वस्मिन्काले श्रुतिः सर्वश्रुतिः । नतु सर्वस्य श्रुतिरिति
विग्रहः । कर्मणि चेति समासप्रतिषेधात् ॥ २५७३ ॥


अथापि स्यात्प्रतिनियता(ना)मेव पुंसां श्रुतियोग्यौ संस्कृतौ श्रोत्रवर्णौ तेन सर्वैर्न
श्रूयत इति । एवं तर्हि ये अन्येषां वर्णानां प्रतिपत्तारस्तेषां शब्दश्रवणं न प्राप्नोति ।
एतदेव दर्शयति—नियतेत्यादि ।


नियतश्रुतियोग्यौ चेच्छ्रोत्रवर्णौ च संस्कृतौ ।

नान्यवर्णप्रपत्तृणां पुनः स्याच्छ्रवणं तदा ॥ २५७४ ॥

नियतानां पुंसां श्रुतियोग्याविति समासः । अन्ये च ते वर्णप्रपत्तारोऽन्येषां वा
वर्णानां प्रपत्तार इति विग्रहः ॥ २५७४ ॥


अथापि स्याद्ये तेऽन्यवर्णप्रतिपत्तारस्तज्ज्ञानोत्पत्तियोग्यं पुनरपि संस्कारान्तरं
शब्दश्रोत्रयोर्भवेदित्येतदाशङ्क्य परिहरति—तद्वर्णेत्यादि ।


694
तद्वर्णनरविज्ञानयोग्यौ चेत्संस्कृतौ पुनः ।

तयोरेवानुवृत्तौ स्यात्तयोरपि ननु श्रुतिः ॥ २५७५ ॥

ते च ते वर्णनराश्चेति समासः । के पुनस्ते ? वर्णा येऽन्यैः प्रतिपत्तृभिर्गृह्यन्ते,
नराश्च तेषामेव ये प्रपत्तारः, तेषां विज्ञानं तत्र योग्याविति समासः । तयोरेवेति ।
पूर्वसंस्कृतयोः श्रोत्रशब्दयोः । तयोरपीति । पू्र्वकयोर्वर्णनरयोः । एतदुक्तं भवति ।
पश्चाद्यदाऽन्यैः श्रूयते ककारादिवर्णस्तदापि यैः पूर्वश्रुतस्तद्वत्तैरपि श्रूयेत । प्राक्तनस्व
भावानुवृत्तेरिति ॥ २५७५ ॥


अथ नानुवृत्तिस्तदाऽनित्यत्वप्रसङ्ग इत्यादर्शयन्नाह—व्यावृत्तावित्यादि ।


व्यावृत्तावन्य एवामी श्रोत्रवर्णाः कथं न ते ।

प्राप्नुवन्ति ततस्तेषु नित्यताशाऽनिबन्धना ॥ २५७६ ॥

सुबोधम् ॥ २५७६ ॥


यदुक्तम्—जलादिषु यथैकोऽपीत्यादि, तत्राह—जलादिष्वित्यादि ।


जलादिषु न चैकोऽयं नानात्मा सवितेक्ष्यते ।

प्रतिबिम्बधियः सर्वा यन्निरालम्बनाः स्थिताः ॥ २५७७ ॥

सर्वमेव हि भ्रान्तं ज्ञानं निर्विषयमिति पू्र्वमविशेषेण प्रतिपादितम् । तथापि
पुनः प्रतिबिम्बधियां विशेषणा(षेण ?)द्वयोरपि साकारनिराकारपक्षयोः प्रतिपाद
यति । तत्र प्रथमं पक्षमधिकृत्याह—निराकारा इत्यादि ।


निराकारा धियः सर्वास्त्वत्पक्षेऽपि व्यवस्थिताः ।

आकारवान्पुनर्बाह्यः पदार्थोऽभ्युपगम्यते ॥ २५७८ ॥

जलाद्यन्तर्गतं चेदं प्रतिबिम्बं समीक्ष्यते ।

नभस्तलादिवर्त्ती च सूर्यादिर्न तथा स्थितः ॥ २५७९ ॥

तत्कस्माद्भात्यसावेवं भ्रान्त्या चेदत एव तत् ।

नतु स्पष्टमनालम्बं तद्रूपार्थवियोगतः ॥ २५८० ॥

तस्यैव प्रतिपत्तिश्चेदन्यथेदं सुभाषितम् ।

तच्चान्यथेति किंत्वेवं सर्वं स्यात्सर्ववेदकम् ॥ २५८१ ॥

तस्यैव प्रतिपत्तिः स्याद्यदीक्ष्येत तथास्थितम् ।

अन्याकारोपलब्धौ तु तस्य दृष्टिः कथं भवेत् ॥ २५८२ ॥

695
साकारेऽपि हि विज्ञाने न ज्ञातार्थाविलक्षणे ।

आकारे सति विज्ञानं ग्राहकं तस्य युज्यते ॥ २५८३ ॥

भवतो हि मीमांसकस्य निराकारं विज्ञानमाकारवान्बाह्योऽर्थस्ततश्च यत्तज्जला
न्तर्गतं रूपं दृश्यते न तावदसौ ज्ञानाकारः, बाह्यस्यैवाकारवत्त्वाभ्युपगमात् । नापि
तत्प्रतिबिम्बमर्थान्तरभूतमभ्युपगतं सूर्यस्याग्रहणप्रसङ्गात् । नापि सूर्यो जलान्तर्गतो
येन तथा भासेत, तस्याकाशदेशवर्त्तित्वात् । भ्रान्त्या तथा भासत इति चेदेवं तर्हि
न सूर्यालम्बनं ज्ञानं, तस्य सूर्यस्य जलान्तर्गतरूपाभावात् । ततश्च यद्रूपोऽर्थो यज्ज्ञा
नेनावभासते तद्रूपार्थवियुक्तत्वात्तद्विज्ञानमनालम्बनमिति सिद्धम् । प्रयोगः—यो
यद्विज्ञानप्रतिभासिस्वरूपो न भवति न स तद्विज्ञानविषयः, यथा रूपं श्रोत्रज्ञानस्य,
न भवति प्रतिबिम्बविज्ञानप्रतिभासिस्वभावश्च सूर्य इति व्यापकानुपलब्धिः । ना
सिद्धो हेतुः, सूर्यस्य जलान्तर्गतरूपाभावात् । नाप्यनैकान्तिकोऽतिप्रसङ्गात् । एवं
हि यत्किञ्चिद्यस्य कस्यचिदालम्बनं प्राप्नोति । सपक्षे सद्भावात् न विरुद्धः । अ
थापि स्यात्स एव सूर्यो देशभेदेन केवलमन्यथा प्रतीयत इत्यतो हेतुरसिद्ध एवेति ।
तदेतद्भवतः प्रौढतार्किकादृते कोऽन्यो वक्तुमर्हति तदेव चान्यथेति । तथाहि तदेवे
त्यनेन तत्स्वरूपं विधीयते, अन्यथेत्यनेन तन्निषेधः, तत्कथमेकत्रैकदा परस्परविरुद्धौ
विधिप्रतिषेधौ युक्तौ । यदि पुनरन्यथा प्रतीयमानोऽपि स एव स्यात्तदा सर्वविश्व
मेकं भवेत् । ततश्च सहोत्पत्तिनाशौ स्याताम्, सर्वं च विज्ञानमेकविषयं स्यात् ।
तस्माद्यथा देशकालादिभेदवानसावर्थस्तथैव यदि प्रतीयेत, एवं स एव प्रतीतः
स्यादिति कुतोऽसिद्धता । द्वितीयेऽपि साकारपक्षे निरालम्बनतां प्रतिबिम्बधियां प्रति
पादयति—साकारेऽपीत्यादि । साकारविज्ञानपक्षे हि साकारसंवेदनेऽपि बाह्यार्था
विलक्षणाकारानुभवाद्बाह्यो विदित उच्यते, नतु विलक्षणानुभवात् । अन्यथाऽति
प्रसङ्गः स्यात् । नचात्र प्रतिबिम्बधियां सूर्याकाराविलक्षणाकारानुभवोऽस्ति, अ
न्यथा ह्यभ्रान्तसूर्यज्ञानाविशेषः प्रतिबिम्बधियां स्यात् ॥ २५७८ ॥ २५७९ ॥
॥ २५८० ॥ २५८१ ॥ २५८२ ॥ २५८३ ॥


यदुक्तमप्सूर्यमसूर्यदर्शिनामित्यादि, तत्राह—पारम्पर्येत्यादि ।


पारम्पर्यार्पितं सन्तमवाग्वृत्त्यावबुद्ध्यताम् ।

किन्तूर्ध्ववृत्तिमेकत्वेऽप्यवागेवानुमन्यते ॥ २५८४ ॥

696
यथैवावस्थितो ह्यर्कस्तथैवेक्ष्येत यद्यसौ ।

अवबुद्धः प्रकल्प्येत नान्यथेत्युपपादितम् ॥ २५८५ ॥

अवबुद्ध्यतामिति । आत्मा । ऊर्द्ध्ववृत्तिमिति । आदित्यम्—परिस्थितमित्यर्थः ।
मन्यत इति । आत्मा । एतदुक्तं भवति । यदि नामात्मा पारम्पर्यार्पितमुपरिस्थित
मादित्यमवाग्वृत्त्याऽवबुध्यते, किमित्यवागेव मन्यते नोर्द्ध्वम् । एवं हि स एवावबुद्धो
भवति, यदि यथास्थितो गृह्येत । अन्यथाऽतिप्रसङ्गः स्यात् ॥ २५८४ ॥ २५८५ ॥


यदुक्तम्—एवं प्राङ्न्तया वृत्त्या प्रत्यग्वृत्तिसमर्पितमित्यादि, तत्राह—नैवं
तद्ग(प्राग्न?)तये
त्यादि ।


नैवं तद्ग(प्राग्न?)तया वृत्त्या प्रत्यग्वृत्ति समर्पितम् ।

बुध्यमानो मुखं भ्रान्त्या प्रत्यगित्यवगच्छति ॥ २५८६ ॥

अत्र कारणमाह—प्रतिबिम्बकविज्ञानमित्यादि ।


प्रतिबिम्बकविज्ञानं स्वास्याद्यालम्बनं न तत् ।

तद्विलक्षणनिर्भासाद्रसशब्दादिवित्तिवत् ॥ २५८७ ॥

तद्विलक्षणनिर्भासादिति । भावलक्षणो निर्देशः । तद्विलक्षणनिर्भासत्वादि
त्यर्थः । बहुव्रीहिश्चायम् । प्रयोगः—यद्यद्विलक्षणनिर्भासं ज्ञानं न तत्तदालम्बनम्,
यथा रसादिविज्ञानं न शब्दालम्बनं शब्दविज्ञानं वा रसालम्बनम्, मुखादिविल
क्षणनिर्भासाश्च प्रतिबिम्बधिय इति व्यापकविरुद्धोपलब्धिः ॥ २५८७ ॥


(अ)सिद्धतामस्य परिहरन्नाह—अल्पीयसीत्यादि ।


अल्पीयस्यास्यमल्पीयो दर्पणे प्रतिभाति हि ।

विपर्यस्तश्च वृक्षादिर्जलमग्नः प्रतीयते ॥ २५८८ ॥

दर्पणाभिमुखं बिबं नैवं तु प्रतिबिम्बकम् ।

जलाद्यन्तर्गतं चेदं बिम्बं त्वारादवस्थितम् ॥ २५८९ ॥

आश्रयानुविधानेन स्थूलसूक्ष्मादिभेदि च ।

प्रतिबिम्बं न बिम्बं तु नातो हेतोरसिद्धता ॥ २५९० ॥

अल्पीयसि दर्पणे महदप्यास्यं—मुखम् अल्पीयः—अल्पतरं प्रतिभाति । अधो
गतमु(शा?)खादिश्च जलमग्नो वृक्षादिः प्रतीयते, तथा प्रत्यङ्मुखं मुखमुपलभ्यते
जलादिषु दूरप्रतिष्ठं च, न च तथा मुखादिविध(बिम्ब?)कमवस्थितम् । तथा खङ्गा
697 द्याश्रयभेदाद्दीर्घादिभेदाकारेण प्रतिबिम्बकमाभाति, न च तथा दीर्घादिभेदवद्बिम्ब
कमिति तद्विलक्षणनिर्भासित्वं ज्ञानस्य नासिद्धम् ॥ २५८८ ॥ २५८९ ॥ २५९० ॥


अनैकान्तिकतां परिहरन्नाह—विलक्षणावभासेनेत्यादि ।


विलक्षणावभासेनाप्यर्थसंवेदने सति ।

रूपशब्दादिचित्तं स्यात्सर्वं सर्वार्थगोचरम् ॥ २५९१ ॥

ईषत्संमीलितेऽङ्गुल्या यच्च चक्षुषि दृश्यते ।

पृथगेकोऽपि साऽप्येवं भ्रान्तिर्निर्विषया मता ॥ २५९२ ॥

सर्वस्य ज्ञानस्य सर्वविषयत्वप्रसङ्गो बाधकं प्रमाणम् । यदुक्तम्—ईषत्संमीलित
इत्यादि, तदप्यनेनैव प्रत्युक्तम्, तस्यापि निर्विषयत्वात् ॥ २५९१ ॥ २५९२ ॥


यथोक्तमनेकदेशवृत्तौ चेत्यादि, तत्राह—प्रतिबिम्बोदय इत्यादि ।


प्रतिबिम्बोदयस्त्वत्र प्रागेव विनिवारितः ।

सहैकत्र द्वयायोगान्मूर्त्तानां प्रतिघाततः ॥ २५९३ ॥

प्रतिबिम्बस्य हि वस्तुत्वं पूर्वं निषिद्धं मूर्त्तस्याभिन्नदेशत्वानुपपत्तेरित्यादिना
॥ २५९३ ॥


भवतु नाम प्रतिबिम्बं वस्तुसत्तथापि तस्य समानबुद्धिगम्यत्वमसिद्धमिति दर्श
यन्नाह—अनेकदेशेत्यादि ।


अनेकदेशवृत्तौ वा सत्यपि प्रतिबिम्बके ।

स्थूलसूक्ष्मादिवद्भेदादेकत्वं नैव विद्यते ॥ २५९४ ॥

आदिशब्देन दीर्घत्वादिभेदपरिग्रहः । अथापि स्यात्सत्यपि स्थूलादिभेदे केनचि
न्नीलादिसाधर्म्येण समानबुद्धिगम्यत्वमस्त्येवेति । एवमपि न पारमार्थिकमैक्यं सि
द्ध्यति । कल्पितं तु स्यात्तत्र च सिद्धसाध्यता । अथापि पारमार्थिकमैक्यं स्याद्दे
शादिभेदेन वेद्यमानेऽपि तदा विप्रचाण्डालयोरपि मनुष्यत्वसाम्यादेकत्वमस्तु ।
तथा स्त्रीत्वसामान्येन मातुस्ते स्वभार्यायाः स्वमुखापानयोश्च पार्थिवत्वादेकत्वमाप
द्यते । सर्वस्य विश्वस्य वस्तुत्वादेकत्वे सहोत्पत्तिविनाशादिप्रसङ्गश्चानिवार्य एव
॥ २५९४ ॥


यदपीदमुक्तं भाष्ये— अथापिस्यादेकस्य सतो नानादेशेषु युगपद्दर्शनमनुपपन्नमि
त्यादित्यं पश्यतु देवानांप्रियो य एकः सन्ननेकदेशावस्थ इव लक्ष्यते, ........
698 दूरत्वादस्य देशो नावधार्यते, अतो व्यामोहः, एवं शब्देऽपि व्यामोहादनवधारणं
देशस्ये
ति । अत्राह—पुंसामित्यादि ।


पुंसामध्यवसायश्च योऽयमेवं प्रवर्त्तते ।

ममोपरि स्थितो भानुरिति भ्रान्तः स निश्चितः ॥ २५९५ ॥

सर्वे प्राणभृतो यस्मादेकमेव दिवाकरम् ।

पश्यन्ति यौगपद्येन न द्वितीयं कदाचन ॥ २५९६ ॥

रावं न मण्डलं यस्माद्द्वितीयादीह विद्यते ।

दृश्यादृष्टेरतश्चार्क एक एव विनिश्चितः ॥ २५९७ ॥

नत्वेवं निश्चितः शब्द एकत्वेन कथञ्चन ।

क्रमेण युगपच्चापि तन्नानात्वोपलक्षणात् ॥ २५९८ ॥

यदाहि गादिवर्णं च वक्तारो बहवः सकृत् ।

प्रयुञ्जते तदा भेदो विस्पष्टमुपलभ्यते ॥ २५९९ ॥

द्वितीयस्य रविमण्डलस्योपलब्धिलक्षणप्राप्तस्यानुपलम्भादभावनिश्चयादेकत्वसिद्धे
र्ममोपरि स्थितो भानुरित्येष भ्रान्तः प्रत्ययोऽवधार्यते । नत्वेवं शब्दस्यैकत्वं सिद्धम्,
येन देशादिभेदेन विद्यमानत्वं भ्रान्तं स्यात् । सिद्धे ह्येकत्वे तथाविद्यमानत्वं भ्रान्तं
सिद्ध्येत्, तदेव तु न सिद्धमिति यत्किञ्चिदेतत् । रावमिति । रवेरिदमित्यणन्तमे
तत् । ननु च प्रत्यभिज्ञाप्रत्ययेन शब्दस्याप्येकत्वं सिद्धमेवेत्याह—नत्वेवमित्यादि ।
प्रत्यभिज्ञायाः पूर्वमप्रामाण्यस्य प्रतिपादितत्वादिति भावः । यौगपद्येन नानात्व
सिद्धिं प्रतिपादयति—यदा हीत्यादि । विस्पष्टमिति । द्रुतमध्यविलम्बितादिभेदेन
प्रतिभासनात् ॥ २५९५ ॥ २५९६ ॥ २५९७ ॥ २५९८ ॥ २५९९ ॥


क्रमेणापि प्रतिपादयन्नाह—क्रमेण त्वित्यादि ।


क्रमेण तु प्रयोगेऽस्य प्रत्यक्षेण न केवलम् ।

भेदोऽवगम्यते किन्तु लिङ्गादपि धियां क्रमात् ॥ २६०० ॥

प्रत्यक्षेण न केवलमिति । तदाऽपि पज्जा(षड्जा?)दिभेदेन स्पष्टप्रतिभासिभेदानु
भवात्, नचायं व्यञ्जकभेदस्तस्य पूर्वं निरस्तत्वात् । लिङ्गादपीति । अनुमानतो
ऽपीत्यर्थः । प्रयोगः—यद्यदा न भवति न तदा तदविकलकारणं भवति यथा
रूपालोकमनस्कारादिप्रत्ययकलापेऽपि सति चक्षुर्विकलस्याभवच्चक्षुर्विज्ञानम्, न
699 भवन्ति चैकगकारादिविज्ञानोत्पत्तिकाले पश्चात्कालभावीनि तद्भावित्वेनाभिमतानि
विज्ञानानीति व्यापकानुपलब्धिः । अविकलकारणत्वस्य भवनेन व्याप्तत्वात्तस्य चे
हाभावः । ननु च सामान्येनाविकलकारणत्वमात्रस्य प्रतिषेधे साध्ये सिद्धसाध्यता ।
तथाहि नित्यस्य शब्दस्य कारणत्वेऽपि सहकारिकारणवैकल्यादनुत्पत्तिः पश्चात्का
लभाविनां प्रत्ययानामिष्यत एव परेण । अथ विशिष्टेन शब्दाख्येन कारणेन यद
विकलकारणत्वं तत्प्रतिषेधः साध्यते, तदाऽनैकान्तिकता हेतोः । दृष्टान्तश्च साध्य
विकलः । नहि चक्षुर्विज्ञानं शब्दकारणवैकल्यान्न भवति । किं तर्हि ? । चक्षुर्वैक
ल्यात् । नैतदस्ति । सामान्येनैव साध्यम्, न च सिद्धसाध्यता, तथाहि—यदि
नित्यस्य कारणान्तरापेक्षिता सम्भवेत्तदा सिद्धसाध्यता भवेत् । यावता सैव न
सम्भवति तस्य तेनानुपकार्यत्वात् । उपकारी ह्यपेक्ष्यः स्यादन्यथाऽतिप्रसङ्गः ।
तस्मादनपेक्ष्यस्य शब्दस्य कारणत्वाभ्युपगमे सर्वमेव तद्भाविविज्ञानमविकलकारण
मेवेति सदैव भवेत् । अभावे तु तदभवद्विज्ञानं तस्यैव शब्दस्य वैकल्यं सूचयेदिति
कथं सिद्धसाध्यता । विशेषेणापि कारणवैकल्ये साध्ये नानैकान्तिकता, नापि दृष्टा
न्तस्य साध्यविकलता । तथाह्ययमत्रार्थो विवक्षितः—यस्मिन्सत्यपि यन्न भवति
तत्कारणं भवतो न भवति, यथा चक्षुर्विज्ञानं शब्दे सत्यप्यभवत्, सत्यपि च गका
रादिशब्दस्वरूपविशेषे तद्भावित्वेनाभिमतानि ज्ञानानि न भवन्तीति व्यापकानुप
लम्भः । अत्रापि नित्यस्यापेक्षानुपपत्तिर्विपर्यये बाधकप्रमाणवृत्तिः । न च कुशूल
स्थेन बीजादिना व्यभिचारस्तस्याङकुरं प्रति मुख्यकारणत्वानुपपत्तेरित्यलं प्रपञ्चेन
॥ २६०० ॥


यदुक्तं पूर्वम्—व्यञ्जकध्वन्यधीनत्वादित्यादिना, तद्वस्तुतो दूषितमपि पुनरपि
निवर्त्त्य सत्यपि नित्यानां व्यञ्जके दुष्ट एवायं पक्ष इति विख्यापयिषया दूषयन्नाह
व्यञ्जकेत्यादि ।


व्यञ्जकध्वन्यधीनं च भवत्वस्योपलम्भनम् ।

यथाऽवस्थितरूपस्य किन्तु तस्य ग्रहो भवेत् ॥ २६०१ ॥

नान्यथा तद्ग्रहोऽयं स्यात्तद्रूपाप्रतिभासनात् ।

व्याप्ताशेषनभोभागो नहि शब्दः प्रकाशते ॥ २६०२ ॥

तद्ध्वनेर्भिन्नदेशत्वं श्रुतिः किमनुरुध्यते ।

व्यक्तस्तु प्रतिभासेत स्वात्मनैव घटादिवत् ॥ २६०३ ॥

700
सर्वं च प्रक्रियामात्रमिदमुक्तं च कारणम् ।

व्यञ्जकानामसामर्थ्यं व्यक्त्ययोगाच्च साधितम् ॥ २६०४ ॥

प्रत्यक्षस्तु स एवेति प्रत्ययः प्राग् निराकृतः ।

देशभेदेन भिन्नत्वमित्येतत्तदबाधितम् ॥ २६०५ ॥

यदि हि शब्दस्य व्यञ्जकाधीनं ग्रहणं तत्किमिति यथाऽसौ यावद्व्योम स्थितस्तदा
न गृह्येत । एवं तस्य तद्ग्रहणं भवेदन्यथाऽतिप्रसज्यत इत्यावेदितं पूर्वम् । न च
यावद्व्योम शब्दो गृह्यते । तस्माद्ध्वन्यनुरोधेन (न)शब्दश्रुते(ति?)र्युक्ता । किं तर्हि ?,
यस्यासौ श्रुतिस्तमेव शब्दं तस्या अनुरोद्धुं युक्तम् । एवं (च) तस्यासौ सिद्ध्येन्ना
न्यथा, ततश्च घटादिवत्सर्वात्मनैव प्रतिभासेतेति सङ्क्षेपार्थः । दिति । तस्मात्
॥ २६०१ ॥ २६०२ ॥ २६०३ ॥ २६०४ ॥ २६०५ ॥


पर्यायेण यथा चैक इत्यादावाह—पर्यायेणेत्यादि ।


पर्यायेण च यः कश्चिद्भिन्नदेशाद्व(न्व्र?)जत्य(न्न?)सौ ।

सिद्ध्यति क्षणभङ्गित्वान्नान्यथा(स्य गति)र्भवेत् ॥ २६०६ ॥

पूर्वदेशावियुक्तस्य स्वभावस्यानुवर्त्तनात् ।

नहि देशान्तरप्राप्तिः स्थैर्ये तस्योपपद्यते ॥ २६०७ ॥

अनित्यस्य हि देशान्तरोत्पत्तिरेव गतिः, न तु नित्यस्य, एकदेशवर्त्तिस्वभावम
विजहतो देशान्तरगमनायोगात् । त्यागे वा नित्यत्वहानिप्रसङ्गात् । एतदेव दर्श
यति—पूर्वदेशावियुक्तस्येत्यादि ॥ २६०६ ॥ २६०७ ॥


यथा महत्यां स्वातायामित्यादावाह—नभस इत्यादि ।


नभसो निरुपाख्यत्वान्नाभिव्यक्तिः प्रकल्पते ।

अत्यक्षत्वाच्च खे नायमालोकः स तथेक्ष्यते ॥ २६०८ ॥

नभसो वस्तुत्वासिद्धेर्नाभिव्यक्तिर्युक्ता, स्प्रष्टव्याभावमात्र एव तत्प्रज्ञप्तेः, तथा
ह्यन्धकारे प्रतिघातमविदन्त आकाशमेव नात्र किञ्चिदिति वक्तारो भवन्ति । येषा
मपि वस्तुसदाकाशं तेषां तदतीन्द्रियमेवेति कथं व्योम्नि धीर्भवेत् । अतएवाह—
अत्यक्षत्वाच्चेति । यद्येवं मृदि खातायां किं तदुपलभ्यत इत्याह—आलोकः स तथेति ॥ २६०८ ॥


सत्यप्याकाशस्य वस्तुत्वेऽभिव्यक्तिर्नैव युज्यते इति दर्शयन्नाह—किञ्चेत्यादि ।


701
किञ्च शब्दवदाकाशेऽप्यभिव्यक्तिर्न युज्यते ।

ज्ञानं हि व्यक्तिरेषा च नित्यं स्याद्धेतुसन्निधेः ॥ २६०९ ॥

यथाच व्यञ्जकः शब्दे न कथञ्चित्प्रकल्पते ।

तत्रात्रैवं परोपाधिः शब्दबुद्धौ सति भ्रमः ॥ २६१० ॥

नातो दीर्घादयः सर्वे ध्वनिधर्मा इति स्थितम् ।

ध्वनीनां व्यञ्जकत्वे हि तत्स्यात्तच्च निराकृतम् ॥ २६११ ॥

तत्स्यादिति । दीर्घादीनां ध्वनिधर्मत्वम् । तच्चेति । ध्वनीनां व्यञ्जकत्वम्
॥ २६०९ ॥ २६१० ॥ २६११ ॥


यदुक्तम्—नचादृष्टार्थसम्बन्ध इत्यादि, तत्राह—अत्यन्तभेदिनोऽपीत्यादि ।


अत्यन्तभेदिनोऽप्येते तुल्यप्रत्यवमर्शने ।

शक्ताः शब्दास्तदर्थाश्चेत्यसकृच्चर्चितं पुरा ॥ २६१२ ॥

नातो दृष्टार्थसम्बन्धः शब्दो भवति वाचकः ।

स्ववृत्त्या वस्तुतस्त्वेष वाचको नेति साधितम् ॥ २६१३ ॥

अथमत्र सङ्क्षेपार्थः । यदि पारमार्थिकस्यार्थशब्दयोर्वाच्यवाचकभावस्याभावप्र
सङ्गः क्रियते भवता तदा सिद्धसाध्यता । तथाहि—विस्तरेण जातिस्वलक्षणादीनां
वाच्यवाचकत्वं शब्दपरीक्षायां निराकृतम् । अथ सांवृतस्यापि तदाऽनैकान्तिकता
तथाह्यत्यन्तभेदिनोऽपि केचिदर्थाः प्रकृत्यैकाकारप्रत्यवमर्शज्ञानस्य हेतुतां प्रतिपद्य,
मानाः सांवृतं शब्दार्थयोर्वाच्यवाचकभावं सम्पादयिष्यन्तीति प्रागेवापोहचिन्तायां
प्रतिपादितम् । तस्मादपोहशब्दार्थवादिनो बौद्धान्प्रति सर्वमिदमुच्यमानमत्यन्त
परिलघुतया परिप्लवत एव केवलमिति ॥ २६१२ ॥ २६१३ ॥


संवृत्त्या वाचकत्वस्योपपत्तिमाह—मिथ्याऽवभासिन इत्यादि ।


मिथ्याऽवभासिनो ह्येते प्रत्ययाः शब्दनिर्मिताः ।

जातिस्वलक्षणादीनां वाच्यनाचकतास्थितेः ॥ २६१४ ॥

तद्भ्रान्त्या व्यवहर्त्तारो वैलक्षण्येऽपि वस्तुतः ।

गोशब्द एक एवेति मन्यन्ते समबुद्धयः ॥ २६१५ ॥

तस्माद्द्विजातिना प्रोक्तं बह्वसम्बद्धभाषिणा ।

शब्दभेदं पुरस्कृत्य यत्तत्सर्वमनास्पदम् ॥ २६१६ ॥

702

पररूपं हि स्वप्रतिभासेन यया संवृयते बुद्ध्या यथार्थमप्रकाशनात्साकल्पिका
बुद्धिः संवृत्तिः, तया यद्व्यवस्थापितं रूपं तत्सांवृतमुच्यते । संवृत्तिसत्त्वं तदेव न
पारमार्थिकं, तस्यासत्त्वात् । भ्रान्तस्य च ज्ञानस्य सर्वस्यैव निर्विषयत्वात् ॥ २६१४ ॥
॥ २६१५ ॥ २६१६ ॥


अथापि स्याद्विना पारमार्थिकेनैकत्वेन कथं विधिप्रतिषेधलक्षणं व्यवहारमारो
पवशेन शब्दाः सम्पादयन्तीत्याह—तथाहीत्यादि ।


तथाहि हस्तकम्पादेर्नैकत्वं बुद्धिभेदतः ।

शीघ्रमन्दादिभेदेन तद्व्यक्तिश्च निराकृता ॥ २६१७ ॥

सामान्यं नच तत्रैकमनुगाम्युपलक्ष्यते ।

सङ्केतात्प्रतिषेधादिगत्यङ्गं च भवत्यसौ ॥ २६१८ ॥

हस्तकम्पादेरित्यादिशब्देनाक्षिनिकोचादिपरिग्रहः । शीघ्रमन्दादिभेदेनेति ।
बुद्धिभेदत इति सम्बन्धः । नचायं शीघ्रादिभेदो व्यञ्जककृतो व्यक्तेर्निषिद्धत्वात्
तद्व्यक्तिरिति । नित्यव्यक्तिः । नच सामान्यवशाद्व्यवहाराङ्गता, तस्याप्रसिद्ध
त्वात् । अप्रतीतस्य सामान्यस्य न युक्तं व्यवहाराङ्गत्वं, सर्वदा व्यवहारप्रसङ्गात् ।
प्रतिषेधादिगत्यङ्गमिति । आदिशब्देन विधानाभ्यनुज्ञानाभ्यर्थनादीनां ग्रहणम् ।
तेषां गतिः—प्रतीतिः, तस्या अङ्गं—कारणम्, असौ—हस्तकम्पादिर्भवति । तद्व
च्छब्दोऽपि भविष्यतीति शेषः ॥ २६१७ ॥ २६१८ ॥


यदुक्तम्— तस्माच्छब्दार्थसम्बन्धो नित्य एवाभिधीयते, इति तत्राह—
साक्षादित्यादि ।


साक्षाच्छब्दा न बाह्यार्थप्रतिबन्धविवेकतः ।

गमयन्तीति च प्रोक्तं विवक्षासूचकास्त्वमी ॥ २६१९ ॥

नहि कश्चिच्छब्दार्थयोर्वास्तवः सम्बन्धोऽस्ति । यस्य नित्यत्वमनित्यत्वं वा
स्यात् । तथाहि—न बाह्यमर्थं शब्दाः प्रतिपादयन्ति तेन सह प्रतिबन्धाभावादिति
पूर्वं शब्दपरीक्षायां निवेदितम् । प्रतिबन्धमन्तरेण च प्रतिपादयतामतिप्रसङ्गः
स्यात् । यद्येवं किं तर्हि प्रतिपादयन्तीत्याह—विवक्षासूचकास्त्वमीति । विव
क्षामपि न वाच्यतया प्रतिपादयन्ति, किं तर्हि ?, लिङ्गतया सूचयन्ति । अतएव
सूचका इत्युक्तम् । तथाहि—शब्दादुच्चरितादर्थाध्यवसायी विकल्पो जायते, न
विवक्षाध्यवसायी, यश्च न शब्देन ज्ञातेनाध्यवसीयते स कथं शब्दार्थः ॥ २६१९ ॥


703

यद्येवं विवक्षयाऽपि सह कस्तेषां सम्बन्धो येन तां लिङ्गत्वेन सूचयेदित्याह—
तस्या इत्यादि ।


तस्याः कार्यतया ते हि प्रत्यक्षानुपलम्भतः ।

निश्चिता इति तेनात्र कार्यकारणता स्फुटा ॥ २६२० ॥

तस्या विवक्षायाः कार्यत्वेनात्मनि प्रत्यक्षानुपलम्भाभ्यां शब्दा निश्चिता इति
कार्यकारणलक्षण एव सम्बन्धः ॥ २६२० ॥


यद्येवं समयस्तर्हि व्यर्थः, प्रत्यक्षानुपलम्भाभ्यामेव कार्यकारणभावस्य निश्चित
त्वादित्याह—कार्यकारणभावश्चेत्यादि ।


कार्यकारणभावश्च समयाद्येन निश्चितः ।

स विवक्षां प्रपद्येत शब्देभ्यो हस्तकम्पवत् ॥ २६२१ ॥

एवं मन्यते यद्यपि विवक्षामात्रेण सह कार्यकारणभावो निश्चितो विवक्षाविशे
षेण तु परसन्ताने समयादृते न निश्चेतुं शक्यत इत्यतस्तन्निश्चयाय समयः क्रियते ।
ननु च समयादपि कथमसौ निश्चेतुं शक्यते । तथाहि—यदि समयकाले परवि
वक्षाविशेषः प्रतीत्युपायः सम्भवेत्तदाऽसौ समयस्तत्र कृतः पश्चाद्व्यवहारकाले
विवक्षाविशेषप्रतीतिहेतुर्भवेत् । यावता स एवाभ्युपायो नास्ति । तथाहि—नानु
च्चार्य शब्दं समयः क्रियते, ततश्च तत एव शब्दाद्विवक्षाविशेषप्रतिपत्तावितरेतराश्र
यदोषः स्यात् । तथाहि—समयवशाच्छब्दो विशेषद्योतकः समयश्च विशेषाविशे
षप्रतिपत्तिमन्तरेण न शक्यत इति स्पष्टमितरेतराश्रयत्वम् । नैष दोषः । यदा सर्व
एवायं शाब्दो व्यवहारः स्वप्रतिभासानुरोधेनैवेष्यते भ्रान्तत्वात्तैमिरिकद्वयद्विचन्द्रव्य
वहारवत्तदा का रो(चो?) द्यचञ्चुता । नच सर्वत्र शब्द एव विवक्षाविशेषप्रतीति
हेत्तुरन्यथाऽपि कश्चिच्छृङ्गग्राहिकया प्रकरणादिना चार्थविशेषोपदर्शनेन च विवक्षा
विशेषमावेद्य समयं कुर्यादिति नेतरेतराश्रयत्वम् । किञ्च—भवतो विधिवादिन
स्तुल्यं चोद्यम्, परप्रत्तिपत्तेरप्रत्यकृत्त्वात्कथं वक्तृश्रोत्रोरेकार्थप्रतिपत्तिनिश्चय इति ।
नचैकार्थप्रतिपत्तिनिश्चयमन्तरेण समयो युक्तस्तस्य योऽत्र भवतः परिहारः स म
मापि भविष्यति । स्यादेतच्छब्दस्य विवक्षायामसमितत्वात्कथं तया सह सम्बन्धः
समयान्निश्चीयते । नह्यत्र समयः कृतोऽन्यार्थद्योतको भवत्यतिप्रसङ्गात् । नैष दोषः ।
विवक्षाशब्देनातत्परिवर्त्ती अर्थाकारो वा स्वरूपतया व्यस्तो यः स इहाभिप्रेतः ।
704 परमार्थतस्तस्य विवक्षास्वभावत्वात् । स एवेह विवक्षाविशेषोऽभिप्रेतः । तत्रैव च
समयो न स्वलक्षणे, स एव शब्देनाभिधीयते । ततस्तदाकारविकल्पोत्पत्तेः । केवला
तु विवक्षा न शब्देनाभिधीयत इत्युक्तम् ॥ २६२१ ॥


यद्येवं यदि विवक्षापरिवर्त्तिनाऽर्थाकारेण कार्यकारणलक्षण एव सम्बन्धः श
ब्दस्य तत्कथं तत्रतत्राचार्याः सामयिकं समयं वा शब्दार्थसम्बन्धामाहुरित्याह—विव
क्षावर्त्तिने
त्यादि ।


विवक्षावर्त्तिनाऽर्थेन कार्यकारणतात्मकः ।

शब्दानामेष सम्बन्धः समये सति जायते ॥ २६२२ ॥

तेन सामयिकः प्रोक्तस्तेन च द्योतनादतः ।

समयोऽप्युच्यते तेषां सम्बन्धो नतु मुख्यतः ॥ २६२३ ॥

श्रोतृचेतसि समये सति जायते भवतीति सामयिकः अध्यात्मादित्वात् ठञ् ।
यद्यपि तत्र भवतिः सत्तावचनो गृहीतस्तथापि परमार्थतः सत्ताजन्मनोरभेदात्तदेव
भावत्वेन विवक्ष्यते । वक्तृसन्ताने च समयो न(येन ?) द्योतनादुपचारात्समय
उच्यते । तस्य प्रतिनियतकालवर्त्तित्वेन तत्कालासम्भवात् ॥ २६२२ ॥ २६२३ ॥


ननु यदि परमार्थतो वस्तुनः सम्बन्धो नास्तीत्युक्तम्, कार्यकारणतालक्षणस्तर्हि
कथं भवतीत्याह—कार्यकारणभूताभ्यामित्यादि । ते एवेति ।


कार्यकारणभूताभ्यां वस्तुभ्यामन्य एव न ।

कार्यकारणतायोगस्ते एव तु तथोदिते ॥ २६२४ ॥

कार्यकारणभूते वस्तुनी । तथोदिते इति । कार्यकारणतेत्यादिना लाघवार्थम्
॥ २६२४ ॥


यद्येवं प्रतिपुरुषप्रयोगं तयोर्भेदात्कथमभिन्नसम्बन्धप्रतीतिर्वक्तृश्रोत्रोर्भवति । त
थाहि—वक्तुरेवं भवति, य एव समयकाले मया गृहीतोऽर्थः शब्दो वा तेनैव तमे
वार्थं प्रतिपादयामीति, तथा श्रोतुरप्येवं भवति—तेनैव तमेवायमर्थं प्रतिपादय
तीति । अन्यथा भिन्नारोधावस्थितयोः कथं व्यवहारः स्यादित्याह—ते चेत्यादि ।


ते च प्रत्येकमेकात्मरूपत्वेन जडैर्गते ।

सङ्केतव्यवहाराप्तकालव्याप्तिरतो मता ॥ २६२५ ॥

जडैरिति । भ्रान्तैः । गते इति । गृहीते । सङ्केतव्यवहाराभ्यामाप्तो व्याप्तश्चासौ
कालश्चेति तथोक्तः । तस्य व्याप्तिः । कार्यकारणाभ्यासैकरूपाभ्यामिति शेषः २६२५


705

अथैक एव पारमार्थिकः सम्बन्धः कस्मान्नेष्यते, येन काल्पनिक एवेष्ट इत्याह
एकस्त्वित्यादि ।


एकस्तु वास्तवो नैव सम्बन्ध इह युज्यते ।

असङ्कीर्णतयाऽर्थानां भेदेऽसम्बन्धता भवेत् ॥ २६२६ ॥

सम्बन्धो भवन्भिन्नानां वा भवेदभिन्नानां वा । न तावद्भिन्नानाम्, सर्वेषां स्वा
त्मनि स्थितत्वेनासङ्करात् । अभेदेऽप्येकमेव तद्वस्त्विति कस्य केन सह श्लेषो भवेद
तोऽसम्बन्धता भवेत् ॥ २६२६ ॥


यत्तु समयलक्षणसम्बन्धदूषणं समयः प्रतिमर्त्यं चेत्यादिना तत्र सिद्धसाध्यतां
प्रतिपादयन्नाह—समय इत्यादि ।


समयः प्रतिमर्त्यं च प्रत्युच्चारणमेव च ।

इत्याद्यतः परेणोक्तं परनीतिमजानता ॥ २६२७ ॥

समयो हि न सम्बन्धो नरधर्मतया तयोः ।

द्योतकः स तु तस्येति सम्बन्धः स्यान्न मुख्यतः ॥ २६२८ ॥

प्रत्युच्चारणमेनं च न परे प्रतिजानते ।

ईशादेः प्रतिषिद्धत्वात्सर्गादौ नच तत्कृतम् ॥ २६२९ ॥

अनिष्टापत्तिर्हि दूषणमुच्यते, नच बौद्धेन समयः शब्दार्थयोर्मुख्यः सम्बन्ध
इष्टस्तस्य पुरुषधर्मत्वात् । तस्य च दूषणे सति नेष्टक्षतिः काचित् । न चान्यधर्मो
ऽन्यस्य सम्बन्धो भवत्यतिप्रसङ्गात् । यच्चोक्तम्—प्रत्युच्चारणमेव वा क्रियते जग
दाद्यैवेति पक्षद्वयं तस्यानभ्युपगमादेवादूषणम् । तदाह—प्रत्युच्चारणमित्यादि ।
एनमिति । समयम् । पर इति । बौद्धाः । ईशादेरिति । ईश्वरब्रह्मादेः ॥ २६२७ ॥
॥ २६२८ ॥ २६२९ ॥


यदुक्तं प्रत्येकं वापि सम्बन्ध इत्यादि, तत्राह—प्रत्येकमित्यादि ।


प्रत्येकं यश्च सम्बन्धः सन्निभः (भिन्नः?) क्षणभङ्गतः ।

तुल्यप्रत्यवमर्शश्च भेदेऽपि न विरुध्यते ॥ २६३० ॥

द्वितीय एवात्र पक्षः । न च भेदधीप्रसङ्गो भेदेऽपि तुल्यप्रत्यवमर्शहेतुत्वाविरो
धात् । अतोऽनैकान्तिकमेतद्यदुक्तम्—भिन्नश्चेद्भेदधीर्भवेदिति ॥ २६३० ॥


स्यादेतत्—क्षणभङ्गोऽयमस्माकमसिद्धस्तत्कथमुच्यते ? क्षणभङ्गतो भिन्न इत्याह
क्रमेणेत्यादि ।


706
क्रमेण जायमानाश्च धियस्तद्विषयाः स्फुटम् ।

तस्याप्याहुः क्रमं तासामक्रमो ह्यन्यथा भवेत् ॥ २६३१ ॥

तस्यापीति । सम्बन्धस्य क्रममाहुः—प्रतिपादयन्तीत्यर्थः । अक्रमो ह्यन्यथा
भवे
दिति । धियामिति सम्बन्धः । एतच्च विपर्यये बाधकं प्रमाणम् । प्रयोगश्च पूर्व
वद्बोध्यः ॥ २६३१ ॥


वक्तृश्रोतृधियोर्भेदाद्व्यवहारश्च दुष्यतीत्यादावाह—सकृदेवेत्यादि ।


सकृदेव बहूनां तु सङ्केतकरणे सति ।

समयो नेष्यते भिन्नो नीलाद्येकक्षणो यथा ॥ २६३२ ॥

वक्तुरन्यो न सम्बन्धो बुद्धौ श्रोतुर्न चापरः ।

एकरूपा च सा यस्य(स्मात् ?) द्वयोरप्यनुवर्त्तनात् ॥ २६३३ ॥

श्रोतुः कर्तुं च सम्बन्धं वक्ता पूर्वं प्रपद्यते ।

पूर्वोपलब्धो यस्तेन तमेव हि करोत्यसौ ॥ २६३४ ॥

एकाकारा यतस्तस्य वृत्ता प्रत्यवमर्शधीः ।

तस्माद्भिन्नेऽपि शब्दादावेकत्वं सोऽध्यवस्यति ॥ २६३५ ॥

यथा नीलादिक्षणो बहुभिर्दृश्यमानोऽपि न भिद्यते, एवं बहूनां सङ्केतकरणेऽपि
सति न सम्बन्धो भेत्स्यति, किं पुनर्द्वयोः । सर्वेषां तुल्यप्रत्यवमर्शस्थितत्वादिति
भावः । अतो न वक्तृश्रोत्रोरन्यः सम्बन्धो भवति ॥ २६३२ ॥ २६३३ ॥
॥ २६३४ ॥ २६३५ ॥


यदुक्तम्—घटादावपि तुल्यं चेन्न सामान्यप्रसिद्धितः इत्यादि, तत्राह—
घटादावपीति ।


घटादावपि सामान्यं प्रागेव विनिवारितम् ।

नहि भूतगुणप्रख्या काचिदाकृतिरिष्यते ॥ २६३६ ॥

नचास्याकृतितः सिद्धा शक्तिरब्धारणादिषु ।

तेषामपि हि नित्यत्वमाकृतेर्यद्यभेदिनः ॥ २६३७ ॥

भेदे सम्बन्धदोषस्तु तदुत्पत्तौ त्वनित्यता ।

अतो नाकृतितो युक्ता शक्तिरब्धारणादिषु ॥ २६३८ ॥

घटादेर्व्यतिरेकेऽपि शक्तेर्दोषा इमे ध्रुवम् ।

अब्धारणादि तत्कार्यं नित्यमेवं प्रसज्यते ॥ २६३९ ॥

707

प्रागेवेति । सामान्यपरीक्षायाम् । पुनरत्रैव सङ्क्षेपेण निराकरणमाह—नही
त्यादि । भूतानाम्—आदित्यजहादीनां (क्षितिजलादीनां ?) कण्ठे (कार्ष्ण्यादि ?)
गुण(वत्)व्यतिरिक्ता भवता मीमांसकेन जातिरिष्यते । नापि दृश्यत्वेनेष्टा सती
सा दृश्यते, अव्यतिरिक्ताऽपि न युज्यते, तेषामपि घटादीनामाकृतिस्वरूपवन्नित्य
त्वप्रसङ्गात् । अथापि भिन्नाऽभ्युपगम्यते तदा सम्बन्धाभावदोषः, भिन्नानां हि
तदुत्पत्तिलक्षण एव सम्बन्धो भवेत्, ततश्च तदुत्पत्तौ सत्यां जातेरनित्यता प्रा
प्नोति, उत्पत्तिधर्मकत्वाद् घटवत् । क्वचित्तु नित्यतेति पाठः । तत्रायमर्थः—यदि
घटादीनां ततो जातेः सकाशादुत्पत्तिरङ्गीक्रियते तदा घटादीनां नित्यता प्राप्नोति,
नित्यं कारणस्य सन्निधानान्नित्यमुत्पत्तिः प्राप्नोतीत्यर्थः । उभयस्वभावपक्षे उभयप
क्षभावी दोषः, एकत्वहानिप्रसङ्गश्च । वस्तुनः स्वभावद्वयानुपपत्तेः । एवं हि द्वे
एव ते वस्तुनी कथिते स्यातां नैकमुभयात्मकम् । अनुभयपक्षे वस्तुत्वहानिप्रसङ्गः ।
एकस्य विधिप्रतिषेधायोगश्चेति वाच्यम् । इमे दोषा इति । सम्बन्धासिद्धिनित्य
तादिप्रसङ्गलक्षणाः । नित्यमब्धारणादिकार्यप्रसङ्गश्चाधिको दोषः ॥ २६३६ ॥
॥ २६३७ ॥ २६३८ ॥ २६३९ ॥


यदुक्तम्—शक्तिरेव हि सम्बन्ध इत्यादि । तत्राह—शक्तिरेव चेत्यादि ।


शक्तिरेव च सम्बन्धो भेदश्चास्या न चेन्मतः ।

शब्दार्थानां भवेदेका शक्तिरव्यतिरेकतः ॥ २६४० ॥

व्यतिरेकेऽपि सम्बन्धस्तस्यास्ताभ्यां न कश्चन ।

तदुत्पत्तौ न नित्यत्वं नचान्या वस्तुनो गतिः ॥ २६४१ ॥

नचान्येति । उभयानुभयस्वभावलक्षणे पूर्ववद्दोषप्रसङ्गात् ॥ २६४० ॥ २६४१ ॥


यदुक्तम्—सम्बन्धाख्यानकाल इत्यादि, तत्राह—सम्बन्धेत्यादि ।


सम्बन्धाख्यानकाले तु गोशब्दादावुदीरिते ।

केचित्सम्बन्धबुद्ध्याऽर्थं बुध्यन्ते न परे तथा ॥ २६४२ ॥

यस्मात्सम्बन्धसद्भावाद्यादृशः स प्रकाशितः ।

तावकीने तु सम्बन्धे सर्वोऽर्थमवधारयेत् ॥ २६४३ ॥

शक्तिरेव हि सम्बन्धो नित्या युष्माभिरिष्यते ।

सा चार्थबोधजनने नियताऽनवधिर्न वा ॥ २६४४ ॥

708
नियतानवधौ सर्वः किमर्थं नावधारयेत् ।

सावधावपि को हेतुः प्रकृतिश्चेत्स्वतस्तथा ॥ २६४५ ॥

सङ्केतग्रहणात्पूर्वं तस्य चास्मरणे पुनः ।

एकस्यैव प्रवृत्तं किं विज्ञानं तत्र वृत्तिमत् ॥ २६४६ ॥

तज्ज्ञानजन्मनियता सा हि शक्तिरवस्थिता ।

अथ ज्ञातैव सा शक्तिर्नियता परिकल्प्यते ॥ २६४७ ॥

ज्ञाताऽज्ञाता च भिन्ना चेन्नित्यत्वमवहीयते ।

ऐक्ये तु किंनिमित्तोऽयं विभाग उपवर्ण्यते ॥ २६४८ ॥

यादृश एतत्कार्यकारणभावलक्षणस्तादृशो यस्मात्सम्बन्धोऽस्ति तस्मात्केचिद्बुध्यन्त
इति युक्तं स्यात्, तस्य नियतज्ञानोत्पादकत्वेन स्थितत्वात् । भवदीये तु सम्बन्धे
सर्वमयुक्तमिति दर्शयति—तावकीन इत्यादि । तथाहि—शक्तिलक्षणसम्बन्ध
इष्यते, जनकं च रूपं शक्तिरुच्यते, सा च नित्यैकस्वभावत्वेनेष्टाऽर्थबोधजनने च
नियता, ततश्चार्थबोधनियता सती किमनवधिरिष्टा—कतिपयपुरुषावधिरहिता,
आहोस्विन्नेति पक्षद्वयम् । प्रथमे पक्षे सर्वेषां युगपत्सर्वथा चार्थावधारणप्रसङ्गः ।
द्वितीयेऽपि पक्षे प्रतिनियतविज्ञानजनकस्वभावनियामको हेतुर्वाच्यः, कृतकानां हि
भावानां प्रतिनियतकार्यजनकस्वभावस्य नियामकाः स्वहेतुप्रत्यया युक्ताः, न तु
नित्यानामिति भावः । स्यादेतन्नित्यानामपि प्रकृतिरेव सा तादृशी, येन प्रतिनियतं
कार्यं जनयन्ति, न सर्वं, नहि स्वभावाः पर्यनुयोगमर्हन्तीति, एवं हि यदि स्वत
एव तस्यायं स्वभावः परनिरपेक्षस्तदा सङ्केतग्रहणात्पूर्वं तथा विस्मृतसङ्केतस्य तस्यैव
प्रतिनियतस्य प्रतिपत्तुः सर्वदा ज्ञानप्रवृत्तिः प्राप्नोति, तज्ज्ञानजनने नियतायाः शक्तेः
सदाऽवस्थितत्वात् । अथापि स्यात् ज्ञापकत्वात्सम्बन्धलक्षणा शक्तिर्ज्ञाता सती
ज्ञानं जनयति, नाज्ञाता, तेन न भवति यथोक्तदोषप्रसङ्ग इति । तदसम्यक् । यदि
हि ज्ञाताज्ञातावस्थयोः परस्परं भेद इष्यते तदा नित्यत्वहानिः । अथाभेदस्तदा ज्ञा
ताज्ञातस्वभावद्वयविभागानुपपत्तिः, नह्येकस्य वस्तुन एकपुरुषापेक्षया ज्ञातत्वमज्ञा
तत्वं च परस्परं विरुद्धं स्वभावद्वयं युज्यता इति ॥ २६४२ ॥ २६४३ ॥ २६४४ ॥
॥ २६४५ ॥ २६४६ ॥ २६४७ ॥ २६४८ ॥


किञ्च—सति हि प्रतिपत्त्युपाये शक्तेर्ज्ञातत्वं स्याद्यावता स एव न सम्भवतीति
मन्यमानः पृच्छति—किञ्चेत्यादि ।


709
किञ्च केनाभ्युपायेन विज्ञाता शक्तिरिष्यते ।

अर्थापत्त्येति चेद्यस्मादयं न्याय इह स्थितः ॥ २६४९ ॥

शब्दवृद्धाभिधेयानि प्रत्यक्षेणात्र पश्यति ।

श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टया ॥ २६५० ॥

अन्यथानुपपत्त्या च वेत्ति शक्तिं द्वयाश्रिताम् ।

अर्थापत्त्याऽवबुध्यन्ते सम्बन्धं त्रिप्रमाणकम् ॥ २६५१ ॥

अर्थापत्तेरित्यादिना परस्योत्तरं विस्तरेण तावदाशङ्कते । तथाहि—सम्बन्धप्र
तिपत्तेरयं न्यायः कुमारिलेन वर्णितः—यस्मात्प्रथमं तावत्प्रत्यक्षेण शब्दं वृद्धं च
शब्दस्याख्यातारमभिधेयं च वाच्यं वस्तु पश्यति, ततः पश्चादनुमानेन चेष्टाल
क्षणेन लिङ्गेन श्रोतुः प्रतिपन्नत्वं पश्यति—अवधारयतीत्यर्थः । करणं कारकं कृत्वा
चेष्टाया अनुमानत्वमुक्तम् । ततश्च पश्चादर्थापत्त्या द्वयाश्रिताम्—शब्दार्थाश्रितां शक्तिं
वेत्ति । अर्थापत्त्या तु साक्षादवबुध्यन्त इत्यतोऽर्थापत्त्याऽवबुध्यन्त इत्युक्तम् ।
त्रिप्रमाणकमिति । प्रत्यक्षानुमार्थापत्तिलक्षणानि त्रीणी प्रमाणानि यस्याधिगमाय
भवन्ति स तथोक्ताः ॥ २६४९ ॥ २६५० ॥ २६५१ ॥


अन्यथैवेत्यादिना दूषणमाह ।


अन्यथैवोपपन्नत्वाच्छक्तिर्बोद्धुं न शक्यते ।

शब्दात्सामयिकाद्यस्मात्प्रतिपत्तिरनाकुला ॥ २६५२ ॥

अनेनार्थापत्तेरनैकान्तिकतामाह—विनापि नित्यसम्बन्धं प्रतिपत्तिसम्भवस्य प्र
तिपादितत्वात् ॥ २६५२ ॥


न केवलसाधकप्रमाणाभावात्तत्कल्पना न युक्ता, प्रमाणबाधितत्वादपि न यु
क्तेति दर्शयन्नाह—शक्तिनित्यत्वेत्यादि ।


शक्तिनित्यत्वपक्षे तु सङ्केतादि व्यपेक्षते ।

न किञ्चिदिति शब्दार्थप्रतिपत्तिः सदा भवेत् ॥ २६५३ ॥

समर्थान्तरभावे च कालिमार्यादिशब्दवत् ।

नान्यार्थबोधकत्वं स्याद्ध्वनेर्नियतशक्तितः ॥ २६५४ ॥

नानार्थद्योतनायैव शक्तिरेका यदीष्यते ।

भिन्ना वा शब्द एकस्मिन्सकृन्नानार्थविद्भवेत् ॥ २६५५ ॥

710

प्रयोगः—ये सङ्केतापेक्षार्थप्रकाशना न ते नित्यसम्बन्धयोगिनः, यथा गाव्या
दिशब्दाः, सङ्केतापेक्षार्थप्रकाशनाश्च गवादयो लौकिकवैदिकाः शब्दा इति विरुद्ध
व्याप्तोपलब्धिः । सापेक्षत्वस्य नित्यसम्बन्धयोगित्वविरुद्धेनानित्यसम्बन्धयोगित्वेन
व्याप्तत्वात् । एतच्च प्रमाणं पेश्चात्करिष्यते । अत्र तु व्याप्तिमात्रमस्य प्रसाध्यते ।
तथाहि—शक्तिलक्षणेनार्थप्रतिपत्तिहेतुना सम्बन्धेन नित्यसम्बन्धयोगिनः शब्दा
इष्टाः । सा च शक्तिर्नित्यत्वादनुपकार्येति न किञ्चित्सङ्केतादि व्यपेक्षते । ततश्च
तद्भाविनी शब्दार्थप्रतिपत्तिः सर्वदा भवेत् । किञ्च—सा शक्तिरेकार्थनियता वा
भवेन्नानार्थनियता वा, तत्रापि नानार्थनियमपक्षे किमेकस्य शब्दस्य नानार्थद्योतिका
शक्तिरेकैव, आहोस्विदनेकेति विकल्पाः । तत्राद्ये पक्षे यदेतद्देशकालादिभेदेन सङ्के
तान्तरे क्रियमाणे सति ध्वनेः शब्दस्यापा(न्या ?)र्थबोधकत्वं दृष्टम्—यथा कलिमा
र्यादिशब्दानां द्रविडा(डा ?)र्यदेशयोर्यथाक्रममन्तकालवर्षोपसर्गाद्यभिधायिनां(?) तन्न
प्राप्नोति, नियतशक्तिकत्वात् । चक्षुरादिवत् । नहि चक्षुः सङ्केतवशाद्रसाद्युपल
म्भाय नियोगमर्हति । द्वितीयेऽपि पक्षे एकस्माच्छब्दाद्युगपत्सर्वेषां पुंसां शब्दार्थ
प्रतिपत्तिप्रसङ्गः । तद्दर्शयति—शब्द एकस्मिन्नित्यादि ॥ २६५३ ॥ २६५४ ॥
॥ २६५५ ॥


अत्रैव दोषान्तरमाह—अर्थद्योतनशक्तेश्चेत्यादि ।


अर्थद्योतनशक्तेश्च सर्वदैव व्यवस्थितेः ।

तद्धेतुरर्थबोधोऽपि सर्वेषां सर्वदा भवेत् ॥ २६५६ ॥

तस्मिन्सङ्केतसापेक्षा शक्तिश्चेत्परिकल्प्यते ।

ननूपकार्यपेक्ष्येत नोपकार्या च साऽचला ॥ २६५७ ॥

तस्मिन्निति । अर्थबोधे । सेति । शक्तिः । अचलेति । नित्या । अयं चानुप
कार्यत्वे हेतुः ॥ २६५६ ॥ २६५७ ॥


अभ्युपगम्यापि सङ्केतसापेक्षत्वं दोषान्तरमाह—अर्थद्योतनहेतोश्चेत्यादि ।


अर्थद्योतनहेतोश्च सङ्केतस्य नराश्रयात् ।

शक्तावितरजन्यायामपि मिथ्यात्वसम्भवः ॥ २६५८ ॥

अपि नामासङ्कीर्णमर्थं जानीयामिति सङ्करहेतुः पुरुषोऽपाकीर्णो भवता, तत्र
यथा क्वचित्तैः प्रयुक्ताः सङ्कीर्यन्ते शब्दास्तथा सर्वार्थसाधारणाः सन्तो वैदिकाः
711 क्वचित्तैरिच्छावशात्संमिताः किं न सङ्कीर्येरन् । तेषां पुंसां तत्त्वापरिज्ञानात् । तथा
हीच्छावशात्समयः सा च तेषामतत्त्वविदां स्वातन्त्र्येण प्रवर्त्तमाना केन नियम्येत ।
ततश्च स्वतन्त्रेच्छाभावी समयोऽपि स्वैरी वैरी च किमिति विरुद्धमर्थं परिहरेत्
॥ २६५८ ॥


नानार्थद्योतनशक्तिपक्षमभ्युपगम्य दोषान्तरमाह—नानार्थद्योतने शक्ति
रि
त्यादि ।


नानार्थद्योतने शक्तिर्भवत्वेकस्य हि ध्वनेः ।

नाग्निहोत्रादयस्त्वर्थाः सर्वे सर्वोपयोगिनः ॥ २६५९ ॥

तदिष्टविपरीतार्थद्योतनस्यापि सम्भवात् ।

नित्यशब्दार्थसम्बन्धकल्पना वो निरर्थका ॥ २६६० ॥

यद्यपि शब्दानां नानार्थप्रतिपादनसामर्थ्यमस्ति, नत्वर्थानां सर्वार्थक्रियाका
रित्वं, प्रतिनियतत्वात्कार्यकारणभावस्य । अन्यथा हि न कश्चिद्विघाती स्यादवि
घाती वा । ततश्च प्रतिनियतार्थक्रियासाधनेऽर्थे प्रतिपिपादयिषिते सति सर्वार्थ
साधारणस्य शब्दस्येष्टार्थविषयमेव समयं समयकृत्करोतीति कुत एतल्लभ्यम् ।
तस्मान्मिथ्यात्वसम्भवान्नित्यसम्बन्धकल्पना व्यर्थैव ॥ २६५९ ॥ २६६० ॥


पुनरप्यानर्थक्यमस्य दर्शयन्नाह—सङ्केते चेत्यादि ।


सङ्केते च व्यपेक्षायां नित्यसामर्थ्यलक्षणः ।

किमकारण एवायं सम्बन्धः परिपोष्यते ॥ २६६१ ॥

सिद्धोपस्थायिनस्तस्य नहि कश्चित्समीक्ष्यते ।

सङ्केतव्यतिरेकेण व्यापारोऽर्थावबोधने ॥ २६६२ ॥

यदि सत्तामात्रेण सम्बन्धोऽर्थप्रतीतिहेतुः स्यात्तदा सङ्केतानभिज्ञस्यापि स्यादि
त्यवश्यं समयापेक्षिता तस्येष्टव्या । ततश्च समयस्याप्यर्थप्रतीतिहेतुत्वेऽङ्गीक्रियमाणे
स किमकारणं सिद्धोपस्थायी नित्यसम्बन्धोऽपरः पोष्यते । तथाहीयानेव सम्ब
न्धस्य व्यापारो यदर्थप्रतीतिजननं, तच्चेत्समयेन क्रियते तदा किमपरनित्यसम्बन्ध
कल्पनया । नचापि तस्यानाधेयातिशयस्य काचिदपेक्षेति शतशश्चर्चितम् । अदृष्टसा
मर्थ्यस्य च हेतुत्वकल्पने हन्त हरीतकीं प्राप्य देवता विरेचयन्तीति किं न कल्प्येत
॥ २६६१ ॥ २६६२ ॥


712

तथाहीत्यादिना सम्बन्धस्य तामेव व्यापारासिद्धिं दर्शयति ।


तथाहि व्यवहारोऽयं न दृष्टः समयं विना ।

तस्मात्सम्बन्धसिद्धिश्चेत्यनर्थेयं परम्परा ॥ २६६३ ॥

तस्मादिति । सङ्केतात् । अनर्थेयं परम्परेति । अदृष्टसामर्थ्यस्य हेतुत्वकल्पने
ऽनवस्थादोषात् । तथाहि—सम्बन्धेऽपि कल्पिते पुनरपि कस्मादपरमदृष्टसामर्थ्यं
हेत्वन्तरं न कल्प्येत, अदृष्टसामर्थ्येनाविशेषात्, एवं पुनरपीति महत्यनर्थपरम्परा
जायेत ॥ २६६३ ॥


एवं बाधकस्य प्रमाणस्य व्याप्तिं प्रसाध्य नरेच्छेत्यादिनाऽर्थापत्तेरनैकान्तिकत्वं
पूर्वं प्रतिपादितमुपसंहरति ।


नरेच्छामात्रसम्भूतसङ्केतादपि केवलात् ।

युज्यते व्यवहारश्च ततो योगो न सिद्ध्यति ॥ २६६४ ॥

योगो न सिद्ध्यतीति । नित्य इति शेषः ॥ २६६४ ॥


एवं च कृत्वा यच्चेदमुक्तं—सर्वेषामनभिज्ञानां पूर्वपूर्वप्रसिद्धित, इत्यादि, तत्प
रस्परपराहतमुक्तमिति दर्शयति—अन्यथाऽनुपपत्तिरित्यादि ।


अन्यथाऽनुपपत्तिस्तद्व्यवहारस्य शङ्क्यते ।

अतीन्द्रियश्च योगोऽतो न नरैरवगम्यते ॥ २६६५ ॥

सर्वेषामनभिज्ञत्वात्पूर्वपूर्वाप्रसिद्धितः ।

न सिद्धो योग इत्येवं किमसौ परिकल्प्यते ॥ २६६६ ॥

यदि हि सर्वेषामनभिज्ञत्वं कथं तर्हि पूर्वपूर्वतोऽनभिज्ञत्वात्सम्बन्धप्रसिद्धिर्भवेत्,
नह्यन्धपरम्परा परेषां रूपविशेषोपदेशाय प्रभवति । यथोक्तं शाबरे भाष्ये—नैव
ञ्जातीयकेष्वर्थेषु पुरुषवचनं प्रामाण्यमुपैति, अन्धानामिव वचनं रूपविशेषेष्विति ।
स्यादेतदप्रत्यक्षदर्शित्वात्सर्वेऽनभिज्ञा उच्यन्ते, नतु सर्वथा परिज्ञानाभावात्, शाब्द
व्यवहारान्यथानुपपत्त्या तु प्रमाणेन पूर्वपूर्वेषां वृद्धानामभिज्ञत्वमस्त्येवेति । नैतदेवं
यतोऽन्यथाऽपि सङ्केताच्छाब्दो व्यवहारः प्रवर्तेत । एतन्न नाम दर्शि (निश्चि ?)तं,
तथापि संदिग्धमेतत्—किमसौ नित्य आहोस्विदनित्य इति । अतएवाह—
शङ्क्यत इत्यादि । तथाहि—अर्थापत्त्या सम्बन्धमात्रास्तित्वं प्रतिपाद्यते, नतु
विशेषः, तेन सह प्रतिबन्धासिद्धेरित्यभिप्रायः । अतएवानुमानान्नार्थापत्तेर्भेदः ।
713 स्यादेतत्—नानित्यस्यार्थप्रतिपादनहेतुत्वं दृष्टम्, न च युक्तमिति पूर्वं प्रतिपादित
मतोऽसामर्थ्यान्नित्यं सिध्यतीति । तदेतन्नित्येऽपि समानमसिद्धं च । तथाहि । नित्य
स्यापि सम्बन्धस्यार्थप्रतिपत्तिहेतुत्वं न दृष्टमिति समानम्, हस्तकम्पादीनामनित्य
त्वेऽपि प्रतिपादकत्वं दृष्टमित्यदृष्टमसिद्धम् । अत एवायुक्तत्वमसिद्धम् । नित्यस्य
च क्रमयौगपद्याभ्यामर्थक्रियाविरोधादिति, तस्यैवायुक्तत्वमिति यत्किञ्चिदिति
( देतत् ? ) ॥ २६६५ ॥ २६६६ ॥


एवमर्थापत्तेरनैकान्तिकत्वमुपसंहृत्य बाधकं प्रमाणमुपसंहरति—तद्गवाश्वादय इत्यादि ।


तद्गवाश्वादयः शब्दा नित्यसम्बन्धयोगिनः ।

सङ्केतसव्यपेक्षत्वान्नैव गाव्यादिशब्दवत् ॥ २६६७ ॥

दिति । तस्मात् । नित्यसम्बन्धयोगिन इति । नेति सम्बन्धः । प्रयोगरचना
तु पूर्वमेव दर्शिता ॥ २६६७ ॥


ननु च गाव्यादिशब्दानामसाधुत्वान्नैव वाचकत्वमिष्टं परेणेत्यसिद्धो दृष्टान्तः ।
तथाचोक्तं कुमारिलेन—गोशब्देऽवस्थितेऽस्माकं तदशक्तिजकारिताकारितात् । गाव्यादेरपि
गोबुद्धिर्मूलशब्दानुसारिणी
ति । अयमस्यार्थः-गोशब्दे साधौ वाचके सति या
गाव्यादेरसाधोः प्रयोगात् गोबुद्धिर्भवतीत्युच्यते, न सा तत एव भवति, किं
तर्हि मूलम् ?, प्रधानं साधु गोशब्दमनुसृत्य । तदशक्तिजकारितादिति । गाव्यादेरिति
सामानाधिकरण्येन सम्बन्धः, तस्मिन् गोशब्दे साधौ पुरुषस्योच्चारयितुमशक्तिस्त
दशक्तिस्ततो जातो यस्ताल्वादिव्यापारः स तथोक्तस्तेन कारितो गाव्यादिशब्दः ।
तथा भर्तृहरिणोक्तम्— अम्बाम्बेतिअ(ग?)वाश्वेति यथा बालः शिक्ष्यमाणः प्रभाषते । अव्यक्तं
तद्विदां तेन व्यक्तेर्भवति निश्चयः ॥ एवं साधौ प्रयोक्तव्ये योऽपभ्रंशः प्रयुज्यते । तेन
साधुव्यवहितः कश्चिदर्थोऽनुमीयते ॥
इति । अत इदमाह—गोशब्देऽवेत्यादि ।


गोशब्देऽवस्थिते योग्ये तदशक्तिजकारिताकारितात् ।

गाव्यादेरपि गोबुद्धिर्मूलशब्दानुसारिणी ॥ २६६८ ॥

तन्नैवमित्यादिना प्रतिविधत्ते ।


तन्नैवं शनकादीनां(?) संस्कृतानवबोधनात् ।

मूलशब्दानुसारेण कथमर्थगतिर्भवेत् ॥ २६६९ ॥

714
तस्माच्छब्दार्थसम्बन्धो नित्यो नाभ्युपगम्यते ।

स तु सामयिको युक्तः सर्वथा तस्य सम्भवात् ॥ २६७० ॥

शनकादीनामिति । कैवर्त्तकादीनाम् । आदिशब्देन म्लेच्छादीनां ग्रहणम् ।
तथाहि तेषां प्रत्युत संस्कृतेनैव शब्देनार्थे प्रतिपाद्यमाने व्यामोह एव भवत्यतो न
मूलशब्दानुसारिणी युक्ताऽर्थगतिः ॥ २६६९ ॥ २६७० ॥


यदुक्तम्—देशोत्सादकुलोत्सादरूपो वा प्रलयो भवेत् । इत्यादि तत्राह—
देशोत्सादेत्यादि ।


देशोत्सादकुलोत्सादरूपो यः प्रलयो भवेत् ।

यो वाऽव्याहतबौद्धेष्टो ब्रह्मादेरपि शङ्क्यते ॥ २६७१ ॥

तस्मिन्सम्भाव्यते वेदे ध्वस्तमूला मतिः परा ।

मिथ्यामोहमदादिभ्यो विपरीता च कल्पना ॥ २६७२ ॥

अन्य एव भवेद्वेदः प्रतिकञ्चुकतां गतः ।

इत्यप्याशङ्क्यते यावद्बाधकं न प्रकाश्यते ॥ २६७३ ॥

एवं मन्यते । नैवास्माभिरपि शब्दोच्छेदात्मकः प्रलयो वर्ण्यते । नाप्यनादिपुरुषः
सृष्टिसंहारकारकः । किं तर्हि ? सर्वमेव जगदनादि । व्यवहारोऽप्यनादिवासनोद्भूतवि
कल्पपरिनिष्ठितः शाब्दः प्रवर्त्तत इति । किन्तु योऽयं भवता देशोत्सादादिरूपप्रलयो
वर्णितो यश्च बौद्धैरग्न्यम्बुवायुसंवर्त्तनीयस्वभावः पर्यन्ततस्त्रिसाहस्रमहासाहस्रलोक
धातुमर्यादोऽधस्ताद्वायुमण्डलावधिरुप(रि)ष्टाद्यथाक्रमं प्रथमद्वितीयतृतीयध्यानपर्यन्तः
सोऽयं प्रमाणेनाबाधितत्वादव्याहतोऽशक्यनिषेधत्वाद्ब्रह्मादेरपि शङ्क्यते, अतोऽस्मि
न्द्विविधेऽपि प्रलये वेदस्य ध्वंसः सम्भाव्यते, विपरीतार्थकल्पनं च । तथा चान्य
एवायं वेदः प्रतिकञ्चुकताम्—तत्प्रतिभासतां गतः, इत्याशङ्का न निवर्त्तते याव
द्वाधकं प्रमाणं नोच्यते भवतेति ॥ २६७१ ॥ २६७२ ॥ २६७३ ॥


स्यादेतदस्त्येव बाधकं प्रमाणम् । तथाहीदानीं तावत्सर्वत्र देशे पुरुषैर्न वेदस्य
पाठादेरन्यथात्वं शक्यते कर्तुम् । अतः कालान्तरेऽपि तथाभूद्भविष्यति चेत्यध्यव
स्याम इत्यत एतदाशङ्क्याह—अन्यथा करणेच्छायामित्यादि ।


अन्यथा करणेच्छायामपि वर्त्तेत न ध्वनिः ।

तथैव यदि वाञ्छा सा नृणां जायेत नान्यथा ॥ २६७४ ॥

715
शङ्क्येतायं तथा वेदो न ग्रन्थार्थान्यथात्मकः ।

अन्यथेच्छाप्रवृत्तौ तु नाशङ्का विनिवर्त्तते ॥ २६७५ ॥

यदि हि सत्यामन्यथाकरणेच्छायां वेदध्वनिरन्यथा न प्रवर्त्तेत, अन्यथा कर
णेच्छा चोत्पादयितुं न शक्यते, तदा वेदपाठादेरन्यथात्वकरणाशक्तिः पुंसः
सिद्ध्येत् । तत्रापि न सर्वपुंसां सिद्ध्यति, अदर्शनमात्रस्याप्रमाणत्वात् । पुरुषाणा
मतिशयदर्शनाच्च । यावता शक्यते शं नो देवीरभिष्टय इत्यादेर्वेदवाक्यस्य पाठोऽन्य
थापि कर्तुं, अर्थो वा व्याख्यातुम् । तथाहि मीमांसकनिरुक्तकारादयो बहुधा वेदार्थं
विशंसन्तो दृश्यन्ते । तस्मान्न शङ्कानिवृत्तिः ॥ २६७४ ॥ २६७५ ॥


यदुक्तम्—न च क्रमस्य कार्यत्वमित्यादि परिहारोपवर्णनम्, तत्राह—नच
सर्वैरि
त्यादि ।


नच सर्वैः क्रमः पुंभिः सर्वसिद्धः प्रगृह्यते ।

स्वातन्त्र्येणापि कुर्वन्ति पदवाक्याक्षरक्रमम् ॥ २६७६ ॥

अन्यथा कृतकः कश्चित्स्याद्ग्रन्थो वेदवन्न ते ।

अनर्थग्रन्धमात्रेऽपि ध्वस्ता कृतिरतस्तथा ॥ २६७७ ॥

यथैवास्य परैरुक्तस्तथैवैनं विवक्षति ।

इत्येषाऽनियतिस्तन्न सम्बन्धवदनादिता ॥ २६७८ ॥

पदानि च वाक्यानि चाक्षराणि चेति तथोक्तानि, तेषां क्रम इति विग्रहीत
व्यम् । अनर्थग्रन्थमात्रेऽपीति । कृतिर्ध्वस्तेति सम्बन्धः, अविद्यमानोऽर्थो यस्य
ग्रन्थस्यासौ, दश दाडिमादिवाक्यवदनर्थः, वेदविरुद्धार्थो वाऽनर्थो बौद्धादिसि
द्धान्तवत्, अनर्थश्चासौ ग्रन्थश्चेति तथोक्तः । मात्रशब्देन व्याप्तिं दर्शयति । कृतिः
—करणम् । तथेति । वेदवत् । अनियतिरिति । अनियमः । एष नियमो न
स्यादिति यावत् । दिति । तस्मात् ॥ २६७६ ॥ २६७७ ॥ २६७८ ॥


यदुक्तम्—परेणोक्तान्ब्रवीमीत्यादि तत्राह—परेणोक्तानित्यादि ।


परेणोक्तान्ब्रवीमीति विवक्षा चेदृशी भवेत् ।

तुल्यप्रत्यवमर्शाद्धि विभ्रमात्कर्मभेदवत् ॥ २६७९ ॥

कर्मभेदवदिति । सप्तम्यन्ताद्वतिः । अनेनैकप्रत्यवमर्शस्य विपक्षसम्भवोपदर्श
नादनैकान्तिकतोक्ता भवति ॥ २६७९ ॥


716

स्यादेतद्विभ्रमत्वमस्य कथं सिद्धमित्याह—परेणोक्तास्त्वित्यादि ।


परेणोक्तास्तु नोच्यन्ते वैलक्षण्यात्स्वरादिभिः ।

नच व्यञ्जकधर्मोऽयं वर्णात्मत्वेन दर्शनात् ॥ २६८० ॥

ततः प्रतिनरं वर्णा भिन्ना दृष्टा घटादिवत् ।

अतो भेदे सुविस्पष्टे तच्चिह्नं किं निषिध्यते ॥ २६८१ ॥

स्वरादिभिरिति । उदात्तादिभिः । आदिशब्देन द्रुतमध्यविलम्बितादिपरिग्रहः ।
न च व्यञ्जकधर्मोऽयमिति । स्वरादिः । कुतः ? । वर्णात्मत्वेन तस्य स्वरादेर्द
र्शनात् । सिद्धत्वादित्यर्थः । तच्चिह्नमिति । तस्य वर्णभेदस्य चिह्नं तच्चिह्नम्, तत्कि
मिति निषिध्यते न चान्यच्चिह्नमस्ति चे त्यनेन ॥ २६८० ॥ २६८१ ॥


जात्या यथा घटादीनामित्यादावाह—प्राक्चेत्यादि ।


प्राक्च जात्या घटादीनां व्यवहारोपलक्षणम् ।

निषिद्धं तदसत्त्वेन व्यक्त्या च तदयोगतः ॥ २६८२ ॥

प्रागिति । सामान्यपरीक्षायाम् । तदसत्त्वेनेति । तस्या जातेरसत्त्वेन । सत्यपि
सत्त्वे व्यक्त्या घटादिलक्षणायाः सह तस्या जातेरनुपकार्याया अयोगतोऽसम्बन्धा
दयुक्तं तया व्यवहारोपलक्षणम् ॥ २६८२ ॥


तेन जातिद्वारेण यदेतत्समुपकल्पितं तत्सर्वमसङ्गतमिति दर्शयति—ताल्वा
दिजातयस्तस्मादि
त्यादि ।


ताल्वादिजातयस्तस्मात्सर्वपुंस्वव्यवस्थिताः ।

नातो वक्ता ध्वनींस्ताभिरुप(ल)क्ष्य निरस्यति ॥ २६८३ ॥

यदुक्तम्— तेषां च जातयो भिन्नाः शब्दाभिव्यक्तिहेतवः इत्यादि, तत्राह—
तन्नेत्यादि ।


तन्न तज्जातयो भिन्नाः शब्दाभिव्यक्तिहेतवः ।

यावद्वर्णं प्रवर्तन्ते व्यक्तयो वा तदन्विताः ॥ २६८४ ॥

दिति । तस्मात् ॥ २६८४ ॥


यदप्युक्तं तत्र ताल्वादिसंयोगेत्यादि, तत्राह—तत्र ताल्वादीत्यादि ।


तन्न ताल्वादिसंयोगविभागक्रमपूर्वकम् ।

ध्वनीनामानुपूर्व्यं ते जात्या चोभयनित्यता ॥ २६८५ ॥

717

यदप्युक्तं यथैव भ्रमणादीनामित्यादि, तत्र यथा न भ्रमणादीनामित्या
दिना दृष्टान्तासिद्धिमाह ।


यथा न भ्रमणादीनां भागा जात्युपलक्षिताः ।

क्रमानुवृत्तिरेवं नो ताल्वादिध्वनिवर्णभाक् ॥ २६८६ ॥

जातेर्निरस्तत्वादिति । ( भावः ) ॥ २६८६ ॥


यदुक्तम्—व्यक्तीनामेव वेत्यादि, तत्राह—व्यक्तिनामपीत्यादि ।


व्यक्तीनामपि नो सौक्ष्म्याज्जातिधर्मावधारणम् ।

तद्वशेन न वर्णानां व्यापित्वेऽपि क्रमग्रहः ॥ २६८७ ॥

यदुक्तम्—तद्वशेनेति । तत्राह—तद्वशेनेत्यादि ॥ २६८७ ॥


यदप्युक्तं ध्वनिगुणानित्यादि, तत्रोच्यते—तन्नेत्यादि ।


तन्न ध्वनिगुणान्सर्वान्नित्यत्वेन व्यवस्थितान् ।

वर्णा अनुपतन्तः स्युरर्थभेदावबोधिनः ॥ २६८८ ॥

यदुक्तम्— तेषां च जातयो भिन्नाः शब्दाभिव्यक्तिहेतवः इत्यादि, तत्राभ्यु
पगम्य जातिदूषणमाह—अन्यच्चेत्यादि ।


अन्यच्च जातयो भिन्नाः शब्दाभिव्यक्तिहेतवः ।

यावद्वर्णं प्रवर्तन्ते व्यक्तयो वा तदन्विताः ॥ २६८९ ॥

इति व्यञ्जकसद्भावान्नित्यं शब्दोपलम्भनम् ।

अतो व्यक्तिक्रमात्माऽपि युक्तो वर्णक्रमो न ते ॥ २६९० ॥

अयं च निपातसमुदायो वाक्योपन्यासे द्रष्टव्यः । इतिशब्दो हेतौ । तेनायमर्थो
भवति, त(य ?)स्माज्जातयो....शब्दाभिव्यक्तिहेतवः स्थितास्तेन1 ........शब्दोपलम्भो
....नित्यं प्राप्नोति । व्यक्तेः क्रमाभावात्तदात्मा...न युक्तः........व्यक्तमेवा....इति
॥ २६८९ ॥ २६९० ॥


तत्र जातिव्यक्त्योः सम्बन्धमभ्युपगम्य दोषमाह—व्यक्तिसम्बन्धरूपाणा
मित्यादि ।


718
व्यक्तिसम्बद्धरूपाणां जातीनां च व्यवस्थितौ ।

व्यक्तीनामपि नित्यत्वं दुर्वारमनुषज्यते ॥ २६९१ ॥

जातिसम्बन्धरूपाणां व्यक्तीनां वा व्यवस्थितौ ।

जातीनामप्यनित्यत्वमकामस्यापि ते भवेत् ॥ २६९२ ॥

द्विष्ठत्वात्सम्बन्धस्य, जातीनां नित्यत्वाभ्युपगमाच्च तत्सम्बन्धस्वभावानां व्यक्ती
नामपि नित्यत्वं प्राप्नोति । अन्यथा हि जातीनां तत्सम्बन्धस्वरूपता न स्यात् ।
तथा व्यक्तीनामनित्यत्वाभ्युपगमात्तत्सम्बन्धस्वरूपाणां जातीनामप्यनित्यत्वं प्राप्नोति ।
बहि....स्व च स्वरूपेणव्यक्तीनामनित्यतासेत्स्यति यदि तत्सम्बन्धादीनां जातीना
मप्यनित्यता भवेत् । अन्यथा हि द्वितीयसम्बन्धिन्यविकले सति न युक्तमपरस्य
वैकल्यं सम्बन्धस्वभावहानिप्रसङ्गात् ॥ २६९१ ॥ २६९२ ॥


दूषणान्तरं पूर्वोक्तं वारयन्नाह—अभिव्यक्तेरयोग इत्यादि ।


अभिव्यक्तेरयोगे च पुरस्तादुपपादिते ।

इत्थं प्रतायमानाः स्युर्वर्णास्ते नावबोधकाः ॥ २६९३ ॥

इति व्यक्त्यंतस्य ( ? ) ॥ २६९३ ॥


यदुक्तं कालश्चैको विभुर्नित्य इत्यादि, तत्राह—कालोऽपीत्यादि ।


कालोऽप्येको विभुर्नित्यः पूर्वमेव निराकृतः ।

वर्णवत्सर्वभावेषु व्यज्यते नच केनचित् ॥ २६९४ ॥

वर्णेषु व्यज्यमानस्य नास्य प्रत्यायनाङ्गता ।

अन्याविशेषान्नान्यत्र सद्भावाच्चास्य नित्यता ॥ २६९५ ॥

तदानुपूर्वी वर्णानां ह्रस्वदीर्घप्लुताश्च ये ।

कालस्य प्रविभागास्ते न युक्ता ध्वन्युपाधयः ॥ २६९६ ॥

तस्मान्न पदधर्मोऽस्ति नित्यस्ते कश्चिदीदृशः ।

तेनानित्यं पदं सिद्धं वर्णानित्यत्ववादिनाम् ॥ २६९७ ॥

परधर्मेऽपि चा(ना?)ङ्गत्वं भवेदश्वजवादिवत् ।

यदि व्यक्तिः प्रकल्पेत व्यञ्जकैः प्रत्ययैरिह ॥ २६९८ ॥

पूर्वमेवेति । षट्पदार्थपरीक्षायाम् । व्यज्यते नच केनचिदिति । असत्त्वादेव,
सत्त्वेऽपि नित्यस्य व्यक्तेर्नि( य )तत्वात् । अन्याविशेषादिति । न्यस्माद
719 विशेषो अन्याविशेषः । तथाहि—बीजाङ्कुरलतादिषु यो व्यज्यते कालस्यात्मा
ततस्तस्य वर्णेषु व्यज्यमानस्य कालात्मनो न कश्चिद्विषयोऽ(शेषोऽ ?)स्ति । एकस्य
............अन्यत्र सद्भावात्तस्य नित्यात्....योगादिति....( ) दिति । तस्मात् ।
न युक्ता इति । कालस्यासत्त्वात्, सत्त्वेऽप्यभ्युपगतमविभागत्वमिति । परधर्मे
ऽपीत्यादावाह—परधर्मेऽपीत्यादि । शेषं सुबोधम् ॥ २६९४ ॥ २६९५ ॥
॥ २६९६ ॥ २६९७ ॥ २६९८ ॥


नित्यतायां तु सर्वेषामर्थापत्तिरपाकृता ।

अर्थप्रतीतिरूपत्वमनित्येषु हि साधितम् ॥ २६९९ ॥

यो यद्विवक्षासम्भूतविवक्षान्तरतस्थि(स्त ?)तः ।

वर्ण उत्पद्यते तस्य श्रुतिस्तत्समनन्तरम् ॥ २७०० ॥

पूर्ववर्णविदुद्भूतसंविन्नातिद्रुतश्रुतिः ।

सोऽपेक्ष्य तत्स्मृतिं पश्चात्कुरुते स्मृतिमात्मनि ॥ २७०१ ॥

तत्समुत्थापकग्राहिज्ञानानि प्रति जन्यता ।

हेतुता वाऽनुपूर्वीयं वर्णेषु पुरुषाश्रया ॥ २७०२ ॥

अतः प्रतिपदं भिन्ना वर्णा इति परिस्फुटम् ।

दमो मदो लता ताल इत्यादिक्रमभेदतः ॥ २७०३ ॥

ईदृशेन क्रमेणैते त्वर्थभेदोपपादकाः ।

अतएव निरर्थेह स्फोटस्यापि प्रकल्पना ॥ २७०४ ॥

अर्थापत्तिरपाकृतेति । तथाहि हस्तकम्पादेरित्यादिना व्यभिचारस्य बाधकस्य
च प्रमाणस्य वर्णनात् । अनित्येषु............अत्यन्तत्वेऽपि न मन्यते तुल्यप्रत्ययश्च
...........प्रतिपदं भिन्नत्वा(?)निमित्तमुपद्रोक ( अनित्या ) वर्णाः शब्दो ( सरो ? )
रस इत्यादौ प्रतीतिभेदनिबन्धनं युक्ताः । नतु दि (नि?)त्याः, तेषां सर्वत्रैकरूपत्वात् ।
न चानुपूर्वं तेभ्यो व्य(क्त्य)न्तरमित्येतत्सर्वं प्रतिपादयन्नाह—यो यद्विवक्षेत्यादि ।
अयमत्र तावत्समुदायार्थः । वक्तृसन्ताने प्रतिवर्णं तत्समुत्थापकानि ज्ञाता(ना?)नि
पूर्वपूर्वसमनन्तरप्रत्ययजन्या(नि विवक्षातो भवन्ति, ततश्च वर्णाः,) तेच श्रोतृसन्तानि
पूर्वपूर्वग्राहिविज्ञानसहकारिणः स्वविषयाभिज्ञानानि क्रमवत्तति(र्तीनि?) जन
यन्ति साक्षात्, ततश्च पश्चादावा(त्स्वस्व?)विषयां ( स्मृतिं ) क्रमभाविनीं जनयन्ति
720 पारम्पर्येण । ततश्च वक्तृसन्तानभावीनि स्वसमुत्थापकानि ज्ञाना न ( न्य? ) पेक्षया
( क्ष्य ? ) तेषां जन्यता, श्रोतृसन्तानभा ( वीनि ) वान्य ( तान्य ? ) (पेक्ष्य
हेतुता, सैव तेषामानुपूर्वी, ता (ना ?)न्या । कारणकार्यभेदाच्च प्रतिपदं वर्णानां भिन्न
स्वभावत्वात्सरो रस इत्यादौ प्रतीतिभेदो युज्यते, न तु नित्यानाम्, तेषां सर्वदा सर्व
त्रैकरूपत्वात् । नाप्यानुपूर्वी तेभ्योऽर्थान्तरभूतेष्टा । अर्थान्तरत्वेऽपि सम्बन्धासि
द्धेरित्यभिप्रायः । अवयवार्थस्तू ( च्यते ) वर्ण उत्प( द्य ) त इति सम्बध्यते ।
सदा सम य ( इ? ) त्यादौ सकारादेः परोऽकारादिः, ( सकारविवक्षा )सम्भूत
वितथा ( वक्षा ? )न्तरतस्ततः ( उत्पद्यते । ) यस्य सकारादेर्विवक्षा यद्विवक्षा, ततः
सम्भूतं यद्विवक्षान्तरं तत्तथोक्तम् । एतदुक्तं भवति । वक्तृसन्ताने पूर्वपूर्ववर्णस
मुत्थापकविवक्षासम्भूतं यदुत्तरोत्तरं विवक्षान्तरम्, तत उत्तरोत्तरो यो वर्ण उत्प
द्यते स स्मृतिं कुरुत इति वक्ष्यमाणेन सम्बन्धः । एवं तावद्वक्तृसन्तानवर्त्तिव(र्णस
मुत्थापक ( विवक्षाव ) गा( शा ? )द्वर्णानां ( जन्यत्वं प्रतिपाद्य श्रोतृ ) सन्तान
वर्त्तिज्ञानं इ( प्र ? )ति कारणत्वं प्रतिपादयति—तस्ये( ति । ) ग( य ? ) इति यो
निर्दिष्टः स सम्बध्यते । तस्य श्रुतिः—उत्पद्यत इति सम्बन्धः । समनन्तर
मिति । अव्यवधानेन । एवं श्रोतृज्ञानहेतुत्वं प्रतिपाद्य साम्प्रतं स्मृतिहेतुत्वं प्रति
पादयति । पूर्वेति । पूर्ववर्णानां वित्—ज्ञानम्, तेन उद्भूता सन्तिरनुगम ( संवित्
—अनुभवो ? ) यस्य स तथोक्तः । नातिद्रुतश्रुतिरिति । द्रुतश्रुतेः स्मृतिजनता
समर्थत्वात् । इति । उत्तरोत्तरो वर्णः । तु स्मृति( तत्स्मृतिम्—? ) पूर्वपूर्वस्मृतिम् ।
( अपेक्ष्य—तत्सहकारेणेत्येतत्, स्मृतिम्—स्वस्वविषयाम् ) समुत्थापकानि च
ग्राहीणि चेति द्वन्द्वः । तेषां वर्णानां, तानि वा समुत्थापकग्राहीणि, तत्स( मुत्था
पकग्राहीणि ( इति ) पश्चात् ( तत्पुरुषः कर्मधारयो वा । समुत्थापकान्यंपेक्ष्य
जन्यतेति । ) ग्राहीण्यनुभवस्मृतिज्ञात्यन( रूपाण्य ? ) पेक्ष्य हेतुतेति । एवमानु
पूर्वीमर्थान्तरभूतां निराकृत्य वैयाकरणाद्युपकल्पितं ध्वनिभ्योऽर्थान्तरभूतं वाचकं
शब्दात्मानं स्फोटमन्येति( द्य नि ? )राचिकीर्षन्ना(ह)—अत एवेत्यादि ॥ २६९९ ॥
॥ २७०० ॥ २७०१ ॥ २७०२ ॥ २७०३ ॥ २७०४ ॥


स ह्यर्थप्रतिपत्त्यर्थं शाब्दिकैः परिकल्पितः ।

वर्णा एव च तच्छक्ता इत्यनर्थाऽस्य कल्पना ॥ २७०५ ॥

721
दृश्यस्यादृष्टितश्चास्य नास्तिताऽध्यवसीयते ।

अदृश्यत्वे तु नैवायं लिङ्गवज्ज्ञापको भवेत् ॥ २७०६ ॥

(............................................
.............) नित्यो यथा कश्चिद्वैभावि(षि?)कै..................इति दर्शयति—दृश्य
स्ये
त्यादि । नहि वर्णेभ्यो व्यतिरिक्तो(नित्यः)स(अ?)कलः शब्दात्मा श्रो( श्रौ ? )त्रे
चे (त)सि प्रतिभासमानः समालक्ष्यते । यत उपलब्धिल............भावी ( भवेत् ?) ।
प्रत्युत तस्य नास्ति( ता ) सिद्ध्येत् । अथ द्वितीयः पक्षस्तथापि भावधर्मो वा हेतुर्भवे
दभावधर्मो वा उभयधर्मो वेति विकल्पाः । आद्ये पक्षे स्फोटाख्यधर्मिधर्मो वा हेतु
र्भवेत्, अन्यधर्मिधर्मो वा । तत्र तस्यैव स्फोटाख्यस्य धर्मिणोऽसिद्धत्वान्न...........तद्ध
र्मस्तावद्धेतुः । अन्यधर्मोऽपि न हेतु( र )पक्षधर्मत्वात् । यथा बाहुपदं चय(घट?)
स्यानित्यत्वादौ साध्ये । अभावधर्मोऽपि न भवति । तस्य विपरीतसाधकत्वात् ।
उभयधर्मोऽपि न भवति । तस्य व्यभिचारित्वात् । स्वभावहेतोर्वा तस्य सिद्धिर्भवे
त्कार्यहेतोर्वा । न तावदाद्यः पक्षः, तस्यातीन्द्रियत्वात्तत्स्वभावासिद्धेः । सिद्धौ वा
व्यर्थो हेतुः पर्येषणे, यत्तत्स्वभावस्य सिद्धत्वात् । तदर्थत्वाच्च प्रयासस्य । नापि
द्वितीयः पक्षोऽतीन्द्रियेण सह कार्यकारणभावासिद्धेः । अथापि स्यात्—यथा श्रोत्रादि
ज्ञानस्य कादाचित्कत्वेन कारणान्तरसापेक्षत्वसिद्धौ सामर्थ्याच्छ्रोत्रादेरिन्द्रियस्य
सिद्धिर्भवति, तथाऽत्राप्यर्थप्रतीतिं धर्मिणीं कृत्वा, वर्णाविशेषेऽपि सरो रस इत्या
दावर्थप्रतीतिभेदात्स्फोटाख्यं कारणान्तरं कल्पयिष्याम इति । एतदप्यसम्यक् । वर्णा
विशेषस्यासिद्धत्वात् । तथाहि साम्प्रतमेव प्रतिपादितम्—वर्णा एव प्रतिपदं भिन्नाः
कार्यकारणभेदादर्थप्रतीतौ समर्था इत्यनर्थाकल्पनेति । एवमनुमेयत्वे दोषा वाच्या
इत्यमिप्रायः । अथापि स्यान्नासावनुमेयः, किं तर्हि ?, अत्यन्तादृश्य इत्याह—
अदृश्यत्वे तु नैवायमिति । यथा लिङ्गमज्ञातं ज्ञापकं न भवति तद्वदयमपि
स्यादज्ञातत्वात् ॥ २७०५ ॥ २७०६ ॥


सत्तामात्रेण तज्ज्ञानं हेतुभावव्यवस्थितेः ।

तस्य ज्ञापकतेष्टा चेन्नेत्रवत्सर्वदा भवेत् ॥ २७०७ ॥

स(ङ्केता)नवबोधेऽपि वर्णानामश्रुतावपि ।

तद्भाव्यर्थेषु विज्ञानं शक्तकारणसन्निधेः ॥ २७०८ ॥

722
तथाहि नित्यसत्त्वोऽयं नचापेक्षाऽस्य काचन ।

ध्वनिसंकेतवर्णैश्च तद्व्यक्तिर्नाप्यदर्शनात् ॥ २७०९ ॥

ज्ञानं हि व्यक्तिरित्याहुस्तज्ज्ञानं नच विद्यते ।

ततो निरर्थकैवास्य व्यञ्जकस्यापि कल्पना ॥ २७१० ॥

अथ सत्तामात्रेण चक्षुरादीन्द्रियवदज्ञातोऽप्यर्थप्रतीतिहेतुर्भवेत् । एवं तर्हि
तद्भावि ज्ञानं सर्वदा भवेत् । तथा सङ्केतग्रहणादिकमन्तरेण तद्भावि ज्ञानं स्यात् ।
एतदेव सङ्केतेत्यादिना प्रदर्शयति । तत्रोपपत्तिमाह—तथाहीति । अथापि स्यात्
—सङ्केताभिव्यक्त एवासावर्थप्रतीतिहेतुरिष्टो न सत्तामात्रेण, तेन न भवति यथो
क्तदोषप्रसङ्ग इत्याह—ध्वनिसङ्केतवर्णैरित्यादि । अदर्शनादिति । अनुपलब्धेः ।
अदृश्यत्वेनाभिमतत्वाच्च । एतदेव ज्ञानं हीत्यादिना दर्शयति ॥ २७०७ ॥ २७०८ ॥
॥ २७०९ ॥ २७१० ॥


स्यादेतत्—भासमानो न लक्ष्यत इत्येतदसिद्धम् । तथाहि पूर्वपूर्ववर्णाहित
संस्कारायामावृत्तसंस्कारपरिपाकायां बुद्धौ शब्दोऽकलः प्रतिभासत एवेत्याह—
नादेनेत्यादि ।


नादेनाहितबीजायामन्त्येन ध्वनिना सह ।

आवृत्तपरिपाकायां बुद्धौ शब्दोऽवभासते ॥ २७११ ॥

इत्येतदपि तेनात्र निर्निमित्तं प्रकल्पितम् ।

तस्यामपि न शब्दोऽन्यो भासमानो हि लक्ष्यते ॥ २७१२ ॥

आवृत्तः—सञ्जातः सर्वबुद्ध्याहितः संस्कारपरिपाको यस्यां बुद्धौ सा तथोक्ता ।
निर्निमित्तमिति । वर्णा एव हि यथानुभवं पश्चात्सङ्कलनाप्रत्ययेन स्मार्त्तेनावसी
यन्त इत्यभिप्रायः । तथाहि—नैवान्त्यवर्णप्रतिपत्तेरूर्ध्वमन्यमकलं शब्दात्मानमु
पलक्षयामो नापि स्वयमयं वक्ता विभावयति । केवलमेवं यदि स्यात्साधु मे
स्यादिति कल्याणकामतामूढमतिरत्या(न्त्या ?)यां बुद्धौ समाप्तकालः शब्दो
भातीति स्वप्नायते ॥ २७११ ॥ २७१२ ॥


एवं तावन्नित्यपक्षे दूषणमुक्तम् । इदानीं नित्यानित्यपक्षयोरपि साधारणं दूषण
मनवयवपक्षे प्राह—जन्यतामित्यादि ।


जन्यतां व्यज्यतां वाऽपि ध्वनिभिः क्रमभाविभिः ।

येऽपि स्फोटस्य मन्यन्ते क्रमस्तेषां विरुध्यते ॥ २७१३ ॥

723
नहि क्रमेण युज्येते व्यक्तिजाती निरंशके ।

एकरूपाबहिर्भावात्ते स्यातां सर्वथैव हि ॥ २७१४ ॥

वैभाषिका हि केचित्पदकार्याभिधानेन वाक्यस्फोटमनित्यत्वाज्जन्यं प्रतिपन्नाः ।
निरंशक इति । निरवयवे वस्तुनि । एकरूपाबहिर्भावादिति । एकस्माद्रूपाज्ज्ञाता
द्व्यक्ताद्वाऽजाताव्यक्ताभिमतस्यापि रूपस्याबहिर्भावात् । ते—जातिव्यक्ती सर्वस्यैव
स्याताम् । ततश्च शेषवर्णादिप्रयोगवैयर्थ्यं स्यात् ॥ २७१३ ॥ २७१४ ॥


सावयवपक्षेऽपि दूषणमाह—सांशत्वेऽपीति ।


सांशत्वेऽपि यथा वर्णाः क्रमेण प्रतिपादकाः ।

स्फोटांशा अपि किं नैवं किमदृष्टाः प्रकल्पिताः ॥ २७१५ ॥

ते हि स्फोटांशाः प्रत्येकमनर्थका वा स्युः सार्थका वा । प्रथमे पक्षे क्रमभा
वित्वाद्वर्णात्स( त्म ? )वदप्रतिपादकत्वप्रसङ्गः । कल्पितं च वाचकत्वं स्यात्, अता
द्रूप्ये ताद्रूप्यात् । तथाहि—अर्थवानेकात्मा वाक्यमुच्यते, वा( ना ? )वयवाः स्वय
मनर्थकाः, तेषु स आत्मा कल्पनारोपितः स्यात्, माणवकादिषु सिंहतादिवत् ।
सति च कल्पिते वाचकत्वे वरं वर्णभागा एव सन्तु वाचकाः किमदृष्टाः स्फोटांशाः
कल्प्यन्त इति । अथ सार्थकत्वं तदाऽनेककल्पना निरर्थिका, तथाहि—परिसमाप्तार्थं
शब्दरूपं वाक्यमुच्यते, प्रत्येकं चेदर्थवन्तोऽवयवाः स्युस्तदा तावन्त्येव तानि वाक्यानि
ज्ञा( जा? )तानीति नैका( कोऽ ?) नै(ने?)कावयवात्मा सिद्ध्यति । एकावयवप्रतिपत्तौ
च सत्यां वाक्यार्थप्रतिपत्तिप्रसङ्गः । यथोक्तम्— प्रत्येकं सार्थकत्वेऽपि मिथ्याऽने
कत्वकल्पना । एकावयवगत्या च वाक्यार्थप्रतिपद्भवेत् ॥
इति ॥ २७१५ ॥


यदुक्तम्—नहि क्रमेण युज्येते जातिव्यक्ती निरंशकइति, अत्र परस्य परिहार
माशङ्कते—जातावित्यादि ।


जातौ व्यक्तौ कृतायां चेदेकेन ध्वनिना सकृत् ।

नितरां व्यक्तिसिद्ध्यर्थं वर्णानन्यान्प्रयुञ्जते ॥ २७१६ ॥

यतो दुरवधाराऽस्य प्रकृतिः सा तथा कृता ।

समानव्यक्तिकैर्वर्णैर्भूयोऽपि व्यज्यते परैः ॥ २७१७ ॥

यद्यप्येकेन ध्वनिना जातिर्व्यक्तिर्वा सर्वात्मना स्फोटस्य कृता, तथापि नोत्त
रध्वनिप्रयोगवैयर्थ्यं, तस्य स्पष्टव्यक्त्यर्थत्वात्, यथाहि श्लोक एव पुनः पुनराव
724 र्त्त्यमानो व्यक्तीभवति, न च सकृदुच्चारणात्, नतु पुनः पुनरावृत्त्या तस्य विशे
षान्तरमाधीयते, अथ च न पुनरावृत्तेर्वैयर्थ्यमेवमिहापि नोत्तरध्वनिवैयर्थ्यं भवि
ष्यति । एतदेव दर्शयति—यत इत्यादि । दुरवधारेति । अवधारयितुमशक्या
॥ २७१६ ॥ २७१७ ॥


तस्यैवेत्यादिना प्रतिविधत्ते ।


तस्यैवान्यस्य वैकस्य किं नावृत्तौ पुनः पुनः ।

व्यक्तिरावर्त्तते तस्य नन्वेवमविशेषतः ॥ २७१८ ॥

नन्वित्यामन्त्रणे । तस्यैव—प्रथमोच्चरितस्य वर्णस्य, अन्यस्य वा—तदन्तर्गतस्य
कस्यचिदेकस्य, पुनः पुनरावृत्त्या किं नाभिव्यक्ति क्रियते । नहि तेनापादिता
सती व्यक्तिर्नापादिता भवेत् । तथाहि तद्व्यक्त्यावर्त्तनमात्रफलान्युत्तरोत्तरवर्णो
च्चारणानि, समानशक्तिकत्वात्सर्वेषां, तच्चावर्त्तनमेकेनैव पुनः पुनरावर्त्त्यमानेन
कर्तुं शक्यत इति शेषवर्णोच्चारणवैयर्थ्यम् । नाप्युत्तरोत्तरवर्णानां भिन्नशक्तिकत्व
मभ्युपगन्तव्यम् । निरंशके विशेषान्तरस्याधातुमशक्यत्वाद्विशेषान्तरकरणासम्भवे
न्न( च ? ) भिन्नशक्तिकल्पनावैयर्थ्यप्रसङ्गात् ॥ २७१८ ॥


एतच्च सता( त्या ? )मभिव्यक्तौ सर्वं सम्भवेत्सैव तु न सम्भवतीति दर्शय
न्नाह—विषयेन्द्रियेत्यादि ।


विषयेन्द्रियसंस्काररूपा व्यक्तिश्च वर्णवत् ।

अस्यापि प्रतिषेद्धव्या तदाभासेऽपि चेतसि ॥ २७१९ ॥

वर्णवदिति । यथा वर्णेषु विज्ञानजननयोग्यायोग्यस्वभावविकल्पेन विषये
न्द्रियसंस्काररूपाऽभिव्यक्तिर्दूषिता तथेहापि दूषणीयेत्यर्थः । तदाभासेऽपीति ।
स्फोटाभासेऽपि । अयं चाभ्युपगमवादः । एतदुक्तं भवति—यदि हि वर्णव्यति
रेकेणापरः स्फोटाख्यः शब्दात्माऽवभासेत ततोऽस्याभिव्यक्तिः सम्भवेद्व्यक्ते
रुपलब्धिरूपत्वात् । यावता नावभासत इति पूर्वमावेदितम्—अवभासतां नाम,
तथाऽपि प्रकृत्योपलभ्यानुपलभ्यस्वभावस्योभयथाऽप्यभिव्यक्तिर्न युक्तेति ॥ २७१९ ॥


तस्मादित्यादिनोपसंहृत्य विनाऽपि स्फोटेनार्थप्रतिपत्तेरुपपत्तिक्रमं दर्शयति ।


तस्मात्प्रत्यक्षतः पूर्वं क्रमज्ञानेषु यत्पदम् ।

समस्तवर्णविज्ञानं तदर्थज्ञानकारणम् ॥ २७२० ॥

725

ननु च क्रमवर्त्तिनो हि वर्णाः क्रमेणैव चानुभूताः, यथाऽनुभवं च स्मरणं, तत्कथं
समस्तवर्णनिर्भासि स्मार्त्तज्ञानमेकं युज्यते स्फोटमन्तरेण, न चाक्रमे ज्ञाते क्रभिणां
वर्णानां प्रतिभासो युक्त इत्याशङ्क्याह—अन्त्यवर्णे हीत्यादि ।


अन्त्यवर्णे हि विज्ञाते सर्वसंस्कारकारितम् ।

स्मरणं यौगपद्येन सर्ववर्णेषु जायते ॥ २७२१ ॥

अनेनैव( न चै ? ) तदाह—प्रथममनुभवस्ततस्तत्समनन्तरभावीनि स्मरणानि
यथानुभवं क्रमेणैव जायन्ते, ततः स्मरणेभ्यः उत्तरकालं युगपत्समस्तवर्णाध्यव
सायि समुच्चयज्ञानमपरं स्मार्त्तमुत्पद्यते, यथा परिदृष्टार्थाध्यवसादित्वात्॥ २७२१ ॥


एतच्च सर्ववादिनां प्रसिद्धम्, न मयैव कल्पितमिति दर्शयति—सर्वेषु चेति।


सर्वेषु चैतदर्थेषु मानसं सर्ववादिनाम्।

इष्टं समुच्चयज्ञानं क्रमज्ञातेषु सत्स्वपि ॥ २७२२ ॥

एतदिदि । समुच्चयज्ञानम् ॥ २७२२ ॥


एतच्च युक्त्युपेतत्वादवश्याभ्युपेयमिति दर्शयति—नचेदित्यादि।


नचेत्तदभ्युपेयेत क्रमदृष्टेषु नैव हि।

शतादिरूपं जायेत तत्समुच्चयदर्शनम् ॥ २७२३ ॥

यदि हि सर्वमेव स्मरणं यथानुभवं क्रमेणैवं जायते, तदा क्रमानुभूतेषु शता
दिषु युगपच्छतादिविकल्पोन स्यात्। शतकोटयादिविकल्पानां चोत्पत्तिकाले भेदो
न भवेत् ॥ २७२३ ॥


तेनेत्युपसंहरति ।


तेन श्रोत्रमनोभ्यां स्यात्क्रमाद्वर्णेषु यद्यपि।

पूर्वज्ञानं परस्तात्तु युगपत्स्मरणं भवेत् ॥ २७२४ ॥

यद्येवं समुच्चयज्ञानमेवार्थप्रतीतिहेतुः स्यात्, न ते वर्णाः, तेषां चिरनिरुद्ध
त्वात्, न चैतद्युक्तम्, यस्माच्छब्दादनन्तरमर्थप्रतीतिर्भवन्तीत्याकुमारमेतत्प्रतीत
मित्याशङ्कयाह—तदारूढा इत्यादि।


तदारूढास्ततो वर्णा न दूरार्थावबोधनात्।

शब्दादथ मतिस्तेन लौकिकैरभिधीयते ॥ २७२५ ॥

726

तस्मिन्समुच्चयज्ञाने आरूढास्तदारूढाः । लौकिकैरिति । स्वार्थतद्धितविधा
नम् ॥ २७२५ ॥


नन्वेवमपि तेषां चिरनिरुद्धत्वादत्यन्तासत्त्वमेवेति कथं तदारोहणं भवेदित्या
शङ्क्याह—आकारवतीत्यादि ।


आकारवति विज्ञाने सर्वमेतच्च युज्यते ।

अन्यथा हि विनष्टास्ते भासेरन्स्मरणे कथम् ॥ २७२६ ॥

निराकारे कस्मान्न युज्यत इत्याह—अन्यथा हीत्यादि । ततश्च यदेतत्—
अन्त्यवर्णे हि विज्ञाते इत्यादिना कुमारिलेन स्फोटवादिनं प्रति समुच्चयज्ञानं वर्णि
तम्, तदस्मन्मत एव युज्यते न तु भवतां मीमांसकानां निराकारवादिनां मत
इत्युक्तं भवति ॥ २७२६ ॥


ननु च मीमांसकानामपि युज्यत एव, नहि तेषां मतेन वर्णा विनष्टाः, येन
न भासेरन् । किं तर्हि ? । तिरोभूताभिव्यक्तयः सन्त्येवेत्येतदथेत्यादिनाऽऽशङ्क्य
नेत्यादिना परिहरति ।


अथ वर्णास्तिरोभूतव्यक्तयो विदिताः पुरा ।

स्मर्यन्तेऽवस्थिता एव न स्पष्टाभप्रसङ्गतः ॥ २७२७ ॥

यदि हि त एव वर्णाः पूर्वमनुभूताः सन्तः पश्चात्तिरोभूतव्यक्तयः समुच्चय
ज्ञानेन गृह्येरंस्तदाऽऽत्मानुभवज्ञानवत्तत्समुच्चयज्ञानं स्पष्टाभं प्राप्नोति । आकारस्य
बाह्यगतत्वात्तस्य चैकरूपत्वात् । किञ्च—यदि तिरोभूतव्यक्तयः, कथं भासेरन्,
व्यक्तेरूपलब्धिस्वभावत्वात् ॥ २७२७ ॥


अपिच—यद्यतीतस्यावस्थितिः सम्भवेत्तदैतत्स्याद्यावताऽतीतस्यावस्थित्यभावादेव
न युक्तं तस्य प्रतिभासनमिति दर्शयति—अपास्ता चेत्यादि ।


अपास्ता च स्थितिः पूर्वं तत्स्थितौ स्मरणं भवेत् ।

वर्णानुभवविज्ञानकाल एवैकहेतुतः ॥ २७२८ ॥

पूर्वमिति । त्रैकाल्यपरीक्षायाम् । अत्रैव बाधकं प्रमाणमाह—तत्स्थितावि
त्यादि । वर्णानुभवज्ञानकाले स्मरणोत्पत्तिप्रसङ्गो बाधकं प्रमाणम् । एकहेतुत इति । अभिन्नकारणत्वात् ॥ २७२८ ॥


अत्र शाब्दिकाश्चोदयन्ति—यद्येको नास्ति स्फोटाख्यः शब्दात्मा तत्कथं गौरित्ये
काकारा गोशब्दे बुद्धिर्भवतीति, अत आह—गौरित्यादि ।


727
गौरित्येकमतित्वं तु नैवास्माभिर्निवार्यते ।

तद्ग्राह्यैकार्थताभ्यां च शब्दे स्यादेकतामतिः ॥ २७२९ ॥

एका मतिरस्येत्येकमतिः, तद्भावस्तत्वम् । तद्ग्राह्यैकार्थताभ्यां चेति । तया
एकया बुद्ध्या, ग्राह्यस्तद्ग्राह्यः, एकोऽर्थः प्रयोजनं यस्य स तथोक्तः, तद्ग्राह्यश्चैका
र्भश्चेति द्वन्द्वः, तयोर्भावौ तद्ग्राह्यैकार्थते, ताभ्याम् । एतदुक्तं भवति—एकबुद्धि
ग्राह्यत्वादेकसास्नादिमदर्थद्योतकत्वाच्चैको गोशब्द उच्यते इति ॥ २७२९ ॥


एकमतित्वं च न सर्वत्र सिद्धमिति दर्शयति—शैघ्र्यादित्यादि ।


शैघ्र्यादल्पान्तरत्वाच्च गोशब्दे सा भवेदपि ।

देवदत्तादिशब्देषु स्पष्टो भेदः प्रतीयते ॥ २७३० ॥

शैघ्र्यात्—द्रुतोच्चारणात् । अल्पान्तरत्वम्—स्वल्पविच्छेदत्वम् । सेति । एका
मतिः । देवदत्तादिपरे तु प्रतिवर्णं शाक्वनया ( ध्वनयः ? ) स्फुटतरं विच्छेदेन
प्रतीयन्त इति पक्षैकदेशासिद्धमेकमतित्वम् ॥ २७३० ॥


वर्णोत्थेत्यादिना प्रमाणयति ।


वर्णोत्था चार्थधीरेषा तज्ज्ञानानन्तरोद्भवात् ।

येदृशी सा तदुत्था हि धूमादेरेव वह्निधीः ॥ २७३१ ॥

प्रयोगः—या बुद्धिर्यद्विज्ञानान्तरमुद्भाविता सा तत्समुत्थिता पारम्पर्येण, यथा
धूमादिलिङ्गज्ञानाद्वह्नयादिलिङ्गिधीः । वर्णविज्ञानानन्तरभाविनी चार्थधीरिति
स्वभावहेतुः । कार्यताव्यवहारश्चात्र साध्यते । तेन साध्यसाधनयोर्भेदः ॥ २७३१ ॥


असिद्धत्वमस्य परिहरन्नाह—न वर्णेत्यादि ।


न वर्णभिन्नशब्दाभज्ञानानन्तरभाविनी ।

अर्थधीर्विद्यते तेन नान्यः शब्दोऽस्ति वाचकः ॥ २७३२ ॥

वर्णेभ्यो भिन्नो यः शब्दात्मा तदाभं यज्ज्ञानं तदनन्तरभाविनी न विद्यते, किं
तर्हि ?, वर्णविज्ञानानन्तरभाविनी, अतो नासिद्धो हेतुः । अनेन चोपलब्धिलक्ष
णप्राप्तस्यानुपलम्भादभावव्यवहारोऽपि दर्शितः ॥ २७३२ ॥


नाप्यनैकान्तिक इति दर्शयन्नाह—कार्यतेत्यादि ।


कार्यताव्यवहाराङ्गं सर्वत्रैव विनिश्चितौ ।

अन्वयव्यतिरेकौ हि व्याप्तिस्तेनेह निश्चिता ॥ २७३३ ॥

728

कार्यताव्यवहारस्याङ्गम्—कारणम्, किं तत् ? अन्वयव्यतिरेकाविति । सामाना
धिकरण्येन सम्बन्धः । तदन्वयव्यतिरेकानुविधायित्वमात्रमेव तत्कार्यताव्यवहृतेरङ्गं
नान्यत्, अतः कार्यताव्यवहारस्य निमित्तान्तरासम्भवो बाधकं प्रमाणमिति सिद्धा
व्याप्तिः ॥ २७३३ ॥


स्यादेतत्—माभूत्स्फोटस्य वाचकत्वं, वर्णा एव नित्याः सन्तो वाचका भवि
ष्यन्ति, तेच नित्याः प्रत्यक्षादिप्रमाणतः सिद्धा इत्याह—अनित्येष्वित्यादि ।


अनित्येष्वेव वर्णेषु वाचकत्वे प्रसाधिते ।

प्रत्यभिज्ञानुमाने च निरस्ते नित्यसाधने ॥ २७३४ ॥

प्रत्यभिज्ञा चानुमानं चेति प्रत्यभिज्ञानुमाने । क्वचित्प्रत्यभिज्ञानानुमानमिति पाठः,
तत्र समाहारद्वन्द्वोऽपि विधेयः । सहितशब्दलोपाद्विशेषणसमासो वा ॥ २७३४ ॥


स्ववाक्यादिविरोधश्चेत्यादावाह—स्ववाक्यादिविरोधानामित्यादि ।


स्ववाक्यादिविरोधानामज्ञानाच्चोदना कृता ।

नित्यपक्षे तु सर्वे ते भवन्ति भवतां यतः ॥ २७३५ ॥

नित्या सती न वाग्युक्ताद्योतिकेत्युपपादितम् ।

आनुपूर्व्याद्ययोगेन नित्यं चानुपलम्भनात् ॥ २७३६ ॥

सर्वे त इति । स्ववाक्यादिविरोधाः । आनुपूर्व्यादीति । आदिशब्देन
क्रमेण श्रुतिस्मृती गृह्येते । तथाहि नित्यत्वान्न कालकृतानुपूर्वी, नापि देशकृता
व्यापित्वात्, नाप्यभिव्यक्तिकृता अभिव्यक्तेरपाकृतत्वात् । तथा ज्ञानजननेऽपि
न नित्यानामुपयोगोऽस्तीति बहुधा निवेदितम् ॥ २७३५ ॥ २७३६ ॥


यदुक्तम्—वक्तव्यं कतरः ( चैषकः ? ) शब्दः इत्यादि । तत्राह—धर्मिभे
दविकल्पेने
त्यादि ।


धर्मिभेदविकल्पेन याऽऽश्रयासिद्धिरुच्यते ।

सोऽनुमालक्षणाज्ञानाद्धर्मित्वं भासिनो यतः ॥ २७३७ ॥

अविचारप्रसिद्धोर्थो योयं ज्ञानेऽवभासते ।

शनकादेरपि प्रोक्ता तावन्मात्रस्य धर्मिता ॥ २७३८ ॥

तत्रैव हि विवादोऽयं संप्रवृत्तः प्रवादिनाम् ।

इच्छारचितभेदे तु न विवादोऽस्ति कस्यचित् ॥ २७३९ ॥

729

य एव वादिप्रतिवादिनोः प्रतिभासवशाद्धर्मी सिद्धः स एव विशेषविवादाश्रयः,
नतु स्वेच्छोपकल्पितः, तत्र विवादाभावात्, नहि स्वेच्छोपरचितधर्मिणि धर्मविशेषं
कल्पयन्कश्चिन्निवार्यत इति । भासिन इति । भासमानस्य । एतदेव दर्शयति
अविचारप्रसिद्धोऽर्थ इत्यादि । सुगमम् ॥ २७३७ ॥ २७३८ ॥ २७३९ ॥


अविशेषेण धर्मिणि निर्दिष्टे यद्विशेषेण (वि)कल्पनं तदेतज्जात्युत्तरमिति दर्श
यन्नाह—अत इत्यादि ।


अतोऽविशेषनिर्दिष्टे विशेषेण विकल्पनम् ।

सर्वस्यैवानुमानस्य प्रवृत्तिं प्रतिवाधते ॥ २७४० ॥

चोदनाजनिता बुद्धिः प्रमाणं दोषवर्जितैः ।

कारणैर्जन्यमानत्वादित्याद्यपि विकल्प्यते ॥ २७४१ ॥

नित्यनित्यार्थसम्बद्धचोदनाजनिता मतिः ।

पक्षश्चेदाश्रयासिद्धिः परं प्रत्यनुषज्यते ॥ २७४२ ॥

नित्या चासौ स्वयं, नित्यमेवार्थेनाकृतिलक्षणेन सम्बद्धेति तथोक्ता, तया जनिता
या बुद्धिः, सा यदि पक्षः, तदा परं—प्रति, असिद्धो हेतुः ॥ २७४० ॥ २७४१ ॥
॥ २७४२ ॥


यदुक्तम्—अनित्यत्वं ( च ) नाशित्वमित्यादि । तत्राह—तादवस्थ्यमित्यादि ।


तादवस्थ्यं च नित्यत्वं तदन्यत्वमनित्यता ।

तादवस्थ्यतादवस्थ्यानिवृत्तौ हि किमवस्थितमिष्यते ॥ २७४३ ॥

किमवस्थितमिष्यत इति । अवस्थाया अवस्थातुरव्यतिरेकात्, तन्निवृत्तौ सा
मर्थ्यात्तस्यापि निवृत्तिः । अन्यथा यदेकयोगक्षेमं न भवति तत्कथं तत्स्वभावं युक्त
मिति भावः ॥ २७४३ ॥


यदुक्तम्—केवलैन्द्रियकत्वे चेत्यादि, तत्राह—केवलैन्द्रियकत्वे चेत्यादि ।


केवलैन्द्रियकत्वे च हेतावत्र प्रकल्पिते ।

जात्या बाधितया पूर्वं व्यभिचारो न गम्यते ॥ २७४४ ॥

पूर्वमिति । सामान्यपरीक्षायाम् ॥ २७४४ ॥


यदि नाम जात्या व्यभिचारो नास्ति, तथापि संदिग्धव्यतिरेकोऽप्यनैकान्तिक
एवेत्याशङ्क्य हेतोरैन्द्रियकत्वस्य प्रतिबन्धमादर्शयन्नाह—स्वनिर्भासीत्यादि ।


730
स्वनिर्भासीन्द्रियज्ञानहेतुरैन्द्रियको भवेत् ।

नच नित्येऽस्ति हेतुत्वमिति तद्धि प्रसाधितम् ॥ २७४५ ॥

स्वनिर्भासिन इन्द्रियज्ञानस्य हेतुरर्थ ऐन्द्रियक उच्यते, नित्यस्य च क्रमयौगप
द्याभ्यां नार्थक्रिया युक्तेति सिद्धः प्रतिबन्धः ॥ २७४५ ॥


कार्या चैन्द्रियकत्वादावित्यादावाह—सर्वेषामित्यादि ।


सर्वेषां च प्रसिद्धेयमीदृगर्थस्य हेतुता ।

धूमादावपि सर्वत्र विकल्पोऽयं समोऽन्यथा ॥ २७४६ ॥

ईदृक् चासावर्थश्चेति तथोक्तः, ईदृगिति । अविचाररमणीयः । अन्यथा धूमादावपि
विकल्पः शक्यते कर्त्तुम्—किमैन्द्रियको धूमो लिङ्गत्वेनोपात्त, आहोस्विद्विज्ञानप्रकृति
कालादिपरिणामः, किंवाऽवयवी परमाणुभिरारब्धोऽनारब्धो वेत्यादि(:) विकल्पो
(ल्पे?)ऽन्यतरसिद्धतादिदोषः स्यात् ॥ २७४६ ॥


प्रयत्नानन्तरज्ञानं कृतकानित्यसाधनमित्यत्राह—प्रयत्नेत्यादि ।


प्रयत्नानन्तरज्ञानकार्यारम्भकता नच ।

प्रतिसङ्ख्यानिरोधादेः प्रसिद्धा सांवृतत्वतःवृतस्य नः ॥ २७४७ ॥

प्रयत्नानन्तरज्ञानमेवज्ञानभवं कार्यं तस्यारम्भकता प्रतिसङ्ख्यादिनिरोधादेर्न सिद्धेति
सम्बन्धः । यदि हि सौत्रान्तिकनयेन प्रतिसङ्ख्यानिरोधादिना व्यभिचार उद्भाव्यते ।
तदा न सिद्धो व्यभिचारस्तेषां मतेन प्रतिसङ्ख्यानिरोधादेः संवृतिसत्त्वात् । नच
सांवृतं कस्यचित्कार्यस्यारम्भकं युक्तं तल्लक्षणहानिप्रसङ्गात् । तथाहि—यदर्थक्रियाकारि
तदेव परमार्थस्तदन्यत्तु संवृतिसदिति परमार्थसंवृतिसतोर्लक्षणम् ॥ २७४७ ॥


अथ वैभाषिकमतेन व्यभिचारः, तत्रापि यादृशो भवता नाशाद्यात्मको वर्णितः
प्रतिसङ्ख्यानिरोधादिस्तादृग्वैभाषिकैर्नेष्ट इत्यादर्शयति—नचेत्यादि ।


नच नाशात्मकाविष्टौ निरोधौ साश्रवैर्यतः ।

प्रतिसङ्ख्यानिरोधो यो विसंयोगः पृथक् पृथक् ॥ २७४८ ॥

उत्पादात्यन्तविघ्नोऽन्यो निरोधोऽप्रतिसङ्ख्यया ।

तस्मादज्ञातसिद्धान्ताः प्लवन्तेऽलीकमानिनः ॥ २७४९ ॥

निरोधाविति । प्रतिसङ्ख्याऽप्रतिसङ्ख्यानिरोधौ । कीदृशौ नामेष्टावित्याह—साश्र
वैर्यत
इति । सक्लेशैर्वस्तुभिर्यो विभागः स प्रतिसङ्ख्यया प्रज्ञया प्राप्यत इति कृत्वा
731 प्रतिसङ्ख्यानिरोध उच्यते, सच प्रतिसंयोगिद्रव्यं भिन्नः, अतएवाह—पृथक् पृथ
गिति । यावन्ति हि संयोगिद्रव्याणि तावन्ति विसंयोगद्रव्याणीति सिद्धान्तात् ।
अप्रतिसङ्ख्यानिरोधस्तु—अनागतानां धर्माणामुत्पादस्यात्यन्तविघ्नभूतो धर्मो विसंयो
गादन्यो यः स उच्यते । स च न प्रतिसङ्ख्यया लभ्यते । किंतर्हि ? । प्रत्ययवै
कल्यादतोऽप्रतिसङ्ख्यानिरोध उच्यते । यथोक्तम्— प्रतिसङ्ख्यानिरोधो यो विसंयोगः
पृथक् पृथक् । उत्पादात्यन्तविघ्नोऽन्यो निरोधोऽप्रतिसङ्ख्यया ॥
इति ॥ २७४८ ॥
॥ २७४९ ॥


भवेन्नाम नाशस्वभावौनास्वभावौ, तथापि न व्यभिचार इत्यादर्शयन्नाह—नास्वभावादि
त्यादि ।


नास्वभावात्स्वनाशौ च प्रयत्नानन्तरीयकौ ।

कपालालोकराश्यादि तथाज्ञाननिबन्धनम् ॥ २७५० ॥

प्रत्यत्नानन्तरीयकाविति । नेति सम्बन्धः । कुतः ? । अस्वभावात् । तथाहि
वस्तुसत्ताप्रतिषेधमात्रं नाशः, आकाशं च स्प्रष्टव्याभावमात्रम्, ततश्चैतौ स्वनाशौ
द्वावपि निःस्वभावौ, तत्कथमनयोः प्रयत्नानन्तरीयकता भवेत्, स्वभावस्यैवार्थक्रिया
कारित्वात् । किमिदानीं तर्हि विनाशादिविज्ञाननिबन्धनमित्याह—कपालेत्यादि ।
आलोकराशिः—आलोकसङ्घातः । आदिशब्देन तमोराशिग्रहणम् ॥ २७५० ॥


यदुक्तम्—अविशेषेऽपि नानित्यं न नित्यं वस्तु तन्ममे त्यादि । तत्राह—एकस्येत्यादि


एकस्यार्थस्वभावस्य परिक्षिप्ताद्द्विरूपता ।

अंशस्तस्मान्न जात्याख्यो नित्योऽत्र घटते घटे ॥ २७५१ ॥

अनित्यताविकल्प्यैवमित्यादावाह—तादवस्थ्येत्यादि ।


तादवस्थ्यप्रतिक्षेपमात्रं चानित्यतेप्सिता ।

साध्यत्वेन प्रदीपादिस्तत्रोदाहरणं स्फुटम् ॥ २७५२ ॥

तादवस्थ्यप्रतिषेधमात्रमेवानित्यता साध्यत्वेनेष्टा, तत्रापि प्रदीप उदाहरणं
साध्यान्वितमस्त्येवेति कुतः साध्यहीनता दृष्टान्तस्य ॥ २७५२ ॥


ज्वालादेरित्यादिना परमतेन प्रदीपादेरपि दृष्टान्तस्य साध्यहीनतामाशङ्कते ।


ज्वालादेरपि नाशित्वं नन्वसिद्धंनत्वसिद्धं प्रतिक्षणम् ।

लघवोऽवयवास्तत्र यान्ति देशान्तरं लघु ॥ २७५३ ॥

732
प्रभूतं वर्त्तिदेशे हि तेजस्तिष्ठति पिण्डितम् ।

तत्र यावद्व्रजत्पूर्वं(त्यूर्ध्वं?)तावज्ज्वालेति गम्यते ॥ २७५४ ॥

ततोऽपि यदपक्रम्य याति तत्स्यात्प्रभात्मकम् ।

ततः परं तु यद्याति तत्सौक्ष्म्यान्नावधार्यते ॥ २७५५ ॥

तत्र हि ज्वालादेरवयवाः शीघ्रंशीघ्रं देशान्तरं व्रजन्ति न तु प्रतिक्षणविशरारवः
(विशरणाः ?) ॥ २७५३ ॥ २७५४ ॥ २७५५ ॥


अथ युगपत्कस्मात्सर्वे न विसर्पन्तीत्याह—उत्तरावयवैरित्यादि ।


उत्तरावयवै रुद्धे मार्गे पूर्वे न यान्ति च ।

यथोत्तरे विमुञ्चन्ति पूर्वे यान्ति तथा तथा ॥ २७५६ ॥

ननु यदि प्रसर्पणधर्माणस्ते तत्समीपवर्त्ति तृणतूलादि किं न दहन्तीत्याह—
संक्रान्तावपीत्यादि ।


संक्रान्तावपि नैतेषां तृणादौ वृत्तिसम्भवः ।

तदेतत्कल्पनामात्रं प्रमाणानभिधानतः ॥ २७५७ ॥

संहतावस्थायामेव लब्धवृत्तयो भवन्ति । नतु विप्रकीर्णावस्थायामिति भावः । तदे
दित्यादिना प्रतिविधत्ते । सत्यामपि चास्यां कल्पनायां न साध्यविकलता दृष्टान्तस्य ।
तथाहि तादवस्थ्यप्रतिषेधमात्रमनित्यतासाध्यत्वेनेष्टेत्युक्तम् । तच्च तादवस्थ्यं प्रदीपादौ
नास्त्येवेति कुतः साध्यविकलता ॥ २७५७ ॥


तथाऽप्यभ्युपगम्य दोषमाह—किञ्चेत्यादि ।


किञ्चाव्याहतशक्तीनां तृणतूलादिसङ्गतौ ।

दाहवृत्तिप्रसङ्गोऽयं पूर्ववन्न निवर्त्तते ॥ २७५८ ॥

अव्याहतशक्तीनामिति । ज्वालाद्यवयवानाम् । पूर्ववदिति । संहतावस्थाद
विशेषात् ॥ २७५८ ॥


अथ विशेषोऽभ्युपगम्यते तदा नित्यत्वहानिप्रसङ्गो दुर्निवार इति दर्शयति—
अन्यथेत्यादि ।


अन्यथा नित्यरूपा सा तेषु स्यात्कीदृशी तव ।

शक्ताशक्तस्वभावस्य यदा भेदो व्यवस्थितः ॥ २७५९ ॥

सुबोधम् ॥ २७५९ ॥


733

यदुक्तम्— सम्बन्धाकरणन्यायाद्वक्तव्या वाक्यनित्यता इति, तत्राह—सम्ब
न्धस्य
चेत्यादि ।


सम्बन्धस्य च नित्यत्वं प्रतिषिद्धं पुरा ततः ।

सम्बन्धाकरणन्यायान्न युक्ता वाक्यनित्यता ॥ २७६० ॥

भवन्मतेन वाक्यमेव न सम्भवति, यस्य त्वया नित्यत्वं प्रसाध्यत इति मन्यमानो
वाक्यं विचारयन्नाह—कतमस्येत्यादि ।


कतमस्य च वाक्यस्य नित्यत्वमुपगम्यते ।

वर्णमात्रात्मनो वर्णक्रमस्याथ विभेदिनः ॥ २७६१ ॥

(किं)कदाचिद्वर्णमात्रमेवाविशिष्टं वाक्यं स्यात् । यद्वा—वर्णा एव विशिष्टाः क्रमव
र्त्तिनो वाक्यम् । अथवा वर्णेभ्यो भेदिनः स्फोटाख्यस्य वाक्यत्वमिति पक्षत्रयम्
॥ २७६१ ॥


तत्राद्ये पक्षे दोषमाह—वर्णानामित्यादि ।


वर्णानां क्रमशून्यानां वाचकत्वं न विद्यते ।

नातस्ते तादृशा वाक्यं क्रमोऽप्येषां न विद्यते ॥ २७६२ ॥

व्याप्तेर्नित्यतया चैषां देशकालक्रमो न हि ।

लिपिवत्फलपुष्पादिभेदवच्चोपपद्यते ॥ २७६३ ॥

स्वाभाविके क्रमे चैषां सर इत्येवसम्भवेत् ।

नतु स्याद्रस इत्यादिः स्थितक्रमविरोधतः ॥ २७६४ ॥

स्थिता रेफादयश्चान्ये नैवान्यक्रमयोगिनः ।

जायन्ते वायुतो वर्णा नित्यैकत्वेन वर्णिताः ॥ २७६५ ॥

अन्यथा प्रत्यभिज्ञानं नित्यत्वैकत्वसाधनम् ।

व्यभिचारि त्वयैवोक्तं भवेद्भेदेऽपि वर्तनात् ॥ २७६६ ॥

द्वितीयेऽपि पक्षे प्राह—क्रमोऽप्येषां न विद्यत इति । तथाहि—द्विविध एव
भावानां क्रमः, देशकृतो वा पिपीलिकालिप्यक्षरादिवत्, कालकृतो वा यथा बीजा
ङ्कुरकाण्डपुष्पफलादीनाम्, न तावदाद्यः क्रमो वर्णानां सम्भवति, व्याप्तेः, सर्वगत
त्वाद्वर्णानाम्, नह्याकाशवत्सकलदेशावष्टम्भेनावस्थितस्य देशविच्छेदकृतः क्रमो
734 युक्तः, सर्वेषामेकनभोदेशावस्थानात् । नापि कालकृतः, नित्यत्वेन सर्वेषां समकाल
त्वात् । किञ्च—पुरुषकृतो वा क्रमो भवेत् स्वाभाविको वा । न तावत्पुरुषकृत
इष्टः, वेदस्य पौरुषेयत्वप्रसङ्गात् । अथ स्वाभाविकः, तदा सर इत्येव नित्यं भवेत्,
न कदाचिद्रस इति । नचापि प्रतिपदं भिन्ना वर्णा इत्यभ्युपेयम्, प्रत्यभिज्ञया वर्णानां
नित्यत्वस्य सिद्धत्वात् । तत्प्रतिषेधस्यैव च साधयितुमिष्टत्वात्, अन्यथा प्रत्यभिज्ञानं
व्यभिचारि स्यात् ॥ २७६२ ॥ २७६३ ॥ २७६४ ॥ २७६५ ॥ २७६६ ॥


अथापि स्यादभिव्यक्तिक्रमस्तर्हि वाक्यं भविष्यतीत्याह—नचेत्यादि ।


नच व्यक्तिक्रमो वाक्यं नित्ये व्यक्तिनिषेधनात् ।

वाक्यतायोगतस्तस्मान्नित्यत्वं नोपपद्यते ॥ २७६७ ॥

चशब्दान्नापि वर्णेभ्यो भिन्नं स्फोटाख्यं वाक्यमिति सूचयति । तस्य मीमांस
कैरेव निरस्तत्वादिति भावः । नित्ये व्यक्तिनिषेधनादिति । नित्यस्य व्यक्तेर्नि
षिद्धत्वादित्यर्थः ॥ २७६७ ॥


यदुक्तम्—दृष्टार्थव्यवहारत्वादित्यादि, तत्राह—यथा वृद्ध्यादय इत्यादि ।


यथा वृद्ध्यादयः शब्दा इच्छाविरचितार्थकाः ।

स्वर्गयागादयः शब्दाः संभाव्यन्ते तथैव च ॥ २७६८ ॥

नचोत्पाद्यकथारूपनाटकाख्यायिकादिषु ।

नित्यः शब्दार्थसम्बन्धो वास्तवोऽस्ति विवक्षितः ॥ २७६९ ॥

इच्छया रचितोऽर्थो येषां ते तथोक्ताः । उत्पाद्या—स्वयमपूर्वैव पुरुषेण या कथा
महाश्वेतादिका, सैव रूपं स्वभावो येषां नाटकाख्यायिकादीनां ते तथोक्ताः । नच
तेषु नित्यः शब्दार्थसम्बन्धोऽस्ति विवक्षितः शक्तिलक्षणस्तद्वद्वेदेऽपि सम्भाव्यत इति
भावः ॥ २७६८ ॥ २७६९ ॥


तत्रापीत्यादिना परमतेन दृष्टान्तासिद्धिमाशङ्कते ।


तत्रापि शक्तिनित्यत्वं नियोगस्य त्वनित्यता ।

तद्वशादेव नित्यायां शक्तौ भ्रान्तिः प्रवर्त्तते ॥ २७७० ॥

तुत्राप्युत्पाद्यकथादिषु नित्या शक्तिरेष्टैव, किन्त्वसत्येवार्थे यो नियोगः पुरुषैः
क्रियते, सोऽनित्यस्तद्वशादेव नित्यायां शक्तौ प्रतीतिविभ्रमो भवति, तस्मादसिद्धो
दृष्टान्त इति ॥ २७७० ॥


नन्वित्यादिना प्रतिविधत्ते ।


735
ननु बाह्यो न तत्रास्ति व्यक्तिः क्वार्थे प्रकल्प्यते ।

विकल्पप्रतिबिम्बे चेत्तद्वद्वेदेऽपि शङ्क्यते ॥ २७७१ ॥

बाह्य इति । महाश्वेतादि(रि)त्यर्थः ॥ २७७१ ॥


यदुक्तम्— स्वर्गयागादिसम्बन्धः केन दृष्टो ह्यतीन्द्रियः इत्यादि, तत्राह—
अतीन्द्रियार्थसम्बन्धामित्यादि ।


अतीन्द्रियार्थसम्बन्धां को वा शक्तिं प्रपद्यते ।

नातो वेदे नियोगोऽपि नरायत्तः प्रकल्प्यते ॥ २७७२ ॥

वृद्धेभ्यो नच तद्बोधस्तेऽपि ह्यज्ञाः स्वतः स्थिताः ।

सम्भाव्या प्रतिपत्तिस्तु व्याख्यानात्पुरुषाश्रयात् ॥ २७७३ ॥

अनेनैतदाह—स्वयमेव भवता सामर्थ्याद्दर्शितम्, यथा योऽयं वेदार्थप्रत्ययो
भवति स पुरुषाश्रयाद्व्याख्यानादेवेति । तथाहि—प्रकृत्यैव तावत्पूर्वा( दपूर्वे? )
शक्तिरतीन्द्रियार्थाश्रिता, ततश्चातीन्द्रियायां शक्तौ न पुरुषकृतो नियोगः शब्दस्य
सम्भवति, नापि वृद्धेभ्यस्तस्याः प्रतीतिः संभवति, तेषां सर्वेषामेवानभिज्ञत्वात्,
अन्धानामिव वचनाद्रूपविशेषप्रतीतिः । तस्मात्सामर्थ्यादियमर्थप्रतीतिः पुरुषव्या
ख्यानादेवावतिष्ठते गत्यन्तराभावादिति ॥ २७७२ ॥ २७७३ ॥


नन्वित्यादिना परश्चोदयति ।


ननु पर्यनुयोगोऽयं कृतकेप्यागमे समः ।

न तत्र श्रद्ध्या वृत्तेरर्थसंशयतोऽपि वा ॥ २७७४ ॥

नन्वयं सामान्यः पौरुषेयेष्वप्यागमेषु प्रसङ्गः । तथाहि—किमिदानीन्तनाः
परोक्षदेशिकानां बुद्धादिवचनानामर्थं यथाभिप्रायं प्रतियन्ति, आहोस्विद्विपर्ययमिति ।
न तत्रेत्यादिना प्रतिविधत्ते । तत्रेति । पुरुषो यदिष्टे(पौरुषेये, अदृष्टे,—)हेयादितत्वे
सोपाये पुरुषार्थोपयोगिनि । तथाहि—तत्र न्यायमेवानुपालयन्तः सौगताः सुधियः
प्रवर्त्तन्ते न प्रवादमात्रेण । श्रद्धयेति । अभिसंप्रत्ययेन युक्तिनिध्यानजेन निश्चयेनेति
यावत् । प्रमाणसिद्धएवार्थेऽभिसंप्रत्ययस्य युज्यमानत्वात् । नान्यत्र । तत्र संशयान
तिवृत्तेः । अर्थसंशयतोऽपि वेति । अत्यन्तपरोक्षेऽर्थे स्वर्गदेवतापूर्वादौ । तथाहि—तत्र
पौरुषेये वाक्ये पुरुषस्य स्वाभिप्रायकथनेनाविपरीतसम्प्रदायसंभवाच्छ्रोतृपरम्परया
चाविच्छिन्नः सम्प्रदायः सम्यक् संभाव्यते । नत्वेवमपौरुषेये, तत्रोपदेष्टुरभावात् ।
736 किञ्चोपदेष्टा क्रिय(कृप ?)या लोकप्रत्ययेनय(प्रत्यायनाय ?)कुर्वा(ब्रुवा ?)णो
लोकसङ्केतमेवानुसृत्य कृ(ब्रू)त इति ततो लोकप्रसिद्धेरपि तदर्थसिद्धिः संभवेत् ।
नत्वपौरुषेयाणां तत्र कस्यचित्समीहाभावात् ॥ २७७४ ॥


यद्येवं येन केनचिदागमेन किं न भवान्प्रवर्त्तते । सन्देहस्य सर्वत्र तुल्यत्वादित्ये
तच्चोद्यनिराकरणायेदमाह—प्रत्यक्षेणेत्यादि ।


प्रत्यक्षेणानुमानेन विशुद्धे विषये सति ।

नह्येवं वैदिके शब्दे स स्वयम्प्रत्ययो यतः ॥ २७७५ ॥

यत्र प्रत्यक्षानुमानाभ्यामभिमतस्यार्थस्य तथाभावो न विरुध्यते, तेन प्रवर्त्तमानः
शोभेत सत्यपि संशये, नतु यत्रान्यथाभावस्तत्र, दृष्टप्रमाणोपरोधितानर्थसंशयस्यो
द्भूतत्वात् । यद्येवं वेदेऽप्यनेनैव न्यायेन प्रवृत्तिर्भविष्यतीत्याह—नह्येवमित्यादि ।
स्वयम्प्रत्यय इति । स्वत एव प्रमाणभूत इत्यर्थः । अतो न प्रमाणेन परीक्ष्य ततः
प्रवृत्तिर्युक्ता, परतः प्रामाण्यप्रसङ्गात् । नचापि तस्य विषयविशुद्धिः सम्भवति ।
तथाहि—अप्रच्युतानुत्पन्नपूर्वापररूपः पुमा(न)नुक्रमेण कर्त्रा कर्मफलानां च भोक्ता
वेदे पठ्यते । सचायुक्त इत्यावेदितमात्मपरीक्षायाम् । तथा नित्यत्वं केषांचिद्भावानां
पठ्यते । तदपि स्थिरभावपरीक्षायामयुक्तमुपपादितम् । तथा सामान्यादिन्यप्रत्यक्षा
ण्यपि प्रत्यक्षत्वेनेष्टानि, तथा क्रमेण जन्मस्थितिनिवृत्तयोऽसम्भविन्योऽपि भावानां
निर्दिष्टाः । तथाऽनाधेयविशेषस्य प्रागकर्त्तुः परापेक्षया जनकत्वं, तथा निष्पन्नस्य
पराश्रयेण स्थितिरकार्यस्याप्युपदिष्टा । तथा कारणाद्विनाश इत्यादिकं बहुविधं प्रमा
णविरुद्धमुपलभ्यते । तत्कथं प्रेक्षावतस्तथाभूतेनागमेन प्रवृत्तिः स्यात् ॥ २७७५ ॥


यदप्यपरं कुमारिलेन सम्बन्धनित्यत्वसाधनाय साधनमुक्तम् । तस्योत्पाद्यकथारू
पनाटकादिनाऽनैकान्तिकत्वमिति दर्शयति—उत्पाद्येत्यादि ।


उत्पाद्यार्थकथाधर्ममनालोच्य समं श्रुतौ ।

एवं चेदमसम्बद्धं परैरत्रोपवर्णितम् ॥ २७७६ ॥

उत्पाद्योऽर्थो यस्याः कथायाः सा तथोक्ता, उत्पाद्यार्था चासौ कथा चेति विग्रहः ।
तस्या धर्म इच्छाविरचितार्थत्वम् ॥ २७७६ ॥


किं तदुपवर्णितमित्याह—शब्दार्थानादितामित्यादि ।


शब्दार्थानादितां मुक्त्वा सम्बन्धानादिकारणम् ।

न स्यादन्यदतो वेदे सम्बन्धादि न विद्यते ॥ २७७७ ॥

737
उपायरहितत्वेन सम्बन्धाकरणानुमा ।

अनाख्यानानुमानं तु दृष्टेनैव विरुध्यताम् ॥ २७७८ ॥

शब्दो वर्णस्वभावः, तस्यार्थः सामान्यं, तयोरनादित्वात्सम्बन्धोऽपि शक्तिलक्ष
णोऽनादिरेव, शक्तेर्भावाव्यतिरेकादिति भावः । तथा सम्बन्धकरणस्योपायाभावेन
सम्बन्धाकरणमनुमीयते । प्रयोगः—यो यत्करणोपायरहितः स न तं करोति,
यथाऽविद्यमानमृत्पिण्डदण्डचक्रसलिलसूत्रादिकारणकलापः कुलालो घटम्, सम्ब
न्धकरणोपायरहिताश्च सर्वपुरुषा इति व्यापकविरुद्धोपलब्धिः । नचासिद्धो हेतुः,
श्रोतुःकर्त्तुं च सम्बन्धं वक्ता कं प्रतिपद्यता मित्यादिना सर्वपुरुषाणामुपायरहितत्वस्य
प्रतिपादितत्वात् । यद्येवं कारणवत्सम्बन्धाख्यानाभावानुमानप्रसङ्ग इत्याशङ्क्याह—
अनाख्यानानुमानं त्वित्यादि । अनाख्यानानुमाने हेतोरुपायरहितत्वादित्यस्या
सिद्धिः ॥ २७७७ ॥ २७७८ ॥


वृद्धानामित्यादिना तामेवासिद्धिं दर्शयति ।


वृद्धानां दृश्यमाना च प्रतिपत्तिः पुनः पुनः ।

उपाय इति तद्धानिरसिद्धाऽवगमं प्रति ॥ २७७९ ॥

येयं वृद्धानां सम्बन्धप्रतीतिः पुनःपुनर्दृश्यते, स एव सम्बन्धकथनोपायः,
नह्यप्रतिपद्य परस्मै कथयितुमीश(ते ।) तद्धानिरिति । उपायहानिः । अवगमं
प्रती
ति । सम्बन्धावबोधं प्रति ॥ २७७९ ॥


इत्येतद्धीत्यादिना दूषणमाह ।


इत्येतद्धि भवेत्सर्वं यदि वेदार्थनिश्चयः ।

वृद्धेभ्योऽप्यविसंवादी सिद्धः स्यादन्यथा क्षतिः ॥ २७८० ॥

(यदुक्तम्—) शब्दार्थानादितामित्यादि, तत्र यदि नित्यत्वं शब्दार्थयोरना
दित्वमभिप्रेतं तदसिद्धम्, व्यापिनः क्षणभङ्गस्य प्रतिपादितत्वात् । अथ कार्यकार
णपरम्परायास्तदाऽनैकान्तिकत्वं विरुद्धत्वं च, सम्बन्धिभ्यः सम्बन्धस्याव्यतिरेका
त्तद्वदनित्यत्वप्रसङ्गात् । यच्चोक्तमुपायरहितत्वेनेति, तदप्यसिद्धम्, यतो भेदेऽपि
प्रकृत्या चक्षुरादिवदेकाकारप्रत्यवमर्शजनने समर्थाः केचिदर्था इति प्रतिपादितम् ।
ततश्च वक्तृश्रोत्रोरेकार्थाध्यवसायी प्रत्ययः स स्वकरणेऽभ्युपाय इत्यभिप्रायः । यद
प्युच्यते वृद्धानां दृश्यमाना च प्रतिपत्तिरिति, तत्राप्युक्तम्— वृद्धेभ्यो न च
738 तद्बोधस्तेऽपि ह्यज्ञाः स्वतःस्थिताः
इति । अन्यथा क्षतिरिति । यदि वृद्धाः
स्वयमज्ञा अपि सन्तः सम्बन्धं प्रतिपद्यन्त इतीष्यते, तदा दृष्टविरोधोऽन्धस्येव
रूपदर्शनप्रतिज्ञाया इत्यर्थः ॥ २७८० ॥


यदुक्तम्— सङघातत्वस्य वक्तव्यमीदृशं प्रति साधनम् इत्यत्राह—सिद्धेत्यादि ।


सिद्धसर्वोपसंहारव्याप्तिकत्वान्न सम्भवि ।

सङ्घातत्वादिलिङ्गस्य किञ्चन प्रतिसाधनम् ॥ २७८१ ॥

सिद्धा सर्वोपसंहारव्याप्तिर्यस्य तत्तथोक्तम्, तद्भावस्तत्त्वम्, अनेन वस्तुबल
प्रवृत्तत्वमस्य प्रतिपादयति—अन्यस्य सर्वोपसंहारेण व्याप्त्यसिद्धेः । न च वस्तुबल
प्रवृत्तेऽनुमाने प्रतिसाधनसम्भवः, वस्तूनां स्वभावान्यथात्वस्य कर्तुमशक्यत्वात् ।
नापि परस्परविरुद्धस्वभावद्वयस्यैकत्र सम्भवः, एकत्वहानिप्रसङ्गात् ॥ २७८१ ॥


तामेव सर्वोपसंहारेण व्याप्तिसिद्धिं दर्शयन्नाह—सार्थका इत्यादि ।


सार्थकाः प्रविभक्तार्था विशिष्टक्रमयोगिनः ।

पदवाक्यसमूहाख्या वर्णा एव तथोदिताः ॥ २७८२ ॥

सार्थकप्रविभक्तार्थविशिष्टक्रमयोगिता ।

निषिद्धा पौरुषेयत्वे व्याप्तिरव्याहता ततः ॥ २७८३ ॥

तथेति । संहतत्वेनोदिताः । अपौरुषेयत्वे तु वर्णानां सर्वमेतदनुपपन्नमिति पूर्वं
प्रतिपादितमतो व्याप्तिसिद्धिः ॥ २७८२ ॥ २७८३ ॥


ननु च वेदाध्ययनवाच्यत्वादित्यस्यापि हेतोर्व्याप्तिः सर्वोपसंहारेण सिद्धैव,
तथाहि वेदानां कर्त्ता न कदाचिदप्युपलभ्यत इत्याशङ्क्याह—वेदाध्ययनेत्यादि ।


वेदाध्ययनवाच्यत्वे नत्वेवं व्याप्तिनिश्चयः ।

संदिग्धव्यतिरेकित्वं व्यक्तं तेनात्र साधने ॥ २७८४ ॥

नत्वेवमिति । यथा सङ्घातत्वस्य । यतो न सङ्घातत्वस्य साध्यविपर्यये व्यतिरे
कित्वं संदिग्धम्, अस्य तु संदिग्धम् ॥ २७८४ ॥


एतदेव प्रतिपादयति—तथाविध इत्यादि ।


तथाविधे क्रमे कार्ये नराशक्तौ च निश्चये ।

सिद्धे व्याप्तिरिहेयं च निश्चेतुं नैव शक्यते ॥ २७८५ ॥

समस्तनरधर्माणां प्रत्यक्षीकरणे सति ।

स्यादेव निश्चयोऽयं च सर्वज्ञस्योपपद्यते ॥ २७८६ ॥

739

तथाविध इति । स्वर्गकामोऽग्निष्टोमेन यजेतेत्यादिके । एवंभूतं वर्णक्रमं यदि
कर्तुं सर्वनराणामशक्तिर्निश्चिता भवेत्तदा व्याप्तिनिश्चयो भवेत्, यावता सैव निश्चे
तुमसर्वविदा न शक्यत इति दर्शयति—समस्तनरधर्माणामित्यादि । अयं
चे
ति । निश्चयः ॥ २७८५ ॥ २७८६ ॥


ननु च धर्माद्युपदेशदुर्भणत्वादीनां वेदधर्माणां पौरुषेयेषु वाक्येष्वदर्शनाद्वेदस्य
पौरुषेयत्वमसम्भाव्यमेव, तत्कथं संदिग्धासिद्धता स्यादित्याशङ्क्याह—सम्भा
व्यत
इत्यादि ।


सम्भाव्यते च वेदस्य विस्पष्टं पौरुषेयता ।

काममिथ्याक्रियाप्राणिहिंसाऽसत्याभिधा तथा ॥ २७८७ ॥

दुर्भणत्वानुदात्तत्वक्लिष्टत्वाश्रव्यतादयः ।

वेदधर्मा हि दृश्यन्ते नास्तिकादिवचस्स्वपि ॥ २७८८ ॥

विषापगमभूत्यादि यच्च किञ्चित्समीक्ष्यते ।

सत्यं तद्वैनतेयादिमन्त्रवादेऽपि दृश्यते ॥ २७८९ ॥

एवं मन्यते—यदि नामादर्शनम्, तथाप्यदर्शनमात्रस्याप्रमाणत्वात्संदिग्धासि
द्धतैव, कदाचित्क्वचित्पुरुषास्तथाविधानां वेदधर्माणां कर्त्तारो भवेयुरिति । नचाद
र्शनमात्रं सिद्धम् । काममिथ्याचाराद्युपदेशादेर्वेदधर्मस्य नास्तिकादिवचनेष्वपि दर्श
नात् । काममिथ्याक्रिया—काममिथ्याचारः । मात्राद्यभिगमनमिति यावत् । तस्यो
पदेशो गोसवादौ । यथोक्तम्—उपहा उदकं चूषति तृणानि छिनत्ति उपैति मात
रमुतस्वगोत्रामित्यादि । उपहेति यजमानः । अश्वमेधादौ प्राणिवधोपदेशः । यथो
क्तम्—षट्शतानिबहूनानि नियुज्यन्ते पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनादूनानि पशु
भिस्त्रिभिःभिस्तुभिः
(?) ॥ इति । असत्यं मृषावादस्तदप्युपदिष्टम् । यथोक्तम्— न नर्मयुक्तं
ह्यनृतं हिनस्ति न स्त्रीषु राजन् न विवाहकाले । प्राणात्यये सर्वधनापहारे पञ्चानृता
न्याहुरपातकानि
 ॥ इति । एषां काममिथ्याचारादीनां, अभिधा—अभिधानम् । वेद
धर्मा नास्तिकादिवचस्स्वपि दृश्यन्त इति सम्बन्धः । तथेति समुच्चये । दुर्भणत्वं—दुर
भिधानम्, अनुदात्तत्वं मनोज्ञत्वं, क्लिष्टं—व्यवहितम् । आमन्द्रैरिन्द्र हरिभिर्यहि
मयूररोमभि
रित्यादिवत् । अत्र हि—आ मन्द्रैरित्ययं (आङ्) याहीत्यनेन व्यवहितेन
सम्बध्यते । आयाहीत्यर्थः । अश्रव्यता—श्रुतिदुर्भगता । आदिशब्देन पदविच्छेदप्लु
तोदात्तादिपरिग्रहः । विषापगमभूत्यादीति । विषापगमे भूतिः—सामर्थ्यं, प्रभाव
740 इति यावत् । अथवा—विषापगमश्च भूतिश्चेति समासः । भूतिर्विभूतिरैश्वर्यमिति
यावत् । आदिशब्देन भूतग्रहाद्यावेशवशीकरणाभिचारादयो गृह्यन्ते । सत्यमिति ।
अविसंवादि । वैनतेयादीत्यादिशब्देन बौद्धादिमन्त्रवादपरिग्रहः ॥ २७८७ ॥
॥ २७८८ ॥ २७८९ ॥


भारतेऽपि भवेदेवमित्यादावाह—किंचामुनेत्यादि ।


किंचाऽमुना प्रकारेण पौरुषेयं न किञ्चन ।

शक्यं सौगतमप्येवमनुमातुं वचो यतः ॥ २७९० ॥

एवमनुमातुमिति । सौगतप्रवचनाध्ययनं प्रथमाभिहि(म ?)तं सजातीयाध्ययन
पूर्वकं, सौगताध्ययनवाच्यत्वात्, अधुनाध्ययनं यथेति ॥ २७९० ॥


यद्येवं कथं तर्हि तत्सौगतं सेत्स्यतीत्याह—तदभिव्यक्तेत्यादि ।


तदभिव्यक्तरूपत्वात्तदीयं च तदुच्यते ।

कर्तृस्मृतिश्च तत्रापि भवत्वर्थनिबन्धना ॥ २७९१ ॥

परैरेवं न चेष्टं चेत्तुल्ये न्याये न किं मतम् ।

माभूद्वैवं परस्येष्टिर्न्यायात्त्वाशंक्यते तथा ॥ २७९२ ॥

तेन सुगतेनाभिव्यक्तं रूपं स्वभावो यस्य तत्तथा । तद्भावस्तत्त्वम् । तत्रापि सौग
तेया कर्तृस्मृतिस्त्वर्थवादनिबन्धना शक्यते व्याख्यातुम् । तथाह्यत्रापि करोतिः स्मर
णार्थः किं न व्याख्यायते । स्यादेतत्—नहि बौद्धैरेवमिष्टम्, येनैवं साध्येतेत्याह—
तुल्ये न्याये न किं मतमिति । यद्ययमर्थो युक्त्युपेतः स्यात्तदा किमिति बौद्धो
नाभ्युपगच्छेत्, नहि न्यायोपपन्नेऽर्थे प्रेक्षावतोऽनभ्युपगमो युक्तः । माभूद्बौद्धस्य प्रे
क्षावतोऽभ्युपगमस्तथाऽपि न्यायादेवमापाद्यते भवत इति ब्रूमहे ॥ २७९१ ॥ २७९२॥


एतदेव तद्वचनेन दृढीकुर्वन्नाह—सर्वदा चेत्यादि ।


सर्वदा चैव पुरुषाः प्रायेणानृतवादिनः ।

यथाऽद्यत्वे न विस्रम्भस्तथाऽतीतार्थकीर्त्तने ॥ २७९३ ॥

इत्येतेन त्वदुक्तेन न्यायेन च न सिद्ध्यति ।

कर्त्ता कश्चित्क्वचिद्ग्रन्थे स्वां कृतिं कथयन्नपि ॥ २७९४ ॥

ततश्चापौरुषेयेषु सत्याशा त्यज्यतामियम् ।

वेदार्थविपरीता हि तेष्वर्थाः प्रतिपादिताः ॥ २७९५ ॥

इत्येतेनेति । सर्वदा चेत्यादिनाऽनन्तरोक्तेन । स्यादेतद्भवतु सर्वेषामपौरुषेयते
741 त्याह—ततश्चेत्यादि । ततश्चापौरुषेयत्वं सत्यार्थं न सिद्ध्येत् । सौगतादिवचनेना
नैकान्तिकत्वादिति भावः । तथाहि—वेदार्थविपरीता नैरात्म्यादयो भवन्मतेनाप्र
माणोपपन्नास्तेषु सौगतादिषु वचनेषु निर्दिष्टाः, तथा वैदिका अपि सम्भाव्येरन्
॥ २७९३ ॥ २७९४ ॥ २७९५ ॥


एवं तावदनैकान्तिकत्वं प्रतिपादितम्, इदानीमिष्टविघातकादित्वाद्विरुद्धत्वमस्य
प्रतिपादयन्नाह—अपिचेत्यादि ।


अपिचानादिता सिद्ध्येदेवं नानरसंश्रयः ।

तस्मादकृतकत्वे वा स्यादन्योऽप्यागमोऽकृतः ॥ २७९६ ॥

तथाह्यपौरुषेयत्वमस्य साधयितुमिष्टम्, तच्च न सिद्धम्, किं तर्हि ? अनादि
त्वमात्रमनिष्टमेव सिद्ध्यति । स्यादेतत्—अनादित्वे सिद्धे सामर्थ्यादकृतकत्वं
सिद्ध्यत्वेव, नहि कृतकस्यानादित्वं युज्यते तदित्यत्राह—तस्मादित्यादि । तस्मा
दनादित्वाद्यद्यत्कृतकत्वं स्यात्तदा पारसीकादिव्यवहारस्यापि स्यात् ॥ २७९६ ॥


एतदेव दर्शयति—तथाहीत्यादि ।


तथाहि पारसीकादिव्यवहाराः पराश्रयाः ।

नास्तिकानां च सिद्धान्तः परसंस्कारभाविकः ॥ २७९७ ॥

पराश्रया इति । परपुरुषसंस्कारेण प्रवृत्ता इत्यर्थः । परसंस्कारभाविक इति ।
परसंस्कारेण भावः स यस्यास्ति स तथोक्तः । परसंस्कारेण वा भवितुं शीलमस्येति
परसंस्कारभावी, ततः स्वार्थे को विधेयः । तथाहि—येऽपि तावत्स्वप्रतिभारचि
तसङ्केताः सिद्धान्ताः, तेषामपि यथाश्रुतार्थविकल्पवशेनैव प्रवृत्तेः परसंस्कारबलेनैव
प्रवृत्तिः प्रागे(स्यादे?)व प्रायेण, यथा दर्शनवृत्तीनां लोकव्यवहाराणाम् ॥ २७९७ ॥


भवतु सर्वेषामपौरूषेयत्वमिति चेदित्याह—ईदृशीत्यादि ।


ईदृश्यकृतकत्वे च कः सिद्धेऽपि गुणस्तव ।

अवैतथ्यनिमित्तं हि यत्नोऽयं भवतोऽखिलः ॥ २७९८ ॥

ईदृशि—सम्भवद्वितथार्थे ॥ २७९८ ॥


अतीतानागतौ कालावित्यादावाह—कालत्वेत्यादि ।


कालत्वपुरुषत्वादौ संदिग्धव्यतिरेकिता ।

पूर्ववत्करणाशक्तेर्नराणामप्रसाधनात् ॥ २७९९ ॥

742
व्यक्तेश्च प्रतिषिद्धत्वाद्वक्ता कर्त्तैव गम्यताम् ।

तत्प्रयोगद्वयेऽप्युक्तं साध्यशून्यं निदर्शनम् ॥ २८०० ॥

सर्वेषां हि नराणां करणाशक्तिप्रसाधनं विपर्यते हेतोर्बाधकं प्रमाणम्, तस्य
चानुपदर्शनात्सर्वहेतूनां साध्यविपर्यते व्यतिरेकः संदिग्ध इत्यनैकान्तिकता । पूर्वव
दिति । वेदाध्ययनवाच्यत्वासाधनवत् । साध्यशून्यं निदर्शनमिति । वर्त्तमानकाल
वत्प्राकृतनरवदित्येतत् ॥ २७९९ ॥ २८०० ॥


ततश्च गम्यतामित्यादावाह—नरेत्यादि ।


नरोपदेशापेक्षत्वात्कृतकस्य च साधनात् ।

स्वार्थे वक्रनपेक्षत्वं धर्मिदृष्टान्तयोर्न च ॥ २८०१ ॥

धर्मिदृष्टान्तयोरिति । साध्यधर्मिणि दृष्टन्तधर्मिणि चेत्यर्थः ॥ २८०१ ॥


तत्कृतः प्रत्यय इत्यादावाह—नित्यत्वेऽस्त इत्यादि ।


नित्यत्वेऽस्ते च वाक्यस्य धर्मिदृष्टान्तयोरपि ।

नित्यवाक्योद्भवत्वस्य स्पष्टाऽसिद्धः प्रतीयते ॥ २८०२ ॥

इत्थं चापौरुषेयत्वे चोदनाया अनिश्चिते ।

सन्दिग्धासिद्धता दोषः पश्चिमेष्वपि हेतुषु ॥ २८०३ ॥

अत्रापि हेतोरसिद्धता दृष्टान्तस्य च साध्यविकलता पूर्ववत् । धर्मिदृष्टान्तयो
रिति सप्तमी नित्यवाक्योद्भवत्वस्येत्येतदपेक्षा । वाक्यस्येति नित्यत्व इत्येतदपेक्षा
सम्बन्धष्ठी । नित्यवाक्योद्भवत्वस्येत्यसिद्ध्यपेक्षा षष्ठी । पश्चिमेष्विति । दोषव
र्जितैः कारणैर्जन्यमानत्वादित्यादिषु च ॥ २८०२ ॥ २८०३ ॥


अनाप्ताप्रणीतोक्तिजन्यत्वाद्बाधवर्जनादित्यनयोस्तु हेत्वोर्निश्चितैवासिद्धतेति दर्श
यन्नाह—बाध्यते चेत्यादि ।


बाध्यते च श्रुतिः स्पष्टं क्षणभङ्गे प्रसाधिते ।

नित्या तावत्स्वरूपेण तत्कृतातो मतिः कृतः ॥ २८०४ ॥

नहि शीर्यत इत्युक्तः पुरुषश्च श्रुतावलम् ।

पुरस्तस्योदिता बाधा सुव्यक्ता तदसिद्धता ॥ २८०५ ॥

करामलकवद्यस्य देशकालनरान्तरम् ।

प्रत्यक्षं तत्र तेनायं बाधाभावोऽवसीयते ॥ २८०६ ॥

नित्या तावत्स्वरूपेणेति बाध्यत इति सम्बन्धः । एतदुक्तं भवति । स्पष्टं हि
743 हेतुबलप्रवृत्तानुमानतः सर्वपदार्थव्यापिनि क्षणभङ्गे प्रसाधिते सति येऽयं नित्यत्वे
नाभ्युपगता श्रुतिः सा तावद्बाध्यत इति स्वरूपग्रहणमभिधेयव्युदासार्थम् । तत्कृ
ताऽतो मतिः कुत
इति । नैवेत्यर्थः । एतेनानाप्ताप्रणीतोक्तिजन्यत्वादित्येतस्याश्र
यासिद्धतोक्ता । बाधवर्जनादित्येतस्य च स्वरूपतोऽसिद्धता निश्चितां दर्शयन्नाह—
नहि शीर्यत इत्यादि । अशीर्योऽयं नहि शीर्यते अविनाशी(वा)अरे अयमात्मेति
वेदे पठ्यते । तस्य—पुरुषस्य—आत्मनः पुरः—पूर्वं नैरात्म्यसिद्धौ, बाधोक्ता ।
अतो निश्चितमसिद्धत्वमस्य । ननु च—चोदनेति क्रियायाः प्रवर्त्तकं वचनमाहुरिति
वचनाद्वैदिकैकदेशविशेष एव चोदनोच्यते, न तु सर्वो वेदः, चोदनाजनिता(तु)बुद्धिः
पक्षीकृता । तस्मादन्यार्थस्य वेदस्य बाधायामपि न चोदनाया बाधेति हेतोः सिद्धि
रेव । नैष दोषः—चोदनाग्रहणेन क्वचित्सर्वमेव वैदिकं वाक्यमुच्यते, नतु सर्वदा प्रव
र्त्तकमेव । अन्यथा न हिंस्याद्भूतानीत्येतद्वाक्यं चोदना न स्यात्, अप्रवर्त्तकत्वात् ।
यच्चोक्तं भाष्ये—उभयमिह चोदनया लक्ष्यतेऽर्थोऽनर्थश्चइति, तदपि विरुद्ध्येत, नहि
चोदनाऽनर्थे प्रवर्त्तयति, येन तयाऽनर्थो लक्ष्यत इति स्यात् । किंच—यदेतदपरमुक्तं
भाष्ये विप्लवते खल्वपि कश्चित्पुरुषकृताद्वचनात्प्रत्ययो नतु वेदवचनस्य मिथ्यावसाये
किञ्चन प्रमाणमस्ती
ति । अस्य (नित्यस्य ?) तावद्बाधनाच्चोदनायामपि बाधा साम्भव्य
माना दुर्वारैव । तथाहि कुमारिलेनोक्तम्— अकर्तृकत्वसिद्ध्या च हेतुत्वं साधयि
ष्यते
इति । यथाचाकर्तृकस्यापि नित्यपुरुषादिविषयस्य वेदवचसो बाधा परिस्फुटा
समीक्ष्यते । तथाग्निहोत्रात्स्वर्गो भवतीत्यादावपि वा(सा ?)शङ्का दुर्वारैवेति स्फुटा ताव
त्सन्दिग्धासिद्धता पूर्वोक्तैव । अतएव पुनर्निर्वर्त्त्य सन्दिग्धासिद्धतामेव द्रढयन्नाह—
करामलकवदित्यादि । तत्रेति । देशकालनरान्तरे । तत्र यदुक्तम्— नचैष देशान्तरे
कालान्तरे पुरुषान्तरे वा वपर्येति तस्मादवितथ
इति, तदनेन दूषितं भवति
॥ २८०४ ॥ २८०५ ॥ २८०६ ॥


यदुक्तम्—तस्मादालोकवदित्यत्राह—नराविज्ञातरूपार्थ इत्यादि ।


नराविज्ञातरूपार्थे तमोभूते ततः स्थिते ।

वेदेऽनुरागो मन्दानां स्वाचारे पारसीकवत् ॥ २८०७ ॥

अविज्ञाततदर्थाश्च पापनिष्यन्दयोगतः ।

तथैवामी प्रवर्त्तन्ते प्राणिहिंसादिकल्मषे ॥ २८०८ ॥

रूपम्—स्वरूपम्, अर्थः—अभिधेयः, नराविज्ञातौ रूपार्थावस्येति विग्रहः ।
744 तत्र रूपमविज्ञातम्, किमयमेव वर्णोऽथान्यो विशेष एव वर्णक्रम उत नेति स्वतः
परतश्च निश्चयायोगात् । एवमर्थेऽप्यनिश्चयो द्रष्टव्यः । ततश्च तमोभूते—निश्चयाभावे
नानालोकभूतत्वात् । (पापं) पूर्वपापाभ्यासवासना, तन्निष्यन्दः । तथैवेति ।
पारसीकवत् ॥ २८०७ ॥ २८०८ ॥


यदुक्तमादौ—अवश्यं धर्माधर्मार्थिभिः पुरुषैः प्रेक्षावद्भिश्चोदनैव प्रमाणत्वेनाश्र
यणीयेति, तत्राह—धर्मं प्रतीत्यादि ।


धर्मं प्रति न सिद्धाऽतश्चोदनानां प्रमाणता ।

स्वतोऽन्येभ्यश्च मन्देभ्यस्तदर्थानवधारणात् ॥ २८०९ ॥

धर्मग्रहणमुपलक्षणम्, अधर्मोऽपि ग्रहीतव्यः ॥ २८०९ ॥


यद्येवं कस्तर्हि धर्मादिव्यवस्थाश्रय इत्याह—ज्ञानेत्यादि ।


ज्ञानालोकव्यपास्तान्तस्तमोराशिः पुमानतः ।

श्रुत्यर्थानां विविक्तानामुपदेशकृदिष्यताम् ॥ २८१० ॥

इति श्रुतिपरीक्षा

अन्तस्तमः—क्लिष्टाक्लिष्टमज्ञानम्, ज्ञानालोकेन व्यपास्तो ध्वस्तोऽन्तस्तमोरा
शिर्येन स तथोक्तः । विविक्तानामिति । अनवद्यानाम्—सुधीनाम्, (शुद्धानाम् ?)
पशुवधकाममिथ्याचारादिकलङ्कानङ्कितानामित्यर्थः । उपदेशकृदिष्यतामिति । एवं
हि तदपौरुषेयत्वं प्रकल्पितं सार्थकं भवतीति भावः । अन्यथा हि तस्मिन्नविज्ञातार्थे
तदपार्थकमेव स्यात् । अनेनैतदुक्तं भवति-योऽयं स्वतःप्रामाण्याभ्युपगमो भवतां, स
न विना सर्वज्ञेन युक्त इत्यतोऽवश्यं सोऽभ्युपगन्तव्यः, अन्यथा तत्र प्रामाण्या
सिद्धिरिति प्रतिपादितत्वात् । ततश्च तदुक्तमेव परं वचनं धर्मादिसमाश्रयोऽस्तु,
किमपरमप्रमाणोपपन्नापौरुषेयत्वकल्पनया । यच्चोक्तम्—योगिप्रत्यक्षसमाधिगम्योऽपि
धर्मादिर्न भवतीति, तदपि शे(दो ?)षवत्, अनुमा(ने)न योगिनः पश्चात्साधयिष्यमा
णत्वादिति भावः ॥ २८१० ॥


इति श्रुतिपरीक्षा
  1. इत आरभ्य २७०६ श्लोकव्याख्यानं यावत्, आदर्शपुस्तके तत्र तत्र बहूनि वाक्यान्य
    लाभान्नोल्लिखितानि । वाक्यपूरणावकाशमात्रं प्रदत्तमस्ति । आदर्शान्तरं च नोपलभामहे ।
    येन पूरयेम । नाप्यवसरोऽत्र पौर्वापर्यपर्यालोचनया वाक्यपूरणाय । यत् पदे पदे वाक्यवि
    भ्रंशः । तत्प्रज्ञाबलमात्रेण पूरणं दुर्घटमिति क्वचित्क्वचिद्यथाऽऽदर्शं प्रकाश्यते ।