अतीन्द्रियदर्शिपुरुषपरीक्षा ।

अनल्पकल्पासङ्ख्येयसात्मीभूतमहादयः । यः प्रतीत्यसमुत्पादं जगाद वदतां वरः ।
तं सर्वज्ञं प्रणम्यायं क्रियते तत्त्वसङ्ग्रहः ॥ इत्यनेन यत्सर्वज्ञोपदिष्टत्वं प्रतीत्यसमु
त्पादस्य विशेषणमुक्तं तत्समर्थनार्थं प्रस्तावमात्रं रचयन्नाह—एवमित्यादि ।


एवं सर्वप्रमाणानां प्रमाणत्वे स्वतोऽस्थिते ।

अतीन्द्रियार्थवित्सत्त्वसिद्धये न प्रयत्यते ॥ ३१२४ ॥

816

एवमनन्तरोक्तेन न्यायेन यदा सर्वेषामेव प्रमाणानां न स्वत एव प्रामाण्यमिति
स्थितम् । अतोऽयत्नेनैवातीन्द्रियार्थदर्शी पुरुषः सिद्ध इति न तत्सिद्धये पृथक्प्रय
त्नान्तरमास्थीयते ॥ ३१२४ ॥