058

यदि सामान्येनास्ति कश्चित्सर्वज्ञ इति साध्यते, तदा नास्मान्प्रतीदं भवतां साधनं
राजते । सिद्धसाध्यतादोषात् । किंतु ये सर्वज्ञापवादिनो जैमिनीयास्तेष्वेव शोभते ।
अत्रेश्वराख्यः सर्वज्ञः साध्यते, तदा प्रतिबन्धासिद्धेर्हेतोरनैकान्तिकता, दृष्टान्तस्य
साध्यविकलतेति । अतो नास्मान्प्रति साधनमेतद्राजत इति भावः । यच्चापि विचि
त्रोदयेत्यादि धर्मिविशेषणमुपात्तं तस्य न कश्चिदुपयोगोऽस्ति । केवलं परव्यामोहनाय
स्वप्रक्रियाघोषणमिदं क्रियते भवद्भिः । तथाहि—विना धर्म्यादिविशेषणेनैवंविधेन
यदि साधनमसिद्धतादिदोषरहितं तदा भवत्येवाभिमतसाध्यसिद्धिः । अथासिद्धतादि
दोषदुष्टं साधनम्, तदैवंविधविशेषणोपादानेऽपि न साध्यसिद्धिरस्तीति, सर्वथा व्यर्थ
मेव विशेषणम् । यत्पुनर्विपक्षाद्धेतुं व्यावर्त्तयति तदेव विशेषणं न्याय्यम् । किंचा
श्रयासिद्धो हेतुः । न हि यथोक्तविशेषणविशिष्टो धर्मी प्रसिद्धोऽस्ति प्रतिवादिनः,
तस्मान्न शास्त्रप्रसिद्धो धर्मी कर्त्तव्यः ॥ ९३ ॥


इतीश्वरपरीक्षा ।

उभयपरीक्षा ।

उभयव्यापाररहितत्वप्रतिपादनार्थमाह—प्रकृतीश्वरयोरित्यादि ।


प्रकृतीश्वरयोरेवं हेतुत्वप्रतिषेधनात् ।

प्रत्येकं सहितं कर्तृ नोभयं जन्मिनामिदम् ॥ ९४ ॥

तत्र केचित्साङ्ख्या आहुः—न प्रधानादेव केवलादमी कार्यभेदाः प्रवर्तन्ते,
तस्याचेतनत्वात् । न ह्यचेतनोऽधिष्ठायकमन्तरेण स्वकार्यमारभमाणो दृष्टः । न च
पुरुषोऽधिष्ठायको युक्तस्तस्य तदानीमज्ञत्वात् । तथा हि—बुद्ध्यध्यवसितमेवार्थं पुरु
षश्चेतयते । बुद्धिसंसर्गाच्च पूर्वमसावज्ञ एव, न जातु कंचिदर्थं विजानाति । न
चाविज्ञातमर्थं शक्तः कश्चित्कर्तुमिति नासौ कर्त्ता । तस्मादीश्वर एव प्रधानापेक्षः
कार्यभेदानां कर्त्ता, न केवलः । न हि देवदत्तादिः केवलः पुत्रं जनयति नापि
केवलः कुलालो घटं करोतीति । तदेतदपि प्रत्येकं प्रकृतीश्वरयोर्हेतुत्वनिषेधात्सहित
मपि नेदमीश्वरप्रधानाख्यमुभयं जन्मिनाम्—उत्पत्तिमताम्, कर्तृ—जनकम्' इति
सिद्धम् ॥ ९४ ॥


ननु यदि नाम प्रत्येकमनयोः कर्तृत्वं निषिद्धम्, तथाऽपि सहितयोरनिषिद्धमेव,
न हि केवलानां चक्षुरादीनां चक्षुर्ज्ञानोत्पत्तिं प्रति सामर्थ्याभावे सहितानामपि न
भवतीत्याशङ्क्याह—साहित्यमित्यादि ।