अथ स्वभावतो वृत्तिरित्यादिनोद्योतकरमतमाशङ्कते ।


अथ स्वभावतो वृत्तिः सर्गादावस्य वर्ण्यते ।

पावकादेः प्रकृत्यैव यथा दाहादिकर्मणि ॥ १६४ ॥

यद्येवमखिला भावा भवेयु्र्युगपत्ततः ।

तदुत्पादनसामर्थ्ययोगिकारणसन्निधेः ॥ १६५ ॥

स ह्याह—नहि भगवतः क्रीडार्था प्रवृत्तिः । अपि तु यथा पृथिव्यादीनां महा
भूतानां स्वभाव एव स तादृशो यत्स्वकार्येषु प्रवृत्तिः, तथेश्वरस्यापीति । तदेतदयुक्तम् ।
एवं हि सर्वभावानां तद्व्यापारमात्रभाविनां समर्थाविकलकारणसन्निधानाद्युगपदेवो
त्पादः स्यात् । न चापि बुद्धिमत्त्वं विशेषकं युक्तमिति पूर्वमेवास्माभिः प्रतिपादि
तम् ॥ १६४ ॥ १६५ ॥