यद्येवं पावकादिकार्याणामपि किं न यौगपद्यं भवतीत्याह—स्वहेतुबलसंभूता इत्यादि ।


स्वहेतुबलसंभूता नियता एव शक्तयः ।

असर्वकालभाविन्यो ज्वलनादिषु वस्तुषु ॥ १६६ ॥

079
अन्यथा यौगपद्येन सर्वं कार्यं समुद्भवेत् ।

तेषामपि न चेदेष नियमोऽभ्युपगम्यते ॥ १६७ ॥

तेषामिति । पावकादीनाम् । न केवलमीश्वरस्येत्यपिशब्दः । एष नियम इति ।
स्वहेतुबलसंभवकृतः ॥ १६६ ॥ १६७ ॥