स्यादेतदूर्णनाभः स्वभावतः प्रवृत्तः किमिति स्वकार्याणि जालादीनि युगपन्न करो
तीत्याह—प्रकृत्यैवेत्यादि ।


प्रकृत्यैवांशुहेतुत्वमूर्णनाभेऽपि नेष्यते ।

प्राणिभक्षणलाम्पट्याल्लालाजालं करोति यत् ॥ १६८ ॥

ऊर्णनाभोऽपि न स्वभावतः प्रवर्त्तते । किं तर्हि प्राणिभक्षणलाम्पट्यात्कादाचि
त्कात्प्रतिनियतहेतुसंभूतादित्यभिप्रायः । न ह्यसौ नित्यैकरूपः, तस्यापि स्वहेतुबलभा
वित्वेन कादाचित्की शक्तिः ॥ १६८ ॥