यच्चोक्तं विवादविषया ये चेत्यादि, तत्राह—समानेत्यादि ।


समानशब्दवाच्यत्वं दीपादिप्रत्ययेष्वपि ।

वर्त्तते व्यभिचार्येष हेतुस्तेन भवत्यतः ॥ ४७१ ॥

दीपज्ञानमिति दीपादिप्रत्ययेषु भिन्नविषयेष्वपि समानशब्दप्रवृत्तिदर्शनादतस्तेन
दीपादिप्रत्ययविषयेण शब्दवाच्यत्वेनैष समानशब्दवाच्यत्वादिति हेतुर्व्यभिचारी ।
165
अथवा काक्वा पाठः । अतस्तेषु वर्त्तमानत्वादेव हेतुस्ते—तव न व्यभिचारी भवति,
अपितु भवत्येवेत्यर्थः ॥ ४७१ ॥