यच्चोक्तं क्षणभङ्गिषु भावेषु प्रत्यभिज्ञा च दुर्घटेति । तत्राह—केषाञ्चिदेवेत्यादि ।
कार्यकार्यितेति । कार्यमस्यास्तीति कार्यि, कारणमित्यर्थः । कार्यकार्यिणोर्भावः
कार्यकार्यिता । कार्यकारणभवा इत्यर्थः । न हि कश्चित्परमार्थतः स्मर्त्ताऽनुभविता
वाऽस्ति । यतो येनैवानुभूतं स एव स्मरतीति स्यात् । किं तर्हि ? यत्र सन्ताने पटी
यसाऽनुभवेनोत्तरोत्तरविशिष्टतरतमक्षणोत्पादात्स्मृत्यादिबीजमाहितं तत्रैव स्मरणादयः
समुत्पद्यन्ते, नान्यत्र प्रतिनियतत्वात्कार्यकारणभावस्येति समासार्थः । यथोक्तम्—
अन्यस्मरणभोगादिप्रसङ्गश्च न बाधकः । अस्मृतेः कस्यचित्तेन ह्यनुभूते स्मृतो
द्भव इति । स्मरणादिपूर्वकाश्च प्रत्यभिज्ञानादयः प्रसूयन्य इत्यविरुद्धम् । न चापि
क्वचिदेकज्ञातृनिबन्धनाः प्रत्यभिज्ञानादयः सिद्धाः, येनोच्यते द्विभेदे त्वनिबन्धन
मिति, कार्यकारणभावमात्रतया सर्वत्रैव भेदाभ्युपगमात् ॥ ५४३ ॥
यच्चोक्तं—रागादिनिगडैर्बद्ध इत्यादिना बन्धमोक्षव्यवस्थानमनुपपन्नमिति, त
त्राह—कार्यकारणभूताश्चेत्यादि ।
नहि क्वचिदस्माकमेकपुरुषाधिकरणौ बन्धमोक्षौ प्रसिद्धौ, कस्यचिद्बध्यमानस्य
मुच्यमानस्य चासिद्धेः । केवलमविद्यादयः संस्कारा जरामरणपर्यन्ता दुःखोत्पादहे
तुतया बन्ध इति व्यवह्रियन्ते । तथाचोक्तम्— एवमस्य केवलस्य हेतोर्दुःखस्क
न्धस्य समुदायो भवतीति । तेषां चाविद्यादीनां तत्त्वज्ञानाद्विगतौ सत्यां या निर्म
लता धियः सा मुक्तिनिर्मुक्तिरित्युच्यते । यथोक्तम्— चित्तमेव हि संसारो रागादिक्ले
शवासितम् । तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यत इति ॥ ५४४ ॥
यच्चोक्तमेकाधिकरणावित्यादि, तत्रापि दृष्टान्तस्य साध्यविकलतेति दर्शयन्नाह—
एकाधिकरणौ सिद्धावित्यादि ।
सर्वमेव हि वस्तूदयानन्तरापवर्गीति प्रसाधितं यदा तदा न क्वचिदेकाधिइकरणत्वं
बन्धमोक्षयोः प्रसिद्धमस्तीत्यप्रसिद्धो दृष्टान्तः ॥ ५४५ ॥