यच्चोक्तं—रागादिनिगडैर्बद्ध इत्यादिना बन्धमोक्षव्यवस्थानमनुपपन्नमिति, त
त्राह—कार्यकारणभूताश्चेत्यादि ।


कार्यकारणभूताश्च तत्राविद्यादयो मताः ।

बन्धस्तद्विगमादिष्टो मुक्तिर्निर्मलता धियः ॥ ५४४ ॥

नहि क्वचिदस्माकमेकपुरुषाधिकरणौ बन्धमोक्षौ प्रसिद्धौ, कस्यचिद्बध्यमानस्य
मुच्यमानस्य चासिद्धेः । केवलमविद्यादयः संस्कारा जरामरणपर्यन्ता दुःखोत्पादहे
तुतया बन्ध इति व्यवह्रियन्ते । तथाचोक्तम्— एवमस्य केवलस्य हेतोर्दुःखस्क
न्धस्य समुदायो भवती
ति । तेषां चाविद्यादीनां तत्त्वज्ञानाद्विगतौ सत्यां या निर्म
लता धियः सा मुक्तिनिर्मुक्तिरित्युच्यते । यथोक्तम्— चित्तमेव हि संसारो रागादिक्ले
शवासितम् । तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यत
इति ॥ ५४४ ॥