168

नाऽनागत इत्यादेर्यथाक्रमं समर्थनमाह—न ह्यलब्धात्मकमित्यादि


न ह्यलब्धात्मकं वस्तु पराङ्गत्वाय कल्पते ।

न विनष्टं नच स्थानं तस्य कार्यकृतिक्षमम् ॥ ४८३ ॥

पूर्वक्षणविनाशे च कल्प्यमाने निरन्वये ।

पश्चात्तस्यानिमित्तत्वादुत्पत्तिर्नोपपद्यते ॥ ४८४ ॥

अनागतं हि नामोच्यते यदलब्धात्मतत्वम्, यच्चालब्धात्मतत्त्वं तदसत्, यच्चास
त्तदशेषसामर्थ्यशून्यम्, यच्चाशेषसामर्थ्यरहितं तत्कथं पराङ्गत्वाय कल्पते—परं
प्रति हेतुभावं प्रतिपद्यत इत्यर्थः । समर्थस्यैव हेतुभावसंप्रतिपत्तेः । एवं विनष्टमपि
सर्वसामर्थ्यशून्यत्वान्न पराङ्गत्वाय कल्पत इति संबन्धः । न चापि वर्त्तमानस्य
स्थानमस्ति, यत्कार्यकृतौ—कार्यकरणे क्षमं भवेत् । किंच—यदि पूर्वकक्षणो निर
न्वयं विनश्यतीति कल्प्यते तदा पाश्चात्त्यस्य क्षणस्य निमित्ताभावादुत्पत्तिर्न प्राप्नोति
॥ ४८३ ॥ ४८४ ॥


स्यादेतद्यथा तुलान्तयोर्नामोन्नामौ समं भवतस्तद्वद्धेतुफलयोर्नाशोत्पादाविष्टावतो
वर्त्तमानादविनष्टादेव कार्योत्पत्तेरिष्टत्वान्नानिमित्ता तस्योत्पत्तिर्भविष्यतीत्याह—ना
शोत्पादसमत्वेऽपी
त्यादि ।


नाशोत्पादसमत्वेऽपि नैवापेक्षा परस्परम् ।

न कार्यकारणत्वे स्तस्तद्व्यापाराननुग्रहात् ॥ ४८५ ॥

नाशोत्पादयोः समत्वेऽपि कल्प्यमाने न नाशोत्पादयोस्तद्वतोर्वा कार्यकारणत्वे स्तः
—संभवतः, तयोः परस्परानपेक्षत्वात् । कथमनपेक्षत्वमित्याह—तद्व्यापाराननुग्र
हा
दिति । तस्य—नाशस्य तद्वतो वा व्यापारेण कार्यस्याननुग्रहात्—अननुगृहीतत्वा
दित्यर्थः । नाशस्य हि नीरूपत्वाद्व्यापाराभावः, हेत्वभिमतस्यापि वस्तुनः कार्यस
त्ताकाले सन्निधानाभावाद्व्यापाराभावः ॥ ४८५ ॥


स्यादेतदन्तरेणापि व्यापारमानन्तर्यमात्रेण हेतुफलभावो भविष्यतीत्याह—जाय
मानश्चे
त्यादि ।


जायमानश्च गन्धादिर्घटरूपे विनश्यति ।

तत्कार्यं नेष्यते यद्वत्तथा रूपान्तराण्यपि ॥ ४८६ ॥

यदि यदनन्तरं यज्जायते तत्तस्य कार्यमिति स्यात्तदा घटादिसन्निवेशिनो रूप