167
यः फलस्य प्रसूतौ च भोक्ता संवर्ण्यते क्षणः ।

तेन नैव कृतं कर्म तस्य पूर्वमसंभवात् ॥ ४७८ ॥

कर्मतत्फलयोरेवमेककर्त्रपरिग्रहात् ।

कृतनाशाकृतप्राप्तिरासक्ताऽतिविरोधिनी ॥ ४७९ ॥

नैवासावनुवर्त्तत इति । तस्योत्पादानन्तरमेव निरुद्धत्वात् । एककर्त्रपरिग्रहा- दिति । एकेन कर्त्रा तयोः कर्मफलयोरपरिगृहीतत्वादित्यर्थः । कर्तुः फलेनानभिसंबन्धा
त्कृतनाशः, अकर्तुश्च फलेन योगादकृताभ्यागमः । अतिविरोधिनीति । लोकशा
स्त्रयोरेवमदर्शनादिति भावः ॥ ४७७ ॥ ४७८ ॥ ४७९ ॥


एवं तावत्प्रवृत्तिमभ्युपगम्य कृतनाशाकृताभ्यागमप्रसङ्ग उक्तः । इदानीं प्रवृत्ति
रेव न संभवतीति कुमारिलमतोपन्यासेन दर्शयति—नैरात्म्येत्यादि ।


नैरात्म्यवादपक्षे तु पूर्वमेवावबुध्यते ।

मद्विनाशात्फलं न स्यान्मत्तोन्यस्यापि वा भवेत् ॥ ४८० ॥

इति नैव प्रवर्त्तेत प्रेक्षावान्फललिप्सया ।

शुभाशुभक्रियारम्भे दूरतस्तु फलं स्थितम् ॥ ४८१ ॥

क्षणिकत्वाभ्युपगमे हि सर्वभावानां नैरात्म्यमेवाभ्युपगतं भवेत् । हेतुपरतन्त्रतया
सर्वस्यास्वतन्त्रत्वात् । तस्मिन्सति प्रेक्षावान् क्रियाप्रवृत्तेः पूर्वमेवावबुध्यते—अवधार
यति । किं तदित्याह—मद्विनाशादित्यादि । मम विनाशादूर्ध्वं फलं मम न स्यात्,
फलप्रसवकाले ममाभावात् । अथापि फलं भवेत्, तदा मत्तोऽन्यस्य क्षणान्तरस्य
स्यादिति ज्ञात्वा प्रवृत्तिरेव प्रेक्षावतो न संभवति, किं पुनः प्रवृत्तिपूर्वककर्मजनितं
फलं भविष्यति । तस्य दूरत एवासंभाव्यमानत्वेनावस्थितत्वात् ॥ ४८० ॥
॥ ४८१ ॥


एवं कर्मफलसंबन्धो नोपपद्यत इति प्रतिपादितम् । इदानीं कार्यकारणभावानुप
पत्तिं कुमारिलमतेनैव प्रतिपादयन्नाह—नाऽनागत इत्यादि ।


नाऽनागतो न वाऽतीतो भावः कार्यक्रियाक्षमः ।

वर्त्तमानोऽपि तावन्तं कालं नैवावतिष्ठते ॥ ४८२ ॥

तावन्तमिति । उत्पद्य यावता कालेन कार्यं निवर्त्तयति तावन्तं कालं नावतिष्ठते
क्षणिकत्वादिति भावः ॥ ४८२ ॥