183 प्रायः । तस्मात्परसिद्धान्तानभिज्ञतया यत्किञ्चिदभिहितमनेनेत्युपेक्षामर्हति ॥ ५३८ ॥
॥ ५३९ ॥
कुमारिलस्त्वाह—न वयं केनचित्कर्त्रा कृतस्य कर्मणो विप्रणाशात्कृतनाशाकृता
भ्यागमौ ब्रूमः, नहि भवतां मते कश्चित्कर्त्तास्ति, किं तर्हि, निरन्वयकर्मतत्फलयो
र्विनाशोत्पादाभ्युपगमात्कृतनाशाकृताभ्यागमौ प्रसज्येते इति । तदत्रैवंविधस्य कृत
नाशस्याकृताभ्यागमस्य चेष्टत्वान्नानिष्टापादनं युक्तमिति दर्शयन्नाह—क्षणभेदविक
ल्पेनेति ।
पूर्वकस्य कर्मक्षणस्य निरन्वयं विनाशात्कृतनाशः फलक्षणस्य वाऽपूर्वस्यैवोत्पादा
दकृताभ्यागम इत्येवं यत्क्षणभेदविकल्पेन कृतनाशादि चोद्यते तदिष्टमेव । न हि
स्वल्पीयसोऽपि वस्त्वंशस्य कस्यचिदन्वयोऽस्तीति प्रतिपादयिष्यामः ॥ ५४० ॥
यच्चोक्तं नैव प्रवर्त्तेत प्रेक्षावानिति, तत्राह—अहीनसत्त्वेत्यादि ।
ये तावदप्रहीणसहजेतरसत्कायदर्शनादयस्तेषामयं क्षणभेदविकल्पो नास्त्येव ।
तथाहि—ते सन्ततिमेकत्वेनाध्यवसाय सुखिता वयं भविष्याम इत्याहितपरितोषाः
कर्मसु प्रवर्त्तन्ते । येऽपि पृथग्जनकल्याणा एवं युक्त्यागमाभ्यां यथावत्क्षणिकानात्मक्षणिकात्मत
योरवबोधादभिसंबुद्धतत्त्वास्तेऽप्येवं प्रतीत्यसमुत्पादधर्मतां प्रतिपद्यन्ते । करुणादिपू
र्वकेभ्यो दानादिभ्यः स्वपरहितोदयशालिनः संस्काराः क्षणिका एवापरापरे परम्प
रया समुत्पद्यन्ते । न तु हिसादिभ्य इत्यतस्ते हेतुफलप्रतिनियममवधार्य शुभादि
क्रियासु प्रवर्त्तन्ते । यथोक्तं— यावच्चात्मनि न प्रेम्णो हानिः सपरितस्यति (संपरि
सेत्स्यतिसपदि
नश्यति ?) तावद्दुःखितमारोप्य न च स्वस्थोऽवतिष्ठते । मिथ्याध्यारोपहानार्थं यत्नो
ऽसत्यपि भोक्तरीति । कार्यकारणभावस्तदधिगन्तृ च प्रमाणं यथा सिध्यति तथा
प्रतिपादितमेव ॥ ५४१ ॥ ५४२ ॥