187 देव स्थूलानां तनुभवनादीनामुदयोऽस्ति क्रमेण तन्वादीनामुत्पत्तिदर्शनात् । तस्मा
द्विपर्ययः । प्रयोगः—ये क्रमवत्कार्यहेतवस्ते नित्या यथा क्रमवदङ्कुरादिकार्यनिर्व
र्त्तका बीजादयस्तथा च परमाणव इति स्वभावहेतुः ॥ ५५२ ॥


अविद्धकर्णस्त्वणूनां नित्यत्वप्रसाधनाय प्रमाणमाह—परमाणूनामुत्पादकाभिइमतं
सद्धर्मोपगतं न भवति । सत्त्वप्रतिपादकप्रमाणाविषयत्वात्, खरविषाणवदिति । सतो
विद्यमानस्य धर्मः सद्धर्मोऽस्तित्वं तेनोपगतं प्राप्तमस्तीत्यर्थः । तस्य प्रतिषेधोऽयम् ।
अणूत्पादकं कारणं नास्तीत्यर्थः । तदेतत्प्रमाणमाशङ्कापूर्वमुपदर्शयन्नाह—सद्धर्मोप
गत
मित्यादि ।


सद्धर्मोपगतं नोचेदणूत्पादकमिष्यते ।

विद्यमानोपलम्भार्थप्रमाणाविषयत्वतः ॥ ५५३ ॥

अणूत्पादकं सद्धर्मोपगतं नोचेदिष्यत इति संबन्धः । विद्यमानस्योपलम्भोऽधिगमः
सोऽर्थः प्रयोजनं यस्य प्रमाणस्य तत्तथोक्तं । शेषं सुबोधम् । एतेनाणूनामनित्यत्वप्रति
ज्ञाया अनुमानबाधितत्वमुद्भावितम्, सदकारणवन्नित्यमिति वचनात् । अकारणव
त्त्वेनाणूनां नित्यत्वस्य सिद्धत्वात् ॥ ५५३ ॥


नासिद्धेरित्यादिना हेतोरसिद्धतामाह ।


नासिद्धेर्दृश्यते येन कुविन्दाद्यणुकारणम् ।

परमाण्वात्मका एव येन सर्वे पटादयः ॥ ५५४ ॥

ननु कुविन्दादयः पटादीनामेव कारणत्वेन सिद्धा नाणूनां तत्कथमणुकारणं
कुविन्दादि दृश्यत इत्याह—परमाण्वात्मका इत्यादि । एतच्च पश्चात्प्रतिपादयिष्याम
इति भावः ॥ ५५४ ॥


अपिच देशकालस्वभावविप्रकृष्टानामर्थानामुपलम्भकप्रमाणनिवृत्तावपि सद्भावा
विरोधात्ततोऽनैकान्तिकता च हेतोरिति दर्शयति—सद्ग्राहकेत्यादि ।


सद्ग्राहकप्रमाभावान्न वा सत्ता प्रसिध्यति ।

प्रमाणविनिवृत्तौ हि नार्थाभावेऽस्ति निश्चयः ॥ ५५५ ॥

नार्थाभावेऽस्ति निश्चय इति। पिशाचादिवदिति भावः ॥ ५५५ ॥


एवं तावत्कारणद्रव्यं निषिद्ध्य कार्यद्रव्यनिषेधार्थमाह—तदारब्ध इत्यादि ।


तदारब्धस्त्ववयवी गुणावयवभेदवान् ।

नैवोपलभ्यते तेन न सिध्यत्यप्रमाणकः ॥ ५५६ ॥