186

तदेव द्वैविध्यमस्य दर्शयन्नाह—पृथिव्याद्यात्मकास्तावदित्यादि


पृथिव्याद्यात्मकास्तावद्य इष्टाः परमाणवः ।

तेनित्याअनित्या ये तदाद्यैस्तु प्रारब्धास्ते विनाशिनः ॥ ५५० ॥

परमाण्वात्मका हि पृथिव्यादयो नित्याः, परमाणूनां नित्यत्वात् । तदाद्यैस्तु प्रा
रब्धा अनित्याः हेतुमदनित्यमिति न्यायात् । तदाद्यैरिति । ते परमाणव आद्या
येषां ते तदाद्याः । आकाशादयस्तु नित्या एवेति भावः ॥ ५५० ॥


तत्रैतच्चतुःसङ्ख्यं तावद्द्रव्यं निषेद्धुमाह—तत्रेत्यादि ।


तत्र नित्याणुरूपाणामसत्त्वमुपपादितम् ।

निःशेषवस्तुविषयक्षणभङ्गप्रसाधनात् ॥ ५५१ ॥

तत्र य एते नित्याणुरूपाः पृथिव्यादयो वर्णितास्तेषामशेषवस्तुव्यापिनः क्षणभ
ङ्गस्य प्रसांधनान्नित्यत्वरूपेणासत्त्वं प्रसाधितमेव । यत्सत्तत्सर्वं क्षणिकमक्षणिकस्य
यौगपद्याभ्यामर्थक्रियाविरोधात्तल्लक्षणं सत्त्वं हीयत इति व्याप्तेः प्रसाधितत्वात् ॥ ५५१ ॥


अत्रापि बाधकं प्रमाणमाह—नित्यत्व इत्यादि ।


नित्यत्वे सकलाः स्थूला जायेरन्सकृदेव हि ।

संयोगादि न चापेक्ष्यं तेषामस्त्यविशेषतः ॥ ५५२ ॥

यदि पर्वतादीनां स्थूलानां कारभूताः परमाणवो नित्याः सन्तीत्यभ्युपगम्यते
तदा तत्कार्याणां स्थूलानामविकलकारणत्वात्सकृदेवोत्पत्तिप्रसङ्गः । प्रयोगः—ये स
मग्राप्रतिबद्धकारणास्ते सकृदेव भवन्ति । यथा बहवोऽङ्कुरास्तुल्योत्पादाः समग्राप्रति
बद्धकारणाश्च । नित्याणुकार्यत्वेनाभिमताः स्थूला भावा इति स्वभावहेतुः । समग्र
कारणस्याप्यनुत्पादे सर्वदैवानुत्पादप्रसङ्गो विशेषाभावादिति बाधकं प्रमाणम् । स्या
देतन्त्रिविधं कारणमिष्टं समवायिकारणमसमवायिकारणं निमित्तकारणं च । तत्र हि
यत्समवैति कार्यं तत्तस्य समवायिकारणं । असमवेतं तु यद्यस्य कारणभावं प्रतिप
द्यते तदसमवायिकारणं यथाऽवयविद्रव्यारम्भेऽवयवसंयोगः । परीशेषं तु कारणं
निमित्तकारणं तद्यथा धर्मादय इत्ययमेषां विभागः । तत्रापेक्षणीयस्य संयोगादेरस
न्निहितत्वात्समग्रकारणत्वमसिद्धमतोऽसिद्धो हेतुरित्याशङ्क्याह—संयोगादीति । यदि
हि संयोगादिना कश्चिद्विशेषोऽणूनामाधीयेत तदा ते तमपेक्षेरन् । यावता परैरनाधे
यविशेषा एवाणवो नित्यत्वात् । तत्कथं संयोगादि तेषामपेक्ष्यं स्यात् । न च सकृ