229 न्यत्वं शक्यं वक्तुम्, अन्यथोत्पत्तिकारणाभावात् । सर्वत्रैव हि तत्समवायिकारण
मिष्वादि निर्विशिष्टमेव । नच कर्माख्यं कारणं पश्चाद्विशिष्यत इति युक्तमभिधातुम्,
तस्यापि तुल्यपर्यनुयोगत्वात् । अन्यत्वेऽपि वा पश्चाद्वेगस्य पूर्वकस्य विनाशकारणा
भावात्तादवस्थ्यमेवेत्यपात एव स्याच्छरस्य । नच वायुसंयोगस्तस्य विनाशकारण
मर्वागेव पतनप्रसङ्गादित्युक्तमेतत्, सर्वत्र वायोरविशेषेण तत्संयोगस्याप्यविशिष्टत्वा
दिति यत्किंचिदेतत् ॥ ६८४ ॥ ६८५ ॥


भावनाख्यस्य दूषणमाह—भावनाख्यस्त्वित्यादि ।


भावनाख्यस्तु संस्कारश्चेतसो वासनात्मकः ।

युक्तो नात्मगुणश्चेदं युज्यते तन्निराकृतेः ॥ ६८६ ॥

यदि हि स्मृत्यादिकार्यतः सामान्येन भावनामात्रं तदा सिद्धसाध्यता । तथाहि
—पूर्वानुभवाहितसामर्थ्यलक्षणा चेतसः स्वात्मभूता भावना स्मृत्यादिहेतुरिष्यत
एव । यस्या वासनेति प्रसिद्धिः । अथात्मगुणस्वभावा भावना साधयितुमिष्टा, तदा
क्वचिदपि तथाविधया सह स्मृत्यादीनामन्वयासिद्धेरनैकान्तिकता हेतोः । प्रतिज्ञा
याश्चानुमानबाधा । आत्मनस्तदाधारस्य पूर्वं निराकृतत्वेनासत्त्वात्तस्या अप्यसत्त्व
सिद्धिः । प्रयोगः—ये यदाश्रितास्ते तस्याभावे सति नावस्थितिमश्नुवते, यथा
चित्रं कुड्याद्यभावे, आश्रितश्चात्मानं संस्कारः परमतेनेति व्यापकविरुद्धोपलब्धेर्न
चेष्टासिद्धिः । तस्यात्मनः पूर्वं निराकृतत्वात् । तस्माच्चेतसो वासनात्मक एव युक्तः
संस्कारो नात्मगुण इति प्रमाणफलमेतत् । एकस्य प्रमाणसिद्धत्वादपरस्य विपर्यया
दिति भावः ॥ ६८६ ॥


तृतीयस्यापि दूषणमाह—स्थितेत्यादि ।


स्थितस्थापकरूपस्तु न युक्तः क्षणभङ्गतः ।

स्थितार्थासम्भवाद्भावे ताद्रूप्यादेव संस्थितिः ॥ ६८७ ॥

तथाहि—यमसौ पदार्थं स्थितं स्थापयति कदाचिदसौ स्वयमस्थिरस्वभाव एव,
यद्वा स्थिरस्वभाव एवेति पक्षद्वयम् । यद्यस्थिरस्वभावस्तदा तस्य क्षणादूर्ध्वमभावात्
कस्यासौ स्थापको भवेत् । अथ द्वितीयः पक्षस्तदा भावे—सत्त्वे, स्थितानामर्थानां
ताद्रूप्यादेव—अप्रच्युतस्थितरूपत्वात्, स्थितिरिति किमकिंचित्करेण स्थापकेन परि
कल्पितेनेति पूर्ववद्दूषणं वाच्यम् ॥ ६८७ ॥