तृतीयस्यापि दूषणमाह—स्थितेत्यादि ।


स्थितस्थापकरूपस्तु न युक्तः क्षणभङ्गतः ।

स्थितार्थासम्भवाद्भावे ताद्रूप्यादेव संस्थितिः ॥ ६८७ ॥

तथाहि—यमसौ पदार्थं स्थितं स्थापयति कदाचिदसौ स्वयमस्थिरस्वभाव एव,
यद्वा स्थिरस्वभाव एवेति पक्षद्वयम् । यद्यस्थिरस्वभावस्तदा तस्य क्षणादूर्ध्वमभावात्
कस्यासौ स्थापको भवेत् । अथ द्वितीयः पक्षस्तदा भावे—सत्त्वे, स्थितानामर्थानां
ताद्रूप्यादेव—अप्रच्युतस्थितरूपत्वात्, स्थितिरिति किमकिंचित्करेण स्थापकेन परि
कल्पितेनेति पूर्ववद्दूषणं वाच्यम् ॥ ६८७ ॥


230

अथापि स्यात्क्षणिकत्वेऽपि सर्वभावानामेकक्षणावस्थितौ प्रबन्धेन चानुवृत्तौ तस्य
सामर्थ्यमुच्यत इत्यत्राप्याह—क्षणं त्वेकमित्यादि ।