अथापि स्यात्क्षणिकत्वेऽपि सर्वभावानामेकक्षणावस्थितौ प्रबन्धेन चानुवृत्तौ तस्य
सामर्थ्यमुच्यत इत्यत्राप्याह—क्षणं त्वेकमित्यादि ।
स्वहेतोरेव निष्पद्यमाना एकक्षणस्थायिनः सिध्यन्ति । तथाह्यात्मप्रतिलम्भलक्षणै
वामीषां स्थितिरुच्यते, नतु प्रतिलब्धात्मसत्ताकानामुत्तरकालमात्मरूपसन्धारण
लक्षणा, स्वयं चलात्मन उत्तरकालमवस्थानाभावात् । अवस्थाने वा कदाचिदप्यनिवृ
त्तिप्रसङ्गः पूर्ववत् । पश्चादप्यविशिष्टत्वात्, अतत्स्वभावप्रसङ्गाञ्च । पूर्वपूर्वकारण
सामर्थ्यकृतश्चोत्तरोत्तरकार्यप्रसव इति प्रबन्धेऽपि न संस्कारस्य सामर्थ्यं सिध्यति
॥ ६८८ ॥
अक्षणिकस्य तर्हि स्थापकोऽसौ भवत्वित्याह—नान्यथेत्यादि ।
यो ह्यक्षणिकस्तस्यान्यथात्वासम्भवात्स्वत एव स्थितिरिति किं कुर्वाणस्तस्यासौ स्था
पको भवतीत्युक्तमेतत् । अथापि स्यात्—माभूदसौ स्थापकः, किन्तुं क्षणस्यैवोत्पा
दको भवतीत्याह—नचास्येत्यादि । प्रमाणाधीना हि प्रमेयस्य तत्त्वव्यवस्थितिः, न
चास्य प्रसिद्धकारणव्यतिरेकेण वस्त्रादिषु प्रत्यक्षानुपलम्भाभ्यां चक्षुरादिवद्वा कार्यव्य
तिरेकतो दृष्टं—निश्चितं हेतुत्वम्, येन तद्व्यवहारः स्यात् । अथादृष्टसामर्थ्यस्यापि
हेतुत्वं कल्प्यते, तदा संस्कारः, अन्योऽपि वा—शुकबकादिरुत्पत्तेर्हेतुर्भवेत् । कल्प
नीय इति शेषः । न ह्यदृष्टशक्तित्वेन कश्चिद्विशेषोऽस्ति, येनैकस्मिन्नेव संस्कारात्मन्य
परिनिश्चितसामर्थ्ये कल्पनापरितोषो भवतां स्यात् । नचाप्ययमुत्पादहेतुरिष्टो भ
वद्भिः, अपि तूत्पन्नस्य सतो वस्त्रादेरुत्तरकालं स्थापको गुण इष्यते । तत्र चाकिंचि
त्करत्वमस्येति पूर्वमुपवर्णितम् । अभ्युपगम्य तूत्पत्तिहेतुत्वं दूषणमिदमभिहितम् ।
कदाचित्कश्चित्स्वसमयसीमानमप्यतिपत्यैवं कल्पयेदिति भावः । गुणसंस्कारनामे
त्यादिना पूर्वमुपसंहरति ॥ ६८९ ॥ ६९० ॥