232 साधारणं कार्यमतः कार्यतः सिद्धिरस्य । तथा प्रत्यक्षतोऽपि । यथोक्तम्—"सङ्ख्या
परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म च रूपिसमवायाच्चाक्षुषा
णी"ति । तदेषा सङ्खेपात्परप्रक्रियोक्ता । तदत्र संयोगविभागयोः पूर्वं निषिद्धत्वा
त्कार्यमसिद्धम् । अथ नैरन्तर्येणोत्पादादिमात्रलक्षणौ संयोगविभागौ तत्कार्यतया
हेतुत्वेनोच्यते, एवमप्यनैकान्तिकता हेतोः । तथाविधेन कर्मणा तयोः क्वचिदप्यन्व
यासिद्धेः । साध्यविपर्ययेण च हेतोर्व्याप्तेर्विरुद्धताऽपि । कारणमात्रास्तित्वे च साध्ये
सिद्धसाध्यता, वाय्वादीनां तथाविधसंयोगविभागकारणत्वेनाभीष्टत्वात् । विशेषे च
साध्ये प्रतिज्ञाया अप्यनुमानबाधा । तथाहि—क्रियासमावेशो भवन्पदार्थस्य क्षणि
कस्य वा(ऽक्षणिकस्य वा) । न तावत्क्षणिकस्य, तस्य जन्मदेश एव च्युतेः—ना
शाद्देशान्तरप्राप्तसंभवात् । प्रयोगः—यो यत्र देशे च्यवते न स तदुत्तरकालं तद
न्यदेशमाप्नोति, यथा प्रदीपादिः । जन्मदेश एव च्यवन्ते च सर्वे भावा विवक्षिता
इति व्यापकविरुद्धोपलब्धिः ॥ ६९२ ॥


नानैकान्तिकता हेतोरिति दर्शयन्नाह—जन्मेत्यादि ।


जन्मातिरिक्तकालं हि क्रियाकालं परे जगुः ।

इष्टाशुतरनाशेषु दीपादिष्वपि वस्तुषु ॥ ६९३ ॥

इष्ट आशुतरो विनाशो येषां ते तथा । प्रदीपादेरपि हि शीघ्रतरकालविनाशित
याऽभीष्टस्यापि जन्मोत्तरकालभाविन्येव क्रिया, षट्क्षणस्थायित्वेनास्याक्षणिकत्वात्
॥ ६९३ ॥


कथमित्याह—तथाहीत्यादि ।


तथाहि कारणाऽऽश्लेषः सामान्यस्याभिव्यञ्जनम् ।

स्वावयवे ततः कर्म विभागस्तदनन्तरम् ॥ ६९४ ॥

संयोगस्य विनाशश्च ततो द्रव्यस्य संक्षयः ।

षट्क्षणस्थायितैवेष्टा दीपादावपि वस्तुनि ॥ ६९५ ॥

तथाहि—स्वकारणसंबन्धकालस्तावत्प्रथमं भवति । ततः पश्चात्स्वसामान्याभि
व्यक्तिकालस्ततोऽवयवकर्मकालस्तदनन्तरमवयवविभागकालस्ततः स्वारम्भकावयवसं
योगविनाशस्ततो द्रव्यविनाश इति षट्क्षणस्थायितैव दीपादेरपि वस्तुनोऽभीष्टा ।
अतः क्षणिकस्य कस्यचिद्गतिमतः पदार्थस्याभावात्सर्वेषामेव क्रियावतां जन्मोत्तरकाल
भाविन्येव क्रिया । नाप्यसिद्धता हेतोरन्यस्य क्षणिकत्वायोगात् ॥ ६९४ ॥ ६९५ ॥