264

स्वत एवेत्यादिना प्रशस्तमतेरत्रोत्तरमाशङ्कते ।


स्वत एवाशुचित्वं हि श्वमांसादेर्यथा स्थितम् ।

तद्योगादपरेषां तु तथेहापि यदीष्यते ॥ ८१७ ॥

यथा प्रकाशको दीपो घटादेश्च स्वतः स्थितः ।

तत्प्रकाशात्मतायां च नियतोऽयमिदं तथा ॥ ८१८ ॥

स ह्याह—यथा श्वमांसादीनां स्वत एवाशुचित्वं, तद्योगाच्चान्येषां तथेहापि तादा
त्म्यादन्त्येषु विशेषेषु स्वत एव व्यावृत्तिप्रत्ययहेतुत्वं, तद्योगात्परमाणुषु । किंचातदा
त्मकेष्वप्यन्यनिमित्तः प्रत्ययो भवत्येव, यथा घटादिषु प्रदीपात्, नतु प्रदीपेषु घटा
दिभ्य इति । नियतोऽयमिति । घटादिः । इदं तथेति । वैलक्षण्योपलक्षणं विशे
षेभ्य एवाण्वादीनां, विशेषाणां स्वत एवेत्यर्थः ॥ ८१७ ॥ ८१८ ॥


ननु चेत्यादिना प्रतिविधत्ते ।


ननु चाशुचिभावोऽऽयं सांवृतो न तु तात्त्विकः ।

तत्स्वयं परतो वाऽयं कथं नाम भविष्यति ॥ ८१९ ॥

अथवा भाविकत्वेऽपि श्वमांसादिवशादिमे ।

जायन्तेऽशुचयो भावा नैव नित्या अजन्मतः ॥ ८२० ॥

प्रदीपादिप्रभावाच्च ज्ञानोत्पादस्वरूपताम् ।

लभन्ते क्षणिका ह्यर्थाः कलशाभरणादयः ॥ ८२१ ॥

न विवादास्पदीभूतविशेषबलभाविनी ।

वैलक्षण्यमतिस्तेषु क्रमोत्पत्तेः सुखादिवत् ॥ ८२२ ॥

इति विशेषपरीक्षा ।

अशुचित्वं हि नाम भावानां कल्पनोपरचितं, न पारमार्थिकमनवस्थितत्वात् ।
तथाहि—यदेव द्रव्यं कस्यचिच्छ्रोत्रियादेरशुचित्वेनाभाति, तदेवान्यस्य कौटिकादेः
शुचित्वेन, न चैकस्य परस्परप्रत्यनीकानेकरूपसंपातो युक्त एकत्वहानिप्रसङ्गात् ।
अथवा भवतु भाविकमशुचित्वं भावानां, तथापि नेदं दृष्टान्तेन समम् । तथाहि—
श्वमांसादिकाशुचिद्रव्यसंपर्कादन्नादयो भावाः परित्यक्तपूर्वशुचिस्वभावा अन्य एवाशु
चयो जायन्ते । अतो युक्तमेषां परोपाधिकमशुचित्वम् । नत्वेवं किंचित्परमाण्वादिषु
निबन्धनमस्ति, येनैषां परोपाधिकं वैलक्षण्यं भवेत्तथा, नित्यत्वादेवाजन्मतोऽनुत्पत्तेः ।