002

इह हि शास्त्रे प्रेक्षावतामभिधेयप्रयोजनावसायपूर्विका प्रवृत्तिर्महत्सु च प्रसादः
सर्वश्रेयोऽधिगतेः कारणं प्रथममित्यालोच्य भगवति प्रसादोत्पादनार्थं शास्त्रे चास्मि
न्नादरेण श्रोतुः प्रवृत्त्यर्थं स्वशास्तृपूजाविधिपूर्वकमस्य शास्त्रस्य प्रकृतीत्यादिभिः श्लो
कैस्तत्त्वसङ्ग्रह इत्येतत्पर्यन्तैरभिधेयप्रयोजने प्राह ॥


तथाहि—यद्यभिधेयमस्य न कथ्येत तदोन्मत्तादिवाक्यवदानर्थक्यं सम्भावयन्
प्रेक्षावान्न प्रवर्त्तेतापि श्रोतुमित्यभिधेयमस्यावश्यवचनीयम् । तथा सत्यभिधेये काक
दन्तादिपरीक्षाशास्त्रवदभिमतप्रयोजनरहितं शास्त्रं प्रेक्षावन्तः श्रोतुमपि नाद्रियन्त
इति ततस्तत्प्रवृत्त्यर्थमादौ प्रयोजनमभिधानीयम् । प्राधान्येन तु प्रयोजनमेव प्रवृत्त्य
ङ्गम् । तदर्थितयैव शास्त्रेषु श्रोतृजनस्य प्रवृत्तेः । तच्चाभिधेयशून्येन शास्त्रेणाशक्यं
सम्पादयितुमिति शास्त्रस्य प्रयोजनोपायतासंदर्शनार्थमभिधेयकथनम् । तच्च प्रयोजन
मनुगुणोपायमुपदर्शनीयं न पुनरशक्यतत्साधनानुष्ठानम् । अन्यथा विषहरतक्षकचू
डारत्नालङ्कारोपदेशशास्त्रवत्सत्यपि प्रयोजने तत्साधनानुष्ठानाशक्यतां मत्वा न प्रव
र्त्तेत प्रेक्षावान् । अत एवोक्तम्— संबद्धानुगुणोपायं पुरुषार्थाभिधायकम् । परीक्षा
ऽविकृतं वाक्यमतो न विकृतं परम् ॥
इति । तस्माच्छास्त्रेषु प्रवृत्त्यर्थमभिधेयादिक
थनम् ॥


ननु प्रेक्षावतां प्रवृत्तिर्निश्चयादेव । निश्चयश्च प्रमाणादेव । न चास्य प्रयोजनवा
क्यस्यात्राभिधेयादौ बाह्येऽर्थे प्रामाण्यमस्ति । तत्रास्य प्रतिबन्धाभावात् । तथा हि—न
तावत्तादात्म्यलक्षणः प्रतिबन्धो(द्धो?)ऽत्यन्तभेदात्त्पन्नभेदात् । नापि तदुत्पत्तिलक्षण इच्छामात्रप्रति
बद्धत्वाद्वाक्यस्य । न चाप्रतिबद्धाद्वाक्याज्जिज्ञासितेऽर्थे ज्ञानमुत्पद्यमानं प्रमाणं युक्तम
तिप्रसङ्गात् । विवक्षायां च यद्यपि प्रामाण्यं वाक्यस्य । तथापि न तत्प्रेक्षावतः प्रवृत्त्यङ्गम् ।
नहि ये यथा विवक्षन्ति ते तथैवानुष्ठानकाले कुर्वन्ति विसंवादना(द)भिप्रायस्य ।
अन्यथा प्रतिज्ञायाऽप्यन्यथा शास्त्ररचनासम्भवात् ॥ अपि च यः प्रमाणान्तरादधिग
तशास्त्रप्रयोजनस्तं प्रति प्रयोजनवाक्योपन्यासोऽनर्थक एव । तस्य प्रमाणान्तरादेव
प्रवृत्तत्वात् ॥ यश्चापि प्रमाणान्तरेण बाधितशास्त्रप्रयोजनस्तं प्रति सुतरामनर्थक एव,
तस्य प्रमाणान्तरेण बाधितत्वादेव प्रवृत्त्यसम्भवात् । एतच्च द्वयमभ्युपगम्योच्यते ।
न तु किंचिदर्वाग्दृशां प्राक्प्रवृत्तेः प्रयोजनादिसाधकं तद्बाधकं वा प्रमाणमस्ति । ये
नामी तत्सदसत्तामवगच्छेयुः । तस्याः प्रवृत्तिसमधिगम्यत्वात् । किं तु योऽनधिगत