003 शास्त्रप्रयोजनादिस्तं प्रति वाक्यमिदमारभ्यते । तस्य च प्रेक्षावतः संशय एव वाक्य
तोऽस्मादुपजायते न निश्चयोऽप्रमाणत्वात् । स च संशयः प्रागपि वाक्योपन्यासाद
स्तीति व्यर्थः प्रयोजनादिवाक्योपन्यासः ॥


तदत्राभिधीयते । यत्तावदुक्तं निश्चयेनैव प्रेक्षावतां प्रवृत्तिरिति तदसत् । संश
येनापि प्रवृत्तिदर्शनात् । यथा कृषीवलादीनाम् । स्यादेतद्यद्यपि कृषीवलादेर्भाविनि फले
संशयस्तथापि तत्फलसाधननिश्चयस्तेषां विद्यत एव । तेन निश्चयपूर्विकैव तेषां प्रवृ
त्तिरिति । तदसम्यक् । यदर्थं हि यस्य प्रवृत्तिः सा तत्संशयेऽपि तस्य भवतीत्येता
वदिह प्रकृतम् । न च कृषीवलादयः साधनार्थं तेषु प्रवर्त्तन्ते येन साधनविषयनि
श्चयसद्भावान्निश्चयपूर्विका प्रवृत्तिरेषामुपवर्ण्यते । किं तर्हि । फलार्थं ते तत्र प्रवर्त्तन्ते ।
तत्र च फले प्रतिबन्धादिसम्भवान्न निश्चयोऽस्तीत्यतः संशयपूर्विकैव तेषां प्रवृत्तिः ।
याऽपि चाऽऽद्यायां प्रवृत्तौ साधननिश्चयार्था प्रवृत्तिरेषाम् । तत्रापि न साधननिश्चयः ।
तदर्थत्वादेव प्रवृत्तेः । अपिच—साधननिश्चयोऽपि तेषां भाविफलापेक्षयाभवन्नवश्य
मेतदनागतमेवंविध फलं साधयिष्यतीत्येवंरूपो भवेत्, यद्वा प्रतिबन्धकसहकारिवै
कल्ययोरसम्भवे सत्यवश्यमभिमतफलसम्पादनायालमेतदित्येवंरूपः । न तत्र ताव
दाद्यो युक्तरूपः सम्भवत्सहकारिवैकल्यप्रतिबन्धकोपनिपातस्य कस्यचिदुपलब्धतथा
विधफलस्यापि शाल्यादेरनागतफलं प्रत्यसाधनत्वदर्शनेन सर्वत्राऽऽशङ्काया अव्यावृत्तेर्य
दाह— सामग्रीफलशक्तीनां परिणामानुबन्धिनि । अनैकान्तिकता कार्ये प्रतिबन्धा
दिसम्भवात् ॥
इति । अथ द्वितीयस्तदा युक्ततरमेतत् । एवंरूपत्वादेव सर्वस्याः
प्रमाणपूर्विकायाः प्रवृत्तेः । अत एव चाचार्यास्तत्र योग्यतानुमानेन विशेषणं विदधति ।
असति प्रतिबन्धे योग्यमेतदिति । किं तु फलमप्यनेन रूपेण निश्चितमेवेति न साध
नस्यैव निश्चयः । न चाप्येवंप्रवृत्तौ परमार्थतः फलनिश्चयपूर्विका प्रवृत्तिः सिद्ध्यति ।
प्रतिबन्धाद्यसत्वस्यैवापरदर्शनैर्निश्चेतुमशक्यत्वात् ॥


स्यादेतत्—यद्यपि परमार्थतः प्रतिबन्धाभावो निश्चेतुमशक्यस्तथापि यदि प्रति
बन्धो न स्यात्, तदावश्यमस्मात् फलप्राप्तिर्नियमेनेत्येवंविधो निश्चयः प्रमाणपूर्वि
कायां प्रवृत्तौ विद्यत एव, नत्वप्रमाणपूर्विकायामन्यथा प्रमाणाप्रमाणपूर्विकयोः प्रवृ
त्त्योर्विशेषो न स्यात्; स च तथाविधोऽपि निश्चयो वाक्यान्न सम्भवत्येवः, बाह्येऽर्थे तत्र
तस्याप्रतिबन्धेनाप्रमाणत्वादिति । सत्यमेवैतत् । किं तु—यदि वाक्यान्न कस्यचित्प्रे