पुरन्दरस्त्वाह—लोकप्रसिद्धमनुमानं चार्वाकैरपीष्यत एव, यत्तु कैश्चिल्लौकिकं
मार्गमतिक्रम्यानुमानमुच्यते तन्निषिध्यत इति । एतदाशङ्क्य दूषयन्नाह—लौकिक
मित्यादि ।
432
ननु लोकोऽपीति । हेत्वादीनवगच्छतीति सम्बन्धः । कार्यादेरित्यादिशब्दात्स्व
भावग्रहणम् । एवं हेत्वादीनित्यत्रापि स्वभावग्रहणमेव । बहुवचनं तु व्यक्तिभेदात् ।
यदेव लिङ्गं तादात्म्यतदुत्पत्तिप्रतिबद्धाल्लोकार्थ प्रतिपद्यते तदेवोक्तं लिङ्गमस्माभिः,
तदभ्यनुज्ञाने किं त्यक्तं स्याद्यस्यानुमानत्वनिषेधो भवेत् ॥ १४८२ ॥ १४८३ ॥