434
धर्मी धर्मविशिष्टो हि लिङ्गीत्येतत्सुनिश्चितम् ।

न भवेदनुमानं च यावत्तद्विषयं न तत् ॥ १४९१ ॥

तत्र शबरस्वामी शाब्दलक्षणमाह—शब्दज्ञानादसन्निकृष्टेऽर्थज्ञानं शाब्दमिति ।
शब्दस्वलक्षणग्रहणादुत्तरकालं परोक्षेऽर्थे यदुत्पद्यते ज्ञानं तच्छब्दादागतमिति कृत्वा
शाब्दप्रमाणम् । तच्च द्विविधम् । अपौरुषेयशब्दजनितं प्रत्ययितपुरुषवाक्यजं च ।
एतच्च प्रत्यक्षाद्भिन्नं परोक्षविषयत्वात् । नाप्यनुमानं त्रैरूप्याभावात् । तथाहि—
साध्यधर्मविशिष्टो धर्मी अनुमेय इष्यते, न केवलो नापि धर्ममात्रम्, यावच्च तद्धर्मि
त्वेन धर्मिविषयं लिङ्गं नावधार्यते न तावदनुमानस्य प्रवृत्तिः सम्भवति । यावत्प
क्षधर्मत्वावधारणा न भवति न तावदनुमानमिति यावत् ॥ १४८९ ॥ १४९० ॥
॥ १४९१ ॥


सैव पक्षधर्मत्वावधारणा किं न भवतीत्याह—यश्चेचि ।


यश्चात्र कल्प्यते धर्मी प्रमेयोऽस्य स एव च ।

नचानवधृते तस्मिंस्तद्धर्मत्वावधारणा ॥ १४९२ ॥

यश्चात्र शाब्दे कल्प्यते वृक्षादिधर्मी स एव प्रमेयस्तस्यैव प्रतिपाद्यत्वात् । धर्म्ये
वात्र प्रमेयो न धर्मविशिष्टो धर्मीति यावत् । तस्मिन्धर्मिणि अनवधृते—अनिश्चिते
कथं तद्धर्मत्वं निश्चीयते ॥ १४९२ ॥


प्राक्स चेत्पक्षधर्मत्वाद्गृहीतः किं ततः परम् ।

पक्षधर्मादिभिर्ज्ञातैर्यन स्यादनुमानता ॥ १४९३ ॥

किं च—यदि चासौ धर्मी पक्षधर्मत्वनिश्चयात्प्राग्ज्ञातस्तदा निष्फलः पक्षधर्म
त्वदिनिश्चये प्रयत्नः,धर्मिप्रतिपत्त्यर्थो हि सर्वः प्रयासः, स चेत्प्रतिपन्नः किमि
दानीं पक्षधर्मत्वादिनिरूपणप्रयासेन । अभ्युपगम्य चैतदभिहितम् । नच शब्दो
वृक्षादेर्धर्मिणो धर्मः, वक्तृदेशेऽवधार्यमाणत्वात् ॥ १४९३ ॥


एवं तावत्पक्षधर्मत्वाभावः प्रतिपादितः, इदानीमन्वयाभावं प्रतिपादयन्नाह—
न्वयो नचे
त्यादि ।


अन्वयो नच शब्दस्य प्रमेयेण निरूप्यते ।

व्यापारेण हि सर्वेषामन्वेतृत्वं प्रतीयते ॥ १४९४ ॥

निरूप्यत इति । निश्चीयते । व्यापारेणेति । सद्भावेन, सत्तयेति यावत् । एत
दुक्तं भवति—विद्यमानस्यैवान्वेतृत्वं नाविद्यमानस्येति ॥ १४९४ ॥