स्याद्वादपरीक्षा ।

अणीयसापि नांशेन मिश्रीभूतापरात्मकमित्येतत्समर्थनार्थं चोद्योपक्रमपूर्वक
माह—नन्वित्यादि ।


नन्वनेकात्मकं वस्तु यथा मेचकरत्नवत् ।

प्रकृत्यैव सदादीनां को विरोधस्तथा सति ॥ १७०९ ॥

यदुक्तम्— अर्थक्रियासमर्थं च सदन्यदसदुच्यते । समावेशो न चैकत्र तयो
र्युक्तो विरोधतः ॥
इति । तदत्राह्रीकादयश्चोदयन्ति । सर्वमेव वस्तु सामान्यविशे
षात्मकत्वेनानेकात्मकं, यथा शबलाभासं रत्नं, तत्कथं सदादीनां विरोधः, येनोच्यते
समावेशो न चैकत्रे ति । आदिशब्देन क्रियाक्रियैकत्वादयो गृह्यन्ते । यद्यपि चेदं
487 चोद्यं ननु तदेवेत्यादिना परिहृतं, तथापि विस्तरेण प्रतिपादनाय वादान्तरं वा दर्श
यितुं पुनरुच्यते ॥ १७०९ ॥