581
विवादास्पदमारूढं विज्ञानत्वादतो मनः ।

अद्वयं वेद्यकर्तृत्ववियोगात्प्रतिबिम्बवत् ॥ २०७९ ॥

विवादास्पदविशेषणेनैतदाह—स्वस्थनेत्रादिविज्ञानमत्र विशेषः साध्यधर्मी, न
सर्वः, सामान्यं तु विज्ञानत्वादिति हेतुः, तेन न प्रतिज्ञार्थौकदेशता हेतोरिति । वेद्य
कर्तृत्ववियोगादित्यद्वयत्वविशेषणम् । वेद्यकर्तृत्वद्वयविरहेणाद्वयमिष्टम्, न तु सर्वथा
ऽभावादित्यर्थः । प्रतिबिम्बवदिति । विषयिणि विषयोपचारात्प्रतिबिम्बज्ञानं प्रति
बिम्बशब्देनोक्तम् । यद्वा—सप्तम्यन्ताद्वतिः कर्त्तव्यः—तेन ज्ञानमेव सामर्थ्यादाधे
यतया लभ्यते । न चासिद्धो हेतुर्भेदान्तरप्रतिक्षेपेण स्वभावस्यैव तथा निर्देशान्न
ज्ञातृत्वस्य । नापि विरुद्धः सपक्षे भावात् ॥ २०७९ ॥


ननु चेत्यादिनाऽपरो दृष्टान्तस्य साध्यविकलतामुद्भावयति ।


ननु च प्रतिबिम्बेऽपि ज्ञानं सालम्बनं मतम् ।

चक्षूरश्मिनिवृत्तौ हि स्वमुखादेस्तथेक्षणात् ॥ २०८० ॥

यस्मान्नायना रश्मयो दर्पणादितलप्रतिहता निवर्त्तमानाः स्वमुखादिना सम्बध्यन्ते
ततस्ते तथा मुखादिप्रतीतिहेतवो भवन्ति । अतः स्वमुखादेरेव तथा दर्पणाद्यन्तर्ग
तादिरूपेणेक्षणं भवति । ततश्च न प्रतिबिम्बज्ञानं ग्राह्यग्राहकद्वयरहितं सिद्धम् ॥ २०८० ॥


नाभिमुख्येनेत्यादिना प्रतिविधत्ते ।


नाभिमुख्येन तद्दृष्टेः स्वमुखादेस्तथेक्षणम् ।

प्रमाणदेशभेदादिदृष्टेश्चान्यपदार्थवत् ॥ २०८१ ॥

न स्वमुखादेस्तथेक्षणमाभिमुख्येन तस्य स्वसुखादेर्दर्शनात् । तद्देशप्रमाणवर्णादिभे
देन दृष्टेश्च न स्वमुखादेस्तथेक्षणमिति सम्बन्धः । अन्यपदार्थवदिति । शब्दादिप
दार्थवत् । एतदुक्तं भवति—(यदि) मुखादिग्राहकं तज्ज्ञानं स्यात्तदा यथैव तन्मु
खादि व्यवस्थितं तथैव गृह्णीयात्, नह्यन्याकारस्य ज्ञानस्यान्यद्ग्राह्यं युक्तमतिप्रस
ङ्गात् । यावता दक्षिणाभिमुखस्थितो दर्पणतलं निभालयन्नुत्तराभिमुखं स्वमुखं प
श्यति । तथाऽल्पीयसि दर्पणतले महतोऽपि स्वमुखस्याल्पप्रतिबिम्बकमुपलभ्यते तथा
दर्पणतलसम्बद्धं दूराधःप्रविष्टमिवेक्ष्यते । नच तावद्बहलं तथाऽऽदर्शतलं नापि मु
खादि तत्सम्बद्धम् । तथा विमलसलिले सरसि तटान्तस्थितशाखिशिखरिणां प्रतिबि
म्बान्यधोगतशाखादिशिखरशेखराण्युपलभ्यन्ते, नच ते तथास्थिताः । तस्मात्प्रति
बिम्बज्ञानं न स्वबिम्बज्ञानं स्वमुखादिग्राहकं तद्विलक्षणप्रतिभासित्वात् शब्दज्ञानवत् ॥ २०८१ ॥