नाभिमुख्येनेत्यादिना प्रतिविधत्ते ।


नाभिमुख्येन तद्दृष्टेः स्वमुखादेस्तथेक्षणम् ।

प्रमाणदेशभेदादिदृष्टेश्चान्यपदार्थवत् ॥ २०८१ ॥

न स्वमुखादेस्तथेक्षणमाभिमुख्येन तस्य स्वसुखादेर्दर्शनात् । तद्देशप्रमाणवर्णादिभे
देन दृष्टेश्च न स्वमुखादेस्तथेक्षणमिति सम्बन्धः । अन्यपदार्थवदिति । शब्दादिप
दार्थवत् । एतदुक्तं भवति—(यदि) मुखादिग्राहकं तज्ज्ञानं स्यात्तदा यथैव तन्मु
खादि व्यवस्थितं तथैव गृह्णीयात्, नह्यन्याकारस्य ज्ञानस्यान्यद्ग्राह्यं युक्तमतिप्रस
ङ्गात् । यावता दक्षिणाभिमुखस्थितो दर्पणतलं निभालयन्नुत्तराभिमुखं स्वमुखं प
श्यति । तथाऽल्पीयसि दर्पणतले महतोऽपि स्वमुखस्याल्पप्रतिबिम्बकमुपलभ्यते तथा
दर्पणतलसम्बद्धं दूराधःप्रविष्टमिवेक्ष्यते । नच तावद्बहलं तथाऽऽदर्शतलं नापि मु
खादि तत्सम्बद्धम् । तथा विमलसलिले सरसि तटान्तस्थितशाखिशिखरिणां प्रतिबि
म्बान्यधोगतशाखादिशिखरशेखराण्युपलभ्यन्ते, नच ते तथास्थिताः । तस्मात्प्रति
बिम्बज्ञानं न स्वबिम्बज्ञानं स्वमुखादिग्राहकं तद्विलक्षणप्रतिभासित्वात् शब्दज्ञानवत् ॥ २०८१ ॥


582

भदन्तशुभगुप्तस्त्वाह— धीमात्रत्वेन संसाध्ये यज्ज्ञानत्वादिसाधनम् । विजाती
याविरुद्धत्वात्सर्वं शेषवदुच्यते ॥
इति, तं प्रत्याह—विज्ञानत्वमित्यादि ।