1

१. निग्रहस्थानलक्षणम्

नमो विघ्घ्नप्रमथनाय ॥ 1b


नानासद्गुणरत्नराशिकिरणध्वस्तान्धकारस्सदा ,

यो नानाविधसत्त्ववांछितफलप्राप्त्यर्थमत्त्युद्यतः ।

तन्निःशेषजगद्धितोदयपरन्नत्वार्यमञ्जुश्रियं ।

वादन्यायविभाग एष विमलः सङ्क्षिप्त आरभ्यते ॥

यत्प्रयोजनरहितं तत्प्रेक्षापूर्व्वकारिभिर्न्नारभ्यते । यथा बलित्वग्दर्शन
विनिश्चयादिकं । अप्रयोजनञ्चेदं प्रकरण
मित्याशंकावतस्तदाशंकापरिजिहीर्षया
प्रयोजनप्रदर्शनाय न्यायवादिन 1b1 मित्यादिवाक्यमुपन्यस्तवान् । कथम्पु
नरनेन वाक्येनास्य प्रयोजनमुपदर्श्यत इत्यास्तां
तावदेतद् । अर्थस्तु
व्याख्यायते ॥ न्यायस्त्रिरूपलिङ्गलक्षणा युक्तिः । नीयते प्राप्यते विवक्षितार्थ
सिद्धिरनेनेति कृत्त्वा अत एव त्रिविधं लिङ्गमि1b2 त्यादिना त्रि
रूपमेव
लिङ्गमनन्तरम्वक्ष्यति । तदभिधायि वचनमित्यपरे । तम्वदितुं शीलं यस्य स
तथोक्तः । तमपि निगृह्णन्ति पराजयन्त इत्यर्थः । निगृह्णन्तु नामान्याय

वादिनम्पराजयाधिकरणत्त्वादेव । न्यायवादिनन्त्वनिग्रहार्हमपि यन्निगृह्णन्त्ये
तन्न सम्भाव्यते । परोत्कर्षव्यारोपधियस्तु तमपि पराजयन्त इति सम्भावना

यामपि शब्दः समुच्चयार्थोऽतिशयद्योतनार्थो वा केषु निगृह्णन्तीत्याह ।
वादेषु 1b1 साधनदूषणसंशब्दितेषु विचारेष्विति यावत् । विवादेष्विति
क्वचित्पाठः ।
तत्र विरुद्धा वादा विवादा स्तेष्विति व्याख्येयं ।
विरुद्वाश्च कथं साधनदूषणसंशब्दितानाम्विचाराणान्तद्विरुद्धार्थसाधन
प्रवृत्तत्त्वात् ॥ कथम्पुनर्न्यायवादिनमसत्स्वसि
द्ध्यादिषु हेतुदोषेषु निगृह्णन्ती
त्याह ॥ असद्व्ययवस्थोपन्यासैः1b1 असतामसाधूनाम्व्यवस्थाः । असत्यो