2 वा व्यवस्थाः सद्भिः कुत्सितत्त्वात् । ताश्च फलजात्यसन्निग्रहस्थान
लक्ष
2a णास्तासामुपन्यासाः । प्रयोगस्तैरिति विग्रहः । के पुनरह्रीकास्त एवं
विधा इत्याह ॥ शठा धूर्ता मायाविनः परसम्पत्तावीर्ष्यालव इति यावत् ।
यस्मात्तं तथा निगृह्णन्ति
इति तस्मात्तन्निषेधार्थं तेषां शठानान्तेषाम्वा
ऽसद्व्यवस्थोपन्यासानान्तस्य वा निग्रहस्य त्रयाणां वा निषेधो निरासस्तदर्थन्तन्नि
मित्तमिदम्प्रकरणमारभ्यते ॥ स ए वार्थोऽस्ये
ति विग्रहीतव्यं । तन्निषेधे च
कृते सम्यग्विचारः प्रवर्तते तत्पूर्वकश्च सर्वः पुरुषार्थ इत्यभिप्रायः । आसन्न
विषयिणा त्वन्तर्विपरिवर्त्ति प्रकरणमिदमापरा
मृषति । अन्तस्तन्त्वात्मना
परिनिष्पन्नत्वात् । अन्यथाऽपरिनिष्पन्नात्मतयाऽसन्नत्वाभावादिदम् शब्द
प्रयोगो न स्यात् । आरभ्यत 1b1 इति वर्तमानकालनिर्देशः

थमिति चेत् । वर्तमानसामीप्ये वर्तमानवद्वे पाणिनिः ३।३।३१ ति वचनात्
सम्बन्धोऽप्यभिधानीय एवान्यथा बालोन्मत्तप्रलापवदग्राह्यमिदं प्रेक्षापूर्वकारिणा
म्भवेदिति चेत्
सत्त्यमेतत् । प्रयोजनान्तर्गतत्त्वात् पृथ सौ नाभिहितः । तथाहि
तन्निषेधार्थमिदमारभ्यते 1b1 ततश्चैतत्प्रयोजनमनेन प्रकरणेन साध्यते ।
तथा च प्रयोजनप्रकरण
योः साध्यसाधनलक्षणः सम्बन्ध इति सूचितं । ये त्वन्ये
क्रियानन्तर्यादिलक्षणाः सम्बन्धास्ते न वाच्या एव प्रकरणक्रियायामनङ्गभू
तत्त्वात् । तथाहि तेषु सत्स्वपि प्रयो
जनाभावे नारभ्यत एव प्रकरणं ।
असत्स्वपि च तेषु सति प्रयोजने प्रारभ्यत एव । तस्मात्प्रकरणारम्भस्य
प्रयोजनान्वयव्यतिरेकानुविधानात्प्रयोजनमेवाभिधानी
यम्प्रेक्षापूर्वकारिणा । तस्मिं
श्चाभिहिते सम्बन्धोप्युक्त एव भवतीति मन्यते । नानवधारितप्रकरण
शरीराः प्रवर्तन्ते प्रेक्षावन्तस्तस्मात्प्रयोजनवत्प्रवृत्त्यङ्गत्वात्प्रकरण
2b शरीरमपि
वक्त्व्यमेवेति चेत् । एवमेतत्प्रयोजनवाक्येन त्वभिहितत्वान्नैव तदपि सम्बन्धव
त्पृथगभिधानमर्हति । यतस्तन्निषेधार्थमिदमारभ्यत इत्युक्तमतश्च तत्
निषे
धोऽस्य शरीरमित्युक्तम्भवति । यदा चैतन्निषेधार्थमिदमारभ्यते तदा पूर्वको हेतु
रसिद्धः । प्रतिप्रमाणद्वयञ्चानेन सूचितं प्रारब्धव्यमिदम्प्रकरणम्प्रेक्षावता
सति
सामर्थ्ये । ग्राह्यम्वा प्रयोजनवत्वात् । सम्बन्धवत्वाच्च तदन्यशास्त्रवदिति
स्वभावहेतुः ।