किञ्च (।)
सर्व्वेषां भावानां सर्व्वात्मत्वे च भिन्नौ धीध्वनी न स्यातामेकविषयत्वात् ।
तयोर्धीध्वन्योरभेदात् भेदसंहारवादस्यासम्भवः स्यात् । उष्ट्राद् भिन्नं दधीति
भेदव्यवहारो दध्येवोष्ट्र इति च तदात्मतोपसंहारव्यवहारश्च
बुद्धिशब्दयोरभे
दान्न स्यात् । न हि बुद्धिशब्दयोर्भेदव्यवहारो युक्तः । तन्निबन्धनत्वात् तस्य ।
तदभावेपि भावे चातिप्रसङ्गात् । भेदप्रतीत्योर्भावात् तादात्म्योपसंहारश्च कथं
तदधीनत्वात् तस्य ।
३. शब्दचिन्ता
उक्तं तावद् भावादिशब्दानां व्यवच्छेदविषयत्वं । येप्यभावादिशब्दा
अभावस्य स्वरूपाभावात् तेपि रूपाभिधायिनो वस्तुवाचका नाशङक्या एव ।
सम्भवद् वस्तु वाच्यं
स्यान्न वेति चिन्त्येतापि ।1727 यत्र तु वस्त्वेव नास्ति तत्र का
चिन्ता । अतस्तेऽभावादिशब्दा व्यवच्छेदस्य भावव्यावृत्तेर्व्वाचकाः सिद्धाः ।
तस्मात् स्थितमेतत् स्वभावहेतोर्व्वस्तुतः साध्यात्मकत्वेपि न प्रतिज्ञार्थैकदेशो
हेतुः । साध्यसाधनधर्मिध्वनिविकल्पानां भिन्न1728व्यवच्छेदविषय1729त्वात् । न च
साध्यादीनां कल्पितत्वं भेदस्य कल्पनात् । शब्दत्वेन निश्चितो ध
र्मी सत्त्वेन च
हेतुः (।) क्षणिकत्वेन निश्चितः साध्यः । इत्यकल्पिता एव धर्म्यादय इत्युक्तं ।
स चायं स्वभावो हेतुः ॥