यस्मात् साक्षात् (।)

उत्तरावयवापेक्षो यो दोषः सोनुबध्यते ।
तेनेयुक्तमतोऽपक्षदोषोऽसिद्धाश्रयादिकः ॥ १५० ॥

उत्तरोऽवयवो हेतुदृष्टान्तादिस्तदपेक्षो यो दोषः स तेन हेत्वादिनानुबध्यते ।
आत्मनि सम्बध्यते इत्युक्तं प्राक् । उत्तरावयवापेक्षो न दोषः पक्ष इष्यत इत्या
दिना । अतोऽसिद्धाश्रयादिक आश्रयासिद्धत्वादिरुत्तरावयवापेक्षो न पक्षदोषो
मतः
 ॥ (१५०)