क. नमस्कारश्लोकः

शास्त्रा1दावविध्नेन तत्समाप्त्यर्थं
भगवति प्रसादजनने श्रोतृ2जनानुग्रहार्थञ्च
स्तुतिपूर्वकमाचार्यो नमस्कारश्लोकमाह ।

विधूतकल्पनाजालगम्भीरोदारमूर्तये ।
नमः समन्तभद्राय समन्तस्फरणत्विषे ॥ १ ॥

विधूतं3 विध्वस्तं अनुत्पत्तिकधर्मतामापादितं कल्पना ग्राह्यग्राहकाध्यारोपः सैव
जालं बन्धनहेतुत्वात् यासां ता विधूतकल्पनाजालाः । एतेन धर्मकाय उक्तः4 । द्वय
शून्यताया धर्मधातुत्वात् (।) तदधिगमस्य धर्मकायत्वात् । गम्भीराश्च खड्ग
002 श्रावकाद्यविषयत्वात् । उदाराश्च सकलज्ञेयसत्वार्थ
व्यापनादिति गम्भीरो
दाराः
 । आभ्यां साम्भोगिकनैर्म्माणिककायावुक्तौ तयोरेव स्वरूपत्वात् ।
विधूतकल्पनाजाला गम्भीरोदारा मूर्त्तयो यस्य स विधूतकल्पनाजालगम्भोरोदार
मर्त्तिः
(।) एतेन स्वार्थसम्पदुक्ता त्रिकायलक्षणत्वात्तस्याः ।

समन्तं निरवशेषं भद्रं कल्याणं परार्थसम्पत्सम्भारलक्षणं यस्मादसौ समन्तभद्रः (।) अनया भगवन्नामव्युत्पत्त्या परार्थसम्पदभिहिता5 । समन्ततः स्फ
रन्तीति
समन्तस्फरण्यः त्विषः ताव (त्) त्विषो देशना यस्य स समन्तस्फरणत्विट् वस्तुतत्त्वावभासनोपायता च त्विड्देशनयोः साधर्म्यं (।) अनेन परार्थसम्पदुपायो
दर्शितः । देशनाद्वारेण भगवता जगदर्थकरणात् । एतेन स्तुतिरुक्ता असाधारणानां
स्वपरार्थसम्पत्तितदुपायानामुपदर्शनात् । सर्व्वत्र नमःश6ब्दयोगाच्चतुर्थी । अनेन
नमस्कारोभिहितः । यदा तु समन्तभद्रशब्दो
रूढ्या बोधिसत्त्वविशेषे वर्तते
तदापि पदव्याख्यानं पूर्ववदेव । अयन्तु विशेषः । विधूतकल्पनाजालत्वं बोधि
सत्त्वभूम्यावरणप्रहाणतो वेदितव्यं । गाम्भीर्यन्तु खड्गश्रावकाविषयत्वात् । औदार्यन्तु
दर्श भूमीश्वरबोधिसत्त्वमाहात्म्यातिशयतः । कायत्रयन्तु बोधिसत्त्वानामप्यस्ति
प्रकर्षनिष्ठागमनात्तु भगवतां व्यवस्थाप्यते । देशना च प्रसिद्धैव तेषां ॥ (१) ॥

  1. स्तुत्या पुण्योपचयात् ।

  2. व्याख्यातुश्चेति परार्थदर्शनात् ।

  3. सर्व्वावरणविगमात् ।

  4. पूजेयं नमः शब्दात्प्रणामतः शिष्टैश्च तेश्च । तच्च स्वपरार्थतदुभयसम्पत्तिस्ततः अवृत्तिहानिगाम्भीर्य्यौदार्यविशेषैस्त्रिभिः स्वार्थ उक्तः ।

  5. तदर्थिनां यथा ।

  6. अकारान्तः सकारान्तस्तृतीयार्थ इत्यन्ये । जनकायः ।