तदुदाहरति—
केनचित् तपोधनेन कश्चिद् गृहमेधी स्वगृहागतेन वार्तापृष्टः सन् अभिधत्ते गृहाणि गेहानि नाम तान्येवोच्यन्तेऽर्थतो नामतश्च नान्यानि । अत एव नामेत्युक्तम् । संभावनायां वा नामशब्दः । कतमानि ? यानि गृहाणि एवमागमनोत्सवेन पादपांसुभिश्चरणरेणुभिः पावनैः पवित्रैः जाह्नवीजलैरिव संभावयति मानयति पुनाति भवादृशः त्वद्विधः तपोराशिः साक्षाद्धर्मसञ्चयः । तथाभिधं वार्ताभिधानं सर्वजगत्कान्तं लौकित्वात् तादृशस्यार्थस्य । उक्तं च—
52