Adhikāra 11
पञ्चमूलीकृतः क्वाथः पिप्पलीचूर्णसंयुतः ॥
रसान्नमश्नतो नित्यं वातकासमुदस्यति ॥ १ ॥
भार्ङ्गीद्राक्षाशठीशृङ्गीपिप्पलीविश्वभेषजैः ॥
गुडतैलयुतो लेहो हितो मारुतकासिनाम् ॥ २ ॥
चूर्णिता विश्वदुःस्पर्शाशृङ्गीद्राक्षाशठीसिताः ॥
लीढ्वा तैलेन वातोत्थं कासं जयति दुस्तरम् ॥ ३ ॥
बलाद्विबृहतीवासाद्राक्षाभिः क्वथितं जलम् ॥
पित्तकासहरं पेयं शर्करामधुयोजितम् ॥ ४ ॥
शरादिपञ्चमूलस्य पिप्पलीद्राक्षयोस्तथा ॥
कषायेण शृतं क्षीरं पिबेत्समधुशर्करम् ॥ ५ ॥
द्राक्षामधुकखर्जूरपिप्पलीमरिचान्वितम् ॥
पित्तकासहरं ह्येतल्लिह्यान्माक्षिकसर्पिषा ॥ ६ ॥
खर्जूरपिप्पलीद्राक्षासितालाजाः समांशकाः ॥
मधुसर्पिर्युतो लेहः पित्तकासहरः परः ॥ ७ ॥
मुद्गामलाभ्यां यवदाडिमाभ्यां कर्कन्धुना मूलकशुण्ठकेन ॥
शुण्ठीकणाभ्यां च कुलत्थकेन यूषो नवाङ्गः कफकासहन्ता ॥ ८ ॥
पौष्करं कट्फलं भार्ङ्गीपिप्पलीविश्वसाधितम् ॥
पिबेत्क्वाथं कफोद्रेके कासे श्वासे च हृद्ग्रहे ॥ ९ ॥
स्वरसं शृङ्गवेरस्य माक्षिकेण समन्वितम् ॥
पाययेच्छ्वासकासघ्नं प्रतिश्यायकफापहम् ॥ १० ॥
पार्श्वशूले ज्वरे श्वासे कासे श्लेष्मसमुद्भवे ॥
पिप्पलीचूर्णसंयुक्तं दशमूलीजलं पिबेत् ॥ ११ ॥
कट्फलं कत्तृणं भार्ङ्गी मुस्तं धान्यवचाभयाः ॥
शुण्ठी पर्पटकं शृङ्गी सुराह्वं च जले शृतम् ॥ १२ ॥
मधुहिङ्गुयुतं पेयं कासे वातकफात्मके ॥
कण्ठरोगेषु मुख्येषु श्वासहिक्काज्वरेषु च ॥ १३ ॥
तालीसपत्रं मरिचं नागरं पिप्पली शुभा ॥
यथोत्तरं भागवृद्ध्या त्वगेले चार्धभागिके ॥ १४ ॥
पिप्पल्यष्टगुणा चात्र प्रदेया सितशर्करा ॥
श्वासकासारुचिच्छर्दिप्लीहत्दृत्पार्श्वशूलनुत् ॥ १५ ॥
पाण्डुज्वरातिसारघ्नं मूढवातानुलोमनम् ॥
कल्पयेद्गुटिकां चैव चूर्णं पक्त्वा सितोपलाम् ॥ १६ ॥
गुटिका ह्यग्निसंयोगाच्चूर्णाल्लघुतराः स्मृताः ॥
वातश्लेष्मकृते कासे तालीसाद्यं प्रयोजयेत् ॥
पित्तयुक्ते भवेच्छ्रेष्ठं वंशरोचनयाऽन्वितम् ॥ १७ ॥
वासकस्वरसः पेयो मधुयुक्तो हिताशिना ॥
पित्तश्लेष्मकृते कासे रक्तपित्ते विशेषतः ॥ १८ ॥
कासे च क्षतजे बल्यैर्बृंहणैर्जीवनैरपि ॥
शमनं पित्तकासोक्तैरन्यैश्च मधुरौषधैः ॥ १९ ॥
मधुकं पिप्पली द्राक्षा लाक्षा शृङ्गी शतावरी ॥ २० ॥
द्विगुणा च तुगाक्षीरी सिता सर्वैश्चतुर्गुणा ॥
लेहयेन्मधुसर्पिर्भ्यां क्षतकासनिवृत्तये ॥ २१ ॥
पिप्पली पद्मकं लाक्षा संपक्वं बृहतीफलम् ॥
घृतक्षौद्रयुतो लेहः क्षतकासनिबर्हणः ॥ २२ ॥
मुखे धृताऽभया शुण्ठी कणया वा विभीतकम् ॥
विभीतकमथैकं वा कासश्वासौ व्यपोहति ॥ २३ ॥
पथ्याशुण्ठीघनगुडैर्गुटिकां धारयेन्मुखे ॥
सर्वेषु श्वासकासेषु केवलं वा विभीतकम् ॥ २४ ॥
मनःशिलाले मरिचमांसीमुस्तेङ्गुदैः पिबेत् ॥
धूमं तस्यानु च पयः सुखोष्णं सगुडं पिबेत् ॥ २५ ॥
एष कासान्पृथग्द्वंद्वसर्वदोषसमुत्थितान् ॥
शतैरपि प्रयोगाणामसाध्यान्साधयेद्द्रुतम् ॥ २६ ॥
मनःशिलालिप्तदलं बदर्यातपशोषितम् ॥
सक्षीरं धूमपानं च महाकासनिवारणम् ॥ २७ ॥
कर्षः कर्षांशपलं पलद्वयं स्यात्ततोऽर्धकर्षश्च ॥
मरिचस्य पिप्पलीनां दाडिमगुडयावशूकानाम् ॥ २८ ॥
सर्वौषधैरसाध्या ये कासाः सर्ववैद्यविनिर्मुक्ताः ॥
अपि पूयं छर्दयतां तेषामिदमौषधं परमम् ॥ २९ ॥
अर्कच्छल्लीशिले तुल्ये ततोऽर्धेन कटुत्रिकम् ॥
चूर्णितं वह्निनिक्षिप्तं पिबेद्धूमं च योगवित् ॥ ३० ॥
भक्षयेदथ ताम्बूलं पिबेद्दुग्धमथाम्बु वा ॥
कासाः पञ्चविधा यान्ति शान्तिमाशु न संशयः ॥
कण्टकारीकृतः क्वाथः सकृष्णः सर्वकासहा ॥ ३१ ॥
लवङ्गजातीफलपिप्पलीनां भागान्प्रकल्प्याक्षसमानमीषाम् ॥
पलार्धमेकं मरिचस्य दद्यात्पलानि चत्वारि महौषधस्य ॥ ३२ ॥
सितासमं चूर्णमिदं प्रसह्य रोगांस्त्विमानाशु बलान्निहन्ति ॥
कासज्वरारोचकमेहगुल्मश्वासाग्निमान्द्यग्रहणीप्रदोषान् ॥ ३३ ॥
दशमूलीकषायेण भार्ङ्गीकल्कं पचेद्घृतम् ॥
दक्षतित्तिरिनिर्यूहे तत्परं वातकासजित् ॥ ३४ ॥
दशमूलाढके प्रस्थं घृतस्याक्षसमैः पचेत् ॥
पुष्कराह्वशठीबिल्वसुरसव्योषहिङ्गुभिः ॥ ३५ ॥
पयोनुपानं तत्पेयं कासे वातकफात्मके ॥
श्वासरोगेषु सर्वेषु कफवातात्मकेषु च ॥ ३६ ॥
समूलपत्रशाखायाः कण्टकार्या रसाढके ॥ ३७ ॥
घृतप्रस्थे बलाव्योषविडङ्गशठिचित्रकैः ॥
सौवर्चलयवक्षारबिल्वामलकपौष्करैः ॥ ३८ ॥
वृश्चीव(र)बृहतीपथ्यायवानीदाडिमर्द्धिभिः ॥
द्राक्षापुनर्नवाचव्यदुरालम्भाम्लवेतसैः ॥ ३९ ॥
शृङ्गीतामलकीभार्ङ्गीरास्नागोक्षुरकैः पचेत् ॥
कल्कैस्तत्सर्वकासेषु हिक्काश्वासेषु शस्यते ॥
कण्टकारीघृतं सर्वकफव्याधिविनाशनम् ॥ ४० ॥
कण्टकारीगुडूचीभ्यां पृथक् त्रिंशत्पले रसे ॥
प्रस्थः सिद्धो घृताद्वातकासनुद्वह्निदीपनः ॥ ४१ ॥
द्रोणेऽपां साधयेद्रास्नादशमूलीशतावरीः ॥ ४२ ॥
पलिकान्मानिकांशांस्त्रीन्कुलत्थं बदरं यवम् ॥
तुलार्धं छागमांसस्य पादशेषेण तेन च ॥ ४३ ॥
घृताढकं समक्षीरं जीवनीयैः पलोन्मितैः ॥
सिद्धं तद्दशभिः कल्कैर्नस्यपानानुवासनैः ॥ ४४ ॥
सर्वेषु वातरोगेषु यथावस्थं प्रयोजयेत् ॥
पञ्च कासाञ्छिरःकम्पं योनिवङ्क्षणवेदनाम् ॥ ४५ ॥
सर्वाङ्गैकाङ्गरोगांश्च सप्लीहोर्ध्वानिलाञ्जयेत् ॥
तथा श्वासं क्षयं चैव पार्श्वशूलमरोचकम् ॥ ४६ ॥
जीवकर्षभकौ मेदे काकोल्यौ मधुकं सहे ॥
जीवन्ती जीवनीयोऽयं मधुरो जीवनो गणः ॥ ४७ ॥
घृतं रास्नाबलाव्योषश्वदंष्ट्राकल्कपाचितम् ॥
कण्टकारीरसे पानात्पञ्चकासनिषूदनम् ॥ ४८ ॥
दशमूलीचतुष्प्रस्थे रसे प्रस्थोन्मितं हविः ॥
सक्षारैः पञ्चकोलैस्तु कल्कितं साधु साधितम् ॥
कासहृत्पार्श्वशूलघ्नं हिक्काश्वासनिबर्हणम् ॥ ४९ ॥
तालीसवह्निदीप्यकचविकाम्लवेतसव्योषैः ॥
तुल्यैस्त्रिसुगन्धियुतैर्गुडेन गुटिका प्रकर्तव्या ॥ ५० ॥
कासश्वासारोचकपीनसहृत्कण्ठवाग्विरोधेषु ॥
ग्रहणीगुदोद्भवेषु च गुटिका व्योषान्तिका नाम ॥ ५१ ॥