Adhikāra 25

लङ्घनं स्वेदनं तिक्तं दीपनानि कटूनि च ॥
विरेचनं स्नेहपानं बस्तयश्चाऽऽममारुते ॥ १ ॥
शठी शुण्ठ्यभया चोग्रा देवाह्वाऽतिविषाऽमृता ॥
कषायमामवातस्य पाचनं रूक्षभोजनम् ॥ २ ॥
234
शठीविश्वौषधीकल्कं वर्षाभूक्वाथसंयुतम् ॥
सप्तरात्रं पिबेज्जन्तुरामवातविपाचने ॥ ३ ॥
दशमूलामृतैरण्डरास्नानागरदारुभिः ॥
क्वाथो रुबूकतैलेन सामं हन्त्यनिलं गुरुम् ॥ ४ ॥
दशमूलीकषायेण पिबेद्वा नागराम्भसा ॥
कुक्षिबस्तिकटीशूले तैलमेरण्डसम्भवम् ॥ ५ ॥
रास्नां गुडूचीमैरण्डं देवदारु महौषधम् ॥
पिबेत्सर्वाङ्गगे वाते सामे संध्यस्थिमज्जगे ॥ ६ ॥
रास्नामृतारग्वधदेवदारुत्रिकण्टकैरण्डपुनर्नवानाम् ॥
क्वाथं पिबेन्नागरचूर्णमिश्रं जङ्घोरुजानुत्रिकपृष्ठशूली ॥ ७ ॥
शुण्ठीगोक्षुरकक्वाथः प्रातः प्रातर्निषेवितः ॥
सामे वाते कटीशूले पाचनो रुग्विनाशनः ॥
यवक्षारसमायुक्तो मूत्रकृच्छ्रविनाशनः ॥ ८ ॥
महौषधगुडूच्योस्तु क्वाथं पिप्पलिसंयुतम् ॥
पिबेदामे सरुक्शोफे कटीशूले विशेषतः ॥ ९ ॥
आमवाते कणायुक्तं दशमूलीजलं पिबेत् ॥
खादेद्वाऽप्यभयाविश्वं गुडूचीं नागरेण वा ॥ १० ॥
एरण्डतैलयुक्तां हरीतकीं भक्षयेन्नरो विधिवत् ॥
आमानिलार्तियुक्तो गृध्रसिवृद्ध्यर्दितो नित्यम् ॥ ११ ॥
235
कर्षं नागरचूर्णस्य काञ्जिकेन पिबेत्सदा ॥
आमवातप्रशमनं कफवातहरं परम् ॥ १२ ॥
पञ्चकोलकचूर्णं च पिबेदुष्णेन वारिणा ॥
मन्दाग्निशूलगुल्मामकफारोचकनाशनम् ॥ १३ ॥
अमृतानागरगोक्षुरुमुण्डितिकावरुणकैः कृतं चूर्णम् ॥
मस्त्वारनालपीतमामानिलनाशनं ख्यातम् ॥ १४ ॥
मणिमन्थस्य भागौ द्वौ यवान्यास्तद्वदेव च ॥
भागास्त्रयोऽजमोदाया नागराद्भागपञ्चकम् ॥ १५ ॥
दश द्वौ च हरीतक्याः श्लक्ष्णचूर्णीकृताः शुभाः ॥
मस्त्वारनालतक्रेण सर्पिषोष्णोदकेन वा ॥ १६ ॥
पीतं जयत्यामवातं गुल्महृद्बस्तिजान्गदान् ॥
प्लीहानं ग्रन्थिशूलादीनर्शांस्यानाहमेव च ॥ १७ ॥
विबन्धं जाठरान्रोगांस्तथा वै हस्तपादजान् ॥
वातानुलोमनमिदं चूर्णं वैश्वानरं स्मृतम् ॥ १८ ॥
अलम्बुषां गोक्षुरकं गुडूचीं वृद्धदारकम् ॥ १९ ॥
पिप्पलीं त्रिवृतां मुस्तं वरुणं सपुनर्नवम् ॥
त्रिफलां नागरं चैव सूक्ष्मचूर्णानि कारयेत् ॥ २० ॥
मस्त्वारनालतक्रेण पयोमांसरसेन वा ॥
आमवातं निहन्त्याशु श्वयथुं संधिसंस्थितम् ॥ २१ ॥
शतपुष्पा विडङ्गानि सैन्धवं मरिचं समम् ॥
चूर्णमुष्णाम्बुना पीतमग्निसंदीपनं परम् ॥ २२ ॥
236
हिङ्गु चव्यं विडं शुण्ठी कृष्णाजाजी सपौष्करम् ॥
भागोत्तरमिदं चूर्णं पीतं वातामजिद्भवेत् ॥ २३ ॥
चित्रकं पिप्पलीमूलं यवानीं कारवीं तथा ॥
विडङ्गान्यजमोदां च जीरकं सुरदारु च ॥ २४ ॥
चव्यैलासैन्धवं कुष्ठं रास्नागोक्षुरधान्यकम् ॥
त्रिफलामुस्तकं व्योषं त्वगुशीरं यवाग्रजम् ॥ २५ ॥
तालीसपत्रं पत्रं च सूक्ष्मचूर्णानि कारयेत् ॥
यावन्त्येतानि द्रव्याणि तावन्मात्रं तु गुग्गुलुम् ॥ २६ ॥
संमर्द्य सर्पिषा गाढं स्निग्धभाण्डे निधापयेत् ॥
अतो मात्रां प्रयुञ्जीत यथेच्छाहारवानपि ॥ २७ ॥
योगराज इति ख्यातो योगोऽयममृतोपमः ॥
आमवाताढ्यवातादीन्कृमिदुष्टव्रणानपि ॥ २८ ॥
प्लीहगुल्मोदरानाहदुर्नामानि विनाशयेत् ॥
अग्निं च कुरुते दीप्तं तेजोवृद्धिबलं तथा ॥
वातरोगाञ्जयत्येष संधिमज्जागतानपि ॥ २९ ॥
अलम्बुषागोक्षुरकत्रिफलानागरामृताः ॥
यथोत्तरं भागवृद्ध्या श्यामाचूर्णं तु तत्समम् ॥ ३० ॥
पिबेन्मस्तुसुरातक्रकाञ्जिकोष्णोदकेन वा ॥
पीतं जयत्यामवातं सशोफं वातशोणितम् ॥ ३१ ॥
237
त्रिकजानूरुसंधिस्थं ज्वरारोचकनाशनम् ॥
अलम्बुषाद्यमिदं चूर्णं रोगानीकविनाशनम् ॥ ३२ ॥
हरीतक्यक्षधात्रीभिः प्रसिद्धा त्रिफला क्रमात् ॥
प्रत्येकं तेन चामुष्माद्भागवृद्धिर्यथोत्तरम् ॥ ३३ ॥
पथ्याविश्वयवानीभिस्तुल्याभिश्चूर्णितं पिबेत् ॥ ३४ ॥
तक्रेणोष्णोदकेनापि अथवा काञ्जिकेन तु ॥
आमवातं निहन्त्याशु शोथं मन्दाग्नितामपि ॥ ३५ ॥
अजमोदमरिचपिप्पलिविडङ्गसुरदारुचित्रकशताह्वाः ॥
सैन्धवपिप्पलिमूलं भागा नवकस्य पलिकाः स्युः ॥ ३६ ॥
शुण्ठी दशपलिका स्यात्पलानि तावन्ति वृद्धदारस्य ॥
पथ्यापलानि पञ्च च सर्वं चैकत्र कारयेच्चूर्णम् ॥ ३७ ॥
समगुडवटकान्कृत्वा चूर्णं वाऽप्युष्णवारिणा पिबतः ॥
नश्यन्त्यामानिलजाः सर्वे रोगास्तु कोष्ठगताः ॥ ३८ ॥
विश्वाचीप्रतितूनीतूनीरोगाश्च गृध्रसी चोग्रा ॥
कटिबस्तिजानुगुदजं स्फुटनं चैवास्थिजङ्घयोस्तीव्रम् ॥ ३९ ॥
श्वयथुः सर्वाङ्गसंधिषु ये चान्ये चाऽऽमवातसंभूताः ॥
सर्वे प्रयान्ति नाशं तम इव सूर्यांशुविध्वस्तम् ॥ ४० ॥
238
नागरक्वाथकल्काभ्यां घृतप्रस्थं विपाचयेत् ॥
चतुर्गुणेन तेनाथ केवलेनोदकेन वा ॥ ४१ ॥
वातश्लेष्मप्रशमनमग्निसंदीपनं परम् ॥
नागरं घृतमित्युक्तं कट्यामशूलनाशनम् ॥ ४२ ॥
अमृतायाः कषायेण कल्केन च महौषधात् ॥
मृद्वग्निना घृतं सिद्धं वातरक्तहरं परम् ॥ ४३ ॥
आमवाताढ्यवातादीन्कृमिकुष्ठव्रणानि च ॥
अर्शांसि गुल्मरोगांश्च नाशयेदाशु योजितम् ॥ ४४ ॥
हिङ्गु त्रिकटुकं चव्यं मणिमन्थं तथैव च ॥
कल्कान्कृत्वा तु पलिकान्घृतप्रस्थं विपाचयेत् ॥ ४५ ॥
आरनालाढकं दत्त्वा तत्सर्पिर्जठरापहम् ॥
शूलं विबन्धमानाहमामवातं कटीग्रहम् ॥
नाशयेद्ग्रहणीदोषं मन्दाग्नेर्दीपनं परम् ॥ ४६ ॥
पुष्ट्यर्थं पयसा साध्यं दध्ना विण्मूत्रसंग्रहे ॥
दीमनार्थं मतिमता मस्तुना च प्रकीर्तितम् ॥ ४७ ॥
सर्पिर्नागरकल्केन सौवीरकचतुर्गुणम् ॥
सिद्धमग्निकरं श्रेष्ठमामवातहरं परम् ॥ ४८ ॥
सिद्धार्थकखलिप्रस्थं सुधौतं निस्तुषं जले ॥ ४९ ॥
मण्डप्रस्थं विनिक्षिप्य स्थापयेद्दिवसत्रयम् ॥
धान्यराशौ ततो दद्यात्संचूर्ण्य पलिकानि तु ॥ ५० ॥
239
अलम्बुषा गोक्षुरकं शतपुष्पा पुनर्नवा ॥
प्रसारणी वरुणत्वक्शुण्ठी मदनमेव च ॥ ५१ ॥
सम्यक्पाकं च विज्ञाय सिद्धा तण्डुलमिश्रिता ॥
भृष्टा सर्षपतैलेन हिङ्गुसैन्धवसंयुता ॥ ५२ ॥
भक्षिता लवणोपेता जयेदामं महारुजम् ॥
एकजं द्वंद्वजं साध्यं सांनिपातिकमेव च ॥ ५३ ॥
कट्यूरुवातमानाहं जानुगं त्रिकमारुतम् ॥
उदावर्तहरा पेया बलवर्णाग्निकारिणी ॥ ५४ ॥
पलशतं रसोनस्य तिलस्य कुडवं तथा ॥
हिङ्गुत्रिकटुकं क्षारौ द्वौ पञ्च लवणानि च ॥ ५५ ॥
शतपुष्पा तथा कुष्ठं पिप्पली मूत्रचित्रकौ ॥
अजमोदा यवानी च धान्यकं चापि बुद्धिमान् ॥ ५६ ॥
प्रत्येकं च पलं चैषां श्लक्ष्णचूर्णानि कारयेत् ॥
घृतभाण्डे दृढे चैव स्थापयेद्दिनषोडश ॥ ५७ ॥
प्रक्षिप्य तैलमानीं च प्रस्थार्धं काञ्जिकस्य च ॥
खादेत्कर्षप्रमाणं तु तोयं मद्यं पिबेदनु ॥ ५८ ॥
आमवाते तथा वाते सर्वाङ्गैकाङ्गसंस्थिते ॥
अपस्मारेऽनले मन्दे कासे श्वासे गरेषु च ॥
सोन्मादे वातभग्ने च शूले जन्तुषु शस्यते ॥ ५९ ॥
240
रसोनस्य शतं क्षुण्णं तदर्धं निस्तुषात्तिलात् ॥
पात्रे गव्यस्य तक्रस्य पिष्टैर्द्रव्यैः समं क्षिपेत् ॥ ६० ॥
धान्यं त्रिकटुकं चव्यं चित्रकं गजपिप्पली ॥
अजमोदा त्वगेले च ग्रन्थिकं च पलांशकम् ॥ ६१ ॥
शर्करायाः पलान्यष्टौ पलार्धं मरिचस्य च ॥
कुष्ठाजाज्योश्च चत्वारि मधुनः कुडवं तथा ॥ ६२ ॥
आर्द्रकस्य च चत्वारि सर्पिषोऽष्टौ पलानि च ॥
तिलतैलस्य तावन्ति शुक्लस्यापि च विंशतिम् ॥ ६३ ॥
सिद्धार्थकस्य चत्वारि राजिकायास्तथैव च ॥
कर्षप्रमाणं दातव्यं हिङ्गु लवणपञ्चकम् ॥ ६४ ॥
एकीकृत्य दृढे कुम्भे धान्यमध्ये निधापयेत् ॥
द्वादशाहात्समुद्धृत्य प्रातः खादेद्यथाबलम् ॥ ६५ ॥
सुरा सौवीरकं सीधुं मद्यं चानु पिबेन्नरः ॥
जीर्णे यथेप्सितं भोज्यं दधिपिष्टकवर्जितम् ॥ ६६ ॥
एष मासोपयोगेन सर्वान्व्याधीन्नियच्छति ॥
अशीतिं वातजान्रोगांश्चत्वारिंशच्च पैत्तिकान् ॥ ६७ ॥
विंशतिं श्लैष्मिकांश्चैव प्रमेहांश्चैव विंशतिम् ॥
उदराष्टकमर्शांसि गुल्मं पञ्चविधं तथा ॥ ६८ ॥
अष्टादशविधं कुष्ठं क्षयरोगहरं परम् ॥
वेपथुं गुल्मशूलं च स्तम्भं चाऽऽशु व्यपोहति ॥ ६९ ॥
च्युतसंध्यस्थिभग्नानां संधानकरणं भवेत् ॥
दृष्टिवर्णकरं वृष्यमायुष्यं बलवर्धनम् ॥ ७० ॥
क्षुष्णं रसोनपलशतमसिततिलानां पलानि पञ्चाशत् ॥
घृतलिप्तभाजनस्थे तक्रेण समेन तत्कुर्यात् ॥ १ ॥
विंशतिपलानि चुक्रात्सगुडार्द्रकमातुलुङ्गमेतावत् ॥
तिलतैलानि च तावत्तावन्त्येवात्र सर्पिषो दद्यात् ॥ २ ॥
शतपुष्पागजपिप्पलिदाडिमवृक्षाम्लधातकीमुस्तम् ॥
त्र्यूषणकुष्ठजयानि द्राक्षा सैला सजीरकद्वितया ॥ ३ ॥
241
सुरदारु सिन्धु सबिडं सौवर्चलरोमकं च सामुद्रम् ॥
पलसंमितानि कृत्वा श्लक्ष्णचूर्णवद्दापयेन्मतिमान् ॥ ४ ॥
आलोड्य धान्यराशौ सप्ताहांस्त्रीन्न्यसेच्च कृतरक्षः ॥
उद्धृत्य तदनु सिद्धं सुतिथिमुहूर्ते तथा सुनक्षत्रे ॥ ५ ॥
त्वक्पत्रैलाकेसरकर्पूरलवङ्गजातिचूर्णेन ॥
सुरभीकृतं च नरः खादेद्द्विपलोन्मितं पिण्डम् ॥ ६ ॥
अत्यर्थोष्णविवर्जी तृषितश्च पिबेत्सुरां यथेष्टम् ॥
अमृतादमृताख्योऽयं रसोनपिण्डः पराशरेणोक्तः ॥ ७ ॥
हतपतितच्युतभग्नसंधिविमुक्तास्थिभग्नदेहानाम् ॥
अस्मात्परं नराणां न ह्यस्ति भेषजं वाऽन्यत् ॥ ८ ॥
बलवर्णवह्निजननं स्मृतिमेधाबुद्धिवर्धनं धन्यम् ॥
शमयति सर्वविकाराञ्शतशोऽन्यैर्भेषजैरजितान् ॥ ९ ॥
दधिमत्स्यगुडक्षीरपोतकीमाषपिष्टकम् ॥
वर्जयेदामवातार्तो मांसमानूपजं च यत् ॥ ७१ ॥
अभिष्यन्दकरा ये च ये चान्ये गुरुपिच्छिलाः ॥
वर्जनीयाः प्रयत्नेन आमवातार्दितैर्नरैः ॥ ७२ ॥