237
त्रिकजानूरुसंधिस्थं ज्वरारोचकनाशनम् ॥
अलम्बुषाद्यमिदं चूर्णं रोगानीकविनाशनम् ॥ ३२ ॥
हरीतक्यक्षधात्रीभिः प्रसिद्धा त्रिफला क्रमात् ॥
प्रत्येकं तेन चामुष्माद्भागवृद्धिर्यथोत्तरम् ॥ ३३ ॥
पथ्याविश्वयवानीभिस्तुल्याभिश्चूर्णितं पिबेत् ॥ ३४ ॥
तक्रेणोष्णोदकेनापि अथवा काञ्जिकेन तु ॥
आमवातं निहन्त्याशु शोथं मन्दाग्नितामपि ॥ ३५ ॥
अजमोदमरिचपिप्पलिविडङ्गसुरदारुचित्रकशताह्वाः ॥
सैन्धवपिप्पलिमूलं भागा नवकस्य पलिकाः स्युः ॥ ३६ ॥
शुण्ठी दशपलिका स्यात्पलानि तावन्ति वृद्धदारस्य ॥
पथ्यापलानि पञ्च च सर्वं चैकत्र कारयेच्चूर्णम् ॥ ३७ ॥
समगुडवटकान्कृत्वा चूर्णं वाऽप्युष्णवारिणा पिबतः ॥
नश्यन्त्यामानिलजाः सर्वे रोगास्तु कोष्ठगताः ॥ ३८ ॥
विश्वाचीप्रतितूनीतूनीरोगाश्च गृध्रसी चोग्रा ॥
कटिबस्तिजानुगुदजं स्फुटनं चैवास्थिजङ्घयोस्तीव्रम् ॥ ३९ ॥
श्वयथुः सर्वाङ्गसंधिषु ये चान्ये चाऽऽमवातसंभूताः ॥
सर्वे प्रयान्ति नाशं तम इव सूर्यांशुविध्वस्तम् ॥ ४० ॥