253
मण्डूरस्य पलान्यष्टौ गोमूत्रेऽष्टगुणे पचेत् ॥
चपलानागरक्षारपिप्पलीमूलपिप्पलीः ॥ २५ ॥
संचूर्णानि क्षिपेत्तस्मिन्पलांशाः सान्द्रतां गते ॥
गुटिकाः कल्पयेत्तेन पक्तिशूलनिवारणीः ॥ २६ ॥
संशोध्य चूर्णितं कृत्वा मण्डूरस्य पलाष्टकम् ॥
शतावरीरसस्याष्टौ दध्नस्तु पयसस्तथा ॥ २७ ॥
पलान्यादाय चत्वारि तथा गव्यस्य सर्पिषः ॥
विपचेत्सर्वमेकत्र यावत्पिण्डत्वमागतम् ॥ २८ ॥
सिद्धं तद्भक्षयेन्मध्ये भोजनस्याग्रतोऽपि वा ॥
वातात्मकं पित्तभवं शूलं च परिणामजम् ॥ २९ ॥
निहन्त्येव हि योगोऽयं मण्डूरस्य न संशयः ॥
रसो गन्धः शुभः पाके वर्तिः स्याद्गाढमर्दनात् ॥ ३० ॥
विडङ्गं चित्रकं चव्यं त्रिफला त्र्यूषणानि च ॥
नवभागानि चैतानि लोहकिट्टसमानि च ॥ ३१ ॥
गोमूत्रं द्विगुणं दत्त्वा मूत्रार्धिकगुडान्वितम् ॥
शनैर्मृद्वग्निना पक्त्वा सुसिद्धं पिण्डतां गतम् ॥ ३२ ॥
स्निग्धभाण्डे विनिक्षिप्य भक्षयेत्कोलमात्रया ॥
प्राङ्मध्यान्तक्रमेणैव भोजनस्य प्रयोजितः ॥ ३३ ॥
योगोऽयं शमयत्याशु पक्तिशूलं सुदारुणम् ॥
कामलां पाण्डुरोगं च शोथं मन्दाग्नितामपि ॥ ३४ ॥
अर्शांसि ग्रहणीदोषं कृमिगुल्मोदराणि च ॥
नाशयेदम्लपित्तं च स्थौल्यं चैवापकर्षति ॥ ३५ ॥
वर्जयेच्छुष्कशाकानि विदाह्यम्लकटूनि च ॥
पक्तिशूलान्तको ह्येष गुडो मण्डूरसंज्ञितः ॥
शूलार्तानां कृपाहेतोस्तारया परिकीर्तितः ॥ ३६ ॥