290
पिबेद्वरुणमूलत्वक्क्वाथं तत्कल्कसंयुतम् ॥
क्वाथश्च शिग्रुमूलोत्थः कदुष्णोऽश्मरिपातनः ॥ २५ ॥
पिबेद्वरुणमूलत्वक्कषायं गुडसंयुतम् ॥
अश्मरीं पातयत्याशु बस्तिशूलविनाशनम् ॥ २६ ॥
एलोपकुल्यामधुकाश्ममेदकौन्तीश्वदंष्ट्रावृषकोरुबूकैः ॥
शृतं पिबेदश्मजतु प्रगाढं सशर्करे साश्मरिमूत्रकृच्छ्रे ॥ २७ ॥
त्रिकण्टकस्य बीजानां चूर्णं माक्षिकसंयुतम् ॥
अविक्षीरेण सप्ताहं पेयमश्मरिभेदकम् ॥ २८ ॥
कुलत्थसिन्धूत्थविडङ्गसारं सशर्करं शीतलियावशूकम् ॥
बीजानि कूष्माण्डकगोक्षुराभ्यां घृतं पचेत्तद्वरुणस्य तोये ॥ २९ ॥
दुःसाध्यसर्वाश्मरिमूत्रकृच्छ्रे मूत्राभिघातं च समूत्रबन्धम् ॥
एतानि सर्वाणि निहन्ति शीघ्रं प्ररूढवृक्षानिव वज्रपातः ॥ ३० ॥
शरादिपञ्चमूल्या वा कषायेण पचेद्घृतम् ॥
प्रस्थं गोक्षुरकल्केन सिद्धमद्यात्सशर्करम् ॥
अश्मरीमूत्रकृच्छ्रघ्नं रेतोमार्गविशोधनम् ॥ ३१ ॥
वरुणस्य तुलां क्षुण्णां जलद्रोणे विपाचयेत् ॥
पादशेषं परिस्राव्य घृतप्रस्थं विपाचयेत् ॥ ३२ ॥
वरुणः कदली बिल्वं तृणजं पञ्चमूलकम् ॥
अमृतां चाश्मजं देयं बीजं च त्रपुषस्य च ॥ ३३ ॥
शतपर्वा तिलक्षारः पलाशक्षारमेव च ॥
यूथिकायास्तु मूलानि कार्षिकाणि समावपेत् ॥ ३४ ॥