अत्यभिष्यन्दिगुर्वामसेवनान्निचयं गतः ॥
करोति ग्रन्थिवच्छोफं दोषो वङ्क्षणसंधिषु ॥
ज्वरशूलाङ्गसादाढ्यं तं वर्ध्ममिति निर्दिशेत् ॥ २० ॥
मूलं बिल्वकपित्थयोररलुकस्याग्नेर्बृहत्योर्द्वयोः
श्यामापूतिकरञ्जशिग्रुकतरोर्विश्वौषधारुष्करम् ॥
कृष्णाग्रन्थिकचव्यपञ्चलवणक्षाराजमोदान्वितं
पीतं काञ्जिककोष्णतोयमथितैश्चूर्णीकृतं वर्ध्मजित् ॥ २१ ॥
अविक्षीरेण गोधूमकल्कं कुन्दुरुकस्य च ॥
प्रलेपनं सुखोष्णं स्याद्वर्ध्मशूलहरं परम् ॥ २२ ॥
मृतमात्रे तु वै काके विशस्ते तु प्रवेशयेत् ॥
वर्ध्मं मुहूर्तं मेधावी तत्क्षणादरुजं भवेत् ॥ २३ ॥
सैन्धवं मदनं कुष्ठं शताह्वा निचुलं वचा ॥
ह्रीवेरं मधुकं भार्गी देवदारु सनागरम् ॥ २४ ॥
कट्फलं पौष्करं मेदा चविका चित्रकं शठी ॥
विडङ्गातिविषे श्यामा रेणुका नीलिनी स्थिरा ॥ २५ ॥
बिल्वाजमोदे कृष्णा च दन्ती रास्ना च तैः समैः ॥
साध्यमेरण्डजं तैलं तैलं वा कफवातनुत् ॥ २६ ॥
वर्ध्मोदावर्तगुल्मार्शःप्लीहमेहाममारुतान् ॥
आनाहमश्मरीं चैव हन्यात्तदनुवासनम् ॥
घृतं सौरेश्वरं योज्यं वर्ध्मवृद्धिनिवृत्तये ॥ २७ ॥