Adhikāra 44

आदौ विम्लापनं कुर्याद्द्वितीयमवसेचनम् ॥
तृतीयमुपनाहं तु चतुर्थं(र्थी) पाटनक्रियाम् ॥ १ ॥
पञ्चमं शोधनं कुर्यात्षष्ठं रोपणमिष्यते ॥
एते क्रमा व्रणस्योक्ताः सप्तमं वैकृतापहम् ॥ २ ॥
342
मातुलुङ्गाग्निमन्थौ च सुरदारु महौषधम् ॥
अहिंस्रा चैव रास्ना च प्रलेपो वातशोथजित् ॥ ३ ॥
कल्कः काञ्जिकसंपिष्टः स्निग्धः शाखोटकत्वचः ॥
सुपर्ण इव नागानां वातशोथविनाशनः ॥ ४ ॥
दूर्वा च नलमूलं च मधुकं चन्दनं तथा ॥
शीतलाश्च गणाः सर्वे प्रलेपः पित्तशोथहा ॥ ५ ॥
न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसवल्कलैः ॥
ससर्पिष्कैः प्रलेपः स्याच्छोथनिर्वापणः परः ॥ ६ ॥
अजगन्धाऽश्वगन्धा च काला सरलया सह ॥
एकैषिकाऽजशृङ्गी च प्रलेपः श्लेष्मशोथहा ॥ ७ ॥
343
पुनर्नवादारुशिग्रुदशमूलमहौषधैः ॥
कफवातकृते शोथे लेपः कोष्णो विधीयते ॥ ८ ॥
न रात्रौ लेपनं दद्याद्दत्तं च पतितं तथा ॥
न च पर्युषितं शुष्यमाणं नैवावधारयेत् ॥ ९ ॥
शुष्यमाणमुपेक्षेत प्रदेहं पीडनं प्रति ॥
न चापि मुखमालिम्पेत्तेन दोषः प्रसिच्यते ॥ १० ॥
अभ्यज्य स्वेदयित्वा तु वेणुनाड्या ततः शनैः ॥
विम्लापनार्थं मृद्नीयात्तलेनाङ्गुष्ठकेन वा ॥ ११ ॥
344
रक्तावसेचनं कुर्यादादावेव विचक्षणः ॥
शोथे महति संरब्धे वेदनावति वा व्रणे ॥ १२ ॥
यो न याति शमं लेपस्वेदसेकापतर्पणैः ॥
सोऽपि नाशं व्रजत्याशु शोथः शोणितमोक्षणात् ॥ १३ ॥
एकतश्च क्रियाः सर्वा रक्तमोक्षणमेकतः ॥
रक्तं हि व्यम्लतां याति तच्चेन्नास्ति न चास्ति रुक् ॥ १४ ॥
न प्रशाम्यति यः शोथः प्रलेपादिविधानतः ॥
द्रव्याणि पाचनीयानि दद्यात्तत्रोपनाहने ॥ १५ ॥
सतिला सातसीबीजा दध्यम्ला सक्तुपिण्डिका ॥
सकिण्वकुष्ठलवणा शस्ता स्यादुपनाहने ॥ १६ ॥
शणशिग्रुमूलफलान्यतसीतिलसर्षपाः ॥
सक्तवः किण्वमुष्णानि द्रव्याण्येतानि पाचनम् ॥ १७ ॥
तैलेन सर्पिषा वाऽपि ताभ्यां वा सक्तुपिण्डिका ॥
सुखोष्णा शोथपाकार्थमुपनाहे प्रशस्यते ॥ १८ ॥
345
हस्तिदन्तं जले घृष्टं बिन्दुमात्रप्रलेपनात् ॥
अत्यर्थकठिने चापि शोथे पाचनभेदनम् ॥ १९ ॥
द्रव्याणां पिच्छिलानां तु त्वङ्मूलानि प्रपीडनम् ॥
यवगोधूममाषाणां चूर्णानि च समासतः ॥ २० ॥
चिरबिल्वाग्निकौ दन्ती चित्रको हयमारकः ॥
कपोतकङ्कगृध्राणां पुरीषाणि च दारणम् ॥ २१ ॥
क्षारद्रव्याणि वा यानि क्षारो वा दारणं परम् ॥
ततः प्रक्षालनं क्वाथः पटोलीनिम्बपत्रजः ॥
अविशुद्धे विशुद्धे तु न्यग्रोधादित्वगुद्भवः ॥ २२ ॥
346
पञ्चमूलीद्वयं वाते न्यग्रोधादिश्च पैत्तिके ॥
आरग्वधादिको योज्यः कफजे सर्वकर्मसु ॥ २३ ॥
अपेतपूतिमांसानां मांसस्थानामरोहताम् ॥
कल्कः संरोपणः कार्यस्तिलानां मधुकान्वितः ॥ २४ ॥
निम्बपत्रमधुभ्यां तु युक्तः संशोधनः स्मृतः ॥ २५ ॥
पूर्वाभ्यां सर्पिषा वाऽपि युक्तश्चाप्युपरोपणः ॥ २६ ॥
347

No verses of the Siddhayoga on this page. The commentary Kusumāvali was not digitized.

348
तिलवद्यवकल्कं तु केचिदाहुर्मनीषिणः ॥
शमयेदविदग्धं च विदग्धं वाऽपि पाचयेत् ॥
पक्वं भिनत्ति भिन्नं च शोधयेद्रोपयेत च ॥ २७ ॥
निम्बपत्रतिलैः कल्को मधुना व्रणशोधनः ॥
रोपणः सर्पिषा युक्तो यवकल्केऽप्ययं विधिः ॥ २८ ॥
निम्बपत्रघृतक्षौद्रदार्वीमधुकसंयुता ॥
वर्तिस्तिलानां कल्को वा शोधयेद्रोपयेद्व्रणम् ॥ २९ ॥
349
निम्बपत्रं तिला दन्ती त्रिवृत्सैन्धवमाक्षिकम् ॥
दुष्टव्रणप्रशमनो लेपः शोधनकेसरी ॥ ३० ॥
तिलकल्कः सलवणो द्वे हरिद्रे त्रिवृद्धृतम् ॥
मधुकं निम्बपत्राणि लेपः स्याद्ब्रणशोधनः ॥ ३१ ॥
त्रिफला खदिरो दार्वी न्यग्रोधादिबलाकुशाः ॥
निम्बकोलकपत्राणि कषायः शोधने हितः ॥ ३२ ॥
यष्टी तिलाः सुपिष्टा वा सघृता व्रणरोपणाः ॥
एकं वा सारिवामूलं सर्वव्रणविशोधनम् ॥ ३३ ॥
सप्तदलदुग्धकल्कः शमयति दुष्टव्रणं प्रलेपेन ॥
मधुयुक्ता शरपुङ्खा सर्वव्रणरोपणी कथिता ॥ ३४ ॥
व्रणान्विशोधयेद्वर्त्या सूक्ष्मास्यान्संधिमर्मगान् ॥
कृतया त्रिवृतादन्तीलाङ्गलीमधुसैन्धवैः ॥ ३५ ॥
सुषवीपत्रधत्तूरकर्णमोटकुठारकाः ॥
पृथगेते प्रलेपेन गम्भीरव्रणरोपणाः ॥ ३६ ॥
पञ्चवल्कलचूर्णैर्वा शुक्तिचूर्णसमायुतैः ॥
धातकीलोध्रचूर्णैर्वा तथा रोहन्ति ते व्रणाः ॥ ३७ ॥
350
सदाहा वेदनावन्तो ये व्रणा मारुतोत्तराः ॥
तेषां तिलानुमां चैव भृष्टान्पयसि निर्वृतान् ॥
तेनैव पयसा पिष्ट्वा कुर्यादालेपनं भिषक् ॥ ३८ ॥
पित्तविद्रधिवीसर्पशमनं लेपनादिकम् ॥
अग्निदग्धे व्रणे सम्यक्प्रयुञ्जीत चिकित्सकः ॥ ३९ ॥
वाताभिभूतान्सास्रावान्धूपयेदुग्रवेदनान् ॥
यवाज्यभूर्जमदनश्रीवेष्टकसुराह्वयैः ॥ ४० ॥
श्रीवासगुग्गुल्वगुरुसालनिर्यासधूपिताः ॥
कठिनत्वं व्रणा यान्ति नश्यन्त्यास्राववेदनाः ॥ ४१ ॥
तिलाः पयः सिता क्षौद्रं तैलं मधुकचन्दनम् ॥
लेपेन शोथरुग्दाहरक्तं निर्वापयेद्वणान् ॥ ४२ ॥
करञ्जारिष्टनिर्गुण्डीरसो हन्याद्व्रणक्रिमीन् ॥ ४३ ॥
कलायविदलीपत्रं कोशाम्रास्थि च पूरणात् ॥
सुरसादिरसैः सेको लेपनं लशुनेन वा ॥ ४४ ॥
351
निम्बशम्याकजात्यर्कसप्तपर्णाश्वमारकाः ॥
कृमिघ्ना मूत्रसंयुक्ताः सेकालेपनधावनैः ॥ ४५ ॥
प्रच्छाद्य मांसपेश्या वा कृमीनपहरेद्व्रणात् ॥
लशुनेनाथ वा दद्याल्लेपनं कृमिनाशनम् ॥ ४६ ॥
ये क्लेदपाकस्रुतिगन्धयुक्ता व्रणा महान्तः सरुजः सशोथाः ॥
प्रयान्ति ते गुग्गुलुमिश्रितेन पीतेन शान्तिं त्रिफलारसेन ॥ ४७ ॥
त्रिफलाचूर्णसंयुक्तो गुग्गुलुर्वटकीकृतः ॥
निर्यन्त्रणो विबन्धघ्नो व्रणशोधनरोपणः ॥ ४८ ॥
अमृतागुग्गुलुः शस्तो हितं तैलं च वज्रकम् ॥ ४९ ॥
विडङ्गत्रिफलाव्योषचूर्णं गुग्गुलुना सह ॥
सर्पिषा वटिकां कृत्वा खादेद्वा हितभोजनः ॥
दुष्टव्रणापचीमेहकुष्ठनाडीविशोधनः ॥ ५० ॥
अमृतापटोलमूलवासत्रिफलात्रिकटुकृमिघ्नानाम् ॥
समभागानां चूर्णं सर्वसमो गुग्गुलोर्भागः ॥ ५१ ॥
प्रतिवासरमेकैकां गुटिकां खादेदथाक्षपरिमाणाम् ॥
जेतुं व्रणवातासृग्गुल्मोदरश्वयथुपाण्डुरोगादीन् ॥ ५२ ॥
मनःशिला समञ्जिष्ठा सलाक्षा रजनीद्वयम् ॥
प्रलेपः सघृतक्षौद्रस्त्वग्विशुद्धिकरः परः ॥ ५३ ॥
352
अयोरजः सकासीसं त्रिफलाकुसुमानि च ॥
प्रलेपः कुरुते कार्ष्ण्यं सद्य एव नवत्वचि ॥ ५४ ॥
कालीयकलताम्रास्थिहेमकालारसोत्तमैः ॥
लेपः सगोमयरसः सबर्णकरणः परः ॥ ५५ ॥