144-b
लेह्यं शुक्रविबन्धोत्थे शिलाजतु समाक्षिकम् ।
वृष्यैर्बृंहितधातोश्च विधेयाः प्रमदोत्तमाः ॥ १९ ॥
एलाहिङ्गुयुतं क्षीरं सर्पिर्मिश्रं पिबेन्नरः ।
मूत्रदोषविशुद्ध्यर्थं शुक्रदोषहरं च तत् ॥ २० ॥
यन्मूत्रकृच्छ्रे विहितं तु पैत्ते
तत्कारयेच्छोणितमूत्रकृच्छ्रे ॥ २१ ॥
त्रिकण्टकारग्वधदर्भकाश-
दुरालभापर्वतभेदपथ्याः ।
निघ्नन्ति पीता मधुनाश्मरीं च
सम्प्राप्तमृत्योरपि मूत्रकृच्छ्रम् ॥ २२ ॥
कषायोऽतिबलामूलसाधितः सर्वकृच्छ्रजित् ॥ २३ ॥
एलाश्मभेदकशिलाजतुपिप्पलीनां
चूर्णानि तण्डुलजलैर्लुलितानि पीत्वा ।
यद्वा गुडेन सहितान्यवलिह्य तानि
चासन्नमृत्युरपि जीवति मूत्रकृच्छ्री ॥ २४ ॥
अयोरजः श्लक्ष्णपिष्टं मधुना सह योजितम् ।
मूत्रकृच्छ्रं निहन्त्याशु त्रिभिर्लेहैर्न संशयः ॥ २५ ॥
सितातुल्यो यवक्षारः सर्वकृच्छ्रनिवारणः ।
निदिग्धिकारसो वापि सक्षौद्रः कृच्छ्रनाशनः ॥ २६ ॥
शतावरीकाशकुशश्वदंष्ट्रा-
विदारिकेक्ष्वामलकेषु सिद्धम् ।