187-b
प्रपौण्डरीकं मधुकं रास्ना कुष्ठं पुनर्नवा ।
शरलागुरुभद्राह्वैर्वातिके लेपसेचने ॥ ३ ॥
गैरिकाञ्जनमञ्जिष्ठामधुकोशीरपद्मकैः ।
सचन्दनोत्पलैः स्निग्धैः पैत्तिकं संप्रलेपयेत् ॥ ४ ॥
निम्बार्जुनाश्वत्थकदम्बशाल-
जम्बूवटोदुम्बरवेतसेषु ।
प्रक्षालनालेपघृतानि कुर्या-
च्चूर्णानि पित्तास्रभवोपदंशे ॥ ५ ॥
त्रिफलायाः कषायेण भृङ्गराजरसेन वा ।
व्रणप्रक्षालनं कुर्यादुपदंशप्रशान्तये ॥ ६ ॥
दहेत्कटाहे त्रिफलां समांशां मधुसंयुताम् ।
उपदंशे प्रलेपोऽयं सद्यो रोपयति व्रणम् ॥ ७ ॥
रसाञ्जनं शिरीषेण पथ्यया वा समन्वितम् ।
सक्षौद्रं वा प्रलेपेन सर्वलिङ्गगदापहम् ॥ ८ ॥
बब्बोलदलचूर्णेन दाडिमत्वग्भवेन वा ।
गुण्डनं न्रस्थिचूर्णेन उपदंशहरं परम् ॥ ९ ॥
लेपः पूगफलेनाश्वमारमूलेन वा तथा ।
सेवेन्नित्यं यवान्नं च पानीयं कौपमेव च ॥ १० ॥
जयाजात्यश्वमारार्कसम्पाकानां दलैः पृथक् ।
कृतं प्रक्षालने क्वाथं मेढ्रपाके प्रयोजयेत् ॥ ११ ॥