पञ्चमः परिच्छेदः

ननु स्वसंवेदनविलासः सर्वोऽयं पूर्वो विस्तरः, स्वसंवेदनं च नाम नास्त्येवैतत्,
युक्त्यागमनिगृहीतत्वात् ।

तदभावे कुतश्चित्रा चित्राद्वैतव्यवस्थितिः ।
न वा समन्तभद्रत्वमालीक्यापरिहारतः ॥

अत्र प्रश्नः,
105b 2576 विदेव किं नास्ति किमस्तु न स्वयं
प्रमेयहत्याथ कथं प्रवेदनम् ।
हतिः स्ववित्तौ परवेदनेऽपि वा
समस्तमेतन्न समस्ति निर्णये ॥

तथा हि,
संवित्तिर्मम नेति न प्रथयितुं शक्यं विभिन्नैर्मृदो
नापीयं परतः क्वचिन्न च परिस्फूर्तावपीदं न सत् ।
न स्फूर्तौ स्वयमेव सत्यमिति चेदन्येन वित्तौ कुतः
सत्त्वं नोभयथापि चेति गदितुं चैतत्स्वतोऽसांप्रतम् ॥

अयमर्थः,

संवित्तिरेव नास्तीति ब्रूयान्निश्चेतनोऽपि किम् ।
न वक्ता चेन्न च श्रोता स्वनिर्भासस्तथाप्ययम् ॥

परतस्तु वेदनमिति निरस्तमन्यत्रेत्यास्तां तावत् । अथ न सर्वथा वार्यते
स्वसंवित्तिः, किं तु सांवृतीत्युच्यते, तर्हि सर्वथाप्रतिक्षेपाभावे बाधकाधीनमस्याः सांवृत
त्वम् । बाधा च प्रमेयाद् भेदेनानुभवाद् वा । प्रमेयबाधयैव न तस्याः स्थितिरिति ।
तत्र,

भेदेनानुभवे भेदात् स्वानुभूतिः कथं भवेत् ।
प्रमेयबाधा तु पुनः शक्रेणापि न शक्यते ॥
467

न हि स्फुरद्रूपमेव नास्तीति शक्यमवसातुम् । अथ न सर्वथा स्फुरतो निषेधः,
स्वयं वेद्यमेव तु मा भूत्, परवेद्यं पुनरस्तु । नैवम्,

स्ववेदनेऽप्यनाश्वासः का वार्ता परवेदने ।
स्ववेदनस्याभावे हि परवेदनमप्यसत् ॥

यदि परेण परं वेद्यमानं सद्भवेत्, परमेव कथं सद्भविष्यति ? न चासदेवान्य
सत्ताव्यवहारकारणम् । तस्यान्येन वेदने सति सत्त्वेऽनवस्था । एवमेव परसत्तेति
चेत् ? प्रमेयेऽप्येवमेवास्तु ।
स्वयमेव च सत्त्वं चेत् प्रकाशोऽपि स्वयं भवेत् ।

जडस्य ।
स्वकारित्रविरोधो हि तावतामनयोः समः ॥

अथ परवेदनमपि येन स्वीकृतं भवतु तस्यैव दोषः, मम तु स्ववेद्यं न परवेद्यं
किमपीति चेत् ? नैवं चेतनावान् वक्तुमर्हति । तथा हि, स्वतः परतो वा स्फुरन्नेव नास्त्यर्थ
इति नानिष्ट्या वचनमात्रेण वा निवर्तयितुं शक्य इति । यदि प्रमाणमनुसरेत् तदा
प्रत्यक्षमादावादाय प्रमाणान्तरपरिगणनम् । अनुमानादौ हि दृष्टानिष्टिः, न तु प्रत्यक्षे ।
परीक्षविषये च शेषमशेषं न तद्विषये विधिबाधयोरुत्सहते । तदेव च प्रत्यक्षसिद्धम्
अभिधीयते, यत्स्वरूपस्य साक्षान्निर्भासः । स च स्वेन परेण वेति किमनेन ?

परव्यापाराभावेऽपि यदि नास्य स्वरूपवित् ।
स्वरूपप्रच्युतिः सैव किमन्यैर्बाधकैरपि ॥
यत एवात्मनिर्भासस्तत एव न बाध्यते ।
स्वार्थावभासनादेव बाधकस्यापि बाधिता ॥
सोऽपि तेनैव भाण्डेन वणिगित्यवगम्यताम् ।
तस्मात्प्रकाशमानस्य न बाधो नाम कश्चन ॥

ननु परेण प्रकाशने तेनैव रक्षा स्यात्, स्वयं भासनमनाथं परेण प्रभवता
बाध्येत । उक्तमत्र, परोऽपि स्वरूपप्रकाशनेनैवोपयुज्यते न 106a सत्तामात्रेण, नापि
468
भुजं प्रसार्य प्रहारवारणेन, तत्स्वरूपप्रकाशनं यदि स्वरूपमपि संभवेन्नापरमुपयोगि ।
प्रत्युत,

स्वबलेनैव बलवान् यः परेण स दुर्बलः ।
यथात्मरक्षावहितो परस्तत्र परस्तथा ॥

तथा चासत्ख्यातिविपरीतख्यातिस्मृतिप्रमोषदृष्टिमोषादयः,

परेण भासने दृष्टा विविधा भ्रमकल्पनाः ।
स्वहेतोस्तु प्रकाशस्य निष्पत्तौ प्रभवन्ति न ॥
यद् यथा भासते ज्ञानं तत् तथैव व्यवस्थितम् ।
नान्यत्र रूपमाधाय भासते ज्ञानमन्यथा ॥
यदा यदेव स्फुरति रूपं तस्य तदेव हि ।
स्वाकारेणैक्यकरणाद् बहिरप्युच्यते भ्रमः ॥

यदा तु बहिरपि परितो निरस्तविभ्रमाशङ्कमभ्यासात् स्वरूपनिर्भासि ज्ञानम्
अनुभवविषयस्तदा क्व बाधशङ्का ? किं पुनः स्वानुभवे ? केवलं तादृशस्य कथमुत्पत्तिः
कथं वा निश्चयः स्यात् ?

यथा नीलस्वभावेन जन्म बोधात्मना तथा ।
धियः स्वहेतोर्दीपस्य पीतभासात्मना यथा ॥

कथं पुनः स्वसंवेदनमेवेदं न परवेदनमित्यन्यत्रोक्तमित्युक्तम् ? केवलं स्ववेद्यं
परवेद्यं वा प्रतिभासमानमेव रूपमबाध्यमिति प्रकृतम् । तच्च सिद्धम्,

प्रमाणस्य प्रमाणेन नापरस्यापि बाधनम् ।
प्रागेवाध्यक्षरूपस्य स्वसंवित्तेस्तु का कथा ॥

त्रैरूप्यपरिशुद्धिबोधजन्मनोऽनुमानस्यापि न मानान्तरेणावमानः शक्यः,
शब्दादेर्वा यथायथम् । न ह्येकदैकत्रैव धर्मिणि परस्परप्रत्यनीकधर्मद्वयसाधनसमर्थयोः
संभव इत्याक्षिप्तप्रायम् । एकस्य तु स्वविषयदार्ढ्यविरहे बाध्यबाधकभावः स्यात् ।
स्वविषये च दार्ढ्यमदार्ढ्य वा द्वयोः पर्यन्ते प्रत्यक्षस्यैव स्खलनेतराभ्याम् । प्रत्यक्षस्य
च स्खलनं विषये भ्रम एव । भ्रमश्च परवित्तिनियत इति कः संवेदनस्य प्रतिमल्लः ?

469

यदि बहिरपि निरस्तविभ्रमाशङ्कस्य न बाधः, कथमद्वयानुमानेन स्वप्रभवस्य
बाधः ? उक्तमत्र परवित्तेरेवायं विप्लव इति न शक्यम्, व्यापकानुपलम्भेऽपि स्ववित्ते
रेवायं विप्लव इति शक्यमभिधातुम्, परवेदनाध्यवसायेन तद्व्यापारस्याननुविधानात् ।
तदापि सत्तामात्रेण भाव इति संस्कारिणः श्रुतसंस्कारक्षालनवत् महामोहसामर्थ्यमेतत् ।
संस्कारमन्तरेणापि स्खलनमिति चेत् ? तर्हि जीवितमन्तरेण न स्खलनमिति मरणमेव
स्खलनप्रतीकार इति साध्वी बौद्धस्थितिः । किं च स्ववेदनस्य व्यापकतया व्यतिरेको
ऽशक्यदर्शन इति अनाद्यविद्याप्रभवोऽपि विप्लवस्तदीय इति वदतो व्यापकानुपलब्धिसाध्याया
निःस्वभावताया अपि स्वभावारोपरागादयो विप्लल इति न 106b दूरम्, प्रत्यनीका
कारता तु साधारणी ।

तस्मान्न सत्तामात्रेणोपयोगव्यवस्था, उपयोगेऽपि वा न तद्व्यापाराननुविधायिना
विकल्पेनोत्थापितो व्यापकानुपलम्भस्तस्मै प्रभवति । तदप्रभवो हि संबन्धादिग्राहकमेवा
प्रमाणीकुर्वन् तेनैकविषयतया परवेदनमेव दोषेण स्पर्शयेत्, न स्वसंवेदनम्
अत्यन्तभिन्नविषयत्वात् । ततो यथा तत्र साधने यदि परवित्तेः प्रामाण्यं स्वीकुर्यात्,
स्वबाधनमनुमानमपि प्रमाणयेत् । अथ न, तथाप्यनुमानसाध्यं सिद्धमिति तस्या एव
विप्लवः स्फुटीभवत्यनुमानोदयेन, तथा न व्यापकानुपलम्भेन स्ववित्तेः, उक्तसामर्थ्यस्य
वक्तुमशक्तेः, स्वेच्छया तु प्रतिपत्ता स्ववेदनविषयमपि पक्षीकुर्यात्, केवलं प्रत्यक्षविशेष
बाधितत्वात् न साधनावधानमिति न्यायः ।

तर्हि विज्ञप्तिमात्रसिद्धावेष न्यायः, प्रागेव तु व्यापकानुपलम्भोदये तत्साधनमेवा
नवकाशम् । नैवम्, यदैव नीलस्य निःस्वभावतां प्रतिजानीते, तदैव स्ववेदनाध्यक्षेण
प्रतिक्षेपादुक्तक्रमेण । यद्येवं, प्रकाशमानतादिसाधनबन्ध्यताप्रसङ्गः । एतदपि नास्ति,
विज्ञप्तिव्यवहारमात्रोपयोगात् । ननु तथापि परप्रकाश्यतानिषेधेन स्वप्रकाशता साध्यमाना
विज्ञानव्यवहारं साधयेत्, न च सर्वथा परवेद्यताभावे निःस्वभावत्वे वा साध्यसाधनं नाम
किञ्चित्, तत् कथं व्यवहारसिद्धिरपि ?

तदयुक्तम् । संवृतौ हि साध्यसाधनास्था । तदा च द्वयोरपि तत्त्वयोरसिद्धिः ।
तत्र च यस्य पुरोऽपरोपाधिप्रकाशिन्यपि नीले निजाभिसंस्कारिकाऽविद्याबलात् पर
प्रकाश्यतासंशयः, तद्वोधनाय न्यायसहः साधनोपन्यासः । तदा च स एव प्रत्यक्ष
बाधादिकं निरूपयिष्यति । तत्प्रतिपादने च जाते विज्ञप्तिव्यवहार इति । एतावतैव
470
विज्ञानवादिनो व्यापारसमाप्तिः । परस्य तु प्रत्यक्षबाधैव साधनावधानं निषेधति । न
चानुमानानुदयमपेक्ष्य प्रत्यक्षवृत्तिः क्वचिदपि । अनुमानं तदविषय एव सर्वदा प्रवृत्तिमदिति
तेन साधिते इव बाधितेऽपि नावकाशमासादयतीति स्थितम् ।

तस्मान्न प्रमेयबाधया सांवृतत्वमात्मवेदनस्य । तथैतदपि नाशङ्कनीयम्, यदि
नीलं स्ववेदनात् सिद्धम्, स्ववेदनेनापि स्ववेदनान्तरात् सेद्धव्यमित्यनवस्था, तस्य
स्वयं सिद्धौ नीलस्यापि स्ववेदनेन किं कर्तव्यमिति । तथाहि नीलस्यापि किं स्ववेदनेन
इति वेदनं वदतः स्वयमेव वेदनमस्त्वित्यभिमतम् । अयमेव च स्वसंवेदनवाद इत्य
श्वारूढन्यायः । यदि तु भिन्नं तत्स्यात्, तदा नानवस्थामतिक्रामेत, 107a नापि
स्ववेदनवादस्पर्श इति । यदि तर्हि न भिन्नं प्रज्ञप्तिसत्, तस्यैव च धर्ममात्रमेतत्, तदा
तद्वाधने स्वयमेव न तटस्थमासितुं शक्तम्, तत् कथं पररक्षणक्षमम् ? तदपि यत्
किञ्चित् ।

नीलस्यापि प्रकाशत्वं प्रकाशस्यापि नीलता ।
धर्मधर्मिव्यवस्थानं नैकात्मनियतं मतम् ॥
अभेद एव रक्षापि भेदोऽस्मिन् निष्प्रयोजनः ।
स्वरक्षानान्तरीया हि पररक्षा भवेन्न वा ॥
यत एव स्वयं भाति तत एव न बाध्यते ।
इत्यर्थतत्त्वं केनापि व्याहारेण निवेद्यते ॥

यत्पुनर्युक्तिवादिताभिमानेनोच्यते, स्वात्मनि कारित्रविरोधात् न स्वसंवेदनम्, न
हि तदेवाङ्गुल्यग्रं तेनैवाङ्गुल्यग्रेण स्पृश्यत इति, तत्रापि,

नाङ्गुल्यग्रं तदग्रेण स्पृश्यं चेन्मसृणं कथम् ।
स्वयं मसृणमेतच्चेद् विरोधः किं न संप्रति ॥

किं न धीर्भासते स्वयं वा स्वयमेव मसृणमिदमस्ति जातं वेति प्रतीत्या
वाक्यार्थपर्यवसानादायातः कारित्रविरोधः । तथा च स्वयं गच्छति, स्वयं गौर इत्यादि
प्रेरणाङ्गरागजनितत्वादिप्रतिक्षेपेण सर्वथा न वक्तव्यमेवं वादिभिः, तत्सन्निधौ वा
परेणेति महान् विप्लवः । अथ सकर्मिकायां क्रियायां एकमेव कर्म कर्ता च नोचितम्,
ज्ञानार्था च सकर्मिकैव क्रिया नीलं वेत्ति चैत्र इति । एवं तर्हि,
471

स्वयं प्रकाशते बुद्धिरित्यादौ तूष्णीमास्यताम् ।

ततश्च वेद्यत इत्यादि यत् कर्मकर्तृविवक्षया परैः प्रयुज्यते, तदस्माभिर्भासते इत्यस्मिन्ने
वार्थे सङ्केतितमिति न कश्चिद् विशेषः । अथ स्वयम्भूर्भगवानित्यादिना प्रकृतीश्वरादि
व्यापारनिराशेन स्वहेतोरेव तादृक्स्वरूपोत्पत्तिप्रतिपादनमात्रमेतत्, न तु भेददृष्टः
क्रियाकारकव्यवहारोऽत्र मत इत्युच्यते, बुद्धिरपि तर्हि स्वहेतोरेव प्रकाशरूपोत्पन्ना न
परेण प्रकाशितेति संमतौ को विद्वेषः ?
इयमेवात्मसंवित्तिरस्य या जडरूपता ।
क्रियाकारकभावेन न स्वसंवित्तिरस्य तु ॥

इत्यन्तरश्लोकः ।

यत्पुनरत्रोक्तमेवंवादिनो लोक एव बाधको भविष्यति इति, तदनेनैव निरस्तम्,
लोके तथाविधाया विवक्षाया दृष्टत्वात् । अथ बुद्धिविषये न दृश्यते, तत्रापि प्रकाश
रूपव्यवहारे स्वपरप्रकाशविवक्षाया दृष्टत्वाद् दीपघटवत् । केवलं बाह्ये द्वयदर्शनेऽपि
बुद्धिरूपाधिकारेण परप्रकाश्यताया बाधनात् स्वप्रकाशतैव व्यवस्थाप्यते, न तु सर्वथा
व्यवहार एवैवं नास्तीति ॥

ननु,

दीपः प्रकाशत इति ज्ञात्वा ज्ञानेन कथ्यते ।
ज्ञानं प्रकाशत इति केनेदं सुहृदोच्यते ॥
प्रकाशा 107b वाप्रकाशा वा यदा दृष्टा न केनचित् ।
बन्ध्यादुहितृलीलेव कथ्यमानापि सा मुधा ॥

इति चेत् ? निरवकाशमेतत् ? इदमेव हि नीलादि स्वप्रकाशस्वभावं ज्ञानमिति
व्यवस्थापितम्, तत्कथं केनेदं सुहृदोच्यत इत्युच्यते ? न स्वसंवेद्येऽर्थे परोपदेशो
गरीयान्, कोऽन्यथा धर्मी व्यपकानुपलम्भादेः ? प्रदीपेऽपि तर्हि ज्ञानमेव कथं
दृष्टान्तः ? सत्यम्, लोकापेक्षयाऽलोक एव बाधको भविष्यतीत्यपहस्तयितुम् । तदेतद्
युक्तिक्षीणस्य विश्राममात्रमत्राणम्, अन्यथा सर्वशून्यतायामेव किं बाधको लोकः ?
संवृत्त्या सर्वस्वीकारादिति चेत् ? तत्त्वतो न किञ्चिदस्तीति एतदेव लोकस्य न क्षमं,
472
संवृत्त्या तु नास्तीति यदि स्यादस्तु । अथ तत्त्वतोऽपि नास्तीति किमस्माभिः साध्यते,
अस्तिनास्तिव्यतिक्रमस्याभिमतत्वादिति चेत्—न । अस्तिनिषेध एव, न हि नास्त्यर्थः ।

न भावो यदि नीलादेरभावः केन वार्यते ।
नाभाव इति वादे च भाव एवावतिष्ठते ॥
परस्परपरीहारव्यवस्थितिमतां यतः ।
एकबाधोऽन्यविधये नानिच्छामात्रतोऽन्यथा ॥
तृतीयो वा प्रकारोऽत्र वक्तव्यो यदि वानयोः ।
एकत्रैव व्यवस्थानं धीमतां नापरा गतिः ॥

स्यादेतत्, नास्माभिः कस्यचिद् विधिः प्रतिषेधो वा साध्यते, सदसदुभयानु
भयवादिनां तु स्वाभ्युपगमेनैव तत्तल्लक्षणानुपपत्तिरिति प्रतिपाद्यते । तत्र यदि सल्लक्षणा
नुपपत्त्या स्वयमेव प्रागपि सत्त्वाभावः, तदा किमस्माभिरपनीतं किमपि स्यात् ?
यदा चासल्लक्षणानुपपत्त्या प्रागप्यसत्त्वाभावः, तदा किमभावाभावेन भावो नाम
कस्यचित् कुतः ? यथा हि,

पुत्रोत्पत्तिविपत्तिभ्यां कुमार्याः प्रीतिदीनते ।
पुत्रसङ्कल्पतः स्वप्ने जाग्रतस्तु न विद्यते ॥

स तस्याः सावशेषशोकविनोदनाय यदि तत्प्रबन्धमृषात्वमासादयति, तत् किं
तेन कस्यचिद् विधिः पुत्राद्यभावस्य, निषेधो वा पुत्रादिभावस्य कृतः, पुत्रोदयनिषेधेन
वा अभावः कस्यचित्, मरणनिषेधेन वा भावविधिः, स्वयमादितः पुत्रस्यैवाभावात् ?
तदनुवादमात्रं तु जाग्रतः । एवमार्यानार्ययोरूहितव्यम् । एतदेव चादिशान्तत्वं प्रकृति
परिशुद्धिश्चागमे गीयते इति ।

अत्रोच्यते । कीदृशौ विधिनिषेधौ भवता परिह्रियेते, उत्पादनविनाशलक्षणौ
हस्तेन गृहीत्वोपनयापनयस्वभावौ वा ? यद् वा विवादास्पदीभूतस्य कस्यचित् धर्मस्य
प्रमाणेन साधनलक्षणो विधिर्बाधनलक्षणो वा निषेधः ? तत्र,

आद्यपक्षद्वयं तावदन्यस्यापि न विद्यते ।
भवतापि तृतीयस्तु परिहर्तुं न शक्यते ॥
473

न हि भगवतः प्रामाण्यं स्थितमेव प्रागपनीयते, पश्चाद् वेतीश्वरादावसदेवोप
नीयत इति 108a परेऽपि मन्यन्ते । तथा न द्वयं स्थितमेवापनीयते, अद्वयं वा
संप्रत्युपनीयते, अपरेण स्थित एव स्वभावोऽनूद्यते । युक्त्या च कयाचित् प्रतिपाद्यत
इति सर्वसंमतिः । तच्च भवतोऽप्यस्तीति क एवमतिरेक उक्तो भवति ? तदयमेव
विधिनिषेधप्रक्रमो यदिदमस्तीदं नास्तीति प्रतिपादनं, तच्चायातं वचनव्यापृतस्य,
विशेषतो जिगीषया परार्थशीलतया वा वादे प्रवृत्तस्य । मूकीभूय तिष्टतस्तु नायं
पर्यनुयोग इति स्यात् । स्वप्नदृष्टान्तोऽपि सर्वसाधारणः, यो हि वस्तुधर्मः केनचिदा
द्रियमाणः केनचिन्निषेध्यः, तस्य सिद्ध्या तद्गुणारोपाद् वा प्रीतिः, परेण तदभाव
प्रतिपादने विषादः, तच्चितविनोदनोद्यतेन चादिन एव तथा नास्तीत्यनुवादमात्रं
कृतमिति तुल्यम् ।

तत्र य एव तथा प्रतिपादनक्षमस्तस्यैव स्वाधीनः स्वप्नदृष्टान्तः । तथा चाद्वय
वादेऽपि यथा स्वाकारमात्र एव पुत्रं जागरणकाले फलितमारोप्य हर्षादिस्तथा
जाग्रद्दशायामपि ज्ञानाकारमात्र एव बहिरारोपेणेति न क्षतिः । तदुभयदशयोरपि
निर्विकल्पप्रतिभासः स्वरूपमात्रपर्यवसितोऽपि विकल्पेनाभूतारोपस्तिरस्क्रियत इति
उक्तम् । स च स्वरूपं तिरोधाय पररूपमेव दर्शनेन योजयति, यत एवं भवति पुत्रोऽद्य
स्वप्ने मया दृष्ट इति, किञ्चिद्विमर्शे हि न पुत्रदर्शनं नाम, ज्ञानमात्रं मम तथोदपादीति ।
ततस्तद्व्यवसायापेक्षया सा पुत्रं जातं च मृतं च पश्यतीत्याद्यभिधानम्, तत्त्वतस्तु क्व
पुत्रदर्शनम् अनादिवासनावशात् तदभिनिवेशप्रसवयोग्यविशिष्टाकारज्ञानमात्रोदयाद्
अन्यत्र ? केवलं किमत्र वस्तुतत्त्वमिति,

विचारव्यसनं यस्य हस्तामर्शेन तस्य किम् ।
प्रीत्याभियोगः क्रियतां कीर्तिवार्तिकभाष्ययोः2577
श्रद्धावशत्वेऽपि वरं युवराजनयाश्रयः ।
आर्यनागार्जुनादीनामपि यत्र व्यवस्थितिः ॥

इति प्रतिपादयिष्यते । आगमपाठाः पुनरविचारचतुरस्य पुण्यमात्रप्रसवहेतव एव ।
विचारप्रक्रमे च भावाभावयोरेकनिषेधाभिधायिनो द्वितीयस्वीकारः सामर्थ्यादायात
इति नानिच्छामात्रेण त्रातुं शक्यम् । तथा हि स्वप्ने न पुत्रो नामासीदिति पुत्राभावो
474
विहित एव भावश्च निषिद्धः, तत् कथं जाग्रता न विधिर्न प्रतिषेधः क्रियते ? आर्यस्य
तु न तथा दर्शनमित्यपि तदाकारदर्शनप्रत्यनीकाकारज्ञानोदय एव, न सर्वथा संवित्ति
विलोप इत्यास्तां तावत् ।

अथ भावाभावविकल्पनिषेधो विवक्षितः, सर्वथा न प्रतिभासमात्रलोपः,
तदेतदिष्टमेव, विकल्पस्य प्रकृतिभ्रान्तत्वात् । अथ विचाराक्षमतैव शून्यतार्थः, तदा
विचारो नाम संवृ108b त्याश्रयः, तत्र च नियमेन प्रमाणावतारे न स्वसंवित्तिमन्तरेण
प्रत्यक्षान्तरमनुमानं वा, स्वरूपसत्तयैव वियोगप्रसङ्गात् । नापि धर्मिधर्मादिप्रतिपत्तिरिति
संवृतौ नियतस्वाकारायाः स्वसंविदः प्रमेयप्रमाणान्तरवद् बाधानुपपत्तेः स्थितेरेवेति न
सांवृतत्वविशेषणावकाशः ।

यथा यथार्थाश्चिन्त्यन्ते विविच्यन्ते तथा तथा ।
स्वयं तु वित्तिश्छायेव धावतो दुरतिक्रमा ॥

ततश्च स्वसंविदितरूपस्य कीदृशी विचाराक्षमता ? कियन्तो हि विचाराः
प्रवर्तन्ताम्, न तु नीलप्रकाशस्य प्रकाशता नीलता वा अतिपातमात्रम्, नाप्यप्रकाश
धर्मान्तरं परिचयविषयः । य एव च,

स्वरूपमात्रानुभवः कल्पितानां पराभवः ।

स एव,
ततश्च समता ज्ञेया नोपलम्भोपलम्भयोः2578

इति न्यायः ।
तदेतदादिशान्तत्वं प्रकृत्या च विशुद्धता ।
वैमल्यपरिशुद्धिस्तु सर्वासत्कल्पनाक्षयः ॥

इत्युक्तमेव । यदपीदं तदभ्युपगमेनैव तल्लक्षणानुपपत्तिरिति, तावतापि नानुभवस्वभाव
परिभवः । यतः,
भौतकल्पितकल्पानां लक्षणानां क्षतावपि ।
सर्वोपाधिविविक्तस्य वस्तुरूपस्य न क्षतिः2579
475
राजद्वारि द्विरदमवलोक्य,

दन्तेन मूलादकमन्धकारं
प्रस्रावतो नीरदपोतमाह ।
कश्चिच्चतुस्तम्भकमट्टमास्यं
द्वारं बलिं पिण्डनिभात्पुरीषात् ॥
राजद्वारे श्मशाने वा यस्तिष्ठति स बान्धवः ।
इति गाढस्मृतेरन्यो भौतो बान्धवमेव तम् ॥

ततो भौतैरिव परैः कल्पितान्येव स्वरूपाणि विगलन्तु पुरःप्रकाशिनः किमा
यातं बाधायाः ? ततः,

यद्येष एव सिद्धान्तो न विशेषस्तदावयोः ।
बाधे तु सर्वथाऽभावः कथं लोकादबाधनम् ॥
यदि लोकानुरक्षापि धीरूपे नास्तितीच्यताम् ।
तत्त्वेन सर्वथा नास्तीत्युद्वेगः किं न गण्यते ॥

तस्माल्लोक उद्वीजतां मा वा पुरुषार्थोपयोगितत्त्वाख्यानं कथं परिहर्तुं शक्य
मिति यदि स्वयमाशयः परः किमलीकमाकुलीक्रियते ? को हि सदुत्तरेऽपि भवतां
शक्तिप्रतिबन्धं श्रद्धधीत ? अस्ति च लोकेऽपि स्वप्रकाशव्यवहार इति क्व लोकबाधापि ?
बुद्धेरेवाधिकारे साक्षात् न दृष्ट इति किमनेनः ? स्वप्रकाशमपि वस्त्वस्ति न च कारित्र
विरोध इति सामान्याश्रयेणैव दृष्टान्तस्य कृतत्वात् । अपि च,

स्फुरत्येतादृशो बुद्धिर्ममेत्यादिमतिर्न किम् ।
मम स्वानुभवश्चात्र सङ्कल्पे त्वद्गुणस्पृशि ॥

तस्मादलमनेन बालजनोपलापनेन ॥

यदपि स्मरणादनुभवसिद्धिमाशङ्क्यार्थ एव स्मरणमनुभवश्च न ज्ञान इत्युच्यते,
तत्राप्यर्थाकारज्ञानमेव, तच्च स्वयंस्फुरितमनुस्मर्यत इति न क्षतिः । अर्थे च स्मरणमिति
न तावदननुभूते भवितुम109a र्हति, अतिप्रसङ्गात् । अनुभूतश्चार्थोऽनुभवाननुभवे
इति कथं प्रतीतमत्र हृदयेन ?
476

असंवित्तौ वित्तेर्न खलु तदुपाधिव्यवहृतिः
प्रतीतावन्येन प्रसभमनवस्था प्रसरति ।
अनेनैवापास्तेऽप्यनुमितिमते लिङ्गविरहो
न चादृष्टं लिङ्गं तदधिगतिसिद्धौ च विमतिः ॥

इत्यन्तरश्लोकः ॥

कथं तर्हीदंतया न निर्दिश्यते ज्ञानमनुभूयमानम् ? ननु निर्दिष्टमेव,

अन्तः शातादिविषयं बहिः शीतादिगोचरम् ।
वेदनं तत्तदाकारं नान्योऽप्यस्ति ततः परः ॥
स्फुरत्ता नाम धर्मोऽयं प्रत्यात्मं दुरपह्नवः ।
इति सा योग्यता मानमात्मा मेयः फलं स्ववित् ॥

ततो निराकारपक्षे स्यादेष दोषः, साकारपक्षे तु शंकापि नास्ति । साकारपक्ष
एव तु शान्तिदेवपादानामभिमतः । यदाहुः,

यथा दृष्टं श्रुतं ज्ञातं नेवेह प्रतिषिध्यते ।
सत्यतः कल्पना त्वत्र दुःखहेतुर्निवार्यते ॥
बो. अ. ९. २६

इति । अत्र हि सत्यतस्तत्त्वतो दृष्टादिर्न निषिध्यत इति दृष्टादिकर्मनिर्देशात् प्रकाश
मानो नीलकोमलादिरशक्यनिह्नव इत्युक्तं भवति ।

कस्य तर्हि नैरात्म्यमित्याह, कल्पनैवाभूतानां ग्राह्यग्राहकहेतुफलादीनामित्यर्थात्
कल्पना शब्दादेव । अदृष्टे हि कल्पना । अदृष्टं चादृष्टत्वादेव न संभवति तत्त्वत इति
अत्रापि संबध्यते । तेन निःस्वभावाः सर्वधर्मा इत्यादिवचनेऽपि तत्त्वतः कल्पितरूप
निषेध एवेति भावः । किमर्थं पुनरभूतविकल्पवारणम् ? दुःखस्य हेतुत्वात् । स एव हि
प्रवृत्तिनिवृत्त्यादिलक्षणं संसारमाक्षिपति, तमन्तरेण तदाकारोदयमात्रस्य तत्राकिंञ्चि
त्करत्वादिति । यत्तु सत्यत इति सत्यत्वेन या कल्पनेति योजयन्ति, तत्रापि यदि
सत्यत्वेऽपि सत्यमिदमिति विकल्पवारणं, परिनिष्पत्तौ को दोषः ?

अथ संप्रत्यपि सत्याधिमोक्षवारणमसत्त्वादित्यर्थः, तदा दृष्टादि न प्रतिषिध्यत
इति व्याहतम्, असत्यं चापाद्यते दृष्टादि न च प्रतिषिध्यत इति, असत्यतापादनस्यैव
477
प्रतिषेधार्थत्वात् । अथ न प्रतिषिध्यते संवृत्त्या, तत्त्वतस्तु वारणम् । तदपि नाक्षरा
रूढम् । सत्यतःशब्दोऽन्यथायोजितः कल्पनाविशेषणत्वेन, न च तदा कल्पनाशब्दः
सङ्गतः दृष्टादेरेवैकस्य संवृतिपरमार्थापेक्षया विधिनिषेधविषयतया अभिमतत्वात् ।
तथा हि,

यथा दृष्टं श्रुतं ज्ञातं नैवेह प्रतिषिध्यते ।
संवृत्त्या तत्त्वतस्त्वेतद्दुःखहेतुर्निवार्यते ॥

इति वक्तुमुचितम् । तदत्र शब्दतः शब्दस्य पुनरावृत्तिः, संवृतिशब्दस्याध्याहारः,
कल्पनाशब्दस्यान्यार्थतेति किमक्षराणि क्लिश्यन्ते 109b महताम् ? व्यक्तमेतत् षडि
न्द्रियविज्ञानगोचराभिमता आकारा न निषिध्यन्ते स्वसंविदितत्वात्, कल्पितस्यैव तु
निषेध इति । कथं तर्हि स्वसंवेदननिषेध एषाम् ? यथा भगवतः । भगवत एव कथम् ?
भिन्नविषयप्रतिषेधात् । एकत्रापि चित्राकारे ग्राह्यग्राहकभावः सूक्ष्मेऽपि साक्षादिति
क्रियाकारकभावाभिप्रायेण । न चायं नाशङ्काया विषयः सर्वथा परिहारयत्नस्य वेति
मन्तव्यम् । तथा हि कस्यचित्,
एकत्रापि यथा भावे कार्यकारणकल्पनम् ।
एकत्रैव तथा ज्ञाने ग्राह्यग्राहकधीर्भवेत् ॥

यथा भगवतः,
स चायमङ्कुरो न स्वयंकृत इति ।

आर्यनागार्जुनपादानां वा,
न स्वतो नापि परतः
मा. का. १. १

इत्यादिना निषेधयत्नः, तथा,
विभुं चित्तं न पश्यति
2580

इत्यादि । युक्तमेतत् । निःसीमा च समारोपः सांसारिकस्य स्कन्धा एवात्मेत्यादिवत्,
कारुणिकेन तस्याप्यनुपेक्षणीयत्वात्, ग्राह्यग्राहकारोपस्य च प्रधानदोषत्वात् ।
478
क्रियाकारकभावेन निषेधस्तेन युज्यते ।
स्वसंविदितरूपस्य समुत्पादस्तु शस्यते ॥

यथोक्तमार्यसन्धिनिर्मोचने, न हि मैत्रेय, तत्र कश्चिद् धर्म प्रत्यवेक्षते, अपि तु तथा
समुत्पन्नं तच्चित्तं यत् तथा ख्यातीति । चित्तमर्थाभासं प्रवर्तत इत्यपि स्वसंवेदनमेव
निवेदयति, वेद्यवेदकयोः एकीकरणात् । तथा नीलज्ञानसमङ्गी पुरुषो नीलं जानातीति,
अगेर्गत्यर्थतया ज्ञानार्थत्वात् । नीलज्ञानसंवेदी सन्नित्यनेन,
अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति ।
प्रमाणविनिश्चये

इति व्यक्तमुक्तम् । तद्वेदीत्येव नीलवेदीति यावत् ।

उत्तरतन्त्रे च,

प्रत्यात्मवेद्यो धर्मः
उ. त. पृः १०

इत्येवाक्षरम् । न चाभूतपरिकल्पोऽस्तीति ब्रुवतः स्वसंवेदनादन्यच्छरणम् । तस्मान्न
युक्त्यागमाभ्यां स्वबोधसिद्धौ प्रतिबन्धः ॥

अस्तु नाम स्वसंवित्तिः स्वमलीकं तु बुध्यताम् ।
मानयोर्न विरोधश्च क्षणिनीलेक्षणे यथा ॥

अनुमानसिद्धव्यावृत्त्यन्तरविशिष्टस्य प्रत्यक्षेण साक्षात्कारे प्रमाणयोरपि न विरोधः,
क्षणिकवदलीकत्वेऽपि निश्चयप्रत्ययानुदयाद् । विषयभेदश्च व्यक्तः । तदपि यत्किञ्चित् ।
नीलसत्ताग्राहिणो हि प्रत्यक्षस्य क्षणभङ्गसाधनं सत्ताविशेषसाधनमेवेति न विरोधः । सत्ता
बाधनं तु प्रमेयत्वं कूर्मरोमवदिति विरुद्धमेव, बाध्यते चाध्यक्षेण तथा व्यापकानुपलम्भोऽपि ।
तथा हि,

अलीकमात्मानमवैति कोऽर्थो
ह्यसत्स्वभावः स्फुरतीति योऽर्थः ।
स्फुरत्त्वमेवास्य च सत्त्वमुक्तं
कथं निषेधश्च विधिश्च तस्य ॥
479

एतेन प्रतीत्योत्पन्नत्वमपि प्रतिबिम्बवन्निःस्वभावतायां स्वभावहेत्वभिमतम्
अपा110a स्तम् । अपि च,

प्रतीत्योत्पन्नता नाम कार्यतामात्रमुच्यते ।
सा च नित्यविरुद्धेति नित्यतामेव बाधताम् ॥

अथ,

अकृत्रिमः स्वभावो हि निरपेक्षः परत्र च ।
इत्यभिप्रायतस्तादृक्स्वभावस्यैव बाधनम् ॥
येन तर्हीदृशं यत्र रूपमारोपि वस्तुनि ।
तस्यैव बाधो निर्बाधः क्षणभङ्गव्यवस्थितः ॥

एवं हि सौत्रान्तिक एव माध्यमिकः प्रसक्त इति महत्पौरुषम् ।

यत्र चाकृत्रिमं रूपं व्योमादावभ्युपेयते ।
न प्रतीत्योदयस्तत्र प्रमासिद्धः कथंचन ॥
ईप्सितार्थक्रियासक्ता उपलब्धा घटादयः ।
न सन्त्यात्मादयः सन्ति व्यत्ययेनेति कापि धीः ॥

अनुपलम्भादेव न ते सन्तीति चेत् ? उपलम्भस्तर्हि सत्तासाधन इति कथम्
असन्तः शैलादयः ? नोपलब्धिरनुपलब्धिर्वा सत्तासाधनीति चेत् ? एतदेव परसमुत्तरं
किं प्रतीत्योत्पादेन ? असत्तासाधनमनेनेति चेत् ? सर्वथा सर्वदा सत्ताया असिद्धेः
असत्ता सिद्धैव । नानुपलम्भो मदीयोऽयमसत्ताहेतुः, किं तु परेणैव तथाभ्युपगतत्वात्
उपन्यस्यते । तन्नोपलब्धेः सत्तासिद्धिरिति चेत् ? नात्मादिवादिनानुपलम्भमात्रेणाभाव
इष्टः, तदन्येनेष्टत्वेऽपि न तस्य स्वोपगमेन दोष उक्तो भवति, ततश्च स्वतन्त्र एवायम्
अनुपलम्भो हेतुः कर्तव्यः ॥

सत्ता साधुर्न संवित्तिरसंवित्तिस्तु बाधनी ।
विशेषणानपेक्षा च सेत्ययोगपरम्परा ॥

न च कार्यतानिःस्वभावतयोर्विपर्यये बाधकं प्रतिबन्धसाधकं किञ्चिदस्ति, न
च क्वचिदुभयदर्शनमात्रेण व्याप्तिसिद्धिः, नापि प्रतिबिम्बे स्वाभिमतनिःस्वभावता

480
संभवः, प्रतिभासस्याशक्यनिषेधत्वात्, प्रसाध्य साध्यं साध्यशून्यतापरिहारे साधना
न्तराभावादनवस्था, अध्यवसितनिषेधोपदर्शने च तेनैव व्याप्तिः प्रतिभासिनामिति
सिद्धसाधनम्, न च क्वचित् हेतुफलभावः प्रमाणसिद्ध इति साधनशून्यता च
दृष्टान्तस्य । अथ पक्षधर्मस्य हेतोर्लोकाश्रयात् सिद्धिरिति चेत् ? लोकाश्रयात् तर्हि
शून्यतायै जलाञ्जलिर्देयः । न हीदमर्द्धजरतीयं लभ्यं साधने लोकाश्रयो न साध्ये
इति ।

प्रतिबिम्बे लोकाश्रयेणापि शून्यता दृष्टेति चेत् ? बिम्बे तर्हि विपर्ययदर्शनान्न
साधनम् । न च प्रमाणप्रतिक्षिप्तस्य पक्षीकरणमिति न्यायः । विपर्ययादर्शने दर्शना
भिमान इति चेत् ? प्रतिबिम्बेऽपि निःस्वभावत्वादर्शने दर्शनाभिमानो भवतः केवलं
लोकः प्रमाणमाश्रितः, बिम्बे विपर्यये प्रमाणमपि लोक एव बिम्बे चाप्रमाणीभवन्
प्रतिबिम्बेऽपि 110b कथं प्रमाणं स्यात् ? प्रतिबिम्बे संवादाभाव एव प्रमाणमिति
चेत् ? यत्र तर्हि संवादसंवासस्तत्र दुर्वारः शून्यताविरहः क्ष्मारुहादौ । संवादाभिमान
मात्रमिति चेत् ? वक्तव्यस्तर्हि संवादोऽर्थो यथा प्रसिद्धादन्यः, यतः प्रतिबिम्बे
तदभावः प्रतीयते ।

प्रमाणनिरूपणासहत्वं महीधरादावसंवाद इति चेत् ? केन पुनः प्रमाणेन
भवान् निरूपणमनुसरतीति प्रक्रमे प्रत्यक्षानुमानोपमानशब्दानि तदितराणि वाभि
दधीत, नत्वेकस्यापि स्वसंवेदनमन्तरेण सिद्धिरिति महान्तमायासमाविशेत् । ततः
प्रमाणान्तरतिरस्कारेऽपि स्वसंवेदनादेव सिद्धः सिन्धुभूधरादेः । यदि च क्वचित्
प्रमाणनिरूपणेन संवादोपलम्भस्तदा तदभावान्निवर्तेत, न च तदस्ति । पुनरपि
परचरणपरिचरणमेव शरणमिति क एष न्यायः, प्रसङ्गमात्रेण तदुपगमापेक्षायाः
क्षमत्वात् ? न च सर्वदा प्रसङ्ग एव । विपर्ययार्थमेव हि प्रसङ्गसङ्गमः, न च कदाचिद्
अस्वातन्त्र्येण हेतोरुपन्यास एषां क्षमः । क्षमायां वा सांवृतं तात्त्विकं वा प्रमाणम्
आश्रयणीयमिति न भूधरादेः सिद्धिप्रतिबन्धः । अन्यस्य तु विज्ञप्तिमात्रव्यवहार एव
अधिको न तु प्रतिभासमानरूपसिद्धिप्रतिबन्धः । यदि च निरूपणाक्षमत्वं क्ष्माधरादेः
असंवादः, तदेव तर्हि निःस्वभावत्वमिति किं प्रतीत्योत्पादेन ?

किं च, शक्तिनान्तरीयकः प्रतीत्यसमुत्पादः, शक्तिरेव च सत्त्वमिति निःस्व
भावत्वसाधने विरोधश्च दोषः । अथ शून्येभ्य एव धर्मेभ्यः शून्या धर्माः प्रजायन्त
481
इति न दोषः, तत् किमिदानीं सिद्धान्तपाठमात्रेण दोषपरिहारः ? एवं ह्यतिप्रसङ्गः
स्यात् ।

यस्मादेव हि यज्जन्म शक्तं तत्र तदेव तत् ।
शक्तेऽपि निःस्वभावत्वकल्पना क्वोपयोगिनी ॥

अन्यस्य तु पूर्वापरविरह एव तत्कल्पनाप्रतिघातहेतुरित्यनवद्यम् । किं च,
सर्वप्रतीतिमूलत्वाद्धन्मो हेतुफलस्थितिम् ।
शून्यताकांक्षिणो यत्नाद्विपरीतस्त्वयं विधिः ॥

तदयमहेतुरेव निःस्वभावत्वे प्रतीत्योत्पादो नाम ॥

अथ प्रतीत्योत्पाद एव निःस्वभावत्वं व्यवहारमात्रसाधनं तु कदाचित्,
तदापि कार्यतामात्रं शून्यत्वमुक्तं भवतीत्यधरस्थितिपात एव । समयमात्रं वा कुर्वतो
न कश्चित् परिपन्थीति किमनेन ? स्वयमेव वा कृत्रिमे स्वभावत्वमवकल्प्य तदभावेन
स्वभावहानिं ब्रुवतः शृङ्गेणापि तुरङ्गतामवकल्प्य 111a तदभावेन न तुरङ्ग इत्यपि
प्रत्येयम् । कथं तर्हि,

यः प्रतीत्यसमुत्पादः शून्यता सैव ते मता ।
द्र. अ. अ. आ. पृः १५३ प्रः

इत्यादिकं सङ्गंस्यते । अधरस्थित्यपेक्षया तावताङ्गेन शून्यतावतारमभिप्रेत्य तदेतादृशानि
साधनान्यपि क्वचिन्न प्रकृतवादिन्युपयोगभाञ्जि भवन्ति । व्यापकानुपलम्भवद् वा
स्वसंवेदनप्रत्यक्षापोढपौरुषाणि नाङ्गनिरूपणायातमिति स्थितम् । ततो निःस्वभावतया न
कथञ्चिदपि स्वसंवेदनसिद्धिरिति निरस्तम्, तत्साधनप्रमाणानवकाशात्, प्रत्यक्षेण
प्रतिबन्धाद्यभावाच्च, साधनविनाकृतायां सिद्धावतिप्रसङ्गात् । स्वप्रकाशिनि तु
नान्यापेक्षिततथासिद्धिरेव स्वसंवेदनस्थितिः ।

यदप्युच्यते, न चापि जडस्वभावता मध्यमकं वादिनं प्रति कस्यचित् सिद्धा,
येन तद्व्यावृत्तमजडं स्वसंवेदनं स्यादिति । तदपि गात्राभ्रेडमात्रं न त्राणाय । तथा हि,

योगाचारस्य नाज्ञानं नाशून्या मध्यमा विदः ।
तथापि ज्ञानशून्यादिव्यवहारो न बाध्यते ॥
482

यदि सर्वथा नास्तीति तद्व्यावृत्तिनिबन्धनध्वनिनिषेधः, हन्त ! आदितः प्रभृति
क्षणिकनिरात्मानीश्वरकृताप्रकृतिमयादिशब्दोन्मूलनादव्यवहार एवायातः ।

नञो निर्विषयस्यास्ति न प्रयोग इति ब्रुवन् ।
परिभूतः स्ववाचैव परं वा बोधयेत् कथम् ॥

अन्तरश्लोकः ॥

तदास्तां तावदतिघृणाकरमेतादृशम् । तस्मान्न स्वसंवेदने दूषणकणस्यापि संभवः ।
ततः सांवृतत्वविशेषणमपनीय स्वसंवेदनमस्त्येवेति व्यवस्थानमनपेतं न्यायाद् यद्यद्यापि
नाभिनिवेशावेशि मानसमिति,

स्वयमपि यदि बोधे बाधकस्य प्रवृत्तिस्तदुपनतविशेषे कीदृशी निर्वृतिर्वः ।
अथ कथमपि तत्रापत्तितः किं न साक्षा
दनुभुवि तदबाधा बोधिभित्तिः स्ववित्तिः ॥

परबोधस्तु तत्त्वतोऽसन्नपि अभिमानमात्रसिद्धौ यद्यनुमानान्तरेण बाध्यते बाध्यताम्,
स्वरूपपर्यवसायि तु तदा प्रत्यक्षं स्वरक्षायां न क्षममिति न क्षममेवेति ।

सकल इह विचारः संवृतावेव युक्तः
क्वचिदनुभवबाधो न क्षमः संवृतौ च ।
न च परमनुभूतं क्वापि तद्वोधबाधे
कलिरिव कलिनायं हन्यतामस्तु शान्तिः ॥
॥ इति महापण्डितज्ञानश्रीमित्रविरचितायां साकारसिद्धौ
स्वसंवेदनपरिच्छेदः पञ्चमः ॥
  1. Misnumbered as 105a in #thakur87Thakur 1987.
  2. परमार्थनिरूपणायेत्यर्थः इति पत्रप्रान्तटिप्पणी ।

  3. म. वि. १. ८.

  4. तुल० आ. त. वि. पृः ५३०