भावार्थाधिकरणम्

370 संबन्धं तावल्लक्षणद्वयस्य करोति तत्र प्रथमेऽध्याये प्रमाणलक्षणं वृत्तमित्युक्तम् । तत्कुतः, नैव हि प्रथमेऽध्याये सूत्रकारेण किं चन लक्षणेन प्रमाणादेः स्वरूपमुपवर्णितम् । तन्नाम लक्षणमुच्यते येन तद्व्यतिरिक्तेभ्यस्तस्य स्वरूपं व्यावृत्ताकारं निरूप्यते । न चेह प्रमाणादीनां लक्षणमुक्तम् । अनुमानादीनि तावन्नैव सूत्रितानि । प्रत्यक्षमपि धर्मं प्रत्यनिमित्तत्वेनोपन्यस्तं न लक्ष्यत्वेनेति व्याख्यातम् । न च शब्दोऽपि कश्चिद्धर्मप्रमाणभूतो लक्षितः, अस्मिन्नेवाधिकरणे तस्य लक्ष्यमाणत्वात् । यदपि च वृत्तिकारेण सर्वेषां लक्षणं प्रदर्शितं न तदध्यायार्थत्वेनोपसंहर्तुं युक्तम् । सूत्राध्यायार्थानुपसंहारात् । कथं च समस्तलक्षणार्थव्यतिरिक्त एवार्थे सूत्राणि क्षीयेरन् । अपि च वृत्तिकारेण योऽप्युक्तः षट्कः प्रत्यक्षपूर्वकोऽपरीक्ष्यतया सोऽपि नैव लक्षणगोचरः, लोकप्रसिद्धार्थानि हि तान्यपरीक्ष्यत्वेनोक्तानि न प्रथमाध्यायविषयत्वेनोपसंहारमर्हन्ति । तस्माद्यत्प्रथमाध्याये वृत्तं तदालोच्यैतद्भाप्यं नेयम् । तत्र प्रमाणलक्षणं तावच्चोदनालक्षणाश्रयणस्य, विध्यादितत्त्वनिर्णीतिः प्रमाणेनैव स्थिता । समस्तो हि प्रथमः पादश्चोदनासूत्रपरिकरः । तत्र च धर्मस्य चोदनालक्षणत्वमुक्तम् । अतोऽवधारितार्थलक्षणशब्दसाहचर्यात्प्रमाणशब्दः प्रतिपाद्यत इत्येवं व्युत्पाद्य धर्मविषय एव व्याख्येयः । सत्यपि प्रमेयमात्रवाचित्वे, अस्मिन्शास्त्रे जिज्ञास्यत्वेन धर्मः प्रमेयः प्रक्रान्त इति स एव गृह्यते । अथ वा करणमेव प्रमाणं तस्यैव लक्षणमुक्तम् । यद्यपि च सर्वप्रमाणानां तन्नोक्तं तथाऽपि धर्मप्रमाणस्य चोदनात्वं लक्षणमित्येतावतैवोक्तं मन्यते । न चावश्यं सर्वात्मनैव लक्षिते लक्षणत्वम् । विशेषरूपाणामानन्त्येन सर्वलक्षणाभावप्रसङ्गात् । अपि चौत्पत्तिकसूत्रेण विशेषोऽप्युक्त एव येनाऽऽगमविशेषो गम्यते । अथ वोपन्यस्तस्य चोदनात्मकस्य प्रमाणस्य लक्षणं प्रामाण्यकारणमित्युपसंहारः । तथा यद्यपि विधेरिदं रूपमिदमर्थवादस्येदं मन्त्रस्येत्येवं नोक्तं तथाऽपि धर्मं प्रत्युपयोगाभिधानात्तत्वं निर्णीतम् । अवसराभावात्तु तत्स्वरूपं न निर्दिष्टम् । श्रुतिमूलत्वं विज्ञानस्य स्मृतिप्रामाण्ये तत्त्वम् । नामधेयस्य चोदनान्तर्गतत्वात्प्रमाणत्वम् । संदिग्धार्थनिर्णये वावयशेषसामर्थ्ययोः प्रामाण्य371 मित्येवं समस्तमध्यायं प्रमाणलक्षणमाचक्षते । तन्न प्रस्मर्तव्यमिति । अविस्मृतप्रामाण्यो हि भेदादिप्रतिपादनम् 169अविशेषादनर्थकं हि स्यात् इति क्रियमाणं सहते । अन्यथा ह्यनर्थकं नामेत्येव प्रत्यवतिष्ठेत । ननु प्रधानाप्रधानचिन्ता तृतीयचतुर्थयोर्विषयः कथमत्रोपन्यस्यते । के चिदाहुः । इह द्रव्यकर्मणोरुत्तरत्र तु कर्मणामेव गुणप्रधानत्वविचारादपौनरुक्त्यमिति । तदयुक्तम् । 170‘द्रव्यगुणसंस्कारेषु’ इत्यत्र सर्वाभिधानात् । तेनैवं वाच्यम्—

लक्षणार्थोऽत्र तत्त्वेन भेदः शब्देतरादिभिः ।
तमन्वपूर्वभेदोऽपि प्राधान्यं तत्प्रसिद्धये ॥

कर्मभेदस्तावदौत्सर्गिको लक्षणार्थस्तदपवादत्वेनाभेदः । तदनुनिष्पादिनौ त्वपूर्वभेदाभेदौ । तत्र प्रतिकर्मभेदमपूर्वभेदप्रसक्तौ तृतीयसिद्धः प्रधानाप्रधानविचारः पुनरपवादत्वेनाऽऽरप्स्यते । सत्यप्यवहन्त्यादीनां शब्दान्तरादिभिर्भेदे कर्माकाङ्क्षितदृष्टप्रयोजनपर्यवसानान्न क्रियाजन्यापूर्वान्तरोत्पत्तिः । यत्तु नियमापूर्वं तत्क्रियाकृतं न भवतीति न तया व्यपदिश्यते । तेन यत्रैव द्रव्यादीनि प्रति क्रियाणां प्रधानत्वं तत्रैव तद्भेदनिमित्तापूर्वभेदसिद्धिः । अस्य च विवेकार्थं यद्गुणप्रधानलक्षणं वक्ष्यते तदपवादार्थं धर्ममात्रे तु ‘स्तुतशस्त्रयोः’ इति चाधिकरणद्वयं171 प्रस्तोष्यते । ततश्चाऽऽख्यातद्वैविध्ये विचारिते प्रसङ्गात्तृतीयं प्रकारमभिधायकत्वं प्रतिपादयितुं मन्त्रप्रस्तावः, तल्लक्षणादीनि तु प्रसक्तानुप्रसक्तेन यावत्पादसमाप्ति । ततः शब्दान्तराभ्यासाभ्यां भेदमुक्त्वा पौर्णमास्यधिकरणेनाभ्यासापवादः करिष्यते समुदायानुवादत्वात् । ततस्तदपवादार्थमुपांशुयाजाघाराग्निहोत्रपशुसोमाधिकरणानि । ततः संख्यासंज्ञागुणैर्भेदः । तावच्च गुणगतो विचारो यावत्प्रकरणान्तराधिकरणम् । ततस्तन्न्यायानुवृत्तिराशाखान्तराधिकरणात् । तत्र च षट्कातिरिक्तभेदकारणव्युदासः संज्ञाभ्यासगुणप्रक्रियाणां चाऽऽशङ्कानिवृत्तिरित्येतावान् भेदलक्षणार्थः । एष एव चार्थोऽवश्यं वक्तव्योङ्गाङ्गित्वाद्यवधारणार्थम् । न चान्यस्येदानीमवसरोऽस्तीत्यमेवाध्यायसंबन्धः । कुतः—

शेषशेष्यादयः सर्वे कर्मभेदनिबन्धनाः ।
कार्ये ज्ञातेऽधिकारः स्यादुपदेशेऽतिदेशधीः ॥

372 प्राक्तावत्प्रमाणलक्षणाद्वेदार्थविचारात्मकत्वान्न कस्यचिद्भेदलक्षणादेः प्रस्ताव इत्युत्तरकालमारम्भः । तत्रापि शेषशेषित्वं प्रयोजकाप्रयोजकत्वं क्रमश्च भिन्नानां भवतीति न भेदलक्षणात्प्रागारभ्यते । तथाऽधिकारः कर्मस्वरूपेऽवधारिते तद्योग्यतया शक्यो निरूपयितुमिति पञ्चापि लक्षणानि प्रतीक्षते । तथोत्तरः षट्कोऽतिदेशविषयत्वादुपदेशज्ञानाधीनसिद्धिः समस्तः समस्तं पूर्वषट्कमपेक्षते । ततश्च परिशेषसिद्धोऽयं भेदलक्षणस्य संबन्ध इत्यत्राऽऽरभ्यते । षड्विधः कर्मभेद इति—साधनभेदोपचारात् । वक्ष्यमाणसूत्रक्रमानुरोधान्नामधेयं संख्यानन्तरं पठितव्यं सदनादरादन्ते पठितम् । इतिकरणो हेत्वर्थः । षड्विधः कर्मभेद एतैः कारणैरिति यावत् । अथ वा करणे भेदशब्दं व्युत्पाद्य ।सामानाधिकरण्येनैव शब्दान्तरादीनि व्याख्येयानि । संज्ञाशब्दान्तरयोः संख्यागुणयोश्चापौनरुक्त्यं स्वस्थाने वक्ष्यामः । सर्वदा चैषां भिन्नविषयत्वान्न श्रुत्यादिवद्बलाबलचिन्ता भविष्यतीति तद्भेदप्रतिपादनमात्रं तात्पर्येण । अन्यदुपोद्घातप्रसक्तानुप्रसक्त्यादिना । तत्र—

चिन्तां प्रकृतसिद्ध्यर्थामुपोद्घातं प्रचक्षते ।
प्रसक्तानुप्रसक्तादि प्रस्तुतादुपजायते ॥

यथेदमेवाधिकरणं प्रकृतानुनिष्पाद्यपूर्वभेदानुसारसिद्ध्यर्थमुपोद्घातत्वेन भविष्यति कतरस्मात्पदात्फलेन संबध्यमानादपूर्वभेदाभेदावनुगन्तव्याविति । यदा निरवयवौ वाक्यवाक्यार्थौ स्यातां ततः किं प्रतिपदं धर्म इत्यादिरसंबद्ध एव विचारः स्यादत आह॔ वाक्ये च पदानामर्था इति । अत्रापि चोद्यते

चोदनालक्षणत्वेन वाक्यार्थोऽवस्थितो यदा ।
धर्मः प्रतिपदं वाच्यः कथमाशङ्क्यते तदा ॥

यदि हि धर्मस्वरूपमभिधीयेत ततः किं पदेन पदेनोच्यत इति विचारो युज्यते 373 लाक्षणिके त्वयुक्तः ॥ तदुच्यते—

धर्मत्वं फलसंबन्धात्पदार्थस्यैव युज्यते ।
तत्किमेकस्य सर्वेषामिति युक्ता विचारणा ॥

न चात्र यो धर्मः स किं पदेन पदेनोच्यत इत्येवं विचार्यते किं तर्हि यः पदेन पदेनोच्यते स किं फलसंबन्धोत्तरकालं वाक्यार्थात्मना गम्यमानो धर्मो भवति, अथेतरपदार्थानुगृहीत एकः पदार्थ इति । तथा च सर्वैरेकस्य धर्मत्वं प्रतिपादितं भवति । साक्षात्फलसाधनमात्रस्य धर्मत्वाभ्युपगमात् । न तु सर्वेषामेकः कश्चिदर्थोऽस्ति यः सर्वैरेक इत्येवमाश्रीयेत । यच्च फलपदेन सह संबध्यते तस्यार्थं धर्ममपूर्वसाधनं च मन्यन्ते । तेन किं सर्वाणि पदानि फलेन संबध्यन्ते किं वैकमिति विचारः । किं प्राप्तं, प्रतिपदमिति । कुतः—

ऐकरूप्येण संबन्धः प्रधानेन च सिध्यति ।
तस्मात्फलपदेनैव सर्वं संबध्यते पदम् ॥

यदि हि विशेषो गम्येतेदं फलसंबन्धयोग्यमिदं नेति ततः किंचिदेव संबध्येत, अनवगम्यमाने तु सर्वाणि पदानि फलेनैव संबध्यन्ते । यदि चैकं फलसंबन्धीतराणि च तत्संबन्धीनीति कल्प्यते ततो वाजपेयाधिकर172णन्यायेनैकस्य फलं प्रत्युपादानविधानगुणभावादितरत्तु प्रत्युद्देशानुवादप्राधान्याद्वैरूप्यनिमित्तवाक्यभेदप्रसङ्गः । सर्वेषां तु फलं प्रत्युपादीयमानानामैकरूप्यात्तन्त्रसंबन्धोपपत्तिः । सर्वश्च सतिसंभवे गुणमतिलङ्ध्य प्रधानेनैव नित्यं संबध्यते । तस्मात्सर्वेषां फलसंबन्धाद्धर्मत्वं, तत्र तु किं सत्रिवत्प्रत्येकं कृत्स्नं फलं साधयन्ति, अथ दर्शपूर्णमासवत्संहत्य, तथा किं विकल्पेन समुच्चयेन वेत्यादि यथेष्टं कल्पनीयम् । तत्र फलभूमगरीयस्त्वादेकशब्दोपादानाभावात्सत्रिवत्प्रत्येकं साधनशक्त्यवगमात्सर्वेभ्यः पृथक्फलमिति पक्षः । अथ वाऽरुणादिन्यायेनैकवाक्योपादानात्संहतानां फलम् । अथ वैकनिराकाङ्क्षत्वान्न तदानीमेवेतरसंबन्धोपपत्तिस्तस्माद्विकल्प इति । अत्राभिधीयते—

फलेन यस्य संबन्धस्ततोऽपूर्वं प्रकल्प्यते ॥
तदल्पत्वोपपत्तौ च न युक्ता बहुकल्पना ॥

374 यदि हि फलसंबन्धमात्रपर्यवसाय्येव वाक्यं भवेत्ततः कदा चिदपि सर्वाणि फलेन संबध्येरन् । इह तु तावन्मात्रेणासिद्धेरपूर्वमन्यत्कल्पयितव्यं तच्चानुपपत्तिप्रमाणकं, तत्रैकापूर्वकल्पनयोपपन्ने नादृष्टान्तरकल्पनाप्रमाणमस्ति । यो ह्यनेकान्यपूर्वाणि कल्पयति कल्पयत्यसावेकं, तच्चेत्कल्पितमर्थवत्त्वाद्वाक्यस्य क्षीणान्यथानुपपत्तिर्नापूर्वान्तरस्य प्रमाणं173 भवति । तस्मादेकमेव फलसंबन्धि तस्माच्चापूर्वमितरत्फलवदुपकारीत्यध्यवसीयते । न चात्र विरोधो भविष्यति नामधेयत्वेन परिहारात् । अगत्या वा ‘दशापवित्रेण ग्रहं संमार्ष्टि’ इतिवन्मत्वर्थलक्षणाश्रयणात्, अर्थाक्षिप्तसाध्यांशद्वारेण वा धात्वर्थैरात्मीयकरणग्रहणसिद्धेः । एवं स्थिते कतरदेकं संबध्यतामिति सर्वथाऽनेकादृष्टकल्पनापरिहारादनियमप्राप्तावुच्यते—

प्रधानं फलसंबन्धि तत्संबन्ध्यङ्गमिष्यते ।
प्रधानाङ्गत्वमेकस्य न चैकत्रावकल्पते ॥

न ह्येकस्मिन्वाक्ये तदेव कदा चित्फलसंबन्धात्प्रधानं कदा चित्फलवदुपकारादङ्गं युज्यते नियतरूपत्वादङ्गाङ्गिभावस्य । तस्मान्नियोगेनैवाऽऽख्यातपदान्नामपदाद्वाऽपूर्वप्रतीतिः । कः पुनर्भावः के वा भावशब्दा इति । यावन्तः फलसंबद्धेषु वाक्येष्वाख्यातशब्दा यजतिजुहोतीत्येवमादयस्तेषु प्रत्ययार्थप्राधान्यात्कर्तरि च लकारोत्पत्तेर्यागादिविशिष्टकर्त्रभिधानं, कथं चिद्वा विपर्ययात्कर्तृविशिष्टयागाद्यभिधानं मन्वानस्य प्रश्नः । 174सत्यामपि चैकपर्यनुयोगेनोभयपर्यनुयोगसिद्धौ योऽयं यजनमिज्या याग इत्याद्युदाहृत्यैव भावार्थतां ब्रवीति तन्नूनं केऽप्यलौकिका भावशब्दा अपीत्युभयप्रश्नः । सिद्धान्तवादी तु भवतेर्णिजन्तात् 175‘एरच्’ इत्यच्प्रत्यये कृते भावनावाचिनं भावशब्दं व्युत्पाद्याऽऽख्यातस्य चान्वयव्यतिरेकाभ्यां तत्परत्वं कर्त्रभिधानप्रतिषेधं चाभिप्रेत्योदाहरति—यजति ददाती375 ति । परः पुनर्भवतेर्णिजन्तादन्येन नैषोऽर्थोऽभिधीयते, न चाऽऽख्यातप्रत्ययस्यात्र व्यापारो, धात्वन्तरार्थत्वात् । कामं तुल्यजातीयत्वेन धातवो ब्रूयुस्तेऽपि तु यागादिवचनत्वादसमर्था इति मत्वाऽऽह—ननुयागदानहोमशब्दा इति । अत्रोच्यते—

यागदानाद्यनुस्यूतो भावनात्माऽवगभ्यते ।
नित्यमाख्यातशब्देभ्यस्तस्माद्भावार्थतेष्यते ॥

यावानेवह्यनन्यलभ्योऽर्थः शब्दाद्नम्यते स सर्वः शब्दार्थः । सर्वत्र चाऽऽख्याते धात्वर्थश्च तदनुरक्ता च भावना विज्ञायते । तस्माद्भावार्थत्वव्यपदेशः । तद्व्यतिरिक्तास्तु द्रव्यगुणशब्दा विज्ञायन्त एवेति न पृष्टाः । तत्र द्रव्यादिशब्दानां निष्पन्नार्थाभिधायिनां करणार्थत्वयोग्यत्वात्प्राप्नोति फलसंगतिः । सर्वत्र हि फलं साध्यत्वात्सिद्धरूपं साधनमपेक्षते न साध्यान्तरं, नामार्थश्च सिद्धत्वात्तदपेक्षापूरणमर्थो नाऽऽख्यातार्थः स्वयमेव तावत्साध्यत्वात् । तस्माद्द्रव्यादिभिः फलमिति प्राप्ते 176सूत्रेणोत्तरं दीयते—

भावार्थः कर्मशब्दा ये तेभ्योऽपूर्वक्रियागतिः ।
तैः कुर्याद्यजिना स्वर्गमेष ह्यर्थो विधीते ॥

376 फलसंबन्धो हेतुरपूर्वप्रतिपत्तेः । संबन्धश्चाऽऽकाङ्क्षापूर्वकः । सा च भावशब्देभ्यः प्रसर्पन्ती दृश्यते न द्रव्यगुणशब्देभ्यः । तस्मादाख्यातेभ्योऽपूर्वभावना गम्यते । तत्र च धात्वर्थस्य करणत्वप्रतिपत्तिः प्रत्यासत्तेः । अतस्तेनैव फलकरणभूतेनान्यथानुपपत्त्याऽपूर्वं भाव्यत इत्यवधार्यते । कथं पुनर्यज्यादीन्पृथकृत्य केवलप्रत्ययवाच्य एव भावनार्थो लभ्यते भावयेदिति । कुतः—

अभिदध्युः स्वशक्त्या हि विधिमात्रं लिङादयः ।
ण्यन्तस्य भवतेरर्थः केनांशेनाभिधीयते ॥

न च धात्वन्तरार्थं यज्यादयः प्रतिपादयन्ति । स्वार्थमात्रव्यापृतत्वात् । अतः शब्दरहितमेवेदमारोप्यते भावयेदिति । किं च ।

शब्दान्तरस्य योऽप्यर्थः पर्यायैरभिधीयते ।
न स तेनैव सहितस्तस्मिन्नर्थे प्रयुज्यते ॥

तद्यथा पिकमानयेत्युक्ते यो नामार्थं न प्रतिपद्यते तस्मै कोकिलशब्दमेव केवलं प्रयुञ्जते न कोकिलः पिक इति, तथाऽत्र यद्याख्यातस्य करोतिर्ण्यन्तो वा भवतिः पर्यायः ततस्तदर्थकथने तन्मात्रमेव प्रयोक्तव्यं नाऽऽख्यतप्रत्ययोऽपि, न हि तदानीं विविच्य ज्ञायते केनांशेन क्रिया प्रत्याय्यत इति । अत्र तु भावयेत्कुर्यादिति वा पुनरपि लिङ् प्रयुज्यत एव । अतश्च योऽनैन यजतेः परेणार्थः प्रतिपादितोऽसौ भावयतेरपि परेण तेनैवेत्यधिकावाप एव भावयतिः । तस्मादवैदिक इति । अत्राभिधीयते । सर्वत्रैव तावत्—

सिद्धकर्तृक्रियावाचिन्याख्यातप्रत्यये सति ।
सामानाधिकरण्येन करोत्यर्थोऽवगम्यते ॥

इह केभ्यश्चिद्धातुभ्यः परा तिङ्विभक्तिरुच्चार्यमाणा कर्त्रात्मलाभमात्रमेव व्यापारं प्रतिपादयति यथाऽस्तिभवतिविद्यतिभ्यः । अपरेभ्यस्तु सिद्धे कर्तर्यन्यात्मलाभविषयव्यापारप्रतीतिः । यथा यजति ददाति पचति गच्छतीति । द्रव्यमेव च विशिष्टशक्त्युपेतं प्रचलिता377 त्मतत्त्वं विप्रकीर्णस्वभावं पूर्वापरीभूतं प्रथमावस्थातः प्रच्युतं परामवस्थामप्राप्तं व्यापारशब्दवाच्यं भवति । तत्र कदाचित्कर्तैवैवमवस्थः प्रतीयते, कदाचित्सिद्धे कर्तर्यन्यः । तद्यदा कर्तुरेवैषाऽवस्था भवति तदाऽसौ स्वयमेवान्यस्मादात्मलाभमपेक्षमाणः परनिष्पत्तावव्याप्रियमाणत्वान्न करोतिशब्दवाच्यतां प्रतिपद्यते । यदा तु लब्धात्मकोऽन्यत्र व्याप्रियते तदा करोतीत्येवमपदिश्यते । तथा च किं करोति पठति गच्छतीति सामान्यविशेषरूपेण सामानाधिकरण्यप्रयोगो दृश्यते, न तु किं करोति भवत्यस्ति वेति प्रयुज्यते । तस्माल्लब्धात्मककर्तृव्यापारवचनानि करोत्यर्थवन्त्याख्यातानि । तत्र च क्रियमाणेन केनचिदवश्यं भवितव्यम् । कुतः—

करोतिः क्रियमाणेन न कश्चित्कर्मणा विना ।
भवत्यर्थस्य कर्ता च करोतेः कर्म जायते ॥

करोतेर्नित्यं सकर्मकत्वाद्यावत्क्रियमाणं न लभ्यते न तावदर्थः पर्यवस्यति । सर्वकारकाणां चावान्तरक्रियासु कर्तृत्वं प्रतिपद्यमानानां प्रधानक्रियासु कर्मादिविभागो जायते । प्रतिक्रियं योग्यताभेदादवान्तराक्रियावैचित्र्यं भवति । तत्रान्वयव्यतिरेकाभ्यामिदमवगतं भवतिक्रियायाः कर्ता करोतेः कर्म संपद्यत इति । तथा हि—

नित्यं न भवनं यस्य यस्य वा नित्यभूतता ।
न तस्य क्रियमाणत्वं खपुष्पाकाशयोरिव ॥

य एव हि प्रवृत्तभवनः संभावितभवनो वाऽन्येन प्रयुज्यते स एव क्रियमाणत्वेनावधार्यते नान्यः । तथा च न कश्चित्खपुष्पमाकाशं वा कुर्वन्नुपलभ्यते । यत्रापि पादौ कुर्वित्यादिषु निष्पन्नानां कर्मत्वप्रयोगो दृश्यते तत्राप्यनिष्पन्नसंस्कारादिविवक्षया पादादिशब्दप्रयोगादव्यभिचारः । सत्यपि च करोतेरनेकार्थत्वे सर्वत्र गन्धनावक्षेपणादौ किंचिदनुत्पन्नोत्पादनसामान्यमवगम्यते । अथ वा यदाऽस्योत्पादनाभिधायित्वं तदैव विशिष्टाख्यातसामानाधिकरण्यं दृष्टमिति तद्गतस्योत्पाद्यमानमेव कर्म भवतीत्युपपन्नम् । तेन भवतिक्रिया तावल्लब्धा । ततश्च—

करोत्यर्थस्य यः कर्ता भवितुः स प्रयोजकः ।
भविता तमपेक्ष्याथ प्रयोज्यत्वं प्रपद्यते ।

भवतिकरोत्योः शक्तिभेदाद्विक्लिदिपचत्योरिव नियतं प्रयोज्यप्रयोजकव्यापारवचनत्वम् । तत्र च कदाचिदभिधीयमानकर्मशक्त्याऽऽक्षिप्तप्रयोज्यव्यापारो177 वा स्वयमेवाऽऽक्षि378 प्तप्रयोज्यव्यापारो वा केवलं प्रयोजकव्यापार एव विवक्ष्यते कटं करोति, ओदनं पचतीति । कदाचिदाक्षिप्तप्रयोजकव्यापारं प्रयोज्यव्यापारमात्रं, घटो भवति, विक्लिद्यन्ति तण्डुला इति । कदाचिदुभौ भिन्नौ समुच्चित्य प्रयोगः, करोति कटं देवदत्तः स च भवति । कदाचिदुपसर्जनीभूतप्रयोजकव्यापारः प्रयोज्यव्यापारः क्रियते देवदत्तेनेति स्वयमेवेति वा प्रयोगे । कदाचित्पुनः समानपदैकदेशोपात्तोपसर्जनीभूतप्रयोज्यक्रियः प्रयोजकव्यापारो विवक्ष्यते तदा च करोतिपचत्योस्तादात्म्येनाशक्तेरप्रयोगाद्भूविक्लिद्योश्च केवलप्रयोज्यक्रियानिष्ठत्वान्न साक्षात्प्रवर्तितुं शक्तिरस्तीति वाचकत्वेन द्योतकत्वेन वा णिजपरः प्रयुज्यते भावयति विक्लेदयतीति च । तथा चाऽऽह—

प्रयोज्यकर्तृकैकान्तव्यापारप्रतिपादकाः ।
ण्यन्ता एव प्रयुज्यन्ते तत्प्रयोजककर्मसु ॥

न च तेषामण्यन्तानामशक्तिरित्यन्येषामशक्त्या भवितव्यम् । अन्येषां वा शक्तिरित्येषामपि तद्वद्भवितव्यम् । कुतः—

शक्तयः सर्वभावानां नानुयोज्याः स्वभावतः ।
तेन नाना वदन्त्यर्थान्प्रकृतिप्रत्ययादयः ॥

एवं करोत्यर्थद्वारेण सर्वाख्यातेषु भावयत्यर्थः सिद्धः ।

तेन भूतिषु कर्तृत्वं प्रतिपन्नस्य वस्तुनः ।
प्रयोजकक्रियामाहुर्भावनां भावनाविदः ॥

यत्तूक्तं न विधित्वव्यतिरिक्तं लिङादयोऽर्थं वदन्तीति । तदयुक्तम् । कुतः—

अभिधाभावनामाहुरन्यामेव लिङादयः ।
अर्थात्मभावना त्वन्या सर्वाख्यातेषु गम्यते ॥

यदा हि सर्वाख्यातानुवर्तिनी करोतिधातुवाच्या पुरुषव्यापाररूपा भावनाऽवगता भवति तदा तद्विशेषाः सामान्याख्यातव्यतिरिक्तशब्दविशेषवाच्या विधिप्रतिषेधभूतभविष्यद्वर्तमानादयः प्रतीयन्ते । तथा च सर्वत्र सामान्यतः करोत्यर्थोऽवगम्यते, किं करोति पचति, किमकार्षीदपाक्षीत्, किं करिष्यति पक्ष्यति, किं कुर्यात्पचेत्, किं न कुर्यान्न पचेदिति । तत्रार्थात्मिकायां भावनायां लिङादिशब्दानां यः पुरुषं प्रति प्रयोजकव्यापारः सा द्वितीया शब्दधर्मोऽभिधात्मिका भावना विधिरित्युच्यते । विशेषतश्चेयमर्थवादाधिकरणे वर्णिता यत्तु पर्यायस्थित्यतिलङ्घनं प्रत्ययापरित्यागादभिहितम् । तत्रोच्यते—

379
केवलस्याप्रयोगित्वात्कर्तृसंख्यादिसंग्रहात् ।
रूपाविनाशसिद्धेश्च प्रत्ययोऽपि प्रयुज्यते ॥

यदि हि केवलः करोतिर्भावयतिर्वा प्रयोगार्हौ स्यातां ततः कोकिलशब्दप्रयोगे पिकशब्दवत्प्रत्ययो न प्रयुज्येत, न तु केवलायाः प्रकृतेः प्रयोगः, अपभ्रंशत्वप्रसङ्गात् । तेन यस्मिन् कस्मिश्चित्प्रत्यये प्रयोक्तव्ये यस्यैवार्थः कथ्यते स एवानुवादभूतः प्रकृत्यनुग्रहार्थं प्रयुज्यते नान्योऽभ्यधिकार्थान्तरापत्तिप्रसङ्गात् । ननु च, इक्श्तिपौ धातुनिर्देशे विहितावतस्तद्युक्तौ करोतिभावयती प्रयुज्येयाताम् । नैतदस्ति । तथा सति शब्दपदार्थक्त्वान्नैव ताम्यामाख्यातार्थः कथ्येत । यत्तु क्वचिदर्थेऽपि धातुमिक्श्तिबन्तं प्रयुञ्जते यजिः, यजतिः, इति च । तत्, शब्देऽभिहिते लक्षणयाऽर्थप्रतीतिरित्यवगन्तव्यं, न चेह किंचिल्लक्षणाश्रयणे प्रयोजनमस्ति येनावाचकः प्रयुज्येत । तत्रान्यदेवानिष्टमापद्येत कृञ्भुवौ धातू तिङाऽभिधीयेते इति । तस्मादर्थपरत्वसिद्ध्यर्थमाख्यातप्रत्ययसहितावेव प्रयुज्येते । यदि च भावनैवैका प्रत्ययार्थः स्यात्करोतिभावयती वा समस्तप्रत्ययार्थोपादानसमर्थौ भवेतां ततः केवलप्रयोगोऽप्याशङ्क्येत, न तु तदुभयमप्यस्तीति करोतिभावयतिभ्यां कथितेऽपि भावनार्थे कर्तृसंख्यादिप्रत्यायनार्थं पुनः प्रत्यय उच्चार्यते । यस्तु तत्र भावनाभिधानांशः स प्राप्तत्वादनूद्यते, अन्यथा हि भावनैवैका प्रत्ययार्थः करोतिभावयती वा कर्तृसंख्यादीनामप्यभिधायकाविति भ्रान्तिः स्यात् । नित्यं च पूर्वापरीभूता भावनाऽऽख्यातेनोच्यते । तत्र यदि प्रत्ययान्तरं प्रयुज्यते ततः करोतिभावयतिभ्यां द्रव्यवदुपसंहृतरूपोच्यमाना नैवाऽऽख्यातसदृशी कथ्येत । तस्मादवश्यं तदपि प्रयोक्तव्यमिति । किं च—

भावना गम्यमाना च धातुप्रत्ययसंनिधौ ।
कस्य वाच्येति विस्पष्टं न कदाचित्प्रतीयते ॥

यदि ह्येकान्तेनास्याः प्रत्ययार्थत्वमवधार्येत ततः करोतिभावयतिभ्यां प्रत्ययपौनरुक्त्याशङ्का स्यान्न तु तदस्ति, उभयसंनिधौ गम्यमानत्वात् । केवलप्रकृतिप्रत्ययप्रयोगाभावाद्धि न विवेको विज्ञायते । शक्यते हि वक्तुं धातुसहितेन प्रत्ययेनोच्यत इति । अथवा प्रत्ययानुगृहीतेन धातुना, अथ वोभाभ्याम् । न च शक्तिकल्पनायां विशेषः, सर्वथाऽर्थापत्तिसाम्यान्न च विवेकज्ञानप्रयोजनमस्ति । स्यादेतत्, कृदन्ताद्धातोरप्रतीतेस्तिङौव्यभिचारिण्येव नेति । तदयुक्तम् । अस्तिविद्यतिभवतिपरेषु प्रत्ययेष्वप्यदर्शनात् । न वा कृदन्तेष्वप्यत्यन्तं भावना नास्ति किंचिदपकृष्यमाणरूपप्रतीतेः । कृत्येषु तावद्भोक्तव्यम् यष्टव्यमिति किंचिन्न्यूनाऽऽख्याताद्गम्यते । तत्रापि कर्मोत्पन्नेषु द्रव्यप्राधा380 न्याद्ब्राह्मणो न हन्तव्य इति भावोत्पन्नेभ्यो न्यूनतरा । न हि तत्र प्रयोजकव्यापारप्राधान्यम् । एकत्र धात्वर्थप्राधान्यादपरत्र स्वव्यापारविशिष्टप्रयोज्यपरत्वात् । एतेन भावकर्मोत्पन्नलकारास्तिङोऽपि व्याख्याताः । तेष्वपि हि प्रयोजकव्यापारगुणत्वप्रतीतिरविशिष्टा । अतो न तिङन्तानां तुल्यकल्पत्वम् । तथा ‘अव्ययकृतो भावे भवन्ति’ इति स्मरणाविशेषेऽपि स्वसंवेद्यमीषन्न्यूनभावनाविज्ञानम् । 178‘अभिक्रामंजुहोति’ ‘दर्भतरुणकेनोपघातं जुहोति’ ‘अभिषुत्य हुत्वा भक्षयन्ति’ ‘पुरा वाचः प्रवदितोः‘ इति सर्वत्र श्रुत्यैव भावनान्तरसापेक्षा भावनाऽवगम्यते । पक्वः पक्ववानित्यपि निर्वृत्तरूपभावनोपसर्जनद्रव्यप्रतीतिः प्रत्यक्षा । एवं पाचकादिष्वपि द्रष्टव्यम् । तथा च सर्वत्र कारकापेक्षा दृश्यते । अन्यथा हि रूढितद्धितसमासोष्विवेयं न स्यात् । न च निर्व्यापाराणामेते व्यपदेशा भवन्ति । न चास्ति स व्यापारो यत्र किंचिदसन्न जन्यते । ततश्च सिद्धः करोतिभावयत्योरर्थः । शक्यते च सर्वत्र सामानाधिकरण्यमपि दर्शयितुं विनाऽपि पूर्वापरीभूतत्वेन । तद्यथा किं कर्तव्यं पक्तव्यं, कथंकारं जुहोति अभिक्रामम्, किं कृत्वाजुहोति अभिषुत्य, किं कृतवान् पक्ववान्, किं कृतं पक्वं, किंक्रियो देवदत्तः पक्ता, केयं क्रिया पाक इति । न च करोतिसामानाधिकरण्यातिरिक्तमाख्यातेष्वपि भावनाप्रमाणं विद्यते । तस्माद्धातवोऽपि भावनां न मुञ्चन्ति । तथा चाऽऽहुः179 करोतिरर्थेष्विव सर्वधातूनिति । यत्त्वस्याः प्राधान्यं तत्कामं तिङाऽभिधेयं द्योत्यं वाऽन्वयव्यतिरेकाभ्यामस्तु न स्वरूपम् । नन्वेवमपि यागेनेति धात्वर्थे निष्कृष्टे तेनैव भावनाऽप्युपात्तेति भावयेदिति पुनः प्रयोगो न प्राप्नोति । नैष दोषः । तथा हि । व्द्यर्थस्य जातोर्भेदेनार्थे कथ्यमाने यागेनेति विशेषरूपं करणात्मना निष्कृष्टम् । इतरत्तु भावनात्मकं सामान्यरूपः शब्दान्तरेण भावयेदित्यनेन कथ्यते । अथवा केचित्करणाशकर्तृसंख्यादयः प्रकृतिप्रत्यययोर्भेदेन वाच्याः । भावना तु समुदायाव्यभिचारात्समुदितयोरेवार्थ इत्यपि शक्यं वक्तुम् । तथा च सूत्रकारभाष्यकाराभ्यां भावार्थाः कर्मशब्दा इति सामानाधिकरण्यमेवाऽऽश्रितं न भावार्थत्वेन प्रत्ययाः कथिताः । शास्त्रे तु सर्वत्र प्रत्ययार्थो भावनेति व्यवहारः । तत्रायमभिप्रायः—

प्रत्ययार्थं सह ब्रूतः प्रकृतिप्रत्ययौ सदा ।
प्राधान्याद्भावना तेन प्रत्ययार्थोऽवधार्यते ॥

381 यद्यप्यन्यद्विवेककारणं नास्ति तथाऽपि प्राधान्यं प्रत्ययार्थधर्मं दृष्ट्वा नूनमियं प्रत्ययार्थ इत्यवगम्यते—

तथा क्रमवतोर्नित्यं प्रकृतिप्रत्ययांशयोः ।
प्रत्ययश्रुतिवेलायां भावनात्माऽवगम्यते ॥

न केवलमेतावेवान्वयव्यतिरेकौ यौ परस्परपरित्यागेन लक्ष्येते तस्मिन्नेव हि पदे ‘तदागमे हि तद्दृश्यते’ इत्यनेन न्यायेन विवेकोऽवधार्यते । यत्त्वस्त्यादिपरः प्रत्ययोऽपि भावनां जहातीति तुल्यं धातुसमुदायपक्षयोरप्येतत् । सर्वथा यत्र प्रतीयते तत्र तावत्प्रत्ययार्थत्वं निश्चीयते । अन्यत्र त्वयं विचार एव नास्ति । क्वचिद्व्यभिचारस्य चोत्तरमुक्तं 180तद्भूताधिकरणे । अथ वा नैवात्रापि व्यभिचारः । कुतः—

अस्त्यादावपि कर्त्रंशे भाव्येऽस्त्येव हि भावना ।
अन्यत्राशेषभावात्तु न तथा सा प्रकाशते ॥

यद्यपि कर्तुरनिष्पन्नत्वाद्व्यतिरिक्तभावयितव्याभावादस्त्यादिषु प्रयोजकव्यापारो नातीव लक्ष्यते तथाऽपि प्रत्ययसामर्थ्याद्भावयतीत्यवगम्यते । किमित्यपेक्षिते चानिष्पन्ने कर्तर्यन्यत्किंचिदित्यकल्पनादात्मानमित्येव संबध्यते केन, भावनेन, कथं, अवयवजननादिप्रकारेणेति । त्रयोऽपि तत्र भावनांशा भवनेनैव पूर्यन्ते व्यापारान्तरासंभवात् । तत्र केचिदवयवा भावनव्यापृताः प्रयुज्यन्ते केचित्सिद्धभवनाः प्रयोजकाः । सिद्धभवनासिद्धभवनवर्ति च सामान्यमुभयसंपर्काद्भावनेत्युच्यते । एतेन जायते निष्पद्यते सिध्यतीत्यादीनि व्याख्यातानि । अस्तिः पुनर्जनिसमानार्थाद्भवतेरुपरितनीमवस्थामभिलपन्सत्तयाऽऽत्मभवनं भवद्भावयतीत्येवमाख्यातप्रत्ययं लभते । तत्रापि तु कालकृतभेदपूर्वोत्तरसामान्यसत्तारूपेण पूर्ववदेव प्रयोज्यप्रयोजकव्यापारकल्पनाऽनुसर्तव्या । सत्यामपि त्वेवमादिषु भावनायां निष्पन्नचेतनकर्तृविषयत्वाद्विधिप्रतिषेधयोरसंभवः । स्यादेतत् । दृष्टो विधिरपि ‘तस्मात्प्रायणीयस्याह्न ऋत्विजा भवितव्यम्’ ‘रथंतरं भवति’ ‘अत्राध्वर्युः स्यात्’ ‘इहोक्थ्यानि स्युः’ इति । सत्यं दृश्यते न त्विह पूर्वेण तुल्यो भवत्यर्थः । सिद्धो हि पुरुषः कर्मसंबन्धनिमित्तमृत्विक्त्वं भवदन्यैरेव वाक्कायमनोव्यापारैर्भावयेदित्युच्यते । तथा रथंतरादिषु सत्यपि श्रुत्या भवनविधिसंबन्धे तत्र संभवादनुमीयमाना भावनैव विधीयते । यत्र त्विहामुको भवेदिति प्रयोगस्तत्र भवतेस्तिष्ठत्यर्थवाचित्वात्संभवत्येव व्यतिरिक्तं भावयितव्यमित्येवं विज्ञायते । स्थानेनान्यत्किंचिद्भावयेदिति । तेन भूतभविष्यद्वर्तमानापदेशमात्रेष्वेवापारमार्थिकं भवितृव्यापारस्य भावनात्वं न विध्यादिषु । भूतादिकथ382 नेऽपि यदा समस्तं व्यापारं धातुरेवोपादत्ते नावयवकालादिकृतभेदाश्रयणं तदा विस्पष्टाद्विरोधाद्धात्वर्थमात्रं कर्तृसंख्यादयश्चाऽऽख्यातपदार्थत्वेनावधार्यन्ते न भावना । न च भावनाव्यभिचारेण दोष इत्युक्तम् । यत्तु कृदन्तेष्वपि धातवो भावनां न व्यभिचरन्तीति । सत्यं धात्वर्था न व्यभिचरन्ति तैरेव तु गम्यमानत्वादनभिधेयत्वमपि शक्यं वक्तुम् । तथा हि—

धात्वर्थकारकैरेव गुणभूतोऽवगम्यते ।
भावनात्मा कृदन्तेषु तस्मान्नैवाभिधीयते ॥

यथैव भावप्रधानत्वादाख्याते तत्संबन्धादेव गुणभूतकारकप्रतीतिसिद्धेर्न कर्तृकर्मणोरभिधानं भविष्यत्येवं कर्ताद्यभिधानादेव तदन्यथानुपपत्त्या भावनासिद्धेरनभिधानं, गम्यमानापेक्षयैव च करोतिसामानाधिकरण्यं यथा पचतिशब्दस्य देवदत्तशब्देन, अतथाभूतयैव च कारकसंबन्धोऽप्युपपत्स्यते । अथ वा भावनोपसर्जनधात्वर्थनिष्पत्त्यर्थत्वात्कारकाणां धात्वर्थेनैव संबन्धसिद्धिः । स एव हि तानि स्वसिद्ध्यर्थमपेक्षते भावनाऽपि च तथाभूतान्येव तानि गृह्णातीत्यविरुद्धः संबन्धः । कृत्यानां तु प्रैषवाचित्वात्सत्यपि भावनानभिधाने तावत्स्वार्थपर्यवसानं नास्ति यावदंशत्रयपरिपूर्णा भावना न लब्धा । कुतः—

स्वव्यापारे हि पुरुषः कर्तृत्वेन नियुज्यते ।
प्रैषैस्तस्य च व्यापारो भावनांऽशत्रयात्मिका ॥

न हि पुरुषः स्वव्यापारं मुक्त्वाऽन्यदनुष्ठातुं शक्तः प्रैषाश्चैनमनुष्ठापयन्ति । ते यदि तद्व्यापारं कथंचिन्नोपादद्युर्न नियोक्तुं शक्नुयुरित्येवमपि भावनाक्षेपसिद्धिः । यावांश्च ब्राह्मणगतः कश्चित्प्रैषः स सर्वः प्राप्त्यभावाद्विधिरेव भवतीति विनाऽपि स्मरणेन कृत्यानां विधायकत्वम् । अयमेव च विधिप्रैषयोर्विशेषः ।

प्रवर्तनस्मृतिः प्राप्ते प्रैष इत्यभिधीयते ।
अप्राप्तप्रैषणं सर्वं विधित्वं प्रतिपद्यते ॥

तस्मात्प्रत्ययार्थो भावनेत्युपपन्नम् । ननु च यदि प्रयोजकव्यापारो भावनेष्यते ततः पचावधिश्रयणादीनि, यजौ च मानसः संकल्प इत्यादीनां भावनात्वं त एव धात्वर्था इति धातुवाच्यैव भावना स्यात् । नैष दोषः—

धात्वर्थव्यतिरेकेण यद्यप्येषा न लभ्यते ।
तथाऽपि सर्वसामान्यरूपेणान्याऽवगम्यते ॥

सर्वत्र ह्यधिश्रयणादौ करोतीत्यपि सामान्यव्यापारांशः प्रतीयते पचत्यादिवाच्या विक्लित्त्यधिश्रयणादयः कर्मस्थाः कर्तृस्थाश्च । तत्र यदौदासीन्यप्रच्युतिमात्रेण परिस्पन्द383 रूपं निरूप्यते सा भावना । ये तु तदनुरञ्जनसमर्थाः कर्तृकर्मगता विशेषास्ते तस्या एव करणेतिकर्तव्यतांशयोर्निविशन्ते । एवं तर्हि धात्वर्थसामान्यं भावनेत्येतदापन्नम् । सत्यं साध्यतया सामान्यं न तु गोत्वादिरूपेण । कथम्—

अन्यदेव हि यागादौ सामान्यं करणात्मकम् ।
अन्यच्च भावना नाम साध्यत्वेन व्यवस्थितम् ॥

भावनाया हि स्वयमेव प्रतिपुरुषं सामान्यविशेषौ भवतः । तथा तत्करणभूते यागादौ समवेतं भावनाकरणांशापेक्षितं धात्वर्थसामान्यं नाम यत्कर्मशब्देनाभिधीयते । विशेषणभावाच्च यागादयो भावनाविशेषा इत्युच्यन्ते न तद्व्यक्तित्वेन । शास्त्रप्रदेशे तु क्रियाकर्मशब्दौ कदा चिद्धात्वर्थे प्रयुज्येते कदाचिद्भावनायां कदाचित्तु प्रत्यासत्त्योभयन्नापि प्रयोगो न स्वरूपाभिधानेन । कुतः—

यादृशी भावनाऽऽख्याते धात्वर्थश्चापि यादृशः ।
नासौ तेनैव रूपेण कथ्यतेऽन्यै पदैः क्वचित् ॥

भावनाशब्दो हि निष्पन्नात्मिकां सत्त्वरूपापन्नां लिङ्गसंख्यायोगिनीमभिधत्ते न चासावाख्याते तादृश्यभिधीयते लिङ्गसंख्यारहितरूपेण गम्यमानत्वात् । एवं धात्वर्थोऽपि वेदितव्यः । तथा करोति भावयतीत्येताभ्यामपि श्रुत्या तावदन्यादृगेवार्थः प्रतीयते कुञ्भावयत्यर्थकरणिका भावना न चैवंरूपाऽसौ यजेतेत्यादिष्वस्तीत्यपर्यायत्वम् । तत्रानन्तरप्रत्ययोत्थापितभावनान्तरबुद्धिमविवक्षित्वाऽर्थसंवादः कर्तव्यः । तेनादूरविप्रकर्षमात्रेणैष प्रयोगो नार्थसाम्येनेत्यवस्थितमनन्यशब्दवाच्यत्वं भावनायाः । सा तु प्रतीतमात्रैव प्राधान्यादपेक्षान्तरानधीनत्वाच्च प्रथमं तावत्साध्यांशमपेक्षते भावयेत्किमिति । तत्र यावती विध्युपेता भावना तस्यां पूर्वप्रतीतमपि विधित्वं तावन्नाऽऽश्रीयते यावदंशत्रयपूर्णा भावनाऽनुष्ठानयोग्या न भवति । विधित्वप्रक्रमाच्च प्रथममेवैतज्ज्ञायते यादृशैरंशैः पूर्णेयं विधानमर्हति तादृशैः पूरयितव्येति । न च बुद्धिपूर्वकारी पुरुषः पुरुषार्थरहितं व्यापारं वचनशतेनाप्युक्तोऽनुतिष्ठति । न च पुरुषार्थः साध्यव्यतिरिक्तांशपातित्वेन कैश्चित्प्रार्थ्यते ततोऽभ्यर्हिततरस्यान्यस्य साध्यस्याविद्यमानत्वात् । तत्र यद्यस्यां भावनायामपुरुषार्थः साध्यः स्यात्ततः पुरुषेष्वप्रवर्तमानेषु प्रत्ययस्य प्रयोजकशक्तिर्बाध्येत । तेन यद्यपि समानपदोपादानप्रत्यासत्तेर्धात्वर्थः साध्यांशपूरणायोपप्लवते तथाऽप्ययोग्यत्वान्निराक्रियते, न हि प्रत्यासत्तिरेवैका संबन्धकारणं, योग्यत्वाद्यपि । तथा च वक्ष्यति181 यस्य येनार्थसंबन्ध इति । किं च—

384
संबन्धमात्रमुक्तं च श्रुत्या धात्वर्थभावयोः ।
तदेकांशनिवेशे तु व्यापारोऽस्या न विद्यते ॥

संबन्धमात्रं कृत्वा निवृत्तव्यापारायां श्रुतावन्यतरांशनिवेशो योग्यत्वादाश्रयितव्यः । तद्यदि साध्यांशादेकप्रत्ययोपात्तेन प्रत्यासन्नतरेण विधित्वेन प्रच्याव्यते तर्तोऽशान्तरेण नूनं संपत्स्यत इत्येवं प्रतीक्ष्यते । किं च—

साध्यांशे पुरुषाणां च प्रत्ययो न नियोजकः ।
स्वयमेव हि जानन्ति कर्तव्यं पुरुषाः सदा ॥

यत्र हि शास्त्राधीना पुरुषप्रवृत्तिस्तत्र तत्संनिकर्षविप्रकर्षावपेक्ष्येते, साध्यं पुनः स्वर्गपशुपुत्रग्रामादि प्रागेव शास्त्रात्सर्वे पुरुषाः प्रतिपद्यन्ते । ततश्च भावयेत्किमित्यपेक्षितमात्रे विनैव तावच्छास्त्रेणैतावदवगतं पुरुषार्थः कश्चिदिति । तत्र विशेषमात्रमनवगतत्वादपेक्ष्यते । तदपि च न साध्यात्मना, किं तर्हि, एतद्भावनाविषयत्वेन । ततश्च दूरस्थस्यापि स्वर्गादेरेव कृतास्पदस्य संगतिः । धात्वर्थसंबन्धस्त्वनपेक्षितः क्रियेत विध्यानर्थक्याच्च बाध्येततरां श्रुतिः । किं च—

भवने यस्य कर्तृत्वं कथंचिदवधारितम् ।
स्ववाक्ये वाऽन्यवाक्ये वा स साध्यत्वं प्रपद्यते ॥

न चात्र धात्वर्थादेर्भवनक्रियासंबन्धोऽवगतः स्वर्गादीनां तु कामशब्दोपबन्धाद्भवनसंबन्धो विज्ञायते । कुतः—

स्वर्गो मे स्यादितीत्थं हि स्वर्गादिः प्रार्थ्यते भवन् ।
तेनासौ भावनापेक्षः प्रयोज्यत्वेन गम्यते ॥

ततोऽवधृतस्वर्गादिसाध्यांशा भावना केन भावयेदित्येवं करणमपेक्षते । तत्र च शास्त्राधीनप्रवृत्तित्वात्तत्संनिकर्षादावाश्रीयमाणे प्रमाणान्तराच्च योग्यायोग्यत्वयोरज्ञानाद्विध्यविरोधाच्चात्यन्तप्रत्यासत्त्युपस्थितधात्वर्थातिक्रमकारणाभावात्सर्वफलभावनानां च केनचिद्धात्वर्थविशेषेण विनाऽनुपपत्तेर्यागेनेत्येवं विज्ञायते । यद्यपि च यागः स्वयमेव तावदनिष्पन्नस्तथाऽपि स्वसाधननिष्पादितः सन्साधयिष्यति सर्वमेव च कदाचिन्निष्पन्नं कदाचिदनिष्पन्नम् । न च प्राक्छास्त्रप्रवृत्तेर्निष्पत्तिः क्वचिदुपयुज्यते फलसिद्धिकालमात्रोपयोगित्वात्करणनिष्पत्तेः । प्रमाणवशाच्च त्रिकालवर्त्तिनामपि साधनत्वाविरोधः । तस्माद्यागादीनां करणत्वं तच्चापूर्वद्वारेणेति तच्छब्देभ्योऽपूर्वप्रतीतिः । अतश्चैवमपि सूत्रार्थः संभवति । ये भावार्थाः—भावनाप्रयोजनाः, कर्मशब्दाः॔यज्यादयः तेभ्यः क्रिया प्रतीयेतेति । ननु चोक्तेन कर्मकरणसंबन्धन्यायेन सकर्मकधातुयुक्तादेवाऽऽख्या385 ताद्भावनाऽवगतिः प्राप्नोति । तथा हि—

येनेप्सिततमैर्भावैः किमित्यंशोऽवरुध्यते ।
तद्योगी तेन धात्वर्थो न कश्चित्स्यादकर्मकः ॥

यदि वा सर्वधातूनां सकर्मकत्वापत्तिरथ वाऽकर्मकेभ्यो भावनया न भवितव्यम् । नैष दोषः । कुतः—

अन्यदेव हि धात्वर्थप्राप्यं कर्म सकर्मके ।
अन्यदेव च सर्वत्र प्रत्ययार्थनिबन्धनम् ॥

ओदनं पचति ग्रामं गच्छतीति धात्वर्थापवर्गलभ्यमेकं कर्म, अपरं पुनर्भावनाकर्म । तत्र कदाचिद्धात्वर्थकर्मैव भावनाकर्मत्वमपि प्रतिपद्यते पाकेनौदनं भावयतीति । कदा चित्पुनः स्वकर्मविशिष्टधात्वर्थयुक्ता भावना कर्मान्तरेण युज्यते ग्रामगमनेन स्वार्थं भावयेदिति, ओदनपाकेन चेति । तच्चैतद्धात्वर्थात्परतस्तदवाप्यमात्रत्वेन गम्यमानं धात्वर्थान्तरतिरोहितं भावनाकर्मतया सर्वत्रावधार्यते । तच्च प्रायेणैवं कामशब्देनैव संबन्धमापद्यते । सुखकाम आसीत, स्वास्थ्यकामः शयीतेति । सत्यपि आसिशेत्योरकर्मकत्वे यः प्रत्ययेन करोत्यर्थोऽभिहितस्तत्कर्मत्वेन च स्वादीन्यवधार्यन्ते । तेन करोतेः सर्वदा सकर्मकत्वादकर्मकाख्यातानामपि च तत्सामानाधिकरण्यदर्शनात्किं करोत्यास्ते, किं करोति शेत इति सिद्धैवमादिष्वपि सकर्मिका भावना ।

यजेरपि तु यत्कर्म पूज्यत्वाद्देवतेष्यते ।
तदुज्झित्वैव पुत्रादेः कर्मत्वं भावनाश्रितम् ॥

तस्मात्सकर्मकाकर्मकयोरविशेषादासनेन भावयेदित्यपि प्रयोगसिद्धिः । कस्तर्हि सकर्मकाकर्मकयोर्भेदः । उच्यते—

साक्षादव्यभिचारेण धात्वर्थो यत्र कर्मेभाक् ।
सकर्मकः स धातुः स्यात्पारम्पर्ये त्वकर्मकः ॥

आसनशयनादौ हि न नियमेनाऽऽनन्तर्येण वेदं तदिति वा कर्म निरूप्यते, तेनाकर्मका अभिधीयन्ते । पचिगम्यादीनां तु विक्लिद्यत्तत्संयुज्यमानसाक्षात्संबन्धिकर्माव्यभिचारात्सकर्मकत्वं, न तु भावनाविशेषणे कश्चिद्विशेषः । सेयं भावनांऽशद्वयपरिपूर्णा सती सर्वकरणानामुपायाननुगृहीतानां करणत्वानुपपत्तेः कथं भावयेदितीतिकर्तव्यतामपेक्षते । सा च प्रत्यक्षादीनामनुग्राहकदर्शनशक्त्यभावादत्यन्तशास्त्रगम्येति यथासंनिकर्षं तदसंभवाद्वा यथाकथंचिदुपस्थाप्यमाना शास्त्रानुसारेण श्रुत्याद्युपदेशेन चोदनासामान्याद्यतिदेशेन वाऽत्यन्तादृष्टोपकारद्वारेणान्यथानुपपत्त्या कल्प्यते । ततः परिपूर्णत्वादनुष्ठातुं 386 योग्येति विधीयते । तद्विधानाच्चार्थापत्त्या यागादिविधानमित्युपपन्नं भावार्थसूत्रम् । भवन्ति केचित्कर्मशब्दा यागो यजनमिज्येत्युदाहर्तव्ये तत्सामानाधिकरण्यसिद्धश्येनैकत्रिकाद्युदाहरणं यागादिकरणत्वचोदनोत्तरकालभाविकर्मशब्दत्वेन पारतन्त्र्यात्सुज्ञानम् । स्वतन्त्राणां कथंचिदपि भावार्थत्वाशङ्कासंभवात् । यागादयो हि स्वातन्त्र्येणापि कदा चिदनुमानाद्भावार्थाशङ्काविषयाः स्युरिति । के चिद्भावार्था न कर्मशब्दा यथा भावयेत्कुर्यादिति चोदाहरणं भूत्यादयस्तु प्रयोज्यव्यापारवचनत्वान्नैव यथावर्णितभावार्था इत्यनुदाहरणम् । तत्र यथाकथंचिण्णिजन्तव्युत्पत्त्या भावशब्द एको नीयेत नेतरौ । तावपि तु प्रयोज्यव्यापारांशेन कथंचिदौभावार्थावित्युदाहृतौ । अथ वा द्वितीयसूत्रार्थव्याख्यानेन भावनाप्रयोजनत्वमंशवाचित्वेनास्तीति विनाऽपि सकलार्थाभिधानाद्भवन्ति भावार्थाः । कथं पुनरमी न कर्मशब्दा यदा धातुमात्रं कर्मशब्दत्वेनोक्तं, निर्विशेषस्य सामान्यस्यानुष्ठातुमशक्यत्वादकर्मशब्दत्वम् । अतो विशेषवाचिनामेव धातूनां कर्मशब्दत्वग्रहणादचोद्यमेतत् । यदि हि श्येनचित्रादर्शपौर्णमासशब्दाः फलैः संबध्येरंस्ततो यागकरणत्वाभावात्तत्सामानाधिकरण्यनिमित्तनामधेयत्वानुपपत्तेः प्रसिद्ध्यादिभिर्गुणविधित्वमेव स्यादतः स्थित एतस्मिन्नधिकरणे इत्याह । कस्मात्पुनरिदं तत्रैव न नीतं प्रमाणलक्षणेनासंबन्धात् । अथ नामधेयत्वं कस्मादत्र नाऽऽनीयते भेदलक्षणेनासंबन्धात् । तस्माद्यथान्यासमेव स्थितयोरर्थात्पौर्वापर्यसिद्धिः । न चैषामर्थिनेतिफलपदाभिप्रायम् । विविभक्तित्वादिति । संबन्धनिमित्ताख्यातविभक्तिविगमादथ वा निष्पन्नार्थाभिधायिसुब्विभक्तिविशेषयोगो विविभक्तित्वम् । तस्मान्न द्रव्यादिशब्दानां फलसंबन्ध इति । आह च—

387
साध्यसाधनसंबन्धः सर्वदा भावनाश्रयः ।
तेन तस्य न सिद्धिः स्याद्भावनाप्रत्ययादृते ॥ १ ॥
न तावत्प्रत्ययस्येष्टमपूर्वप्रतिपादनम् ।
न च धातोः स्वतस्तत्स्यान्नाम्नो वा परतः समम् ॥

यदि हि भावनावचनस्यैवापूर्वप्रतिपादकत्वमिष्यते धातोर्वा प्रत्ययनिरपेक्षस्य ततो नामपक्षो दुर्बलः स्यादिह तु यथैव धातोः प्रत्ययसंबन्धानुगृहीतस्य भावनानुरञ्जननिमित्तं करणवाचित्वं भवत्येवं नामपदस्यापीत्यविशेषः ॥ २ ॥

यदुक्तं यदैकस्मादपूर्वं तदेतरत्तदर्थं भविष्यतीति तद्गतं तावद्वस्तुधर्मेण विशेषं दर्शयति । कथम्—

बह्वदृष्टप्रसङ्गाद्धि धर्मो नेष्टः पदे पदे ।
नाम्नः फलेन संबन्धे परिहारो न तस्य च ॥

एकस्माददृष्टे कल्पिते यदीतरद् दृष्टार्थत्वेन तादर्थ्यं भजते ततो लाघवं लभ्यते । अस्य तु तादर्थ्यसिद्धये ततोऽपि पुनरदृष्टं कल्प्यत एव ततो वरं फलेनैव सर्वाणि संबद्धानि । न च संबन्धवैरूप्यक्लेशाश्रयणं, नाम्नश्च फलसंबन्धेऽवश्यं धात्वर्थस्तदनुग्रहार्थोऽभ्युपगन्तव्यः । स च स्वयं निष्पाद्यः सिद्धरूस्य नामार्थस्य न शक्नोति दृष्टे388 नोपकर्तुम् । न हि नामार्थस्तमपेक्षते शब्दप्रयोगवेलायामेव निष्पन्नतया गम्यमानत्वादपेक्षणीयस्य वा सिद्धत्वेनायोग्यत्वत्प्रयुज्यतेऽस्मिन्निति चाभिधेय एव प्रयोगः । तदाधारैव हि निष्पन्नरूपोपलब्धिरनुत्पन्नत्वे क्रियारूपस्य वक्तव्ये विनाशित्वप्रदर्शनं निष्पन्नस्यापि क्षणिकत्वेन पुनः पुनर्निष्पत्त्यपेक्षोपपत्तेः । तेभ्यः पराकाङ्क्षा—अन्याकाङ्क्षा, निष्पाद्यत्वेन वा प्रधानाकाङ्क्षा182 न विद्यत इत्यध्याहारः । अथ वा तेभ्यः परा—दूरे, आकाङ्क्षेत्यर्थः । कुतः, भूतत्वादेवेति । स्वरूपकथनार्थमुपन्यस्तं निष्पन्नत्वादेवेति । पुनरन्ते तदेव हेतुत्वेनोद्दिष्टं सूत्रकारेण ॥ ३ ॥

आख्यातवर्ती धात्वर्थः साध्यरूपः प्रतीयते ।
तस्मिन्फलवतीष्टे तु नाम्नो दृष्टार्थतेष्यते ॥

धात्वर्थस्तावत्प्रकृत्यैव साध्यात्मको विशेषतस्त्वाख्यातगतेन धातुनोच्यमानः । स यदि फलसाधनत्वेन चोद्यते ततोऽसिद्धरूपत्वात्तस्य साधनाकाङ्क्षौ यां सत्यां नामपदं गुणविधित्वेन नामधेयत्वेन वोभयथाऽपि दृष्टेनैव तादर्थ्यं लभते । ननु नामधेयपक्षे नामपदमपि साध्यार्थं भविष्यतीति धातुतुल्यं स्यात् । न । तस्य फलसंबन्धे गुणविधित्वेन सिद्धार्थत्वात् । अपि च—

389
साध्यात्नकोऽपि धात्वर्थो यदा नाम्नाऽभिधीयते ।
तदा द्रव्यवदेवासौ निष्पन्नात्मा प्रतीयते ॥

यद्यपि वस्तुस्वरूपेण धात्वर्थः साध्यस्तथाऽपि नामपदेनोच्यमानो लिङ्गसंख्यायोगित्वात्सिद्धरूपोऽभिधीयते । अभिधानकृता चाऽऽकाङ्क्षोत्पत्तिर्न वस्तुकृता । तस्माद्युक्ता धातोरेवाऽऽकाङ्क्षा न नाम्न इति । किंचाऽऽश्रितत्वात्प्रयोगस्य इति । अधुना शब्दप्रत्यासत्तिकृतो विशेषोऽभिधीयते । पुरुषव्यापारात्मिकायां भावनायां धात्वर्थोपश्लेषोऽपि पुरुषेणाऽऽश्रितस्तदतिक्रमहेत्वभावाच्च न नामपदग्रणम् । तस्मादस्ति विशेषः ॥ ४ ॥

इति भावार्थाधिकरणम् ॥ १ ॥

अपूर्वाधिकरणम्

390 सिद्धं कृत्वाऽपूर्वं तत्प्रतिपत्त्युपायशब्दविशेषविचारः कृतः । तस्य सिद्धत्वमेवाप्रसिद्धमतस्तदेव तावत्प्रतिपादनीयमित्यत आह—

फलाय विहितं कर्म क्षणिकं चिरभाविने ।
तत्सिद्धिर्नान्यथेत्येवमपूर्वं प्रति गम्यते ॥

वेदवाक्योपात्तस्वर्गयागादिसंबन्धान्यथानुपपत्त्या चोदनयैवापूर्वमपि चोदितं भविष्यतीति प्रमाणवत् । तस्मादस्त्यपूर्वमिति । अत्रापरे निपुणंमन्यास्तन्निराकरणमाहुः—

प्रमाणपञ्चकाज्ञानादपूर्वं षष्ठगोचरः ।
तस्मादन्वर्थनामैतन्न वस्तुत्वेन गम्यते ॥

वस्त्ववबोधनार्थानि प्रत्यक्षादीनि पञ्च प्रमाणानि । तद्यत्र तानि न प्रवर्तन्ते तदभावेनाभावात्मनैवावगम्यते । न चापूर्वे तानि प्रवर्तन्ते । तस्मात्सर्वप्रमाणापूर्वत्वादन्वर्थनामैवासद्रूपमपूर्वं प्रतिपत्तव्यम् । तत्र प्रत्यक्षेण तावन्नावगम्यते, रूपाद्यनात्मकत्वेन चक्षुरादिभिरसंबन्धात् । नाप्यनुमानेन, केनचिल्लिङ्गेन सहादृष्टसंगतित्वात् । न हि विशेषतः सामान्यतो वाऽस्य केनचित्संबन्धोऽनुभूतपूर्वः । सर्वत्रैव च वस्तुसत्ताबोधायानुमानमपर्याप्तमित्युक्तं183 प्राक् ।

पदवाक्ये न चैतस्य वाचके शृणुमः क्वचित् ।
शब्दगम्यत्वमप्यस्य तेन नैवोपपद्यते ॥

आगमिकत्वमप्यस्य पदेन वोच्यमानस्य स्याद्वाक्यगम्यस्य वा । तत्र पदं न तावत्किंचित्साक्षादेतस्य वाचकमस्ति । यत्त्वपूर्वमिति तदन्वर्थत्वात्सुतरामस्तित्वं बाधते । न च प्रमाणान्तरानवगतेऽर्थे पदं प्रवर्तते । न च स्वातन्त्र्येण प्रमाणमिति स्थितम् । तथा च वाक्यस्यावाचकत्वादेवाप्रामाण्यम् । न च केचित्पदार्थाः श्रूयन्ते येषां भेदः संसर्गो वाऽपूर्वं भवेत् । येऽपि शब्दान्तरादयः श्रुतिलिङ्गादयश्च शब्दप्रकारास्तेऽपि च स्वभावसिद्धे वस्तुनि भेदे विनियोगे वा कारणं न सद्भावे कस्यचिदित्यपूर्वं प्रत्यप्रमाणम् । उपदेशानवगते चातिदेशोऽपि न प्रवर्तते । विधिप्रतिषेधविषयत्वाच्च समस्तस्य वेदस्य न क्वतिद्वस्तुस्वरूपप्रतिपादनार्थत्वं भवतीति नाऽऽगमगम्यमपूर्वम् । न चादृष्टपूर्वस्यादृष्टसदृशस्य चोपमानविषयत्वम् । कामं वाऽनुपलभ्यमानशशविषाणादिसारूप्यादभावात्मकत्वोपमानप्रसङ्गः । तस्मादसद्रूपेणोपमेयम् ।

391
अर्थापत्त्याऽपि नैवैतदस्तीत्येवं प्रतीयते ।
अन्यथाऽप्युपपन्नत्वात्फलयागादिसंगतेः ॥

दृष्टार्थापत्तिस्तावद्धर्मास्तित्ववदेवात्रापि निराकर्तव्या । स्वभावादिनाऽपि ईश्वरदरिद्रादिवैचित्र्योपपत्तेः । श्रुतार्थापत्तिरपि कीदृशी भवति यत्र प्रत्यक्षेणैवानुपपत्तिर्दृश्यते । न च कल्प्यमानोऽर्थः केन चिद्धिरुध्यते, तद्यथा ‘स्रुवेणावद्यति’ इत्युक्ते न च कथंचिदपि मांसपुरोडाशादीनि तेनावदातुं शक्यन्त इति । प्रत्यक्षगम्यत्वात् । अपि च तत्रापि प्रसक्तेरेवं कल्प्यते द्रवाणामिति । न चैषा कल्पना केन चिद्विरुध्यते श्रुतहान्यश्रुतपरिकल्पनाभावात् । अपूर्वं तु न कदाचित्फलसाधनत्वेन संभाव्यते । यतोऽन्यकारणनिषेधे सति तद्विषया परिशेषसिद्धिः स्यात् ।

यदि त्वन्यनिवृत्त्यैव परिशेषः प्रकल्प्यते ।
शशशृङ्गनिमित्तत्वं फलानां किं न गम्यते ॥

न हि कारणान्तरप्रतिषेधमात्रेणापूर्वनिमित्तता गम्यते, शशविषाणादिभिरनैकान्तात् । अपि च यदि तावदपूर्वं यागस्य साध्यमिष्यते ततः श्रुतं स्वर्गं परित्यज्याश्रुतं परिकल्पितं भवेत् । अथ फलं प्रति साधनभूतं, ततः श्रुतयागपरित्यागात्सैव गतिः । न चाऽऽकारान्तरेण184 तन्निरूपयितुं शक्यते । तेनाऽऽगमप्रामाण्याद्यागादेव फलेन भवितव्यम् । कथं नष्टः साधयतीति चेत् । यदि शास्त्रादेवं गम्यते किं भवतो विरुध्यते । ध्रियमाणेन वा फलं साधनीयमित्यत्र किं प्रमाणम् । अपि चाऽऽकाशादीनि नित्यावस्थितानि कस्मात्फलं न साधयन्ति । यदि च श्रूयमाणातिरेकेणावस्थायित्वसंभवादपूर्वेण फलं साध्यत इति कल्प्यते ततो वरमाकाशादेरेव कल्पितं, तस्य हि स्थानसद्भावावपि तावत्प्रसिद्धौ केवलं फलनिमित्तत्वमाश्रयणीयम् । अपूर्वे तु सद्भावप्रभृति सर्वं निष्प्रमाणकं कल्पनीयम् । अथ यागसंबन्धिना केनचिदवस्थितेन फलं दातव्यमित्यभिप्रायः । तथा सत्यपि—

यष्टुरेवाऽऽत्मनो यागैः संगतस्य स्थितस्य च ।
निमित्तत्वं वरं कॢप्तं लाघवं हि तथा सति ॥

यदि यागस्य विनाशित्वादन्येन तत्संबन्धिना फलं साध्यमानं यागेन साधितं भवति ततो लाघवादतिक्रान्तयागेनाऽऽत्मनैव वरं साधयितव्यम् ।

यद्वा कर्मविनाशोऽयं फलं नः साधयिष्यति ।
भङ्गियागविधानाद्धि तदयत्नेन कल्प्यते ॥

392 विनाशिनि हि कर्मणि चोदिते किं दृश्यते, कर्म च विनष्टं शास्त्रप्रत्ययाच्च कालान्तरे फलं भविष्यतीति निश्चीयते । यच्च185 यत्, प्रतीत्योपजायते तत्र तस्य निमित्तत्वमित्यवधार्यते । तस्मादभावनिमित्तमेव फलमस्तु । स्यादेतत् । न क्वचिदवस्तुनः साधकत्वं दृष्टमिति । तदुच्यते । अपूर्वस्य वा क्व दृष्टं येनात्राऽऽश्रीयते तदवश्यकर्तव्ये लौकिकनिमित्तधर्मातिक्रमे186 किमपूर्वनिमित्तत्वं कल्प्यतामुताभावनिमित्तत्वमिति, कॢप्ताभावनिमित्तत्वातिलङ्घनेन काल्पनिकापूर्वनिमित्तत्वपरिग्रहो न युज्यते । किं च—

यदि चैकान्ततो ब्रूयुः शब्दाः कालान्तरे फलम् ।
ततस्तेनैव कल्प्येत निमित्तं वस्तु किंचन ॥

क्रियाफलसंबन्धप्रतिपत्तिमात्रचरितार्थासु चोदनास्वनुपात्ते कालान्तरे कर्मस्वभावादानन्तर्ये गम्यमाने कुत एतत्कालान्तरभावि फलं तत्सिद्ध्यर्थं चापूर्वं कल्प्यत इति । तत्रैतत्स्यात् । कृते कर्मण्यनन्तरं फलमनुपलभ्य कालान्तरफलोत्पादद्वारमपूर्वकल्पनमिति । तदयुक्तम् । कुतः—

पूर्वं निश्चित्य शास्त्रार्थं प्रयोगे हि प्रवर्तते ।
प्रयोगोत्तरकालं तु न शास्त्रार्थोऽवधार्यते ॥

187‘नह्यविद्वान्विहितोऽस्ति’ इति तावदवश्यं यावच्छास्त्रगम्यं तत्सर्वं प्रागनुष्ठानादवगन्तव्यम् । न च तत्काले कर्मफलकालवियोगज्ञानकारणमस्ति । यच्च शास्त्रप्रवृत्ति वेलायां तदन्तर्गतत्वेन नावधारितं तदुत्तरकालमेवावधार्यत इति कुत एतत् । अपि च—

सर्वकर्तृष्वशक्त188त्वाद्वैगुण्यं संप्रतीयते ।
तेन च प्रतिबद्धत्वान्नार्थापत्तिरपूर्वभाक् ॥

दृश्यत एवानन्तरफलानुत्पत्तिकारणवैगुण्यमिति न कालान्तरफलसिद्ध्यर्थमपूर्वं कल्पनीयम् । अनैकान्तिकी हि तदाऽर्थापत्तिर्वैगुण्यमेव वरमननुभूतमपि कल्पयेत् । न च जन्मान्तरफलोत्पत्त्यर्थमपूर्वकल्पना ॥ कुतः—

सुखदुःखात्मकत्वेन समानेष्वेव जन्मसु ।
क्रियानन्तरमेवेह स्तः स्वर्गनरकावपि ॥

393 न हि स्वर्गनरकौ नाम निरतिशयसुखदुःखस्वभावौ देशविशेषात्मकौ वा याविहैव जन्मनि नानुभूयेयाताम् । अलौकिकानां जिहासोपादित्सानुपपत्तेः । ये तु लौकिके प्रकृष्टे सुखदुःखे ते कर्मानन्तरमेव संभाव्येते इत्यविशेषः189 । किं च—

प्रतिषेधेषु चापूर्वं न शास्त्रार्थेन जन्यते ।
तदतिक्रमजन्यं तु न भवेच्छास्त्रपूर्वकम् ॥

‘ब्राह्मणो न हन्तव्यः’ इति हि निवृत्तिः शास्त्रार्थः । न च तया कालान्तरे किं चिज्जनयितव्यमिति नापूर्वकल्पनामपेक्षते । हननस्य तु नरकपातः फलं, तद्यदि तेना पूर्वं जन्येत ततो हननस्याचोदितत्वाल्लौकिकक्रियाजन्यं सदपूर्वं न वेदमूलं स्यात् । कल्पितमपि च तन्निष्क्रियत्वान्नैव देशान्तरे शरीरादिप्रापणसमर्थमित्यनर्थकम् । न चास्याऽऽश्रयः संभवति, क्रियाश्रयस्य पुरोडाशादेर्विनष्टत्वात्तद्व्यतिरिक्ते चाऽऽरम्भानुपपत्तेः । एवमङ्गापूर्वाण्यपि निराकर्तव्यानि । किं च—

अङ्गानि यदि वाऽपूर्वं कुर्वन्त्यारादवस्थितम् ।
असंबन्धात्प्रधानानां न स्यात्तेनोपकार्यता ॥

न हि कल्पितमप्यङ्गापूर्वं प्रधानैरसंबन्धमानमुपकर्तुं समर्थं, न चामूर्ते प्रधाने तदपूर्वे वा निपतितुं समर्थम् । यदपि न प्रोक्षणादिनिमित्तं द्रव्यसमवायि तदपि तन्मात्रोपक्षीणत्वादन्यत्रासंचरन्नैव फलसाधनस्यापूर्वस्योपकुर्यात् । अथ त्वङ्गापूर्वाण्यपि यजमानात्मन्येवावतिष्ठेरन्, एवं सति पुरुषार्थत्वापत्तेः कर्माङ्गत्वहानिः स्यात् । अपि च युगपत्प्रयोगवचनेन ग्रहणादङ्गापूर्वैर्युगपदेवोपकर्तव्यम् । न च परस्परेणासंबद्धानां यौगपद्यं संभवति । न चैषां कश्चित्संबन्धे हेतुरस्ति । एतेन प्रधानापूर्वाणां फले यौगपद्यं प्रत्युक्तम् ।

तस्मात्कृतत्वमात्रेण प्रधानं पुरुषे फलम् ।
अङ्गानि च प्रधानेषु जनयन्तीति गम्यते ॥

न चापूर्वस्योत्पत्तिरभिव्यक्तिर्वोपपद्यते । कुतः—

न तावद्युगपज्जन्यं कर्मभिः क्रमवर्तिभिः ।
न चानवयवत्वात्तत्क्रमशोऽपि प्रतीयते ॥

एवं सावन्नोत्पद्यते । न चाभिव्यज्यते । कथम् ।

इन्द्रियार्थोभयेषां नः संस्काराद्व्यक्तिरिष्यते ।
न च यागादिभिः किंचित्संस्कृतं संप्रतीयते ॥

सर्वाभिव्यक्तीनां त्रयान्यतमसंस्कारद्वारत्वात्संस्कारान्तरमवश्यं कल्पनीयं ततः पुनः 394 स एव क्लेश इत्यप्रमाणता । यदि च क्रियानन्तरमपूर्वमुपलभ्येत ततोऽभिव्यज्यत इति ब्रूयाम । यदि चास्य प्रागस्तित्वे प्रमाणं भवेत् । न तु तदुभयमप्यस्तीति । सर्वथा नास्त्यपूर्वं । न चैतत्सूत्रं तत्प्रतिपादने विस्पष्टमित्यव्याख्यानमेतत् । अत्रोच्यते । यदिदं स्वमतिपरिकल्पितं विग्रहवदिवापूर्वं भवद्भिर्निराक्रियते न तेनास्माकं किंचिद्विरुध्यते । यतो नैतत्तादृशं कस्यचिदिष्टं, किं तर्हि—

कर्मभ्यः प्रागयोग्यस्य कर्मणः पुरुषस्य वा ।
योग्यता शास्त्रगम्या या परा साऽपूर्वमिष्यते ॥

प्रधानकर्मणामङ्गकर्मणां वा प्राक्करणात्स्वर्गादिप्राप्त्ययोग्याः पुरुषाः क्रतवश्च स्वर्गकार्यायोग्याः । तामुभयीमप्ययोग्यतां व्युदस्य प्रधानैरङ्गैश्च योग्यतोपजन्यत इत्यवश्यं सर्वेणाभ्युपगन्तव्यम् । असत्यां तस्यामकृतसमत्वप्रसङ्गात् । सैव च पुरुषगता क्रतुगता वा योग्यता शास्त्रेऽस्मिन्नपूर्वमित्यपदिश्यते । यत्तु प्रत्यक्षादिगम्यत्वमस्य नास्तीति सत्यं, श्रुतार्थापत्तिव्यतिरिक्तैर्न गम्यते स त्वदोषः । किं कारणम्—

श्रुतार्थापत्तिरेवैका प्रमाणं तस्य वेष्यते ।
शब्दैकदेशभावाच्च स्वार्थेष्वागम एव नः ॥

येन वाक्येन यागात्स्वर्गो भवति प्रयाजादिभिश्च प्रधानोपकारो भवतीत्येतच्चोद्यते तेनावश्यं विनष्टानामविनष्टानामपि चैषां काऽपि स्वकार्योत्पादनशक्तिरस्तीत्यभ्युपगन्तव्यं सर्वभावानामशक्तानां कार्यारम्भाभावात् । नियोगतश्चात्रातीतानामेवं शक्तिरेष्टव्या । कुतः—

क्षणिकत्वेन सर्वत्र नैकस्यापि हि कर्मणः ।
कथं चिद्युगपद्वृत्तिः फले किमुत भूयसाम् ॥

यदेव हि कर्म गृहीतं तदेव हि क्षणिकसूक्ष्मावयवत्वात्फलं प्रति युगपद्भवितुमसमर्थं किमुत यान्यनेकात्मकानि दर्शपूर्णमासप्रभृतीनि । यदा हि पूर्णमासो भवति न तदा दर्शो यदा दर्शस्तदा पूर्णमासश्चिरविनष्टस्तथैकस्मिन्नेव समुदाये यदाऽऽग्नेयस्तदाऽग्नीषोमीयोपांशुयाजौ न स्तः, यदा तयोरेकस्तदेतरौ न विद्येते इति यौगपद्यासंभवः । तद्यदा दर्शपूर्णमासस्तदवयवो वा कांचित्पुरुषे शक्तिमनाधायैव विनश्येत्ततः प्रागवस्थातुल्यत्वादुत्तरकर्मणां पूर्वैः सह रूपतः शक्तितो वा साहित्याभावान्न केवलकरणोत्कश्चिद्विशेष इति सहितसाध्यत्वेन श्रुतं फलं साहित्यासंपत्त्या नोपपद्येत । न हि केवलो दर्शस्तत्साधनत्वेन श्रूयते तदन्त्यं वा कर्म । नियोगतश्च कर्मानन्तरफलोत्पत्तिवादिनाऽपि सर्वकर्मान्ते साऽभ्युपगन्तव्या । ततश्च यस्यैवाऽऽनन्तर्यं तदेवैकं साधनं प्राप्नोति नेतराणि चिरविनष्टत्वात् । अथ तु सर्वेषामपूर्वाख्याः शक्तयस्तिष्ठन्ति ततः स्वरूपाणामतन्त्रत्वात्तेष्वसत्स्वपि शक्तिगतमेव यौगपद्यं व्यवहाराङ्गत्वादौव्यापरिष्यते । तथा चाऽऽह—

395
शक्तिभिः सर्वभावानां व्यवहारानुपातिता ।
तेनान्यदेशकालेऽपि रूपे ताभिः स सिध्यति ॥
लौकिकं चापि यत्कर्म फले कालान्तरोद्गतौ ।
तत्रापि शक्तिरेवाऽऽस्ते न त्वपूर्वमिहेष्यते ॥

यान्यपि च लौकिकानि कृषिघृतपानाध्ययनप्रभृतीनि कर्माणि कालान्तरफलत्वेनेष्यन्ते तेषामपि स्वरूपावस्थानासंभवात्संस्कारैरेव तिष्ठद्भिर्व्यवहारसिद्धिः । ते त्ववैदिक त्वात्संस्कारा नापूर्वशब्दाभिधेयत्वेन प्रसिद्धाः । तेन प्रागेवानुष्ठानाच्छास्त्रश्रवणवेलायामेव क्षणिकानेकाङ्गप्रधानप्रयोगसाध्यं फलं विदित्वा शास्त्रप्रत्ययादेषा बुद्धिर्भवति नूनं केनाप्यात्मना समस्तान्यङ्गप्रधानानि फलकालं यावत्तिष्ठन्तीति । प्रत्यक्षं च स्वरूपभङ्गदर्शनान्न शक्तिव्यतिरिक्तात्मावस्थानोपपत्तिः । यत्तु श्रुतहान्यश्रुतकल्पनाप्रसङ्ग इति । तन्न—

यागादेव फलं तद्धि शक्तिद्वारेण सिध्यति ।
सूक्ष्मशक्त्यात्मकं वा तत्फलमेवोपजायते ॥

यदि ह्यसंबन्धिना केनचित्फलं साध्येत ततो दोषः स्यात् । यागाहितया तु शक्त्या साध्यमानं यागेनैव साधितं भवति । सर्वसाधनानामिष्टफलप्रवृत्तावान्तरालिकव्यापारावश्यंभावित्वात् । अथ वा सर्वमेव कार्यं दध्यादि क्षीरादेरुत्पद्यमानं न सहसैव स्थूलेनैवाऽऽत्मनोत्पद्यते । किं तर्हि, सूक्ष्माणि तावद्रूपान्तराण्यनुभवति । एवं स्वर्गादयोऽप्यङ्कुरादिस्थानीयां तावदपूर्वावस्थां प्रतिपद्यन्ते तया चोत्पद्यमानया त एवोत्पन्ना भवन्तीति । एतावानेव190 चात्र वर्तमानःकालो यदच्युतिः कर्मसंकल्पात्प्रभृत्यासर्वान्त्यफलावयवोपभोगात् । आह च—

काष्ठैः पक्तव्यमित्युक्ते निर्दिष्टा ज्वलनक्रिया ।
अङ्कुरे जायमाने च वृक्षोऽष्युत्पन्न इष्यते ॥

यत्तु संभावनापदमपूर्वं नाऽऽरूढमिति । तदयुक्तम् । कुतः॔

विनाशित्वेन विज्ञातं साधनं लोकवेदयोः ।
191असंभावितसामर्थ्यस्थायित्वं चोद्यते कथम् ॥

नूनं विनष्टस्याप्येतस्य सामर्थ्यं फलनिर्वृत्तिकालावधिं यावदास्त इति हि यावन्नावधार्यते तावद्विनाशिनी क्रिया चोदयितुमेवाशक्या । तस्मात्संभावनाऽवधारणा च 396 प्रथममेव सिद्धेति ।

न वाऽतिक्रान्तयागेभ्यः पुरुषेभ्यः फलोद्गतिः ।
अतिक्रान्तानतिक्रान्तविशेषस्तव नास्ति हि ॥

यदि ह्यनाहितसंस्कारा एव यागा नश्येयुस्ततः प्रागवस्थातुल्यत्वादतिक्रान्तानतिक्रान्तयागयोः को विशेषः स्यात् । आत्मत्वं तावदविशिष्टमुभयोः । यागत्वमपि हि विनष्टाकृतयागयोस्तुल्यम् । न च क्रियारहितस्यावस्थान्तरगतस्य वा कर्तृत्वमवतिष्ठते । कर्तृशक्तिस्तिष्ठतीति चेत् । न । तस्याः प्रागपि यागकरणाद्विद्यमानत्वेनाकरणत्वात् । अपि च यदि पुरुषः फलसाधनं सर्वकर्मणां शुभाशुभानामविशिष्ट इत्येकरूपफलप्रसङ्गः । तथैकेन यागेन बहुभिश्च तदतिक्रमलक्षणलक्षितत्वाविशेषाद्बहुयाजिनः फलविशेषो न स्यात् । एतेनैव बहुप्रयोगानुष्ठायिनः प्रत्युक्ताः । कर्त्रनभिधायिति वाऽऽख्याते कथमयमर्थो विज्ञायते । यस्य त्वपूर्वाणि क्रियन्ते तस्य प्रतिकर्म प्रतिप्रयोगं च तद्भेदादुपपन्ने फलनानात्ववैचित्र्ये । किं च ।

अङ्गमध्येऽपि कर्तैव भवेच्चेदुपकारकः ।
प्रसङ्गसिद्धेरङ्गानामप्राप्तिर्विकृतौ भवेत् ॥

प्रयाजादीनामपि क्षणिकत्वात्स्वरूपसंनिध्यभावे भवत्पक्षे कर्त्रैव प्रधानोपकारः कर्तव्य इति सोऽपि चापूर्वाभावात्कर्त्रात्मन एवोपकारकस्तत्र येन प्रकृतौ प्रयाजादयः कृतास्तस्य विकृतिषु तद्गतोपकारसद्भावाद्विनाऽपि तन्त्रमध्यविधानेन तत्फलावाप्तेः प्रसङ्गलक्षणमस्तीति न पुनरङ्गान्यनुष्ठातव्यानि । तत्र ‘प्रयाजे प्रयाजे कृष्णलं जुहोति’ इत्यादीनि नोपपद्येरन् । नन्वत्यन्तकालभेदान्नैतत्प्रसज्यते । वक्ष्यत्यस्योत्तरम् 192‘अर्थस्याविकृतत्वात’ इति । यदेव हि प्रत्यासन्नानि प्रति कर्त्रात्मकं तदुपकाररूपमिष्यते तदेव दूरस्थायामपि विकृतावित्यविशेषः । एते कर्मविनाशपक्षेऽपि दोषाः प्रसक्तव्याः । यस्यापि च कर्मविनाशादेव फलं भविष्यतीत्यभिप्रायस्तस्यापि शुभाशुभैकानेककर्मतत्प्रयोगविनाशानां प्रागभावप्रध्वंसाभावानां वाऽवस्तुत्वेनाविशेषात्फलभेदवैचित्र्यानुपपत्तिः । तथा हि—

एको रोगो हृतो यस्य यस्य वाऽपहृता दश ।
अरोगित्वे तयोर्भेदो न कश्चिदपि दृश्यते ॥

यदि तु प्रतिकर्म विनाशानां वैचित्र्यमिष्यते तथा सति वस्तुत्वापत्तेर्वस्त्वन्तराभावाच्चापूर्ववस्त्वेव विनाशशब्देनाभिधीयेत ।

न च कर्मविनाशेभ्यः स्वर्गादि श्रूयते फलम् ।
विपर्ययाच्च नैतेभ्यो जातं यागस्य तद्भवेत् ॥

397 ‘यजेत स्वर्गकाम’ इति हि श्रूयते न यागाभावं प्रतिपद्येतेति । तत्र भावांशसाध्यसाधनसंबन्धनिष्ठे वाक्ये यस्तत्राभावांशसाध्यसाधनसंबन्धं कल्पयति तेन वेदस्तविदप्रमाणीकृतः । कुतः । कर्मविनाशप्रभवं हि सदेतन्न कथंचित्कर्मसम्बन्धीति शक्यं वदितुम् । अत्यन्तविपरीतत्वात् । न ह्यग्न्यातपप्रभवो दाहः शैत्यसंबन्धीत्युच्यते । अथ वा यथैव यागाच्छ्रुतं तदभावात्कल्प्यते तथैव स्वर्गे श्रुते तदभावः फलमित्यपि कल्प्येत । अपूर्वपक्षेऽपि तुल्यमिति चेत् । न । तस्य कर्मफलशक्त्यात्मकत्वेनात्यन्ताभेदात् । उक्तं ह्येतत्पुरस्तात् । अपूर्वेण क्रियमाणं यागेनैव क्रियते, अपूर्वे वा कृते फलमेव कृतं भवतीति । न च लोकेऽपि कश्चिदभावः कारणत्वेन दृष्टः । यदि तु क्वचिदुदाह्रियेत, शक्यं तत्र भावान्तरं दर्शयितुं न त्वत्रापूर्वादृते तादृक्किंचिदस्ति । यत्त्वपूर्वस्यापि नैव कारणत्वं दृष्टमिति तदयुक्तम् । सर्वत्र शक्तिसामान्योपलम्भात्तद्विशेषमात्रत्वाच्चापूर्वस्य । यत्तु शास्त्रेण कालान्तरफलं नाऽऽश्रितं प्रयोगोत्तरकालकल्पना च शास्त्रेऽन्तर्भवति । तस्मादानन्तर्यमेव चोदितमिति । तत्र यथाश्रुतक्षणिकानेककर्मानन्तर्यं न संभवतीत्युक्तं प्राक् । स्वर्गनरकौ च निरतिशयसुखदुःखात्मकत्वाद्देशान्तरजन्मान्तरानुभवनीयौ न कर्मानन्तरं संभवत इति षष्ठाद्ये वक्ष्यामः ।

ऐहिकं चापि पुत्रादि क्रमजन्मस्वभावकम् ।
न कर्मानन्तरं कश्चित्फलं लब्धुं व्यवस्यति ॥
न च ग्रामादिसंप्राप्तिः केवला फलमिष्यते ।
उपयोगश्चिरेणैषां न निमित्ताद्विना भवेत् ॥

चिरकालोपभोगफलात्मकत्वाद्ग्रामादीनां क्रियानन्तरं तादात्म्यासंभवे सति यत्रैवान्तराले निमित्तं क्षीणं तत्रैवापहारः प्रसज्येतेत्यवश्यं समस्तोपभोगं यावदवस्थितेन केन चिद्भवितव्यम् । ततश्च प्रागेव प्रयोगादित्थमवधारणात्कर्तृवैगुण्याशङ्क्याऽर्थापत्तेरनैकान्तिकत्वमित्ययुक्तमेतत् । यत्तु प्रतिषेधेषु न शास्त्रगभ्यमपूर्वमित्युच्यते ।

विधेयेभ्यो यथाऽपूर्वं विधिशास्त्रेषु गम्यते ।
तथैव प्रतिषेध्येभ्यः प्रतिषेधैस्तदुच्यते ॥

यथा हि लौकिकानामेव द्रव्यादीनां फलविध्युत्तरकालं वैदिकत्वाद्वेदगम्याऽपूर्वसिद्धिः, एवं ब्रह्महत्यादीनामनवगतनरकफलानां प्रतिषेधोत्तरकालभाविना वैदिकत्वेनैव नरकप्राप्तिसमर्थाऽपूर्वकल्पनोपपत्तिः । सत्यपि चास्य चलनादिक्रियारहितत्वे कर्तृसंबन्धमात्रेण तद्देशान्तरप्रापणादिक्रियासंबन्धाभ्युपगमान्निष्क्रियताऽनुपालम्भः ।

आत्मैव चाऽऽश्रयस्तस्य क्रियाऽप्यत्रैव च स्थिता ।
आत्मवादे स्थितं193 ह्येतत्कर्तृत्वं सर्वकर्मसु ॥

398 द्व्यवदानप्रक्षेपादीनां हि सर्वेषां संकल्पादिद्वारेणाऽऽत्मैव कर्तेत्यवधारितम् । अतश्च ते प्रलीयमानास्तत्र स्वर्गाद्युपभोगशक्तिमाधाय प्रलीयन्त इत्यविरोधः । कथं विनष्टस्य कर्मणः शक्तिस्तिष्ठतीति चेत् । अत्राभिधीयते—

यदि स्वसमवेतैव शक्तिरिष्येत कर्मणाम् ।
तद्विनाशे ततो न स्यात्कर्तृस्था तु न नश्यति ॥

कथमन्यशक्तिरन्यत्र समवैतीति चेत् । न । क्रियात्मनोरत्यन्तभेदाभावात् । अपि च—

शक्तिः कार्यानुमेयत्वाद्यद्गतैवोपयुज्यते ।
तद्गतैवाभ्युपेतव्या स्वाश्रयाऽन्याश्रयाऽपि वा ॥

यदा कर्मविनाशात्तद्गता शक्तिरपि निष्प्रयोजना भवति, अवश्यं चासौ कल्पयितव्या, तदाऽस्याः स्वरूपवदेवाऽऽश्रयविशेषोऽपि कार्यक्षम एव प्रमातव्यः । तथाऽङ्गापूर्वाणा मप्यात्माश्रितानामेवैकार्थसमवायेन प्रधानैः संबद्धानामप्युपकुर्वतामाश्रयशेषत्वाभावादारादुपकारकत्वप्रसिद्धिः । यत्तु पुरुषार्थत्वं प्रसज्यत इति । नैष दोषः—

तादर्थ्येन हि शेषत्वं नाऽऽश्रयाश्रयिभावतः ।
राजर्थौपयिकं नित्यमुष्ट्रो वहति कुङ्कुमम् ॥

न चामूर्त्तानामाश्रयाश्रयिभावेन न भवितव्यम् । आत्मसुखादिवत्तदुपपत्तेः । यत्तु व्रीह्यादिसमवायिप्रोक्षणादिनिमित्तं तण्डुलादिद्रव्यावस्थासंचरणपरम्परया दौव्यवदानं यावद्गतं तत्रापि प्रधानस्यापि केन चिदंशेन समवायात्तदीयापूर्वनिष्पत्तावेव व्यापृत्य निवर्तते । तेनैव चैषां नाऽऽरादुपकारकवदशेषप्रधानार्थत्वमभ्युपगम्यते । यथैव चैकार्थसमवायादङ्गप्रधानापूर्वाणां संबन्ध एवमङ्गापूर्वाणामन्योन्यं प्रधानापूर्वाणां च वक्तव्यः । ततश्च युगपत्कार्यारम्भसिद्धिः । कथं पुनः क्रमोत्पत्तीनां प्रधानापूर्वाणां क्रमवर्त्तिभिरेवाङ्गापूर्वैः प्रागूर्ध्वं चोत्पद्यमानैर्युगपदुपकर्तुं शक्यम् । केचित्तावदाहुः । अङ्गमध्यवर्तिषु प्रधानेषु पूर्वाङ्गापुर्वैर्निष्पन्नैरागामिभिश्च प्रक्रमवशात्प्रचलितावस्थैरेकैकं प्रधानं स्वापूर्वं साधयति । आतिथ्याबर्हिर्वच्च साधारण्यान्नैकप्रधानापूर्वनिष्पत्तौ तान्यपवृज्यन्ते । कथं पुनरनागतानामुपकारकत्वं भवति । एकान्तावधारणादौभोजनप्रत्यासत्तौ स्थालीपरिमार्जननिष्पत्तिवदिति द्रष्टव्यम् । ननु च यद्यनागतावस्थेष्वेतेषु प्रधानापूर्वाणि निष्पद्यन्ते ततो नैवोत्तराङ्गाणि कर्तव्यानि । कथं न कर्तव्यानि, यदा तत्करिष्यमाणतासंभावनया तानि निष्पन्नान्यपि तदकरणान्नापवृज्यन्ते । अन्ये पुनराहुः । एकैकमङ्गमितरेतरनिरपेक्षमात्मीयमात्मीयं तावदपूर्वं करोति, तथा प्रधानमप्याग्नेयादि यथाश्रुतसमस्ताङ्गापूर्वालाभात्तन्निरपेक्षं तदाऽनुत्पन्नप्रधानान्तरनिरपेक्षं च प्रथमकृतसामवायिकाङ्गापूर्वमात्रानुगृहीतं स्वापूर्वमेव तावत्साधयति । एवं यदा दर्शापूर्वाणि तदङ्गापूर्वाण्यपि समस्तानि निष्पन्नानि तदा तदीयब्राह्मणतर्पणानन्तरमपर्यायविधानाद्युगपत्प्रयोगवचनोपसंहारक399 ल्पितमङ्गानि प्रधानानि च प्रति, तन्त्रभूतं समस्तान्यङ्गापूर्वाण्यपूर्वात्मकमेकं युगपन्निरवयं प्रधानोपकारं कृत्वा निवर्तन्ते । ततश्च तद्वशेन प्रधानापूर्वाण्यप्येकफलोत्पत्तिशक्तिभूतं संहत्य सर्वाण्येकमपूर्वान्तरं जनयित्वाऽपवृज्यन्ते । तत्त्वाफललाभादजरं तिष्ठति । यदि पुनः प्रतिबन्धकरहितं तदानीं फलमेवोत्पद्यते ततोऽपि किं कल्पनीयमेवापूर्वम् । बाढम् । न हि तस्मादृते समस्तफलोपभोगसिद्धिरित्युक्तम् । अथ कस्मात्प्रात्यात्मिकान्येवाङ्गापूर्वाणि प्रधानोपकारकत्वं भिन्नानि च प्रधानापूर्वाणि फलबीजत्वं न प्रतिपद्यन्ते । सत्यं, न हि कश्चिदत्र दोषः । किं तु—

अर्थापत्तेरिहापूर्वं पूर्वमेकं प्रतीयते ।
ततस्तत्सिद्धये भूयः स्यादपूर्वान्तरप्रमा ॥

प्रधानानां फलं प्रत्यङ्गानां च प्रधानानि प्रति युगपदुपादानादपेक्षावशेनैकापूर्वकल्पनया च तत्संबन्धोपपत्तेर्नेतरकल्पनाप्रमाणमस्तीत्येकमेव तावदवधार्यते । ततः पुनः क्रमवर्तिभिः कर्मभिस्तदशक्यं युगपत्कर्तुमिति तत्सिद्ध्यर्थं प्रात्यात्मिकापूर्वान्तरकल्पना भवति । सर्वत्र च—

प्रमाणवन्त्यदृष्टानि कल्प्यन्ते सुबहून्यपि ।
अदृष्टशतभागोऽपि न कल्प्यो ह्यप्रमाणकः ॥

केचित्त्वत्र चोदयन्ति । यदि पौर्णमास्यां कृतान्यङ्गापूर्वाण्यमावास्यां यावत्तिष्ठेयुस्ततस्तैरेव कृतार्थत्वान्नैवाङ्गानि पुनः प्रसज्येरन् । एवं च सति 194‘त्रयोदशामावास्यायाम’ इत्याहुतिसंख्या बाध्येत । अन्ये तु परिहरन्ति । साङ्गयोःपौर्णमास्यमावास्ययोः कालान्तरसंबन्धात्सर्वैरङ्गैर्द्विः प्रयुक्तैः समुदायद्वयस्योपकर्तव्यमित्यवधारणात्पुनः प्रयोगः सेत्स्यतीति । अथ वा, एवं वक्तव्यं साङ्गा पौर्णमास्यमावास्याऽसहिता स्वार्थं करोतीति करणविभक्तिश्रुतेरवगमात्पूर्वोक्तेनैव न्यायेन प्रधानापूर्वत्रयं स्वाङगापूर्वानुगृहीतमेकमपूर्वं कृत्वाऽपवृज्यते । तत्पुनरेवं निष्पन्नेनैवामावास्यापूर्वेण सहापरमपूर्वमारभेत । ततश्च निवृत्तेष्वङ्गापूर्वेष्वमावास्यायां क्रियमाणान्यङ्गानि न निराकरिष्यन्त इत्यदोषः । एतयैव च दिशोत्पत्तिविरोधः परिहर्तव्यः । आह च—

आवृत्तिभिर्यथाऽध्याये संस्कारो भवति क्रमात् ।
वाक्यावयवरूपेण तथाऽपूर्वं भविष्यति ॥

400 न चामूर्तस्यावश्यमवयवैर्न भवितव्यम् । अनयैव ह्यर्थापत्त्या शक्यते वक्तुं सूक्ष्मावयवरूपेण तत्प्रतीयत इति । यदाऽप्यत्यन्तासतामनुत्पत्तेः प्रागवधृतास्तित्वमभिव्यज्यते तदाऽपि प्रतिपुरुषं कर्मभिः स्वीकरणात्फलाभिमुखकरणं शब्दादिविलक्षणाऽस्याभिव्यक्तिर्भविष्यति । तथा हि—

नैकरूपैव भावानामभिव्यक्तिः प्रतीयते ।
आत्मस्थोन्मीलनं तेन व्यक्तिरस्य भविष्यति ॥
सर्वावाप्तिसमर्थो वा प्रकृत्यात्मा सदेष्यते ।
कश्चित्तु प्रतिबन्धोऽस्य कर्मभिः सोऽपनीयते ।

तस्मादस्त्यपूर्वम् । सूत्रस्यापि च न प्रकृतौपयिकमन्यमर्थं पश्यामः । तेनाऽऽरम्भचोदनैवापूर्वस्यापि चोदनेत्ययमेवार्थः । यदि पुनः फलवचनसामर्थ्यात्तदेव न विनष्टमिति, अपूर्वकल्पनानिष्प्रमाणकत्वं मन्वानो वरमेतदित्याह । न हि कर्मणां रूपमुपलभामह इत्ययुक्तं, 195‘रूपशब्दाविभागाच्च’ इत्यत्र प्रत्यक्षोपलब्ध्यभिधानात् । यागप्रस्तावे च सति तस्याचलनात्मकत्वात्, यदाश्रयं देशान्तरं प्रापयतीत्यसंबद्धम् । अत्रोच्यते—

कालान्तरक्षमं रूपं कर्मणो नोपलभ्यते ।
भङिगरूपोपलब्धिस्तु न फलायोपयुज्यते ॥

यद्यपि कर्मस्वरूपमुपलभ्यते तथाऽपि कालान्तरावस्थानाभावान्न तदुपयुज्यत इति नोपलभामह इत्युच्यते ।

यागेऽपि प्रस्तुते चात्र चलनं यदुदाहृतम् ।
तत्प्रक्षेपांशरूपेण यागेऽप्यस्तीति निश्चयात् ॥

न हि संकल्पमात्रेण फलनिष्पत्तिः । समस्तात्समस्तेतिकर्तव्यताकाच्च कर्मणः फलश्रवणात्तत्र दौव्यवदानप्रक्षेपादीनां ग्रहणासादनादीनां च संयोगविभागफलत्वात्स्थायित्वे तदाश्रयेणावश्यं भवितव्यम् । न चासावस्ति । न चाभिव्यक्तं रूपमुपलभ्यते । संकल्पादीनामपि संकल्पान्तरादितिरोधानान्नात्र स्वरूपावस्थानोपपत्तिः । अवस्थानं चाऽऽत्मसमवेतस्य वा स्यात्प्रदेयद्रव्यसमवेतस्य वा । न तावदात्मनि चलनं समवैति, सर्वव्यापिनः संयुज्यमानवियुज्यमानदेशासंभवे चलितुमसामर्थ्यात् । कथं सर्वव्यापित्वमस्येति चेत्सर्वत्रोपलभ्यमान401 कार्यत्वात् । अहंप्रत्ययेन हि चैतन्यस्वभावस्याऽऽत्मनोऽस्तित्वमात्रमवगम्यते न तु देशतः कालतो वा विशेष्यते । ततश्च—

अनवच्छिन्नसद्भावं वस्तु यद्देशकालतः ।
तन्नित्यं विभु चेच्छन्तीत्यात्मनो विभुतेष्यते ॥

सर्वत्र कार्योपलम्भ इति॔अहंप्रत्ययमेवाविशेषितं वदति । सुखदुःखाद्युपलब्धिर्वा । न हि क्व चिद्गतैस्ते नोपलभ्यन्ते । न चैते शरीरधर्मा इति स्थितमात्मवादे । तत्र यद्यसर्वगत आत्मा भवेत्ततो यदेव तद्वता देशेन शरीरं युज्यते तदैव सुखाद्युपलब्धिः स्यान्नान्यत्र । शरीरमात्रान्तर्गतात्मवादी त्वाह—ननु तदेव देशान्तरादागमनस्य लिङ्गम् । अतश्च विरुद्धहेतुत्वमस्येति । कुतः—

युगपद्यदि सर्वत्र कार्यमात्मगतं भवेत् ।
ततः सर्वगतत्वं स्यात्पर्याये तु शरीरवत् ॥

यदि हि शरीराद्बहिरपि किंचिदात्मकार्यमुपलभेमहि शरीरान्तरे सुखदुःखादीन्वा ततः सर्वगतत्वमध्यवस्येम । यतस्तु स्वशरीरान्तर्वर्त्येव कार्यं यत्र यत्र च तद्गतिस्तत्र तत्र पर्यायेणोपलभ्यते तच्छरीरकार्यवदेव तत्सहितगतस्योपपत्स्यते । अन्यथा हि शरीरमपि सर्वगतं स्यात् । तस्माच्छरीरवदेवास्य तत्र तत्र गमनापत्तेः सुतरां सक्रियत्वप्रसङ्गः । संदेहो वाऽस्तु साधारणानैकान्तिकत्वात् । आह च—

आत्मा शरीरसंमिश्रस्तेनैव सह संगमात् ।
तत्र तत्र सुखादीनि कार्याणि प्रतिपद्यते ॥

तत्रोत्तरं न ह्यसत्यागमने किंचिद्विरुद्धमिति । येषां तु न तु तदेवेति पाठः तेषां सिद्धान्तवाद्येव पर्यायेण सर्वत्राऽऽत्मकार्योपलम्भनमागमनलिङ्गत्वेऽप्यविशिष्टमाशङ्क्योत्तरं वदतीति ग्रन्थयोजना । कथं पुनरिदमुत्तरं न ह्यसत्यागमन इति । तथा हि—

नैवाविरोधमात्रेण स्वपक्षः सिध्यति क्वचित् ।
परस्याप्यविरोधित्वमविशिष्टं हि दृश्यते ॥

परेणापि हि शक्यं वदितुं न हि सति गमने किंचिद्विरुद्धमिति । अत्राभिधीयते ।

उभयत्राविरोधित्वं प्राप्तं न ह्यसतीति यत् ।
पुनर्ब्रवीति तन्नूनं विरोध्यागमनं मतम् ॥

परिसंख्यारूपेणासत्येवऽऽगमने न किंचिद्विरुद्धं सति तु बहु विरुद्धमित्याह । तदुपवर्ण्यते—

402
स्वतस्तावदमूर्त्तत्वान्न भूतैर्मिश्रताऽऽत्मनः ।
ततश्च तैरसंश्लिष्टो न नेतुं शक्यते क्वचित् ॥

यदा मूर्तानामपि सूक्ष्माणां चन्द्रादित्यप्रकाशादीनां न मृत्पिण्डादिभिः सह मिश्रत्वमुपपद्यते, तन्नयनेन वा नयनं तदाऽऽत्मनः स्वभावेनात्यन्तामूर्तस्य ज्ञानसंतानस्य वा भूतैर्मिश्रत्वं भवेदिति कुत एतत् । योऽपि स्याद्वादी बद्धात्मनां शरीरादत्यन्तव्यतिरेकालाभादस्त्येव मूर्तत्वं जीवस्येति ब्रूयात्तस्यापीतरेतराश्रयप्रसक्तिर्मिश्रत्वान्मूर्तत्वं मूर्तत्वाच्च मिश्रभाव इति । तस्मान्मुक्तावस्थानिदर्शनेन लक्षणतोऽस्यामूर्तत्वान्न शरीरसंपर्कनिमित्तमूर्तत्वसिद्धिः । ततश्च शरीरादन्यस्तेनासंपृक्तश्च । अस्पर्शत्वाच्चानाकृष्यमाणः शरीरे गच्छति तद्गताकाशप्रदेशवदात्मा पश्चान्निःसृतस्तत्रैव तिष्ठेत् । न हि तस्य वायुना पृथिव्यादिभिर्वा प्रेरणं येन स्वतन्त्रः परप्रेरितो वा गच्छेत् । ज्वालाप्रभृतीनां तु स्पर्शवत्त्वाद्वायुना प्रेर्यमाणानामुल्मुकादिना वा नीयमानानां युक्तं गमनम् । तेन केवलं शरीरं गच्छदचेतनं स्यात् । सर्वगतत्वे तु यत्र यत्र गम्यते तत्र तत्राऽऽत्मानुस्यूतिरस्तीति युक्ता चैतन्यानुवृत्तिः, यथा पूर्वाकाशप्रदेशत्यागे सर्वगतत्वादेव परेणावकाशदानसिद्धिः । किं च—

असर्वगतपक्षे स्याज्जीवो देहादनिर्गतः ।
अणुः शरीरमात्रो वा सर्वथाऽपि न युज्यते ॥

ज्ञानसंततिपक्षस्तावन्निराकृतः । तत्र नित्यः सन्नात्मा शरीराभ्यन्तरवर्त्ती ।

यद्यणुः कल्प्यते तत्र देहं न व्याप्नुयादसौ ।
ततश्च सर्वगात्रस्थसुखपुष्ट्याद्यसंभवः ॥

यदा ह्यणुमात्र आत्मा भवति तदा यावानेव प्रदेशविशेषस्तेनाधिष्ठितस्तन्मात्रगतानामेव सुखदुःखादीनामुपलब्धिः प्राप्नोति, ततश्चैकस्मिन्क्षणे शिरःपादवेदनानुभवो न स्यात् । अथ लघुसंचारित्वात्तत्र तत्रोपलभ्यत इत्युच्यते, न तत्र प्रमाणमस्ति । न च कालभेदो लक्ष्यते, अनवस्थितस्योपलब्धिकालासंभवान्नैकत्राप्युपलभ्येत । तस्मादकल्पनेयम् । शरीरावयवानां चापरिशोषणं पुष्ट्यादि चाऽऽत्माधिष्ठितानां भवति मृतावस्थायां विपर्ययदर्शनात् । तत्र य एवावयवस्तेनोत्सृष्टः स एव मृतवच्छुष्येत् । अथ शरीरपरिमित आर्हतपक्षेणाभ्युपगम्यते तत्रापि बह्वदृष्टं कल्पनीयम् ॥

सद्भावोऽवयवानां च तथा तेषामनन्तता ।
संश्लेषश्च विनाऽन्येन तद्भावेऽपि च नित्यता ॥
अतिसंकोचविस्तारौ पुत्तिकाहस्तिदेहयोः ।
अन्तराभवसंचारस्तद्भावाज्ञानकारणे ॥

403 सर्वे ह्यवयवसद्भावादयः प्रत्यक्षाद्यविषयाः सन्त उत्प्रेक्षामात्रेण कल्प्यन्ते । ते शब्दवच्चेहापि प्रत्याख्येयाः । शरीरमात्रावधिकानां चैषामुत्प्रेक्षितुमप्यानन्त्यादशक्यं, न चैषां द्रवत्वादिना विना कश्चित्संश्लेषहेतुर्विद्यते । न चासंश्लिष्टानामेकजीवारम्भसामर्थ्यम् । सर्वसंयोगानां च वियोगाविनाभूतत्वाद्घटादितुल्यः कदाचिज्जीवस्य प्रध्वंसो भवेत् । गात्रच्छेदे च तद्वर्तिनां जीवावयवानां ततो निःसृत्याऽवशिष्टे शरीरभागे पुनः प्रवेश इत्येतदप्रमाणकम् । यत्तु वियोजितमात्राणां हस्तादीनां स्फुरणं दृष्टं, तदभिधातप्रेरितवायुनिमित्तमिति न तावता जीवावयवानुगतिर्विज्ञायते । तथा सति संकोचविकासावेतेषां भवत इत्यत्र न किंचित्प्रमाणं पश्यामः । दीपप्रभाप्रभृतीनां तु कथंचित्प्रत्यक्षत्वादुपपद्येते । न च प्रदीपप्रभायाः संकोचो भवति शरावादिच्छादने शेषप्रभाविनाशादनावृता हि ज्वालाऽऽत्मसमीपे प्रभामण्डलमारब्धुं समर्था नाऽऽच्छादिता । एतेनैव च विकासोऽपि प्रत्युक्तः । अन्य एव ह्यवयवास्तत्र प्रचीयमाना विस्तारं जनयन्ति न तावतामेव विकासः । स्पर्शवतां च परस्परदेशप्रतिबन्धाद्देशान्तरव्याप्त्या विकासो घटते, जीवावयवानां त्वमूर्तत्वात्सर्वेषां समानदेशत्वाविघातान्नित्यमणुमात्रत्वप्रसङ्गः स्यात् । कथं चैकस्य जीवस्य पुत्तिकाहस्तिशरीरपरिमितौ संकोचविकासौ युज्येते । मरणकाले चान्तराभवशरीरसंचरणं तच्चास्ति, केन चित्प्रतिबन्धेन सदपि न गृह्यते, तेन च शरीरान्तरे जीवनिक्षेप इत्यादि निष्प्रमाणकम् । तस्मात्सर्वगतत्वम् । यत्तु श्यामाकतण्डुलमात्रादिप्रदर्शनमुपनिषत्सु तद्वाक्यान्तरप्रदर्शितविभुत्वस्यैव सतः सूक्ष्मग्रहणगोचरत्वात् । यदपि द्वैपायनेनोक्तम्196 । अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष बलाद्यम इति । तदपि काव्यशोभार्थं विस्पष्टमृत्युव्यवहारप्रशंसनार्थं च प्रतिव्रताप्रशंसापरे वाक्ये प्रजापतिवपोत्खेदनादिवद्द्रष्टव्यम् । तथा हि तेनैव गीतादिष्वनेकप्रकारं सर्तगतत्वं वर्णितम् । ननु च सर्वगतत्वे व्योमवत्सर्वशरीरेष्वेक एवाऽऽत्मा प्राप्नोति । नैष दोषः । शरीरभूयस्त्वात्प्रतिशरीरं च सुखदुःखोपलब्धिव्यवस्थादर्शनात् । इतरथा ह्येकशरीरेणैव चरितार्थत्वादनेकशरीरवैयर्थ्यं स्यात् । जन्मान्तरशरीरवददोष इति चेत् । न । तत्र कर्मान्तरवशेनोपभोगान्तरार्थं पुनः पुनरारम्भात्सर्वशरीरगतसुखाद्युपलब्धिश्च प्रतिशरीरं स्यात् । अन्यदीयैश्चेन्द्रियैः शरीरान्तरगतस्याऽऽत्मीयत्वादुपलब्धेरन्धबधिरादीनामभावः स्यात् । वर्णविशेषव्यवस्थया च कर्मचोदनाभेदो न स्यात् । एकस्यैवाऽऽत्मनस्तेन तेन शरीरेण संबध्यमानस्य सर्ववर्णोपपत्तेः । आत्मनानात्वे त्वदोषः । सर्वेषामपि च सर्वगतत्वे मूर्तिरहितत्वात्समानदेशवृत्त्यविरोधः । तदपेक्षयैव च चैतन्यात्मकत्वाद्यविभागाच्चोपनिष404 त्स्वैकात्म्यव्यवहारः । कथं पुनर्नानात्वेऽपि सर्वेषां सर्वशरीरैः संबन्धादन्यदीयसुखदुःखाद्यनुपलब्धिः । के चित्तावदाहुः—

यथा शरीरमात्रेऽपि मातृगर्भात्मवर्तिनाम् ।
सुखादीनां व्यवस्थैवं सर्वत्रैषा भविष्यति ॥

शरीरपरिमाणात्मवादिनोऽपि किलायं तुल्यो दोषस्तस्यापि गर्भात्मसमानदेशत्वान्मातृक्षेत्रज्ञस्तद्गतानि सुखादीन्युपलभेत । तत्र यस्तस्य परिहारः स सर्वात्मनां सर्वशरीरेषु भविष्यतीत्यविशेषः । यद्यत्रोपपत्तिरुच्येत न तु परपक्षसाम्यापत्तिरेवोपपत्तिस्तस्य च तव चोभयोरप्यन्येन पर्यनुयोगात् । अपि च तस्य त्वगिन्द्रियपरिमाणत्वादन्तःशरीराकाशे बाह्यवदेवाऽऽत्मनोऽनभ्युपगमान्नैव गर्भशरीरेण मातृक्षेत्रज्ञस्य प्राप्तिरस्ति येन तुल्यदोषता स्यात् । तस्मादेव परिहर्तव्यम् ॥

देशप्राप्त्या यदीष्येत सुखादेरुपभोग्यता ।
ततो दोषः प्रसज्येत योग्यभोगे त्वदुष्टता ॥

यदि ह्यात्मनः सुखादीनां च समानदेशलक्षण एव संबन्ध उपभोगकारणमिष्येत ततोऽयं दोषः स्यात् । इह तु चक्षुरादीनामिव क्षेत्रज्ञयोग्यतालक्षणः संबन्धः । तत्र यथैव त्वगिन्द्रियेण स्पर्शसमानदेशानामपि रूपादीनामग्रहणम्, एवमन्येनाऽऽत्मनाऽन्यदीयधर्माधर्मोपात्तसुखदुःखाद्यग्रहणम् । तस्मादात्मवादोक्तस्वस्वामिभावव्यवस्थानाददोषः । एवं सर्वगतत्वात्सिद्धमात्मनो निश्चलत्वम् । अथ द्व्यवदानसमवेतमासीत्तत आह—तद्विनष्टमिति । न च तस्याविनाशः । तद्विपरीतद्रव्यान्तरोपलम्भात् । न चास्य ग्रहणप्रतिबन्धहेतुः कश्चिदस्ति येन न गृह्येत । अथार्थापत्त्या ग्रहणप्रतिबन्धादि कल्प्येत तथाऽपि सत्यपूर्वाद्बहुतरमदृष्टं दृष्टविपरीतं च कल्पयितव्यं, तावदविनष्टमास्ते, तथा न दृश्यते, तथा प्रतिबन्धहेतुः, तस्याप्यदर्शननिमित्तं चेत्येवं तस्य तस्यान्यदित्यनवस्था, तथा क्षणिकस्य कर्मणः स्थानमनुपलब्धिकारणं च कल्प्यमित्यतिगौरवम् ।

405 एवमनाश्रितकर्मावस्थानकल्पनायाम् । अथाऽऽत्माश्रितमेव संयोगविभागावकुर्वदासीत् । तत्रापि दृष्टविपर्ययादृष्टकल्पने स्याताम् । तस्माद्वरमपूर्वकल्पनमेवेति सिद्धं मूलाधिकरणप्रयोजनम् । द्रव्यादीनां फलसंबन्धे तेषामदृष्टार्थत्वात्कर्मणामिव प्रतिनिध्यभावः । कर्मफलसंबन्धे तु द्रव्यादेः कर्मोत्पत्त्या दृष्टार्थत्वात्समानकार्यत्वज्ञानादस्ति प्रतिनिधिः । कथं तर्हि पूर्वपक्षवादिनः प्रक्रान्तापरिसमाप्तिदोषाभावः । समापनीयमेव कर्म येन केन चिद्द्रव्येण । सदृशोपादाने तु न यतितव्यं सदृशादपि फलाप्राप्तेः, कर्मणश्चाविहितसाधनविशेषस्यानपेक्षितसदृशत्वाद्येन केन चित्सिद्धेः । न च तत्पूर्वद्रव्यस्य प्रतिनिधिरित्युच्यते । अन्यार्थत्वादसादृश्याच्च । पूर्वद्रव्यं हि फलाय प्रवृत्तमासीदिदानीमानीयमानं तु प्रत्यवायपरिहाराय नैमित्तिकफलाय वा प्रवृत्तस्य कर्मणः सिद्ध्यर्थमिति । नामधेयसिद्धिरपि प्रयोजनमेव । सा तु पूर्वोक्तत्वान्न प्रदर्शिता ॥ ५ ॥

इति अपूर्वाधिकरणम् ॥ २ ॥

तानिद्वैधाधिकरणम्

406
नामाख्यातार्थसंबन्धे यदकॢप्तप्रयोजनम् ।
तस्यादृष्टार्थता युक्ता नेतरस्याप्रमाणिका ॥

सर्वत्रैव द्रव्यकर्मसंबन्धे कर्मणां द्रव्येण विनाऽनुत्पत्तेः प्रथमं तावद्द्रव्यं कर्मोत्पादयत, दृष्टोपकारित्वात्तदर्थमाभासते । तत्र क्वचिद्भूयः कर्म परावृत्त्य द्रव्यस्योपकरोति क्व चिदात्मलाभमात्रमनुभवति । तद्यदाऽऽत्मलाभमात्रं तस्य दृश्यते तदा साकाङ्क्षत्वाददृष्टं कल्पयितुं शक्यते । यदा तु कार्यान्तरौपयिकेन दृष्टेनैव तण्डुलनिर्वृत्त्यादिना द्रव्योपकारेण निराकाड्क्षी भवति तदानीमदृष्टकल्पनावसराभावादन्यथैव विधानार्थवत्त्वोपपत्तेर्नादृष्टसाधनत्वं प्रतीयते ॥ ६ ॥

यैः कर्मभिर्द्रव्यं स्वरूपतो धर्मतो वा न कर्तुमिष्यते यथा प्रयाजादिभिस्तानि स्वसाधनानि प्रति प्रधानभूतत्वाददृष्टार्थानि भवन्ति ॥ ७ ॥

यैः पुनर्द्रव्यमुत्पाद्यते यथाऽऽधानेनाग्नयोऽवाप्यन्ते क्रियन्ते वा यथा वरणेनर्त्विजः संस्क्रियन्ते, यथाऽवहन्तिना व्रीहयः, पेषणेन तण्डुलास्तानि गुणभूतानि प्रयोजनवद्द्रव्यसंस्कृतेरीप्सितत्वात् । यदा दृष्टार्थमदृष्टार्थं चोभयथाऽपि तुल्यवदनुष्ठीयेत तदा किं प्रयोजनं चिन्तायाः ।

407 तदुच्यते । प्रैयङ्गवेऽपि चरावतिदेशप्राप्तो व्रीहिसाधनक एवावहन्तिः कर्तव्यः पूर्वपक्षे । कुतः—

प्रधाने हि श्रुतं द्रव्यं नाङ्गद्रव्यस्य बाधकम् ।
प्रयाजेज्याज्यवत्तेन हन्तौ स्याद्व्रीह्यबाधनम् ॥

सिद्धान्ते तु बाध्यन्ते । कुतः—

प्रधानौपयिकं द्रव्यं संस्कारैरपि युज्यते ।
तेन हन्त्यादिभिः सर्वैः संस्कर्तव्याः प्रियङ्गवः ॥

ननु च पूर्वपक्षेऽपि प्रधानप्रयुक्तव्रीह्याश्रयत्वेन प्रकृतावप्रयोजकत्वात्प्रैयङ्गवे चरौ प्रधानेनागृह्यमाणान्व्रीहीनवघातो न लभते । नैतदेवम्—

तुल्यो हि व्रीहिसंबन्धः शास्त्राद्यागावघातयोः ।
वाजिनेज्यादि तुल्यं च नाप्रयोजकलक्षणम् ॥

‘व्रीहिभिर्यजेत’ ‘व्रीहीनवहन्ति’ इति तुल्ये चोदने, तत्रेयं प्रयोजिकेयं नेति नास्ति विशेषहेतुः । न च वाजिनादिवदवहन्तेरनुनिष्पादित्वम् । न च 197 पदकर्मवत्परप्रयुक्तप्रकृतैकहायन्यधीननिराकाङ्क्षत्वम् । न चैकदेशद्रव्यत्वमुत्तरार्धादिवत् । नापि ‘पुरोडाशकपालेन’ इतिवदर्थाभिधानकर्मत्वम् । तस्मादवहन्तिरपि प्रयोजकः । न चास्मिन्पक्षे नियोगतो यागार्था एव व्रीहयोऽहवन्तव्याः । लौकिकैरपि कर्मसिध्यविशेषात् । न चात्र प्रकृतग्रहणे प्रमाणं, प्रकरणस्याविशेषकत्वात् ।

न चाधिकाराद्विशेषः 198‘तुल्येषु नाधिकारः स्यात्’ इति न्यायात् । संस्कारपक्षे तु लौकिकानामानर्थक्ये नासंस्कार्यत्वादपूर्वसाधनविशेषणत्वेन कथंचित्प्रकृतग्रहणं क्लेशेन भविष्यति । न चाऽऽरादुपकारकत्वेऽवहन्तेर्यागस्येव लौकिकैःसाध्यमानस्य किं चिदानर्थक्यमिति श्रौतत्वाद्व्रीहिमात्रग्रहणमेव युक्तम् । धर्ममात्रं च तदाऽवहन्तिः सर्वौषधावहन्तिवत्सकृदेव च कर्तव्यो नाऽऽतण्डुलनिर्वृत्तेः । प्रधानव्रीहीणां च दलनादिभिरपि तण्डुलीभावः स्यात् । सान्नाय्योपांशुयाजाङ्गत्वमपि चास्य प्रकरणाविशेषात्तथा भवतीति तद्विकारेष्वपि प्रयोक्तव्य इत्यादीनि प्रयोजनानि ॥ ८ ॥

इति तानिद्वैधाधिकरणम् ॥ ३ ॥

संमार्गाधिकरणम्

408 स्रुक्परिध्यग्निपुरोडाशसंमार्गाणामुत्तरोत्तरप्रधानप्रत्यासत्तिभेदेनोदाहरणपृथक्त्वम् । एतदुक्तं भवति—

दूरेणापि प्रधानानां यद्द्रव्यमुपकारकम् ।
तेनापि कर्मसंबन्धान्न प्राधान्यं प्रपद्यते ॥

तत्र पूर्वपक्षवादी पूर्वोक्तेनैव ‘यैर्द्रव्यं न चिकीर्ष्यते’ इत्यनेन प्रधानकर्मलक्षणेनाऽऽह— द्रव्येण निष्पादितं कर्म न किंचित्तस्य प्रत्युपकुर्वद्दृश्यते । तस्मात्प्रधानकर्म संमार्गप्रोक्षणादीति ॥ ९ ॥

नैव ह्येतद्गुणकर्मलक्षणं यद् द्रव्यचिकीर्षा नाम, उपकारलक्षणशेषत्वप्रतिषेधात् । तादर्थ्यलक्षणं हि श्रुत्यादिप्रमाणकं तत्, न प्रत्यक्षाद्युपकारनिमित्तमिति वक्ष्यामः199 । किमर्थं तर्हि द्रव्यचिकीर्षोपन्यस्ता । तदुच्यते—

अन्यतः सिद्धशेषाणां येषां दृष्टोपकारिता ।
तेषां नापूर्वमस्तीति हन्त्यादीनामुदाहृतिः ॥

यत्र द्रव्यचिकीर्षया गुणभावस्तत्र नापूर्वभेदः प्रतिपत्तव्य इति यावत् । पूर्वपक्षवादी त्वेतदेव गुणकर्मलक्षणं मत्वा संमार्गादिषु तदपश्यन्प्रत्यवस्थितवान् । सिद्धान्ताभिप्रायस्तु 409 सर्वत्र श्रुत्यादिभिरवधृते तादर्थ्ये पश्चादुपकारदर्शनं तदभावेऽदृष्टकल्पनं वा । तत्रेप्सिततमत्ववाचिन्या द्वितीयया द्रव्यप्राधान्यद्वारेण क्रियाशेषत्वे प्रतिपादिते हन्त्यादीनां दृष्टार्थत्वान्नैराकाङ्क्ष्यं जातं न तु संमार्गादीनामित्यदृष्टार्थता, न च तावता पूर्वावगतशेषत्वहानिः ॥ ११ ॥

परस्त्वाह—

अन्वयव्यतिरेकाभ्यामुपकारानुसारिता ।
शेषत्वस्य द्वितीया तु प्राधान्यव्यभिचारिणी ॥

तन्नाम प्रमाणं युक्तं यदैकान्तिकम् । अनैकान्तिकी च प्राधान्ये द्वितीया, गुणभूतद्रव्योपदेशेऽपि दृष्टत्वात् ‘सक्तून् जुहोति’ इति । तथा ‘प्रयाजशेषेण हवींष्यभिधारयति’ इत्यन्तरेणापि द्वितीयामाज्यप्राधान्यं दृष्टम् । अतो ‘व्रीहीनवहन्ति’ इत्यत्रोभयसंभवेऽप्युपकारदर्शनकृतमेव द्रव्यप्राधान्यं न द्वितीयाकृतम् । न च तत्संमार्गप्रोक्षणादिष्वस्तीतीहापि द्वितीयया द्रव्यमेवोपदिश्यतामिति ॥ ११ ॥

तिष्ठतु तावत्प्रयोगः । किं कारणम् ॥

आचारत्वात्प्रयोगो हि स्मृत्या सर्वत्र बाध्यते ।
विवक्षानेऽकधा चात्र स्मरणे त्वेकरूपता ॥

यदि ह्याचारस्यैकरूप्यं भवेन्नैव स्मृतयः प्रयत्नेन धार्येरन् । स एव तु संकीर्णत्वादस्फुटः स्मरणेन प्रतिपाल्यते । स्मर्यते च द्वितीयायाः प्राधान्यमर्थः । ‘कर्मणि द्वितीया’ ‘कर्तुरीप्सिततमं कर्मेति । तथा लोकवेदयोः प्रयुज्यते घटं करोति ‘व्रीहीनवहन्ति’ इति । 410 यानि च लोके व्यभिचाराशङ्कास्थानानि तान्युदाहरति तण्डुलानोदनं पच वल्वजान शिखण्डकान् कुरु तण्डुलानद्य जुहुधीति । तण्डुलैर्बल्बजैरिति च प्रयोक्तव्ये या द्वितीया प्रयुज्यते तन्नूनं तृतीसमानार्था सेति गम्यते । तत्रोच्यते—

सर्वे पाकादिसंबन्धे द्व्याकारास्तण्डुलादयः ।
प्राधान्यांशमुपादाय द्वितीया तत्र वर्त्स्यति ॥

यदा पदार्थान्तरभूतौदनशिखण्डकसाधनत्वेन तण्डुलबल्वजा विवक्ष्यन्ते तदा तृतीयान्तपदभाजो भवन्ति । यदा तु भोजनयोग्यौदनावस्थापरिणतिरूपेण तण्डुला, मार्दवोत्पत्त्यर्थं च शिखण्डकाकारेण बल्वजा दृश्यन्ते ।

तथा वेदवाक्यावगतगुणभावाश्च ते द्रव्यसाधनकेऽग्निहोत्रे सुखण्डितास्तिष्ठन्तो रमणीयत्वात्कस्याश्चिद्ब्राह्मण्याः स्वकर्मशोभादर्शनार्थं तण्डुला होमसंबन्धित्वेनाभिप्रेताः । सैवं प्रेष्यति गुणकामा वा यजमान तण्डुलानद्य जुहुधीति, तदा द्वितीयार्थभाक्त्वं भवति । भवति हि लोके बहु प्रकारा विवक्षेति । गुणभूतेऽप्यर्थे केन चित्कारणेन कश्चित्प्राधान्यांशो विवक्ष्यते तथा प्रधानभूतेषु गुणांशः । कदा चिदुभौ कदा चिन्नोभौ ।

न च यद्विवक्ष्यते तच्छब्देनाभिधातव्यमित्यस्ति प्रमाणं, विवक्षासंपत्त्यर्थं तु लक्षणाद्युपायान्तराश्रयणं न स्वार्थत्यागः । तस्मात्प्राधान्यमेव द्वितीयार्थः । कथं तु सक्त्वादिषु गुणत्वमिति । तदुच्यते—

प्राधान्यमेव तत्रापि द्वितीया वदति स्वतः ।
विरोधात्तेन संबन्धो गुणभावस्तु लक्ष्यते ॥

द्वितीया तावत्कर्मत्वं प्रधानरूपमात्मशक्त्या वदति, तत्त्विह बलवता कारणान्तरेण विरुध्यमानत्वान्नाऽऽश्रीयते । तेन तु कारकविशेषात्मकत्वाद्यत्कारकसामान्यमविनाभूतं लक्ष्यते तदविरुद्धत्वाद्विवक्ष्यते । तत्रैतावानर्थो विज्ञायते होमस्य कारकं सक्तव इति । न च सामान्यं निर्विशेषं व्यवहारक्षममिति विशेषापेक्षायां करणत्वं भविष्यति । 411 ‘द्रव्याणां कर्मसंयोगे’ इति भूतभव्यसमुच्चारणन्यायात् । कथं पुनः सक्तुप्राधान्यविवक्षा विरुध्यते । तत्राऽऽह—

भूतभाव्युपयोगं हि संस्कार्यं द्रव्यमिष्यते ।
सक्तवो नोपयोक्ष्यन्ते नोपयुक्ताश्च ते क्वचित् ॥

यस्य हि द्रव्यस्य क्व चिदुपयोगो निर्वृत्तो भविष्यतीति वाऽवधार्यते तत्संस्कारार्हत्वात्कर्म प्रति प्रधान्यं प्रतिपद्यते । यत्पुनर्नोपयुक्तं नोपयोक्ष्यते वा तस्य संस्कारो निष्प्रयोजन इति तद्विधानवाक्यानर्थक्यप्रसङ्गः । तेचामी सक्तवो न होमात्प्रागुपयुज्यन्ते नोर्ध्वं, भस्मसाद्भावाद्भस्मविनियोगवचनाभावाच्च । तत्र समस्तं वाक्यमनर्थकं भवतु द्वितीया वा लक्षणावृत्तेति, स्थितत्वाद्वेदप्रामाण्यस्य लक्षणा ग्रहीतव्या । मुख्यार्थप्रयोगो ह्यौत्सर्गिकत्वादपवाददर्शनेन भ्रान्तित्वं प्रतिपद्यते । सर्वत्रैव लक्षणाश्रयणमानर्थक्यप्रसङ्गनिमित्तम् । अन्यथा मुख्यार्थोपपत्तेः ।

तेन विरोधात्सक्तुसाधनकहोमविधानं प्रकरणसंबन्धि गृह्यते । ननु सक्तूनामपीतिहोमवन्तः सक्तवोऽपि ज्योतिष्टोमस्योपकृत्याऽर्थवन्तो भविष्यन्तीत्याह । सिद्धान्तवादी तु च्छलेन होमसाधनीभूतानामेवार्थवत्त्वमभ्युपगच्छति को वा ब्रूते नेति । सर्वत्रैव च ॥

द्रव्याणां वाक्यसंयुक्तक्रियानिर्वर्तनाद्विना ।
न प्रयोजनमस्त्यन्यत्कथंभावाद्यसंगतेः ॥

यथा होमः क्रियात्मकत्वात्किमित्यपेक्षमाणः प्रधानकथंभावेनेत्थमनुग्राहकत्वेन गृह्यते नैवं द्रव्यम् । न च तस्माददृष्टकल्पना, क्रियानिर्वर्त्यत्वादपूर्वाणाम् ।

412 यत्रापि तावद्द्रव्यं साक्षात्फलाय चोद्यते यथा ‘गोदोहनेन पशुकामस्य’ इति तत्राप्यन्यप्रयोजनक्रियाद्वारमन्तरेण नापूर्वं भविष्यति । किमुत यदा न कस्य चिदङ्गत्वेन सक्तवः श्रूयन्ते । न च किं चित्कल्पनाप्रमाणमस्ति । द्वितीयेति चेत् । न हीत्युत्तरम् । द्वितीया हि सक्तूनां प्राधान्यं वदन्ती होमं तदर्थं कुर्यान्न सक्तुभ्योऽपूर्वमिति प्रतिपत्तिम् । तेन द्वितीयाप्रसादाद्भवेद्धोमः सक्त्वर्थः । कथं नाम होमव्याप्ताः सक्तवः स्युरिति । नान्यस्मै प्नयोजनायाश्रवणात् । ते चामी भवन्ति होमे कृते सक्तवो होमसंबद्धा इति प्रागेव प्रयोजनलाभात्पर्यवसिता द्वितीया निष्प्रयोजनेष्ववि, होमं प्रचि प्राधान्यमात्रेण कर्मत्वसिद्धेः । तत्र सिद्धे वाक्यार्थे पश्चान्न पुरुषस्य क्रतोर्वोपयुज्यन्त इति ज्ञात्वा तद्वचनाद्वाऽदृष्टं कल्प्येत प्राधान्यज्ञानं वा भ्रान्तिरिति । तत्राऽऽह—तद्वचनाच्छक्यमन्यत्कल्पयितुमिति ।

प्राधान्याविवक्षैव न्याय्या । ततश्च तृतीयार्थसिद्धिरिति मत्वा महाभाष्यकारेणोक्तं तृतीयायाः स्थाने द्वितीयेति । तेन वैषम्यं होमसंमार्गयोः, सक्तूनां निष्प्रयोजनत्वेन तदर्थत्वात्, पुरोडाशादेश्चान्यशेषभावेन पर्याग्निकरणादिसंस्कारार्हत्वात् । दृढे च शास्त्रार्थेऽवस्थिते दृष्टोपकाराभावेऽप्यदृष्टकल्पना भविष्यति । लोकेऽप्यदृष्टार्थाः संस्कारा आचाराद्गम्यन्ते यथा ग्रामान्तरादागतानां शान्त्यर्थमग्निलवणदध्यक्षतप्रभृतेः शिरस उपरि भ्रामणं शुचिदेशप्रतिष्ठापनं च ।

413 न चास्यानुपपत्तिराचारप्रामाण्यात् । तेनादृष्टार्थानामपि तुल्यश्रुतित्वात्सिद्धो गुणभावः । नन्वेवं सति सर्वत्र प्रयोजनवत्ताकृतमेव द्रव्यप्राधान्यमिति न वक्तव्यं ‘तुल्यश्रुतित्वात्’ इति, दर्शयितव्यं वा यत्र प्रयोजनवत्तानिरपेक्षं द्वितीयाकृतमेव प्राधान्यं केवलतृतीयाकृतो वा गुणभाव इति । तदुच्यते । प्राधान्ये तावत् ‘ऐन्र्द्या गार्हपत्यमुपतिष्ठत’ इत्यत्र लिङ्गादिन्द्रार्थत्वावगतेर्गार्हपत्यैकवाक्यत्वाच्च तत्साधनकेन्द्रोपस्थानप्रसङ्गे केवलद्वितीयाकृतमेव गार्हपत्यप्राधान्यम् ।

तथा ‘सूक्तवाकेन प्रस्तरम्’ इत्युभयोः प्रयोजनवत्त्वाविशेषे केवलतृतीयाकृतमेवसूक्तवाकस्य प्रस्तरप्रहरणाङ्गत्वम् । तेन विभाक्तिभिरेवाङ्गाङ्गिभावेऽभिधीयमाने निष्प्रयोजनत्वमपवादो न तु प्रयोजनसदसद्भावेनाङ्गाङ्गित्वामिति विवेकः । प्रयोजनं त्वधिकरणस्य न सम्यगनुमन्यन्ते । तथा हि—

स्रुङ्मात्राद्यनुवादेन शमीमय्यादिचोदितम् ।
ज्ञायतेऽङ्गप्रधानार्थं पूर्वसिद्धान्तपक्षयोः ॥

प्रियङ्गवो ह्युत्पत्तिवाक्यात्केवलप्रधानार्थत्वेन ज्ञायमान युक्तं यदङ्गेषु न भवन्तीति । शमीमयत्वादि तु स्रुगादिमात्रानुवादेन विधीयमानं 200‘सर्वेषां वा शेषत्वस्यातत्प्रयुक्तत्वात्’ इत्यनेन वाक्यसंयोगबलीयस्त्वात्प्रकरणगम्यप्रधानार्थत्वबाधेनाङ्गप्रधानार्थं विज्ञायते ।

न चात्र विशेषणं किं चिदुपात्तं येन प्रधानगतस्रुगादिमात्रप्रतीतिः स्यात्, सदपि वोद्दिश्यमानविशेषणत्वान्न विवक्ष्येत ।

तस्मात्पूर्वपक्षेऽपि यानि च प्रधानसंबन्धीनि स्रुगादीनि यानि चाऽऽरादुपकारकसंमार्गादिसंबन्धीनि तानि सर्वाणि शमीमयीत्वादियुक्तानीत्ययुक्तो नानावृक्षस्रुक्संमार्गः । स्यादेतत् । 201‘मुख्यार्थो वाऽङ्गस्याचोदितत्वात्’ इति वैकृतविशेषाणां केवलप्रधानार्थत्वान्नेहाङ्गप्रधानार्थता भविष्यतीति । तदयुक्तम् ।

414
वाक्योपात्तप्रधानार्थसंबन्धो यत्र गम्यते ।
तत्रैतद्वक्ष्यते नात्र तादृशश्च प्रतीयते ॥

‘यज्ञाथर्वणं वै काभ्या इष्टयस्ता उपांशु कर्तव्या’ इति हि प्रधानैरेव काम्यशब्दोपात्तैरुपांशुत्वं संबध्यमानमङ्गस्याचोदितमिति202 वक्ष्यते, न चात्र तादृशः प्रधानसंयोग इति वैषम्यम् । ननु चाऽऽतिदेशिकत्वादप्राप्तावस्थेष्वङ्गेषु शमीमयीत्वाद्युपदिश्यमानं प्रधानमात्रार्थं भवेत् । नार्हत्येवं भवितुम् । एवं हि स्थास्यति ।

वलृप्तोपकारसाकाङ्क्षाः प्रथमं प्राकृतैः सह ।
संबध्यन्ते समीपस्थं विकाराः प्रोझ्झ्य चोदितम् ॥

अवश्यं चानेकार्थविध्यनुपपत्तेः स्रुगादीन्यनुवदितव्यानि । तेन प्रत्यक्षोऽपि सन्नुपदेशोऽतिदेशं तावत्प्रतीक्षते । तत्र यावता कालेन प्रधानस्रुगादीनि प्राप्नुवन्ति तावतैवाङ्गस्रुगादीन्यपीत्यविशेषः । किं च ॥

यदि प्रधानमात्रेण शमीभय्यादिसंगतिः ।
प्राकृत्यस्तु प्रसज्यन्ते प्रयाजादिस्रुचस्ततः ॥

य एव हि संमार्गस्रुचां वर्जनोपायस्तेनैव प्रयाजादिस्रुग्वर्जनमपि प्राप्नोति, न चैतदिष्टं युक्त्यभावात् । यद्यपि च किं चित्प्रधानमात्रसंबन्धकारणं भवेत्तथाऽपि सौमिकवेदिदक्षिणान्यायेन प्रसङ्गसिद्धेर्न प्राकृतजात्युपसंग्रहो युज्यते । किं च—

परिध्यादेश्च कार्येण स्वरूपमुपलक्षितम् ।
अतत्कार्यस्य संमार्गः परिधेर्न कृतो भवेत् ॥

परिधिरित्यग्निपरिधानार्थं द्रव्यमुच्यते । तथा होमाद्यर्था जुह्वादयस्तत्र संमार्गस्य 203‘अर्थाभिधानकर्म च’ इत्यप्रयोजकत्वमपि शक्यं वक्तुम् । ततश्च बाणवत्परिधिश्रवणे यदि तावदपरिहितानेव पलाशादीन्संमार्ष्टि, अपरिधय एव संमृष्टा भवेयुः । अथ तानपि परिदधीत , ततः कृते परिधाने प्राकृतार्थता न स्यात् । न च तुल्यार्थानां समुच्चयो दृष्टः । तस्मान्न परिध्यन्तरमुत्पादनीयम् । अवभृथस्य त्वपूर्वत्वाद्यावदुक्तमात्रपर्यवसायिनः साङ्गस्य चाप्सु चोदितस्य केन संमार्गोऽग्निर्वा प्राप्नोति येनोत्पाद्येत । तस्मादप्रयोजनान्येतानि ।

तस्योदाहरणं त्वेकं सत्यम् । तत्र हि 204‘मांसं तु सवनीयानाम्’ इति सिद्धान्तात्पुरोडाशमात्रेणासंबध्यमानं तरसमयत्वमसवनीयत्वान्न पर्यग्निकरणपुरोडाशेन संबध्यते । न हि सवनीयाङ्गे सवनीयशब्दप्रयोगः । सवनसंबन्धिविषयत्वात् । सवनीयाङ्गस्य चासवनार्थत्वार्थत्वात्तत्रापि तु व्रीहिमयत्वं दुर्लभम् । ‘व्रीहिभिर्यजेत’ इति प्रधानपुरो415 डाशमात्रेण तेषां संबन्धात् । एवं तर्ह्यनियतद्रव्यकता पर्यग्निकरणपुरोडाशस्येति प्रयोजनम् । तदप्ययुक्तम् । तथा सति कांस्य205भोजिन्यायेन तरसमयपर्यग्निकरणनैव शास्त्रार्थोपपत्तेः सिद्धान्तार्थासदृशकर्मप्रसङ्ग । तस्मात्कथं चित्प्रकृतौ व्रीहिमयपुरोडाशग्रहणात्तत्साधनत्वं शास्त्रकृतत्वात्प्राप्नोतीति वक्तव्यम् ।

तत्रापि त्वेकहायनीन्यायेनाप्रयोजकत्वात् तदभावे लोपप्रसङ्गः । तेनैतदेवं प्रयोजनमित्याश्रयणीयम् । अनियतद्रव्यकत्वं वा । न चात्र कांस्यभोजिन्यायः संभवति । मांसेन पुरोडाशत्वानभिव्यक्तेः । सवनीयपुरोडाशे कथमिति चेत् । नैवं तत्र पुरोडाशत्वमिष्टं, वचनादपुरोडाशात्मकमेव मांसं पुरोडाशस्य स्थाने विधयिते यथा धानादीनाम् । न हि कथं चिदपि मांसेन धानादयो भवन्ति । अतश्च प्रैयङ्गवन्यायेन प्रधानमात्रे मांसेन पुरोडाशो विवर्तितः । पर्यग्निकरणं तु पुरोडाशसाधनकमेव । सत्त्वनियतद्रव्यको वा कथं चिद्वा प्रकृतिदर्शनेन व्रीहियवद्रव्यक इति स्थितम् । एतानि च प्रयोजनानि स्रुक्संमार्गस्य प्रकृतौ बहुसाधनत्वात्कपिञ्जलन्यायेन त्रित्वस्य शास्त्रीयत्वात्पात्राविवृद्धावपि पशुचातुर्मास्येषु तिस्र एव संमार्ष्टव्याः पूर्वपक्षे । सिद्धान्ते तु सर्वाः, संस्कारस्य प्रतिप्रधानावर्तित्वात् ।

तथा 206पशुन्यायेन विवक्षितैकसंख्यत्वादेक एव संमार्ष्टव्यः परिधिः पूर्वपक्षे । सिद्धान्ते तु सर्वे । यत्र च परिधिविवृद्धिस्तत्र विशेषः । एवमेकपुरोडाशे पर्याग्निकरणं सर्वपुरोडाशे च वक्तव्यम् । तथाऽपि ‘विशये लौकिकः स्यात्’207 इत्येवम् ‘अग्निमुपनिधाय416 स्तुवते’ इतिवल्लौकिकाग्निसंमार्गकरणं पूर्वपक्षे । सिद्धान्ते तु तस्याप्रयोजनत्वेनासंस्कार्यत्वात्सर्वेषामाहवनीयादीनामिति विशेषः ॥ १२ ॥

इति संमार्गाधिकरणम् ॥ ४ ॥

स्तुतशस्त्राधिकरणम्

‘यैस्तु द्रव्यं चिकीर्ष्यते’ इत्यस्यापवादत्वेन स्तोत्रशस्त्रोपन्यासः । स्तुतिरेव स्तोत्रं, शस्त्रमपि सैवाप्रगीतमन्त्रसाध्या, गुणगुणिसंबंधकीर्तनं च स्तुतिः शिष्यते । सा च प्रथमं गुणगुणिभ्यां निर्वर्त्यते । तदभावे शब्दोच्चारणमात्रस्य स्तुतित्वाव्यपदेशात् । तत्र गुणानां तावदकर्माङ्गतया निष्प्रयोजनत्वादेकान्तेन स्तुत्यर्थता । तन्निर्वर्तिता तु स्तुतिः किं स्तुत्यस्य स्मारकत्वेन शेषीभवत्युत स्वप्राधान्येनादृष्टार्था भवतीति । किं प्राप्तम् ॥

दृष्टेन क्रतुसिद्ध्यर्थां साधयन्ति यतः स्मृतिम् ।
स्तोत्रशस्त्राणि तेन स्युः संस्कारा देवताः प्रति s॥ १३ ॥

प्रमाणान्तरविरोधेन दूषणं तावदुच्यते । तथा हि—

यद्यत्राविद्यमानार्थो मन्त्रः स्तोतुं प्रयुज्यते ।
तस्यार्थेनापकृष्टत्वात्प्राप्तबाधः प्रसज्यते ॥

या यद्देवतानामसंयुक्ता स्तुतिचोदना भावनेति यावत्, चोद्यमानत्वात्, सा तदर्थपरत्वात्तस्मिन्नसति न स्वार्थं करोतीति तद्वशेनेन्द्रीस्तुतिर्माहेन्द्रग्रहयजिसंनिधिमुल्लङ्घ्य यत्रेन्द्रस्तत्र गच्छेत् । ततश्च क्रमसंनिधिबाधः । क्रमश्चात्र यथासंख्येनोत्तरासु पाठः । 417 संनिधिस्तु रथंतरचोदनयोपस्थानं प्रकरणपरामर्शो वा ॥ १४ ॥

नायं दोषः । किं कारणम्—

तत्र मन्त्रोऽपकृष्येत यत्र सोऽर्थान्तरं व्रजेत् ।
अभिवत्योऽर्थवत्यस्तु साम्यादिन्द्रमहेन्द्रयोः ॥

य एव हि अभिवतीभिरिन्द्रः स्तूयते स एव माहेन्द्रग्रहेणेज्यते तत्र सत्येवार्थे किमित्यपकर्षः स्यात् । न च यावत्कर्माङ्गभूतेऽर्थे विद्यते तत्सर्वं मन्त्रेणाभिधातव्यं, न्यूनमधिकं वाऽसौ यदभिधातुं समर्थस्तदभिधत्ते । तेन निर्गुणेन्द्रप्रकाशनं गुणस्यातन्त्रत्वात्प्रकरणलभ्यत्वाद्वा निर्गुणद्रव्यप्रकाशनवदेव । न च शब्दमात्रं देवतेति नवमदशमयोरभिधास्यते । ततश्च य एव महेन्द्रशब्देनार्थश्चोदितः स एवेन्द्रशब्देनोच्यत इत्यर्थान्तरत्वकल्पनाप्रमाणाभावात् । तस्मादुत्कर्षोपलम्भावात्संस्कारकर्मत्वमेव युक्तमिति ॥ १५ ॥

नैतदस्ति । निर्गुणेन्द्राभिधानादनुत्कर्ष इति । प्रसज्यत एवोत्कर्षः । कुतः—

418
यद्यभेदः प्रमाणेन भवेदिन्द्रमहेन्द्रयोः ।
ततोऽयं नांपनीयेत भेदस्त्वत्र प्रतीयते ॥

यद्यवयवव्युत्पत्त्या महांश्चासाविन्द्रश्चेत्येवं महेन्द्रशब्दमन्वाचक्षाणैस्तद्वितानुगमः क्रियेत,तत इन्द्र एव गुणमात्रविशिष्टोऽस्य ग्रहस्य देवतेति गम्येत । न त्वेवमस्ति । समुदायप्रसिद्धिबलीयस्त्वेनेन्द्रव्यतिरिक्तरूढिशब्दाभिधेयमहेन्द्रप्रतीतेः । तथा हि—

व्युत्पाद्यते महेन्द्रश्चेद्वाक्यभेदादि दुष्यति ।
अव्युत्पत्तौ महेन्द्रार्थः स्फुटं वस्त्वन्तरं भवेत् ॥

न चास्य महत्त्वमपेक्षमाणस्येति अवयवव्युत्पत्तिं निराकरोति । कथम्—

वृत्तिद्वयेऽपि सामर्थ्यं स्मर्यते हि विशेषणम् ।
व्युत्पत्त्याश्रयणे चैतदुभयत्रापि दुर्लभम् ॥

208‘समर्थः पदविधिः’ । 209‘समर्थानां प्रथमाद्वा’ इति च समासतद्धितवृत्त्योर्विशेषणम् । अतस्तदभावे नैकयाऽपि भवितव्यम् । यदि युगपत्समासताद्धितावन्वाख्यायेते ततो नैकत्रापि सामर्थ्यं लभ्यते । कुतः—

तद्धितेन ह्यसंबन्धो महत्त्वेऽपेक्षिते भवेत् ।
तस्मिन्नपेक्ष्यमाणे च न महत्त्वेन संगतिः ॥

एकार्थीभावलक्षणं व्यपेक्षालक्षणं वा सामर्थ्यमुभयथाऽपि सापेक्षस्य नावकल्पते । कथम्—

अन्यवस्त्वनपेक्षत्वे ह्यन्येनैकार्थतेष्यते ।
सापेक्षस्त्वन्यविक्षिप्तो नैकार्थ्यं प्रतिपद्यते ॥

अविक्षिप्यमाणौ हि द्वावर्थावेकत्र लोलीभावं प्रतिपद्येयाताम् । न च विक्षिप्यमाणौ, नानात्वे बुद्धिकालुष्यात् । यो ह्यवयवाभ्यामेकत्रोपसंहृताभ्यामुभयविशिष्ट एकोऽर्थः प्रतिपाद्यते सोऽपि निरपेक्षाभ्यामेव । सापेक्षत्वे संशयरूपेणैकत्रानुपसंहारात् । एवं तावदैकार्थ्यलक्षणसामर्थ्याभावः ।

व्यपेक्षा पुनराहत्य विगतापेक्षतोच्यते ।
सापेक्षत्वे च दूरेऽसावित्येवमसमर्थता ॥

न हि सापेक्षो विगतापेक्षशब्देन शक्यो वक्तुमित्युभयसामर्थ्याभावादुभयवृत्त्यभावप्रसङ्गः । एवं तावद्युगपदन्वाख्याने दोषः ।

419
क्रमेणाऽऽख्यायमाने तु वाक्यभेदोऽसकृच्छ्रुतेः ।
कृत्वा समासमुच्चार्यं पुनः शब्दद्वयं भवेत् ॥

एतदेवाभिप्रेत्याऽऽह—न च तद्धितार्थे वृत्तस्येत्यादि ।

तद्धितार्थे न वृत्तस्य वृद्धिः स्यादुत्तरे पदे ।
महत्त्वं द्रव्यसंबन्धि नोपसर्जनसंगति ॥

महैन्द्र इति हि स्यान्न चेन्द्रविशेषणं महत्त्वम् । न ह्युपसर्जनमभिभूतस्वार्थवृत्ति विशे षणान्तरैः संयुज्यते । न च समासार्थे वृत्तस्येति वाक्यभेदमात्रेणैवोच्यते । तेन क्रमवृत्तिरपि नास्तीति प्रतिपाद्य पुनर्युगपद्वृत्तिमेव दोषान्तराभिधित्सयोपन्यस्यति । 210‘ऐकशब्द्ये परार्थवत्’ इत्यनेन न्यायेनेन्द्रशब्दस्य महत्त्वतद्धितार्थौ प्रति वैरूप्यनिमित्तवाक्यभेदप्रसङ्गः। विध्यनेकव्यापारात्मकश्चापरो वाक्यभेदः । तथा हि—

महत्त्वस्येन्द्रसंबन्धं तस्य च द्रव्यसंगतिम् ।
विदधत्प्रत्ययो वाक्यं भिन्द्यात्पुनरपि श्रुतेः ॥

तस्मान्नेन्द्रो देवता महत्त्वविशिष्टः । किं तर्ह्यवयवसंबन्धानिरपेक्षाद्रूढिशब्दात्ताद्धितोत्पत्तिः । अतश्च सिद्धं देवतान्तरत्वम् । न च वृत्रवधोत्तरकालं महत्त्वाभिधानेनेन्द्रस्यैव महेन्द्रत्वं भवेत् । वेदस्याऽऽदिमत्त्वप्रसङ्गात् । अतो नित्यरूढस्यैव स्तुतिमात्रार्थमेतत् ॥ १६ ॥

420 व्यपदेशभेदाच्च भेदः । एवं च मन्त्रयोर्व्यवस्था भविष्यति । इतरथा विकल्पे पक्षे बाधः स्यात् । असति चार्थभेदे मन्त्रभेदस्यादृष्टार्थता प्रसज्येत ।

तस्माद्यथैव सूर्यादेरिन्द्रादत्यन्तभिन्नता ।
महेन्द्रस्य तथैवेति प्रगाथापनयो भवेत् ॥
एवं व्याख्यायमाने तु रूढित्वे तद्धिते सति ।
अग्नीषोमादयः सर्वे रूढित्वान्न द्विदेवताः ॥

यथैव हीन्द्रशब्दस्य महत्त्वतद्धितावपेक्षमाणस्य युगपत्क्रमेण वा वृत्तिर्न संभवत्येवमेव सोमस्याग्निमपेक्षमाणस्य न तद्धितसंबन्धस्तदपेक्षस्य वा नाग्निना सह समासः । तथा क्रमवृत्तौ पुनरुच्चारणे वाक्यभेदान्नान्यतरत्र वृत्तस्यान्यतरेण वृत्तिः, सोमपदस्य वैरूप्यं, प्रत्ययस्यानेकार्थवृत्तिरिति दोषाणां साम्येनरूढित्वप्रसङ्गात्समस्तद्विदेवत्यत्वव्यवहारोच्छेदः स्यात् ।

न चैषां रूढित्वं शक्यं वदितुं, सर्वत्र शास्त्रे द्विदेवत्यत्वाभ्युपगमात् । तद्यथा 211चतुर्धाकरणेन्द्र212पीतपूष213प्रपिष्टभागाविचारेषु सापेक्षाग्निदेवत्यादीनामैन्द्राग्नाग्नीषोमीयादीनामाग्नेयादिशब्दैः केवलाग्न्यादिदेवताकैरसामर्थ्यादग्रहणमिति वक्ष्यति । रूढित्वे हि कस्य क्वापेक्षा भवेत् ।

तथा द्विदेवतत्वसामान्येनैन्द्रापौप्णादीनामग्नीषोमीयैन्द्राग्नप्रकृतिकत्वं 214वक्ष्यते । तथा ‘मेधपतिभ्यां मेधम्’ इत्यत्र 215‘देवता तु तदाशीष्ट्वात्’ इत्यर्थद्वयमाश्रयिष्यते । तथा मनोताधिकरणे वक्ष्यति216 सत्यमग्नीषोमौ देवताप्रकृतौ तावग्निश्च सोमश्च तत्राग्निरदेवता न त्वसमवेत इति । तथा देवताद्वन्द्वाश्रयाणि अग्नेरीत्वषत्वादीनि 217स्मर्यमाणानि न शक्यानि बाधितुम् ।

यदि च व्याकरणमेवमादावप्रमाणं तर्हि देवतातद्धितस्मरणाप्रामाण्यादग्नीषोमादीनां देवतात्वमपि न स्यात । अथ तत्प्रतीतिरभ्युपगम्येत सा तुल्याऽर्थद्वयप्रतीतावपीति रूढित्वाभावः । एतेनाश्वकर्णादिवदर्थरहितसमासान्वाख्यानेन स्वरसंस्कारप्रसिद्ध्यर्थ421 मग्नीषोमीयादिद्वंद्वस्मरणप्रामाण्यकल्पनं प्रत्युक्तम् । तथा हि—

यत्रार्थस्य विसंवादः प्रत्यक्षेणोपलभ्यते ।
स्वरसंस्कारमात्रार्था तत्र व्याकरणस्मृतिः ॥

महदिन्द्रशब्दयोस्तावदवश्यं पृथगर्थाभिधानशक्तिः कल्पयितव्या । तयोश्च गुणगुण्य भिधायित्वाद्विशेषणविशेष्यात्मकत्वमवधारितम् । तत्र यावदेव संहतावुच्चारितौ तावदेव पूर्वानुभूतार्थसंबन्धितया विशिष्टार्थप्रत्ययो जायते । न चास्य निवर्तकं किंचिदस्ति । न च समुदायस्यापूर्वशक्त्यन्तरकल्पनाप्रमाणं विद्यते । लब्धात्मिका च समुदायप्रसिद्धिरवयवप्रसिद्धिं बाधते । न चावयवार्थरहितार्थान्तरप्रयोगं विस्पष्टमन्तरेण तदात्मलाभः । किं च—

एकस्तावदतिक्लेशैरिन्द्रोऽस्तीत्यवगम्यते ।
महेन्द्रस्त्वपरः कल्प्यः पुनः क्लेशान्तरैर्भवेत् ।

प्रत्यक्षेऽपि तावदर्थेऽनेकशब्दशक्तेः कल्पना निष्प्रमाणिका, किमुत यत्रार्थसद्भावोऽपि कल्पनीयः । तदिहेन्द्रशब्दप्रयोगान्यथानुपपत्त्येन्द्रस्तावददृष्टोऽपि कल्प्यते, तत्र यदिपुनर्महेन्द्रशब्दप्रयोगान्यथानुपपत्तिर्भवेत्ततोऽर्थान्तरं महेन्द्रो नाम कल्प्येत । यदा तु पूर्वकल्पिताभ्यामेव महदिन्द्रपदशक्तिभ्यां प्रयोगः सिध्यति, स एव चार्थः किं चिद्विशिष्टः प्रत्यभिज्ञायते, कस्तदाऽर्थान्तरं कल्पयितुं शक्ष्यति । तस्मादिन्द्र एव महत्त्वविशिष्टो महेन्द्रो नान्य इति सिद्धम् । न च समासं कृत्वा तद्धिते क्रियमाणे कस्य चिदसामर्थ्यं समासवेलायां तद्धितवेलायां चापेक्षणीयार्थान्तरानुपादानात् । न च द्विरुच्चारणनिमित्तवाक्यभेदप्रसक्तिः । सकृदुच्चारितैकपदोपात्तानेकार्थकथनात् । वृत्तिद्वयात्मकं हि माहेन्द्रपदम् । एकैका च वृत्तिर्वाक्यार्थे वर्तते । तत्र ययोर्वाक्ययोरर्थौ माहेन्द्रपदेनोपात्तौ तौ ताभ्यां निर्भिद्य कथ्येते । यच्चात्रासकृदुच्चारणं दृश्यते न तद्वेदवचनस्यैव । न हि कदा चिदप्येवंरूपो वेदोऽस्ति महांश्चासाविन्द्रश्च महेन्द्रो देवता अस्येति माहेन्द्रः । न चैतदेव वैदिकं पदमेवं विभज्यते । विभागस्य पौरुषेयत्वेनावैदिकत्वापत्तेः । किं तु—

वेदे स्वरूपतः शब्दो माहेन्द्रादिरवस्थितः ।
तस्यार्थः सकलो वाक्यैः पौरुषेयैर्निरुप्यते ॥

विचित्रशक्तीनि हि पदानि एकानेकपदार्थप्रतीतेः ।

तथैषामर्थकथनं कदाचित्पदेनैवान्येन क्रियते कदाचिद्वाक्येन, तेनाप्येकेनानेकेन वा द्विपदेन बहुपदेन वेति वैचित्र्यम् । तद्यथा कः पिकः कोकिलः, क औपगव उपगोरपत्यम् । उपगुना वा स्वकान्तायामुत्पादितः । तथा पचतीत्युक्ते पाकं परगामिफलमेकः कर्ता पूर्वापरीभूतं वर्तमानकाले निर्वर्तयतीति कथ्यते । न चैवं कथयतां वाक्यभेदः प्रसज्यते । न वाऽशब्दार्थत्वमध्यवसीयते । एवमेव यदि माहेन्द्रपदोपात्तोऽर्थस्तदस्पृशद्भिरेव 422 शब्दशक्तिविद्भिः पुरुषैः स्ववाक्येनैकेनानेकेन वा कथ्यते कस्तत्र वाक्यभेदः, शतकृत्वोऽपि हि स्ववाक्यमुच्चार्यमाणं न वेदं दूषयति । न च तदीयोःऽर्थः कथ्यमानः पौरुषेयत्वं भजते, अवश्यं चानेकोऽर्थः पुरुषैः कथ्यमानः क्रमेण कथयितव्यः, सोऽपि च प्रकृतिप्रत्ययपौर्वापर्येणेत्येवं कथ्यते महांश्चासाविन्द्रश्चेत्यादि । न चैवं सापेक्षत्वम् । 218‘अथवा भवति च प्रधानस्य सापेक्षस्यापि समास’ इति यद्यपीन्द्रशब्दस्तद्धितापेक्षस्तथाऽपि महत्त्वं प्रति पाधान्याल्लभते समासम् । अतश्च युगपदपेक्षायामविरोधस्तथाऽपि तु वृत्तिः क्रमेणैव । कुतः—

सापेक्षोऽपि महत्त्वेन प्रधानत्वात्समस्यते ।
तदपेक्षो गुणत्वात्तु तद्धितेनैव वर्तते ॥

तेन यत्रैव प्रधानं सापेक्षं तत्रैतयैव तावद्वृत्त्या भवितव्यमिति समास एव प्रथमं भवति । यदि वा कृत्वा समासं तन्त्रेण वृत्तिरिष्येत, ततः शुद्ध इन्द्रस्तद्धितसंबन्धी शुद्धश्च समासभागिति निर्गुणस्यैवेन्द्रस्य देवतात्वापत्तेर्गुणानर्थक्यप्रसङ्गः ।

न चेन्द्रमहत्त्वयोर्युगपत्ताद्धितार्थे निपतितयोररुणैकहायन्यादिवत्परस्परनियमो लभ्यते । न ह्यक्रियायां युगपत्संनिपातो नापि विशेषणवशीकारसामर्थ्यम् । सत्यपि च द्वन्द्वदेवतापत्तिः । अकृतसमासयोश्च महदिन्द्रशब्दयोरनेकत्वाद्विवक्षितैकसंख्यप्रातिपदिकनिमित्ततद्धितसंबन्धाभावप्रसङ्गः । किं च—

219सुबन्तौ यदि वैतौ ते, न प्रातिपदिकं ततः ।
असुबन्तत्वकॢप्तौ वा समासांशो न लभ्यते ॥

तस्मान्न युगपद्वृत्तिरिति क्रमवृत्त्या समासार्थस्यैव देवतात्वम् । अतश्चेन्द्र एव गुणसंयुक्तो महेन्द्रो नार्थान्तरमिति पूर्वपक्ष एव शोभन इत्यन्यदुत्तरं वाच्यम् । तदुच्यते—

श्रुत्या हि देवता यागे समवैति न रूपतः ।
तस्मान्माहेन्द्रशब्दोक्त्या महेन्द्रो देवतेष्यते ॥

यद्यप्यभिन्नोऽर्थस्तथापि 220‘विधिशब्दस्य मन्त्रत्वे भावः स्यात्तेन चोदना’ इति महेन्द्रशब्देनैवोच्यमानस्यास्मिन् ग्रहयागे देवतात्वं नान्यथा । तत्र सकलपर्यायेणापि बृहदिन्द्रादिशब्देनोच्यमानस्य देवतात्वं न भवति किमुत न्यूनेनैवेन्द्रशब्देन । तथा हि—

अर्थोऽपि यादृशो यत्र देवतात्वेन चोदितः ।
मनागपि ततोऽन्यत्वे देवतेति न गम्यते ॥

423 देवतात्वस्य प्रत्यक्षाद्यनवगम्यत्वाच्चोदनैवैकं प्रमाणं सा च यं यादृशं यत्र यादृशे चार्थे विदधाति, स यदि तथैवानुष्ठानेऽपि संपाद्येत, ततस्तत्प्रमितोऽयमित्यवसीयते ।

किंचिदपि चेदिहान्यथा जातं निवृत्तव्यापारायां चोदनायां प्रमाणान्तरं मृग्यं न च तदस्तीत्यप्रमाणता यथा वक्ष्यति221 । ‘स एवाग्निरष्टाकपालस्य देवता नाऽऽज्यस्य’ इति । तेन व्यवस्थावशाद्यथैवेन्द्रे चोदितेऽग्नेर्देवतात्वं न भवति, सोमस्य च चोदिते न पुरोडाशस्य, अभिषुतस्य च न लतायाः, शुद्धे च न सगुणस्य, तथैव गुणवति चोदिते न निर्गुणस्य । कुतः—

देवता हि विधेयत्वाद्विवक्षितगुणेष्यते ।
लक्षणत्वे तु तस्याः स्यादविवक्षा गुणादिषु ॥

यदि हि तद्धितसंबन्धे देवतोद्दिश्यमाना स्यात्ततोऽस्या गुणविवक्षा भवेत् । इयं पुनरविधीयमाना देवतात्वमेव न प्रतिपद्यत इत्यवश्योपादातव्या । ततश्च विवक्षितगुणत्वात्तदपाये न कथं चिद्देवतेति गम्यते । यथा शुक्लवासा भोजयितव्यो ‘लोहितोष्णीषा ऋत्विजः प्रचरन्ति’ ‘दण्डी प्रैषानन्वाहं’ इति विशेषणरहितानामकर्माङ्गत्वम् । यदा तेऽप्युद्दिश्यन्ते योऽयं शुक्लवासास्तमानयेत्यादौ तदा विनाऽपि विशेषणेनाऽऽनीयन्ते । तदिह यद्यपि तावद्देवता रूपेणोपकुर्यात्तथाऽपि न गुणरहिताऽऽश्रीयेत, किमुत यदाऽमिधानोपकारिणी विधिगतव्यतिरिक्ताभिधानाभिहिता नैव प्रत्यभिज्ञायते सैवेयं देवतेति ।

समासेन च विधीयमानायां नानेकार्थविधिदोषप्रसक्तिः । तत्र माहेन्द्रग्रहगता न कथं चिदिन्द्रशब्देनोच्यते ।

या तु तेनोच्यते सा तत्र नैव देवतेत्यनर्थकमेवास्याः प्रकाशनम् । अतश्च ‘न श्रुतिसमवायित्वात्’ इत्ययमपि सूत्रार्थो भवति श्रुतिसमवेतं देवतात्वं भविष्यति तदधीनज्ञानमित्यर्थः । तच्च तद्धितसंवादे सति ज्ञायते । तस्मादस्ति देवताभेद इति । कथं त्वंस्मिन् पक्षे भाष्यगमनिका । तदभिधीयते ।

पूर्वपक्षवादी तावदनुत्कर्षं प्रगाथस्य वदति, यश्च माहेन्द्राद्ग्रहादिन्द्राभिधानसमर्थमन्त्रानुत्कर्षं वदति तेनाकर्माङ्गभूतार्थप्रकाशनवैयर्थ्यादिन्द्र एवात्र शुद्धो देवताभूतः प्रकाश्यत इत्यभ्युपगतं भवति ।

तस्य च देवतात्वं नाभ्युपगममात्रेण सिध्यति, नापि प्रमाणान्तरेणेति य एतद्ग्रहोत्पत्तिवाक्ये देवताभिधानशक्तस्तद्धितः श्रूयते ‘माहेन्द्रं गृह्णाति’ इति तत्संयोगाद्विज्ञायते । स च यदि समासान्निष्कृष्य केवलादिन्द्रशब्दादुत्पाद्यते, ततो मन्त्राभिधेयसदृशं देवतात्वमुक्तं भवति ।

सिद्धवच्चैतमर्थं पूर्वपक्षवादिनोऽभिप्रेतं मन्वानो निष्कृष्य ब्रवीति इन्द्रोऽस्य देव424 ता—इति तद्धितसंयोगेन ज्ञायते, न चास्य महत्त्वमपेक्षमाणस्याकृते समासे शुद्धस्योपसर्जनीभूतस्य तद्धितसंयोगः, तद्धितसंयोगापेक्षस्य वेति—सत्यमि सापेक्षप्रधानसमासे प्रातिपदिकावस्थायां तद्धितापेक्षा, न च तदानीमसुवन्तत्वात्समासोपपत्तिः । तेन यत्रैव पृथग्भूतं सुबन्तं संबन्धार्हमेव पदान्तरमपेक्षते यथा राजपुरुषः शोभन इति, तद्विषयमेवैत्, ‘भवति वै प्रधानस्य सापेक्षस्यापि समास’ इति द्रष्टव्यम् ।

अकृते च समासे तद्धितापेक्षायां वाक्यात्तद्धितोत्पत्तिरित्यभ्युपेतं स्यात् । शुद्धस्य वा तद्धितसंस्पर्शाद्विशेषणानन्तर्गतिप्रसङ्गः । क्रमवृत्तिः पुनर्भवतो नाभिप्रेतैव, पूर्वं तद्धितसंबन्धे पूर्वोक्तावेव द्रव्यविशेषणोत्तरपदवृद्धिप्रसङ्गदोषौ ।

न च समासार्थे वृत्तस्य शुद्धस्य तद्धितसंबन्धः । तेनैकस्मिन्नेव प्रयोगे तन्त्रसंबन्धोऽभ्युपगन्तव्यः । ततश्च 222‘ऐकशब्द्ये परार्थवत्’ इति तथैव वैरूप्यदोषः ।

विस्पष्टश्चायमन्योऽर्थ इति प्राक्समासादनेकार्थविधेः समासपदलम्यत्वाद्वाक्यमेदमाह । कृते तु समासे नैष दोषः । तस्मान्नेन्द्रो देवताऽमहत्त्वविशिष्टः शुद्धः किं तर्हि, विशिष्ट एव ।

अथ वा नेन्द्रो देवता केवलपदोपात्तः शुद्ध इत्यभिप्रायः । कथं तर्हि, महत्त्वविशिष्टः, समासप्रातिपदिकात्तद्धितोत्पत्तेः ।

त्ववयवसंबन्धेनेति—नावयप्रसिद्धिनिराकरणपरं, किं तर्हि, नावयवसंबन्धेन तद्धितोत्पत्तिर्निष्क्रष्टुमशक्यत्वादित्यभिप्रायः ।

तस्माद्देवतान्तरमिति । सत्यपि द्रव्यैकत्वे सगुणनिर्गुणाश्रयणाद्देवतान्तरत्वम् । आह च—

आचार्यो मातुलश्चेति द्रव्यैकत्वेऽपि दृश्यते ।
अपेक्षाहेतुभेदेन व्यवहारः पृथक्तया ॥

यदप्युच्यते इन्द्रस्य वृत्रवधोत्तरकालमिति । पूर्वं सर्वत्र शुद्धात्मनः प्रतिपन्नदेवतात्वस्य पश्चात्तनोऽयं गुणः स्तुतिमात्रोपयोगी न देवतात्वेऽन्तर्भवतीति मन्यते । अस्य तूत्तरं गतार्थम् ।

स्थिते च देवतान्तरत्वे, शुद्धस्य देवतायाः प्रकाशनं, शुद्धेन वा विशिष्टस्य, विशिष्टचोदनायामपि वा शुद्धस्य देवतात्वं, शुद्धशब्दोच्चारणेऽपि वा विशिष्टे देवतात्वं प्रतिपद्यत इत्यादि सर्वमन्धकारनिरीक्षितं साहसमात्रेणाभ्युपगम्येत, न चैतद्युक्तम् । अतो यत्र विधिमन्त्रयोर्देवतासंवादस्तत्र प्रगाथो नीयेत । अस्मत्पक्षे पुनः—

यां कां चिदप्युपादाय देवतां साधिता स्तुतिः ।
अदृष्टं यागमात्रार्थं करोत्यारादवस्थितम् ॥ १७ ॥

425 यदि चाऽऽदिमाननादिर्वा गुणः केवलमिन्द्रस्तुत्यर्थमेवोपादीयते न देवतात्वेऽन्तर्भवति, ततोऽस्योपादानमेवानर्थकं स्यात् । सर्वा हि देवतैवमर्थमभिधीयते विधीयते वा, कथं नाम तदुद्देशेन कर्म क्रियेतेति ।

यदि चाविहिते विहिते च गुणे केवलेनेन्द्रेण व्यवहियते ततो नार्थो गुणाभिधानेन । किं च—

गुणोऽनन्तर्गतश्चात्र पश्चादाभिहितो भवेत् ।
लक्षणत्वेन वोक्तः सन्नचाप्राप्तेस्तदस्ति ते ॥

न हि ग्रहसंबन्ध इन्द्रस्य प्राप्तो येन तद्रतेन्द्रानुवादेन महत्त्वं केवलमेव स्तुत्यर्थमुच्येत । न च महानिन्द्रः प्राप्तो यतो गुणेनोपलक्ष्य विधीयेत । तस्मादप्राप्तविधेर्देवतान्तरता ॥ १८ ॥

पूर्ववन्मन्त्रव्यपदेशभेदव्यवस्था ॥ १९ ॥

वशादिद्रव्याणामर्थरूपोपकारित्वात्प्रत्यक्षलभ्ये विशेषे सामान्येनापि सिद्धेर्न विधि 426 शब्दादरः ॥ २० ॥

बलवत्प्रमाणविरोधे संस्कारपक्षस्त्यज्येत, न च सोऽस्ति, लिङ्गबलीयस्त्वादुत्कर्षसिद्धेरित्यपर्युदासः संस्कारपक्षस्य ।

अथ वाऽर्थैकदेशोऽयं समासार्थप्रकाशनम् ।
करिष्यत्यविरोधाय मनोतास्थाग्निशब्दवत् ॥

अनुत्कृष्यमाण एव वा प्रगाथः सन्निधिवशादवयवद्वारेण महेन्द्रमविरोधाय दृष्टार्थत्वाय च प्रकाशयिष्यति, यथाऽग्नीषोमीये मनोतायामग्निशब्दः प्रकरणात्समासस्थः प्रतीयमानः साहचर्यात्सोममपि प्रतिपादयन्समुदायार्थो विज्ञायते । अतश्चानुत्कर्षेऽप्यदोष इति ॥ २१ ॥

आम्नातेष्वपि मन्त्रेषु नोत्कृष्टेष्वर्थदर्शनम् ।
सर्वेषु भवतीत्येवं नोत्कृष्टत्वं न दुष्यति ॥

न हि यमादीनां ग्रहान्तरेष्वपि देवतात्वं येनेन्द्रवदुत्कृष्टैर्मन्त्रैः प्रकाश्येरन् । अतस्तेषां तावद्विध्यानर्थक्यप्रसङ्गादवश्यमदृष्टार्थत्वेन भवितव्यम् । ततश्च तत्सामान्यादितरेषु तथात्वं, तस्मान्न संस्कारकर्मत्वमिति ॥ २२ ॥

यमादयो न विद्यन्ते यद्यपि ग्रहदेवताः ।
अन्यकर्मोपयोगित्वात्प्रकाश्याः स्युस्तथाऽपि नः ॥

मण्डूकसूक्तस्याग्नौ प्रयोगः, तत्र मण्डूकेनाग्निविकर्षणाम्नानात् । अक्षसूक्तस्य राजसूये, तत्र ‘अक्षैर्द्दीव्यति’ इति विधानात् ।

427 मूषिकासूक्तस्यैकादशिन्याम्, ‘आखुस्ते पशुः’ । इत्युपशयसंबन्धसंकीर्तने सति तद्द्वारेणोपशयस्यैव स्तुतिः । कुषुम्भकसूक्तादीनां तु यदि क्व चिद्विशेषरूपेणार्थो नास्ति ततः सामान्यविधानेनार्थवत्ता भविष्यति ।

वाचः स्तोमे सर्वमन्त्रोपदेशात् । तथाऽऽश्विने सूर्योदयावधि समाप्त्यसंभवे सर्वासामृचामुपदेशात् ।

तत्र वचनेनैवाऽऽसमवेतार्थमन्त्रविधानसामर्थ्यादगतेरदृष्टार्थाश्रयणं, न च क्वचिददृष्टार्थत्वेन सर्वत्रैव दृश्यमानमप्यर्थं प्रोझ्झ्यादृष्टार्थत्वकल्पना युज्यते । तथा हि—

न जपादावदृष्टार्थे वैष्णव्यादिनिदर्शनात् ।
याज्यादावपि दृष्टार्थे स्याददृष्टार्थकल्पना ॥ २३ ॥

यदुक्तं मनोतायामिवाग्निशब्द इन्द्रशब्दः समासार्थं लक्षयिष्यतीति । तदयुक्तम् । कुतः । एतस्मादेव दोषात् । न हीन्द्रशब्दस्य स्वार्थमभिदधतः कश्चिद्विरोधो येन श्रुतिवृत्तिं जह्यात् ।

सर्वादृष्टार्थानां च यथाकथं चिल्लक्षणया दृष्टार्थत्वापादनसंभवादयुक्तमेतत् । यत्तूक्तमुत्कृष्यतामेवेति । तदयुक्तम् । कुतः—

प्रकृतस्तोत्रशेषत्वं श्रुत्या संनिधिकॢप्तया ।
विना सामान्यसंबन्धाल्लिङ्गं चाविनियोजकम् ॥

यदि ह्येकान्तेन प्रथमं दृष्टार्थत्वमवधारितं स्यात् ततः क्रमसंनिधिकल्प्या श्रुतिर्बाध्येत, यतस्तु विनियोगोत्तरकाला प्रयोजनकल्पना न तद्वशेनैव विनियोगस्तेन क्रमसंनिधिभ्यां विनियुक्ते दृष्टमदृष्टं वा प्रयोजनं कल्प्यमानं न विरुध्यते । न चोत्कृष्टस्य प्रगाथस्यान्यत्र विनियोगहेतुरस्ति ।

लिङ्गं हि देवतां प्रकाशयितुं सामर्थ्येन तन्मन्त्रं स्वरूपे विनियुञ्जीत, तथा चात्वा428 नर्थक्यप्रसङ्गः । कर्मसंबन्धे तु न कश्चिदस्य व्यापारः । तदेतल्लिङ्गं यदि सामान्यतः केन चित्कर्मसंबन्धः । क्रियते, ततः कथं तस्योपकरिष्यतीत्यपेक्षिते यथा शक्नोतीत्येवमाश्रयणाद्देवताप्रकाशनद्वारेणेति विनियुङ्क्ते ।

न चात्र सामान्यसंबन्धकारणं पश्यामः । तस्मादुत्कृष्टानामानर्थक्यमेव स्यादित्यदृष्टार्थतैव न्याय्या । किंच—

एवं च सप्तमी षष्ठी द्वितीया स्तौतिशंसती ।
श्रुतिवृत्ता भविष्यन्ति त्वत्पक्षेऽन्यार्थवृत्तयः ॥

गुणगुण्यभिधानक्रियाणामक्षरारूढत्वात्सप्तमीश्रुतिसंयोगो घटते । प्रकाशने हेतुकरणत्वात्तृतीयायुक्ताः कवत्यादयः श्रूयेरन् । ननु स्तुतावपि कवतीनां करणत्वात्तृतीयैव प्राप्नोति । नैष दोषः—

आधारत्वमपि ह्यासां करणत्वं च विद्यते ।
तत्रैतयोर्यथाभीष्टं निर्देश उपपद्यते ॥

प्रकाशनं पुनः परमार्थतस्तावदात्माधारम् । कर्मत्वप्रतिपत्त्युत्तरकालं च व्याप्यत्वाद्देवताधारम् । तत्र कवतीनामैकान्तिकमेव करणत्वमिति वैषम्यम् ।

अपि च स्तौति शंसतीति स्तुतिभावना पूर्वापरीभूता श्रूयते । तस्यां च धात्वर्थः करणभूतः शेषाणि च कारकाणि नित्यं धात्वर्थं निष्पादयन्ति संबध्यन्ते । तत्र यदि मन्त्राः स्तोत्रनिर्वृत्त्यर्था भवन्ति ततोऽपेक्षितार्थकरणाच्छास्त्रदृष्टमर्थं कुर्वन्तो दृष्टार्था भवन्ति । प्रकाशनं तु कुर्वन्तोऽचोदितकरणाददृष्टार्था भवेयुः । ततश्च वरं स्तुतीनामेवाऽदृष्टार्थत्वम् । किं च ।

श्रुत्यैव षष्ठी पारार्थ्यं देवतानां ब्रवीति नः ।
न प्रधानं गुणाश्चेष्टाः स्तुतेस्तेन प्रधानता ॥
देवताप्राधान्ये हि प्रातिपदिकार्थपरत्वादव्यतिरिक्तार्थविषया ‘अग्निर्मूर्धा’ इवत्प्रथमैवश्रूयेत ।

429 यदपि किं चित्प्रथमान्तं तदपि योग्यतापूर्वकैकवाक्यत्ववशेन गुणसंबन्धार्थमेव । यथा, इन्द्रो यातो—जङ्गमस्य, अवसितस्य—स्थावरस्य च राजेति ।

न च गुणानामुपयोगोऽस्तीति तत्प्राधान्यानाश्रयणे स्तुत्यर्थतैव युक्ता । सत्यमिति ग्रन्थच्छेदः । तत्रार्थवादन्यायेन शेषपदानर्थक्यप्रसङ्गात्सत्यपि पूर्वत्र प्राधान्यपर्यवसानसंभवे स्तुत्यर्थेनैवैकवाक्यता युक्ता ।

न चैवं स्तौतिशंसत्योः प्रकाशनलक्षणार्थता भविष्यतीति स्तुतेरेव प्राधान्यम् ॥ २४ ॥

पृथक्त्वनिवेशिनी द्विद्वादशसंख्या न प्रकाशनाभेदे सति शब्देनोच्यते । सामान्याविवक्षायां वा प्रत्यृचं प्रतिपदं च तन्निर्वृत्तेर्न द्वादशत्वेऽवतिष्ठते । ननु च स्तुतावपि तुल्यमेतत् । तथा हि—

सामान्यस्तुतिरेकैव भेदोऽपि प्रत्यृचं स्थितः ।
न चान्यथा विवक्षाऽस्ति यतो द्वादशता भवेत् ॥

अथ स्तोमवशादृक्समुदायसाध्याः स्तुतयो गण्यन्ते तथा प्रकाशनान्यपीत्यविशेषः । उच्यते—

क्रियाः फलापवर्गिण्यस्तत्संख्यागणनाः सदा ।
अपूर्वद्वादशत्वाच्च द्वादशत्वं निरूप्यते ॥

प्रकाशनार्थत्वे हि प्रत्यृचं प्रतिपदं च तन्निर्वृत्तिदर्शनात्क्रियासमाप्तेर्न किं चित्कारणमस्ति, येन द्वादशत्वं परिच्छिद्येत । अपूर्वार्थत्वे तु तेषां शास्त्रगम्यत्वाद्यथोक्तस्तोमसंपदः प्राङ्निर्वृत्तिप्रमाणाभावादृक्समुदायेनापूर्वनिर्वृत्तेस्तद्द्वारेण क्रियासमाप्त्युपलक्षणादपूर्वाणां द्वादशत्वेन म्तुतिद्वादशत्वसिद्धिः । न हि प्रत्यृचं सर्वस्तोत्रेभ्यो वा तत्कल्पनायाः 430 किं चित्प्रमाणमस्ति यथा प्रकाशनस्य दर्शनम् ॥ २५ ॥

ऋचामनूह्यत्वादाग्नेयग्रहचोदनयैवाऽऽग्नेयीनां स्तुतिसाधनत्वसिद्धेः ‘आग्नेयीषु स्तुवते’ इत्यनर्थकं वचनम् ॥ २६ ॥

सबन्धस्य भेदनिबन्धनत्वात्संबन्धवचनेन स्तोत्रशस्त्रयोर्भेदः । स च प्रकाशनैकत्वान्न प्राप्नोति । ननु स्तुत्येकत्वादितरत्रापि तुल्यमेतत् । अथ प्रगीताप्रगीतमन्त्रसाधनत्वेन भेदः, तद्व्यक्तिद्वारेण वा, स पूर्वपक्षेऽप्यविशिष्टः । तत्रोत्तरं द्वादशत्ववत् । अत्यन्तभेदाद्धि स्तोत्रशस्त्रापूर्वयोस्तद्द्वारेण क्रिययोर्भेदमुपचर्य संबन्धवचनम् । न तु प्रकाशनं स्वतः फलतो वा भिद्यते ॥ २७ ॥

यदिदं द्वितीयाप्रतिपादितकर्मार्हमभिधानमिदं चापरं प्राधान्ये कारणम् । प्रधानक्रिया हि केन चिद्रूपेणेप्सिता ‘अग्निहोत्रं जुहोति’ ‘आधारमाधारयति’ इतिवद्भवति न संस्कारक्रियाऽत्यन्तगुणभूतत्वात् ।

अथ वा स्तोत्रशस्त्रसमाख्ययोरभिधानत्वं तत्प्राधान्यज्ञापनार्थम् । इतरथा हि प्रकाशनमित्येवं समाख्या स्यात् । अवहन्त्यादिवद्वा नैव भवेत् ॥ २८ ॥

योऽयं मन्त्रे फलाशीरर्थवादः स स्तुतेः प्रधानत्वे घटते सर्वत्र प्रधानविषयत्वात्प्रार्थनानाम् । त्वत्पक्षे तु—

431
देवतैव प्रधानत्वात्फलं याच्येत कर्मवत् ।
न स्वामिनि स्थिते कश्चिद्दासात्प्रार्थयते फलम् ॥ २९ ॥
इति स्तुतशस्त्राधिकरणम् ॥ ५ ॥

मन्त्राविधायकत्वाधिकरणम्

इह मन्त्रा उदाहरणम् । किं तद्गता भावनावचना ब्राह्मणवद्विदधति नेति संदेहे शब्दाभेदाद्विधायका इत्याशङ्क्य मन्त्रत्वात्प्राप्तार्थत्वाच्च विधित्वासंभवेन प्रयोगकालेषु ब्राह्मणविहितानामेवार्थानां स्मारका इत्युत्तरपक्षं उक्तः । तथा हि—

न कर्मान्तरताऽस्त्यत्र बलवत्प्रत्यभिज्ञया ।
न चोपात्तो गुणः कश्चिन्न च वाक्यान्तरे स्तुतिः ॥

स्मारकत्वप्रतिपक्षौ हि विध्यर्थवादौ स्यातां, तदिह स्वरूपं तावदन्यतः क्रियायाः प्राप्तं गुणफलनिमित्तानि तु नैवोपात्तानि यानि विधीयेरन् ।

न च वाक्यान्तरस्थे पर्यवसितप्रयोजने विधौ स्तुतिरुपपद्यते । तदुक्तं प्रथनमन्त्रे । तस्मात्प्रकाशका मन्त्रा इति यद्व्याख्यायते तत्र वदामः । किं पुनः कारणं मन्त्रत्वेनाऽऽख्यातविशेषाणां विधिशक्तिस्तिरोधीयते कथं च ब्राह्मणत्वेनासावविर्भाव्यते । दृष्टाश्च मन्त्रगता अपि विधायता ‘वसन्ताय कपिञ्जलानालभते’ इत्यादयः ।

तथा ब्राह्मणगता अप्यविधायका यथा ‘यस्योभयं हविरार्तिमार्छेते’ इत्यादयः । तस्मान्नायमेकान्तः । किं च—

432
प्राप्तत्वाद्यदि चेष्येत मन्त्राणामनुवादता ।
तैरेव विहितं कस्मान्न स्मारयति चोदना ॥

न ह्यत्र विशेषहेतुरस्ति किं ब्राह्मणविहितमासाद्योपहतविधिशक्तिर्मन्त्रः स्मारको भवत्यथ वा विपर्यय इति ।

तत्रोभयोरनुवादत्वासंभवादगृह्यमाणविशेषत्वाच्च द्वयोरपि विधायकत्वम् । अभ्यासाच्च कर्मभेदः स्यात् । बलवत्प्रत्यभिज्ञायाश्चाभ्यासाधिकरण एवोत्तरं भविष्यति223 । तस्मान्नैवमभिधायकत्वसिद्धिः । येऽप्याहुः—

यस्माद्व्रीह्यादिवन्मन्त्राः करणत्वेन कर्मणाम् ।
ब्राह्मणेन नियुज्यन्ते तद्वत्ते न विधायकाः ॥

तैरपि सामान्यतो दृष्टमात्रं व्यपदिष्टम् । कुतः—

विधिशक्तिर्नियोगेन न मन्त्रस्यापनीयते ।
ततो विधास्यति ह्येष नियोगात्स्मारयिष्यति ॥

न हि विनियुक्तेन न विधातव्यमिति किं चित्प्रमाणं यदि स्वतो विधिशक्तिरस्त्येव । अथ त्वसौ प्रथममेव नास्ति व्यर्थो विनियोगोपन्यासः । न चोभयकरणे विरोधः । तथा हि—

विधायकं सदप्यर्थं ब्राह्मणं स्मारयिष्यति ।
‘मन्त्रतस्तु विरोधे स्यात्’224 इत्यत्रैतद्वदिष्यते ॥

ये च वचनेनानविनियुक्तास्ते च त्वत्पक्षे निराकरणहेत्वभावाद्विधायकाः प्राप्नुवन्तीत्येतदप्यकारणम् । न चात्र मन्त्रोपन्यासस्य कश्चिसंबन्ध इत्यन्यथा वर्ण्यते । विविधमेवाऽऽख्यातं गुणप्रधानकर्मत्वेनोक्तम् ।

अथेदानीं प्रस्तूयते किं तावेव द्वौ प्रकारावुतान्योऽप्यस्तीति । तत्र न तृतीयः प्रकारोऽस्तीति मत्वा पूर्वपक्षवादी वदत्यैकार्थ्यमिति । तथा प्राप्तेऽभिधीयते ॥ ३० ॥

अस्ति तृतीयः प्रकारो यदभिधायकत्वं नाम । पश्य—

433
येषामाख्यातशब्दानां यच्छब्दाद्युपबन्धनात् ।
विधिशक्तिः प्रणश्येत्तु ते सर्वत्राभिधायकाः ॥

मन्त्रगतानां ब्राह्मणगतानां चाऽऽख्यातशब्दानां येषां शब्दान्तरेण विधिशक्तिरपगच्छति तेषामभिधायकत्वम् । तत्र ‘न ता नशन्ति’ इत्यत्र तावद्यच्छब्दोपहितो विधायकोऽनुवादत्वं प्रार्थयते । तथा ‘अहे बुध्निय मन्त्रं मे गोपाय’ इत्यामन्त्रणविभक्त्या । दामि गृह्णामीत्युत्तमपुरुषेण । ‘यदि सोममपहरेयुः’ इति यदिशब्देन । ते चैवमादयः प्रायेण मन्त्रेष्विति मन्त्रा उदाहरणम् । अविधायका मन्त्रा इति च प्रसिद्धिः ।

ब्राह्मणे तु भूयांसः प्रत्यया विधायकास्तेन तद्विधायकमिति प्रसिद्धम् । अल्पे त्वविविधायका इति तदहि नोदाहरणम् । विधायकत्वाविधायकत्वे तु तयोर्यथोक्तमेव कारणमिति न मन्त्रत्वब्राह्मणत्वयोर्व्यापारः ।

तत्र त्वेतावान्व्यापारो दृश्यते । रूपादेव ब्राह्मणगतानां विधित्वनिवृत्तौ सत्यां निमित्तादिप्रत्यायनार्थता । न हि तेषां रूपं कर्मसु प्रयोगार्हम् । मन्त्रगतानां तु रूपमेवोपलभ्य दामि गृह्णामि निर्वपामीदामिदं च करोम्यग्नीन्विहर वर्हिः स्तृणीहि इदमिदं च कुर्वित्यादिकं शक्यमेतैः कर्म स्मर्तुमिति विनियोगबुद्धिर्भवति । कुतः—

अनुष्ठाने पदार्थानामवश्यंभाविनी स्मृतिः ।
अनन्यसाधनाऽनन्यकार्यैर्मन्त्रैः प्रसाध्यते ॥

न तावदनुष्ठानवेलायामस्मृतः कश्चित्पदार्थः शक्यः कर्तुमित्यवश्यंभाविन्या स्मृत्या योग्यसाधनमात्रापेक्षणाद्यत्किंचिद् ब्राह्मणपदार्थानुसंधानं वा पूर्वपदार्थप्रत्यवेक्षणं वा सूत्रग्रन्थो वाऽऽत्मीयग्रहणवाक्यानि वोपद्रष्टादि वा साधनं ग्रहीतुमारभ्यते ।

तत्रानन्यप्रयोजनान्मन्त्रान्प्रकरणे पठ्यमानान्सामान्येन किमप्येभिः कर्तव्यमित्येवं प्रयोगवचनेन गृह्यमाणानुपलभ्य यादृशेन वाक्येन स्मृतिः कर्तुमाकाङ्क्ष्यते तद्रूपा एत इति विदित्वा लिङ्गप्रकरणानुमितया श्रुत्या विनियोगे सत्यभिधानार्थता विज्ञायते ।

ततश्चोपायान्तराण्यप्रमाणकत्वान्निवर्तन्ते । नियमादृष्टसिद्धिश्च मन्त्रैरेव स्मृत्वा कृतं कर्माभ्युदयकारि भवतीत्यवधार्यते । भाष्यमप्यत्रैव योजनीयम् ।

नासकृदप्युच्चारणे तत्प्रत्ययादिति न प्राप्तत्वाभिप्रायेणोच्यते । किं तु यच्छब्दोप434 बन्धादस्यैव मन्त्राख्यातस्यान्यतः प्राप्तमहं ब्रवीमीत्येवंरूपप्रत्ययात् । शतकृत्वोऽपि ह्येवमादिरुच्चार्यमाणः स्वसामर्थ्येनैव नापूर्वप्रत्ययं करोति तत एव पूर्वप्राप्तबुद्ध्युत्पादात् ॥ ३१ ॥

इति मन्त्राविधायकत्वाधिकरणम् ॥ ६ ॥

मन्त्रलक्षणाधिकरणम्

यथोक्तेन न्यायेन मन्त्रोदाहरणस्यातन्त्रत्वात्प्रासङ्गिकामिदं पूर्वसूत्रप्रयुक्तमन्त्रशब्दार्थलक्षणाभिधानमिति नावश्यमिदमर्थतोऽधिकरणं पूर्वम् । शक्यं हि वाक्यमात्रमप्युदाहृत्य विचारयितुम् ।

भाष्यकारस्तु सूत्रकारोच्चारितमन्त्रशब्दादरेण पौर्वापर्यविशेषमाह । तच्चोदकेष्विति । तत्—अभिधानं चोदकं प्रयोजकं येषामिति बहुव्रीहिः । अर्थदर्शनमात्रार्थं तु षष्ठीकथनं भाष्ये । अध्येतृवृद्धव्यवहारासिद्धं चेदं प्रायिकाचिह्नयुक्तं लक्षणं लाघवार्थमुक्तम् ।

धरणिगतानेकद्रव्यप्रत्येकनिरीक्षणे पुनः पुनः पृष्ठं कुटिलीक्रियत इति तत्सामान्येन पृष्ठाकोटाभिधानम् । श्लेकश्चैवं द्रष्टव्यः—

ऋषयोऽपि हि लक्ष्याणां नान्तं यान्ति पृथक्त्वशः ।
लक्षणेन तु सिद्धानामन्तं यान्ति विपश्चितः ।
वृत्तौ लक्षणमेतेषामस्यन्तत्वान्तरूपता ।
आशिषः स्तुतिसंख्ये च प्रलप्तं परीदेवितम् ॥
435
प्रैषान्वेषणपृष्टाख्यानानुषङ्गप्रयोगिताः ।
सामर्थ्यं चेति मन्त्राणां विस्तरः प्रायिको मतः ॥

डुलेरिवेति । डुलिः—कच्छपः । प्रतिपुनातुशब्दमच्छिद्रेण पवित्रेणेत्यनुषङ्गः । 436 सामर्थ्यं—अभिधानशक्तिः । ये मां दुग्धवन्तस्त एव निराकृतवन्त इति धेन्वाः परिदेवितम् । अमुतः सोममाहर इति सौपर्णोपाख्याने विनतया गरुत्मानमृतार्थं प्रेषितः । कर्णवन्तीं सूर्मिम् । सूर्मिः—स्थूणा ॥ ३२ ॥

इति मन्त्रलक्षणाधिकरणम् ॥ ७ ॥

ब्राह्मणलक्षणाधिकरणम्

परिशेषसिद्धत्वाद्ब्राह्मणलक्षणमवचनीयमिति । सूत्रमिदमनारभ्यमिति प्रतिभाति । तत्र शेषशब्दप्रयोगाल्लक्षणानभिधानाच्च सूत्रव्याख्यानमेवेदमिति द्रष्टव्यम् ।

किमर्थं पुनः सूत्रमारभ्यते । नाऽऽरभ्येत, यदि मन्त्रब्राह्मणात्मक एव वेद इति सर्वेषां प्रसिद्धं भवेत् । येषां त्वप्रसिद्धं तेषां तृतीयादिप्रकारनिराकरणार्थं द्वैराश्यमेव वेदस्येति प्रतिपादयितुमाह—शेषे ब्राह्मणशब्द इति । एकपुरुषकर्तृकमुपाख्यानं परकृतिः । बहुकर्तृकं पुराकल्पः । यात्रान्यथाऽर्थः प्रतिभातः पौर्वापर्यालोचनेन व्यवधार्यान्यथा कल्प्यते सा व्यवधारणकल्पना तद्यथा प्रतिगृह्णीयादिति श्रुतं प्रतिग्राहयेदिति 437 कल्पयिष्यते । विधिलक्षणमित्यत्र ब्राह्मणवाची विधिशब्दः ॥ ३३ ॥

इति ब्राह्मणलक्षणाधिकरणम् ॥ ८ ॥

ऊहादीनाममन्त्रताधिकरणम्

सूर्याय जुष्टं निर्वपामि, इत्यूहः । तथा यत्र यजमानस्याऽऽर्षेयं व्रियते स प्रवरः । यच्च यजमानतत्पुत्रादीनां नामग्रहणं तन्नामधेयं, यथा सुब्रह्मण्यायां देवदत्तो यजत इत्यादि । तेषामपि ‘तच्चोदकेषु’ इत्यस्माल्लक्षणान्मन्त्रमध्यपाताच्च मन्त्रत्वप्राप्तावुच्यते—

स्वाध्याये पठ्यमानेषु येषु मन्त्रपदं स्मृतम् ।
ते मन्त्रा नाभिधानं हि मन्त्राणां लक्षणं स्थितम् ॥

किं पुनरेकस्मिन्पद ऊह्यमाने समस्तस्यैवामन्त्रत्वं, ऊहितपदमात्रस्यैव वेति । समस्तस्यैवेति प्राप्तम् । कुतः—

स्वरवर्णानुपूर्व्यादिविशिष्टे हि प्रयुज्यते ।
मन्त्रशब्दस्ततोऽन्यत्वे न तस्यार्थः प्रतीयते ॥

438 संप्रदायकालावगतरूपान्यत्वं चेत्केनचिदप्यंशेन जातं न शक्यते मन्त्रत्वं प्रत्यभिज्ञातुम् ।

अथैकदेशेऽपि तत्सद्भावाभ्युपगमः । ततः सर्वत्रैव मन्त्रपदाविशेषान्मन्त्रत्वप्रसङ्ग । तस्मादेकवर्णापायेऽपि मन्त्रत्वाभावात्समस्ततत्कार्यनिवृत्तिः । ततश्च यथैव तद्विनाशे सर्वावयववर्तिनि प्रायश्चित्ताभावं एवं मन्त्रच्छन्दोविषयत्वेन यावन्तः शब्दविशेषाः स्मर्यन्ते तैर्न भवितव्यमित्येकपदतदवयवोहे तन्मन्त्रगतसर्वच्छान्दसोपोद्धारेण लौकिकशब्दप्रयोगः कर्तव्य इति । अत्र ब्रूमः । तावन्मात्रमेवामन्त्र इति । कुतः ।

आकृतीनामभिव्यक्तिर्या कथंचिन्निरूपिता ।
नासाववयवाधिक्यविनाशेषु विनश्यति ॥

न हि गोर्गडुनि जाते विषाणे वा भग्ने गोत्वं तिरोधीयते,तदभिव्यक्तिसमर्थावयवान्तरसद्भावात् । कियत्यपि संस्थाने ध्रियमाणे सर्वा विज्ञायन्ते । सा चेयं मन्त्राकुतिर्विशिष्टस्वरवर्णानुपूर्व्याद्याभिव्यक्ता न किंचिद्विकारदर्शने नश्यतीति प्रत्यक्षमुपलभामहे । तथा हि—

यत्र वर्णविकारो वा वर्णलोपोऽपि वा स्मृतः ।
स्वरान्तरनियोगो वा न मन्त्रस्तत्र नेष्यते ॥

यत्र वचनाद्वर्णलोपं विकारं वा कृत्वा प्रयोगः, ‘ऐरं कृत्वोद्गेयम्’ इत्यादौ, यत्र च स्वाध्यायकालदृष्टत्रैस्वर्यादिपरित्यागेनैकश्रुत्यं नियुज्यते न तत्र कस्यचिन्मन्त्रबुद्धिरपैति । स्यादेतत्, वचनसामर्थ्यादिह नापैतीति ।

तदयुक्तम् । वचनेन हि प्रयोक्तव्यमेतदुच्यते न मन्त्रत्वं न नश्यतीति । न हि वचनविनियुक्तानां व्रीह्यादिनां मन्त्रत्वं भवति, अतश्चामन्त्राणामेव सतां वचनाद्विनियोग इत्यापद्यते ।

न चार्हति भवितुममन्त्रत्वं, मन्त्रत्वप्रत्यभिज्ञानात् । अतश्चात्रापि काममिरापदादीनामेवामन्त्रत्वं भवतु न सकलस्य वाक्यस्य ।

न च तेषामपि समस्तवेदालोचनेन मन्त्रत्वनिरूपणादिह गिरापदवान्मन्त्र इहेरापदवानिह त्रैस्वर्यवानिहैकश्रुतिमानिति ह्यादित एवावधार्यते । यद्येवमूहादीनामपि मन्त्र त्वप्रसङ्गः । तत्रापि हि प्रकृतिविकृत्यालोचनेन शक्यमेवं निरूपयितुम् । इहाग्निपदवान्निर्वापमन्त्र इह सूर्यादिपदवानिति । नैतत्समानम् । कुतः—

यत्र वैदिकमन्यत्वं तत्र मन्त्रत्वमिष्यते ।
न्यायेन कल्प्यमाने तु न शक्यं तन्निरूपणम् ॥

439 वैदिकं ह्यालोच्यैवमवधारणा भवति, इहेदृशो मन्त्र इहेदृश इति । सूर्यादिपदप्रयोगस्तु कार्यवशेन न्यायात्कल्प्यते, न च मन्त्रत्वं न्यायगम्यमिति वैषम्यम् ।

ननु चातिदेशोऽपि वेदप्रकार एवेति सर्वमूहादिकं वैदिकम्, इतरथा ह्यप्रमाणकमेव स्यात् । न ह्यङ्गाङ्गिभावः प्रत्यक्षानुमानादिगम्यः । तस्मात्सूर्येरापदयोरविशेष इति । अत्रोच्यते ।

सत्यमूहस्यापि नावैदिकत्वम् । अत एव ‘अनाम्नातेष्वमन्त्रत्वम्’ इत्युच्यते । वेदभागो हि कश्चित्प्रत्यक्षः श्रूयते, कश्चिदनुमानादिगम्यः । प्रत्यक्षश्रुतश्चाऽऽम्नात इत्युच्यते । तत्र यथेरापदादीनां विनियोगः श्रूयते नैवं सूर्यपदादीनाम् ।

ननु ‘सौर्यं चरुम’ इत्येतदेव श्रुतिसमवायित्वाद्देवतायाः सूर्यपदस्य विनियोजकं श्रूयते । नैतन्मन्त्रे सूर्यपदस्य प्रक्षेपं ब्रवीति । हविषस्त्यागदकालमात्रे तदुच्चाकणाभिधानात् । यस्तुं मन्त्रेषु तत्प्रक्षेपः सोऽतिदेशकृतो भविष्यति । न चातिदेशवचनं न्यायलभ्यत्वादेवाऽऽम्नायते । तस्मादनाम्नातविनियोजकत्वादमन्त्रत्वं सूर्यपदादीनाम् ।

नन्वेवं सति प्रवरनामधेययोः प्रत्यक्षोपदेशान्मन्त्रत्वप्रसङ्गः । स्यादेव यदि तत्स्वरूपमाम्नायेत, वचनार्थं, तु ज्ञात्वाऽनाम्नातयोरेव प्रवरनाम्नोः प्रयोगान्न मन्त्रत्वनिरूपणायामन्तर्गतिः । एवं तर्हि यत्रापि सर्वनामयुक्तमन्त्राम्नाने सति तस्य स्थानेऽन्यपदप्रक्षेपः क्रियते तत्राप्यमन्त्रता स्यात् । तथा नामेति केचित् ।

अथ वा विशेषाणामानन्त्यादयुगपत्कालत्वाच्चाऽऽम्नातुमशक्तेः स्वरूपस्य सर्वनामप्रकारेणाऽऽम्नानमस्त्येवेत्यशून्यस्थानत्वान्मन्त्रस्य शक्यमेवं निरूपणं कर्तुं यदत्र पदं निवेक्ष्यते तद्वानयं मन्त्र इति । इतरया हि सर्वनाम्नामप्रयोगार्हत्वाद्यदि विशेषाम्नानमेवैतत्तेनोपायेनेति न गृह्यते, ततस्तदंशन्यूनत्वान्मन्त्रस्वरूपस्य व्यर्थमेव सर्वनामाम्नानं स्यात् । प्रवरनामधेयवदेव तु विधानात्तदवकाशस्थपदप्रयोगः कल्प्यते । तस्मादेवमादी न्याम्नातान्येवेति मन्त्रधर्मैः संबध्येरन् । न तु प्रवरादीनां मन्त्रपाठकाले कश्चिदपि संस्पर्शः ।

न च ब्राह्मणेन रूपं दर्शितं येन प्रवचनलक्षणत्वान्मन्त्रत्वाध्यवसानं भवेत् । अतश्च विकृतिष्वभिधानार्षचोदकाभ्यां सकले मन्त्रे प्रापिते यावन्मात्रमर्थाभावाद्व्यावर्त्यान्यत्प्रक्षिप्यते तावन्मात्रमेव लौकिकम् । अवशिष्टं तु तथा प्राप्तमेव क्रत्वाकाङ्क्षितप्रत्यभिज्ञायमानमन्त्रत्वं चेति न प्रायश्चित्तच्छान्दसप्रयोगैर्वर्जनीयमिति सिद्धम् ॥ ३४ ॥

इति ऊहादीनाममन्त्रताधिकरणम् ॥ ९ ॥

ऋग्लक्षणाधिकरण्

440 प्रसक्तानुप्रसक्त्यापतितमृगादिलक्षणाभिधानम् । शब्दार्थस्य वृद्धव्यवहारगम्यत्वात्कृतेऽपि तल्लक्षणे तन्मूलमभियुक्तोपदेशमेव दर्शयति । क्रियापदानुपादानात् ‘अग्निः पूर्वेभिः’ इत्यपर्यवसितेऽर्थे वृत्तवशेन पादव्यवस्था । ननु च ‘अग्निमीळे’ इत्यपि समस्ताया ऋच एवार्थवत्त्वान्नैव प्रतिपादमर्थः पर्यवस्यतीति न वाच्यम् ‘अर्थवशेन पादव्यवस्था’ इति ।

कथं न वाच्यम् ‘अग्निमीळे पुरोहितम्’ इति तावत्प्रत्यक्षं समाप्तोऽर्थो दृश्यते । परयोः पादयोरसमाप्त इति चेन्न । आख्यातानुषङ्गेण समाप्तेः सिद्धत्वात् । तस्मात्साधूक्तमिहार्थवशेनेति । एतस्य तु प्रदर्शनार्थत्वान्न वृत्तवशव्यावृत्तिरित्यनिषिद्धमृक्त्वम् ॥ ३५ ॥

इति ऋग्लक्षणाधिकरण् ॥ १० ॥

सामलक्षणाधिकरणम्

तेषामित्यनुवर्तते । अत्रापि स एवाभियुक्तोपदेशोपन्यासः । प्राथम्यात्, यथाऽम्लं दधीति । पूर्वत्रैव वाच्यं सदनादरादिहोदाहृतम् । अथ वा यथाऽनेकधर्मसमाहारे सति दधिगुडवो रसविशेषमात्रमम्लमधुरशब्दावुपाददाते । तथा सामशब्दो गीतिमात्रमित्यत्रोदाहरणम् ।

441 ननु च प्रत्यक्षगम्यत्वाद्रसविशेषस्याभियुक्तोपदेशोऽनुवादत्वान्नैव प्रमाणम् ।

नैष दोषः । प्रत्यक्षमेवात्र इतिकरणावच्छिन्नं निदर्शनम् । एतदुक्तं भवति । यथाऽम्लं दधि मधुरो गुड इत्येतद्विज्ञानं प्रमाणमेवमभियुक्तोपदेश इति । गीतेर्विंशेषणत्वात्पूर्वतरप्रत्यायने सत्याकृतिवदभिधेयत्वं निर्णेतव्यम् । आह च—

एकखण्डेन शब्देन विशिष्टो यत्र गम्यते ।
विशेषणस्य वाच्यत्वं तत्र सर्वत्र जायते ॥ ३६ ॥
इति सामलक्षणाधिकरणम् ॥ ११ ॥

यजुर्लक्षणाधिकरणम्

शेषे ब्राह्मणशब्द इतिवत्समस्तं व्याख्येयम् ॥ ३७ ॥

इति यजुर्लक्षणाधिकरणम् ॥ १२ ॥

निगदाधिकरणम्

शेषे यजुःशब्द इत्येतव्द्यावर्तनार्थो वाशब्दः । चतुर्थं मन्त्रजातं निगदः स्यात् । धर्मान्यत्वात् । यदि तावत् ‘उच्चैर्निगदेन’ इति विधिस्ततो यजुर्धर्मबाधो मा भूदित्यर्थान्तरत्वम् । अथानुवादः स नैव प्राप्नोति व्यतिरेकेण विनेति भेदः225 ॥ ३८ ॥ ३९ ॥

442 ‘अहे बुध्निय मन्त्रं मे गोपाय’ इति त्रिष्वेव मन्त्रत्वस्योपसंहारात् । वेदे च मन्त्रसामानाधिकरण्येन निगदशब्दप्रयोगाद्यजुष्ट्वापरित्यागेनैव च धर्मविशेषव्यपदेशभेदसिद्धेः परिशेषसिद्धयजुर्लक्षणयोगाच्च यजूंष्येव निगदाः ॥ ४० ॥

न्यायप्राप्तोच्चैर्धर्मानुवादत्वज्ञानान्न विधानादिति व्याख्यातम् । यं त्वेतेऽर्थं वदन्ति तमुपांशुत्वेन शक्नुयुर्वक्तुमिति वचनादित्युच्यते ॥ ४१ ॥

अस्ति च ‘अग्नीदग्नीन्विहर’ इत्यादिवचनेनार्थोऽन्यथाऽनुष्ठानानुपपत्तेरिति धर्मविशेषप्राप्तिः । तथा च निगदशब्दावयवव्युत्पत्तिसिद्धिः । वाचनिकमपि चौपांशुत्वमनुपकारत्वेनानङ्गत्वान्निगदव्यतिरिक्तयजुर्विषयं विज्ञायते ॥ ४२ ॥

ब्राह्मणपरिव्राजकवद्गुणेन व्यपदेशभेदः ॥ ४३ ॥

443 अतिप्रसङ्गद्वारेण गुणस्य व्यपदेशनिमित्ततां व्यभिचारयति ॥ ४४ ॥

न तावदतिप्रसङ्गोऽस्ति निगदं निन्दित्वा ऋचो विधानात् । न हि तमेव निन्दित्वा तस्यैव विधिरवकल्पते । न च व्यभिचारित्वम् । गदतिवशेन यजुष्ट्वे सति धर्मविशेषस्य व्यपदेशभेदनिमित्तत्वात् ॥ ४५ ॥

इति निगदाधिकरणम् ॥ १३ ॥

यजुःपरिमाणाधिकरणम्

केचिदेतत्सूत्रं वाक्यलक्षणपरत्वेन व्याचक्षते । तत्रापि किल लौकिकवैदिकवाक्यलक्षणसंभवे हेतुप्रसिद्धिवशेन लौकिकानामेवैतल्लक्षणम् । कुतः—

अन्यतोऽवगतेऽर्थे हि लोके वाक्यं प्रवर्तते ।
तत्रैकार्थत्वविज्ञानात्सुखबोधैकवाक्यता ॥

लौकिकानां हि वाक्यानां प्रमाणान्तरेणार्थस्तदेकत्वं चावधार्यते । तत्र प्रसिद्धेन हेतुना शक्यमेकवाक्यत्वमवगन्तुम् । वैदिकानां पुनरनन्यप्रमाणगम्यत्वात्प्राग्वाक्यात्तदेकत्वाज्ञानादज्ञातेऽर्थे तदेकत्वसिद्धिर्नास्तीत्येतल्लक्षणानुपपत्तेरर्थापत्त्या विपरीतं लक्षणं द्रष्टव्यम् ।

वाक्यैकत्वादर्थैकत्वमिति । यथैव हि धर्मिणा वाक्येन धर्म्यन्तरमर्थः प्रतिपाद्यते तथैकवाक्यधर्मेणैकत्वेनार्थैकत्वम् । आह च—

नित्यवाक्याधिगम्यत्वाद्यथावाक्यं प्रवर्तते ।
वेदार्थस्तदसिद्धेस्तु न वाक्यस्यार्थवश्यता ॥

अत्राभिधीयते । वेदव्याख्यानप्रवृत्तस्य जैमिनेः कः प्रसङ्गो लौकिकवाक्यलक्षणाभिधाने । वैदिकवाक्यलक्षणस्यापि भेदलक्षणे226 कः प्रस्तावः । किमर्थं 227प्रमाणलक्षण एव नोक्तम् । एकशब्दश्च न वक्तव्यः, अर्थैकत्वाद्वाक्यमित्येतावतैव सिद्धत्वात् । कथं च 444 मन्त्राधिकारे तदसंबद्धोऽर्थोऽभिधीयते । भाष्यकृतश्च प्रश्लिष्टपठितेषु यजुःष्वित्युपन्यासः प्रमाणवानपि विना कारणेनातिक्रान्तः । किं च—

यजुर्भेदं च मुक्त्वैतद्वाक्यैकत्वस्य लक्षणम् ।
मन्त्रब्राह्मणलोकेषु वक्तव्यं क्वोपयुज्यते ॥

ऋक्सामयोस्तावत्परिमाणं प्रयोगसमर्थं प्रसिद्धमिति न कश्चिद्वाक्यलक्षणादेकवाक्यतालक्षणाद्वोपकारो भवति ।

तथा ब्राह्मणेऽग्निहोत्रादिवाक्यैः साध्यसाधनेतिकर्तव्यतावत्यां भावनायां नियुक्तेषु पुरुषेष्वेकानेकवाक्यज्ञानं क्वोपयुज्यते । नन्वयमुपयोग एकवाक्यतालक्षणज्ञो वाक्यभेदं परिहरिष्यति । नायमुपयोगः । कुतः—

वाक्यभेदो ह्यसामर्थ्यं शब्दावृत्त्यादि दोषतः ।
एकनानात्वविज्ञाननिरपेक्षोऽवधार्यते ॥

पदतदेकदेशतत्समूहावृत्तिप्रसङ्गात्मकस्तद्विभागलक्षणो वा वाक्यैकत्वनानात्वज्ञाननिरपेक्षैरेव दोषत्वेनावधार्यते । विभागलक्षणे गम्यमानसंबन्धपरित्यागोऽनेकादृष्टकल्पना च दोषः । इतरत्राऽऽवृत्तेरवेदत्वादप्रामाण्यमिति नैकवाक्यलक्षणेनार्थः । पौरुषेयवाक्ये तु लक्षणनिरपेक्षस्य लोकस्य व्यवहारसिद्धेरत्यन्तानौपयिकत्वम् ।

यदि चार्थैकत्वेन वाक्यैकत्वमवधार्यते वाक्यस्यार्थप्रत्यायनार्थत्वात्तत्स्वरूपैकत्वज्ञानोत्तरकालभाविना किं वाक्यैकत्वज्ञानेन । वक्तॄणां च परप्रत्यायनार्थो वाक्यप्रयोग इति नाऽऽत्मार्थं लक्षणज्ञानापेक्षा । श्रोतॄणां पुनरत्यन्तानवगतेऽर्थे प्रवर्तमानं पुरुषवाक्यमपि न वेदवाक्याद्भिद्यते । अवगतार्थं त्वनुवादत्वादनादृत्यमेवेति नैकानेकज्ञानमपेक्ष्यते ।

किमर्थं न वैदिकानां लक्षणं नोक्तम् । यदि त्वर्थापत्त्योक्तमेवेति । तन्न । श्रुत्या तल्लक्षणमभिधायार्थापत्त्या लौकिकवाक्यसिद्धिराश्रयितव्या । न चार्थापत्तिः संभवति । न ह्येतल्लौकिकवाक्यलक्षणज्ञानमीदृशेन वैदिकवाक्यलक्षणज्ञानेन विना नोपपद्यते ।

न चैतस्यापि वाक्यलक्षणता सिद्धा, वाक्यैकत्ववशेनार्थैकत्वलक्षणार्थापत्त्युपन्यासात् । अपि च कदाचिद्वैदिकवाक्यानामप्येतल्लक्षणम् । अत्यन्तविप्रकृष्टं वा किंचिद्भवेदित्याशङ्कितत्वान्न नियोगतोऽर्थापत्तिः । न च परिसंख्या, सामान्यविशेषभेदानुपादानात् ।

यहि हि सामान्येनेदं लक्षणं क्वचिदभिधाय पुनः केवलपौरुषेयसंबद्धमुच्येत ततः परिसंख्यावशेन वैदिकानामिदं तावन्न भवतीत्येतावन्मात्रं गम्येत । न तु लक्षणविशेषोऽनेकोपप्लवात् । एवमपि हि विपर्ययकल्पनं संभवति, अर्थानेकत्वादेकं वाक्यं निराकाङ्क्षं चेद्विभागे स्यादिति ।

445 अथ वाऽर्थैकत्वान्नानावाक्यत्वमिति । तस्मादकल्पनेयम् । किं च—

कथं चार्थानपेक्षत्वे वाक्यैकत्वं प्रसिध्यति ।
न हि वर्णस्वरूपेण ज्ञातेनैतन्निरूप्यते ॥

वाक्यैकत्वाच्चार्थैकत्वेऽवधार्यमाणेऽवश्यमर्थनिरपेक्षं वाक्यैकत्वमवगन्तव्यम् । न च तस्यावधित्वेन किंचित्पश्यामो वर्णशतं वर्णसहस्त्रं वा । तथा हि—

अज्ञातार्थेषु वर्णेषु बहुवाक्यैकवर्तिषु ।
न कदाचिन्मतिर्दृष्टा वाक्येयत्त्वावधारणे ॥
तस्मात्पदेषु यावत्सु श्रूयमाणेषु दृश्यते ।
विस्पष्टमैक्यमर्थस्य तावतामेकवाक्यता ॥

लोकमन्त्रब्राह्मणेष्वव्यभिचार्येतदेव वाक्यलक्षणमिति स्थितम् । यत्तु न प्राग्वाक्यादर्थतदेकत्वावधारणमस्तीति । अत्र ब्रूमः—

पदार्थैः पदविज्ञातैर्वाक्यार्थः प्रतिपाद्यते ।
लोकसिद्धैर्न तत्रास्ति वाक्यैकत्वनिमित्तता ॥

यदि हि वाक्यं पदवद्वाचकं भवेत्ततस्तदेकत्वानेकत्वानुवर्तिता वाक्यार्थस्याभ्युपगम्येत कदाचित् ।

यदा तु पृथग्भूतैरेव पदैरितरेतरनिरपेक्षैः स्वेषु पदार्थेषूक्तेषु तत्संसर्गादेव पदव्यापारानपेक्षो वाक्यार्थप्रत्ययो भवति, तद्वशेन च तावन्ति पदान्येकं वाक्यमित्यवधार्यते, न तदा वाक्यतदेकत्वयोर्व्यापारं पश्यामः । तस्मादविरोधः ।

भावनैव च वाक्यार्थः स्वकारकविशेषिता ।
तस्याश्च ज्ञायते नित्यं भेदः शब्दान्तरादिभिः ॥

यस्मिन्पदसमूहे शब्दान्तरादिभिर्न भावनान्तरं प्रतिपाद्यते तस्यैकवाक्यत्वं भावनान्तरापेक्षया तु नानात्वम् । तच्चैतदुभयमप्यन्यत एव ज्ञायत इत्यनिमित्तं वाक्यैकत्वमर्थैकत्वस्य । तस्माद्यथाभाष्यमेव व्याख्यातव्यम् ।

भेदलक्षणे मन्त्रप्रस्तावे च तद्भेदस्तावदृग्यजुःसामात्मकोऽभिहितः । तदवान्तरभेदाकाङ्क्षायामृक्सामानामध्येतृसिद्धे भेदे लक्षणं न क्रियते । यजुषां तु प्रश्लिष्टपठितत्वान्न लक्षणाद्विना भेदज्ञानमित्यारम्यते ।

ननु भिन्नप्रतीकविनियोगात्तद्भेदः सेत्स्यतीति । न तावत्सर्वेषामेव ब्राह्मणे विनियोगोऽस्ति । न च ‘उत्तरादिः पूर्वान्तलक्षणम्’ इत्येतद्वेदवचनम् । न्यायेन तु सूत्रकारैरेवाऽऽत्मीयब्राह्मणविनियोगेष्वेतदुक्तमिति न्यायस्य लक्षणमुच्यते ।

446 तत्रावयवव्युत्पत्तिबलेनाऽऽह—यावतेज्यत इति । सर्वमन्त्राणामनेन यजेतेति हि प्रथमं प्रकरणाम्नानानुमितवाक्यविनियोगो भवति । ततः साक्षाद्यागसंबन्धासंभवात्तदुपकारिप्रकाशनेन तैरिष्टं भवतीति कल्प्यते । तेनोच्यते—

यावता पदसंघेन स्मार्यते यागसाधनम् ।
तावद्यजुश्च वाक्यं च वक्तव्यत्वान्निरूप्यते ॥

वचनार्हं हि वाक्यं कार्ये समर्थं च तदर्हं भवति न न्यूनमधिकं वा, तावतैव चेज्यते । तत्तु कीदृशमित्येकार्थं साकाङ्क्षावयवं चेति लक्षणम् । ईदृशं चेदेकं यजुर्यत्ततोऽधिकं तद्वाक्यान्तरं यजुरन्तरं चेत्युक्तं भवति ।

एवं सर्वत्र पुरस्तात्परस्ताद्वैकार्थत्वसमर्थपदपरिग्रहणादसमर्थपदविमोकेन च भिन्नानि यजूंषि कल्प्यन्ते । तेनैकवाक्यलक्षणोक्तौ चार्थाद्यजुर्भेदवाक्यभेदलक्षणयोः सिद्धिरिति, एतस्माच्चेत्कारणादित्याह । किमुदाहरणमिति । अभिधेयवाचिनमर्थशब्दं गृहीत्वा लक्षणद्वयसमावेशासंभावनया पृच्छति । तथा हि—

एकार्थत्वं पदस्य स्यात्साकाङ्क्षावयवं न तत् ।
साकाङ्क्षावयवः संघस्तस्यैकोऽर्थो न विद्यते ॥

पदस्य ह्याकृतिर्नामैकोऽर्थो भवेन्न तु तदवयवानां वर्णानां प्रकृतिप्रत्यययोर्वा विभागे साकाङ्क्षत्वम्, अर्थप्रत्यायनशक्त्यभावात्, समूहावयवास्तु पदावि विभागे परस्परमाकाङ्क्षन्ति, न त्वेषामेकार्थत्वं, प्रतिपदमर्थभेदात्, समूहस्य च पृथगर्थान्तराप्रसिद्धेः । अतो लक्ष्याभावादलक्षणमेतदिति ।

प्रयोजनवाच्यभिप्रायेण देवस्य त्वेत्युदाहृतम् । नन्विति परः स्वाभिप्रायं प्रकटयति । यदा पदार्थव्यतिरिक्तः कश्चिदेको निर्भागो वाक्यार्थो नास्ति तदा तत्तत्पदार्थ447 धर्मावेव सामीप्यवशात्तेषां गम्यमानौ भेदसंसर्गौ स्याताम् । अत आह—तथाऽप्येकार्थता न स्यात् । कथम्—

भेदो नाम पदार्थानां व्यवच्छेदः परस्परम् ।
स च प्रतिपदार्थत्वान्नैकत्वं प्रतिपद्यते ॥

व्यक्तिपदार्थपक्षे सर्वव्यक्तीनां गवादिपदेनैवोपात्तत्वाद्विषयशब्दैः शुक्लादिभिः कृष्णादिव्यवच्छेदमात्रं वक्तव्यम् । तत्संसर्गः पदार्थान्तर्गतत्वान्न वाक्यार्थो भवतीति तदुपसर्जनस्तेषां भेदो गृह्यते ।

स च यथा शुक्लशब्देन गोशब्दस्य कृष्णादिभ्यो भिद्यमानत्वाद्भवति, एवं शुक्ल शब्दस्यापि गोशब्देनाश्वादिभ्यो निवर्तितस्य भवति, व्यवच्छेद्यनानात्वाच्च नास्त्येकत्वे प्रमाणम् । भेदसामान्यग्रहणे वा सर्ववाक्यार्थैकत्वप्रसङ्गः । यदा तु भेदवन्तः पदार्था एव वाक्यार्थस्तदा सिद्धमेव नानात्वम् । तथा—

संसर्गोऽपि पदार्थानामन्योन्येनानुरञ्जनम् ।
एकैकत्र तदप्यस्तीत्येकत्वं न प्रतीयते ॥

आकृतिपदार्थपक्षे शुक्लत्वगोत्वयोः स्वरूपेणाभिहितयोः संनिधानादितरेतरानुरञ्जनमर्थसिद्धभेदं वाक्यार्थः । स च गोत्वे शुक्लत्वसंसर्गः शुक्लत्वे वा गोत्वसंसर्गः सामस्त्येनैकैकव्यक्त्युपसंहारादुपलभ्यत इति नाना ।

यद्यपि च कथंचिद्द्विपदे स एवोभयत्रापि संसर्ग इत्येकत्वं गम्येत, तथाऽपि बहुपदे येन येन प्रदेशेन पदद्वयं संसृज्यते तेन तेन संसर्गरूपेणोपलब्धेरनेकत्वम् । किं च—

स्वप्राधान्यात्पदार्थानां धर्मावेतावुभावपि ।
धर्मिभेदेन भिद्येते न ह्येकत्वमुपाश्रितम् ॥

यावद्धि प्रयोजनैकत्वं नाऽऽश्रीयते तावत्स्वतन्त्राः पदार्था नैकतामापादयितुं शक्यन्त इति पृथगेव भेदसंसर्गावनुभवन्ति । तस्मादपि नाना । यद्यपि चास्माकमाकृतिपदार्थकत्वान्नैव भेदो वाक्यार्थत्वेनाभिप्रेतस्तथाऽपि पूर्वपक्षवादिना विकल्पमात्रेणोपन्यस्तः । सिद्धान्ताभिप्रायविवरणं प्रयोजनवाचित्वादर्थशब्दस्योपपन्नम् ।

एवं सत्येक एव कश्चित्पदार्थः प्रधानभूतस्तद्विशेषणत्वेनेतरोपादानमिति सर्वेषां च 448 तद्भेदात्तत्संसर्गाच्चैको भेदः संसर्गो वेत्यपि शक्यं वदितुम् । तस्मात्कर्मसमवायित्वेन दृष्टार्थत्वादशेषसवित्रादिपदार्थविशिष्टनिर्वापप्रकाशनं समस्तस्य पदसमूहस्यैकं प्रयोजनमिति सिद्धमुदाहरणम् । परस्तु निर्वापप्राधान्यमज्ञात्वा पृच्छति—नन्वत्र देवस्येति । सिद्धान्तवाद्याह—यदि निर्वपामीत्यनुषङ्गस्तत एवं, स चानुषङ्गस्तद्गुणभावेन भवेत्, न चास्य गुणभावः प्रयोजनवत्त्वात् । सवित्रादीनां चाकर्मसमवायादित्येकार्थत्वम् ।

अथ किमर्थमुभयं सूत्रितामिति । येषां संहतानामेकप्रयोजनत्वं तेषां तदशक्तेर्व्यस्तानामेकान्तेनैव साकाङ्क्षत्वं भवतीत्यवाच्यं तत् । अथ वा विभज्यमानसाकाङ्क्षत्वं संहतैकप्रयोजनत्वेन विना न भवति प्रत्येककार्येषु निरपेक्षप्रवृत्तिसिद्धेः । अतः साकाङ्क्षविभागेनैवेतराक्षेपात्तन्मात्रमेवाभिधातव्यमिति ।

प्रत्युदाहरणे दर्शयति—उच्यत इति । पुरोडाश विभागप्रकाशनमेकं प्रयोजनं निरपेक्षाणां दृष्टम् । निर्वापे दत्तोत्तराऽपि विभागनानात्वपरिचोदना संहत्य विशेषणानुपादानात्पुनः पुनः प्रयुक्तस्यानुषङ्गदोषाभावादुपन्यस्यते । तत्रोत्तरं न तावन्निरपेक्षसाधनभेदादपि क्रियानानात्वमिति वक्ष्या२मः । साधनप्राधान्यं तु प्रत्युक्तमेव । एतत्कृतो 449 विशेषः कर्मानङ्गत्वादनादरणीय इति सामान्यप्रकाशनादेकार्थत्वम् । ‘तस्मिन्सीद’ इत्यस्य पूर्वापेक्षित्वे सत्यपि प्रयोजनभेदाद्वाक्यान्तरत्वम् । तस्मात्संहतयोरेव लक्षणत्वम् ॥ ४६ ॥

इति यजुःपरिमाणाधिकरणम् ॥ १४ ॥

वाक्यभेदाधिकरणम्

येषामदृश्यमानकर्मसमवेतार्थत्वेन लैङ्गिकविनियोगाभावेन वचनाद्विनियोगस्तेषां प्राग्दृष्टार्थमन्त्रावधेरेकमन्त्रत्वं युक्तम् । तथा हि—

कल्प्यस्तेषामदृष्टोऽर्थः स चाल्पः स्यात्प्रमाणवान् ।
कल्पिते च तदेकत्वे साकाङ्क्षाः स्युर्वियोजिताः ॥

यदा हि बह्वदृष्टकल्पना निष्प्रमाणिकेत्येकमदृष्टं सर्वेभ्यः कल्पितं भवति तदा प्रत्येकं तत्साधनशक्त्यभावाद्विभज्यमानसाकाङ्क्षत्वमप्यस्तीत्येकवाक्यता । कथं पुनरस्मिन्पक्षे प्रतीकभेदेन विनियोगः “इषें त्वेति शाखां छिनत्ति” “ऊर्जे त्वेत्यनुमार्ष्टि” इत्येवमादिः । कथं च ‘क्लप्तीर्वाचयति’ इति बहुत्वनिर्देशः । तदुच्यते—

एकोऽपि बहुभिर्मन्त्रः प्रतीकैर्विनियुज्यते ।
पुनः पुनः प्रयोगाच्च कॢप्तीरित्यभिधीयते ॥

आदिमध्यावसानग्रहणेनैकोऽपि मन्त्रस्तत्र तत्र विनियुज्यमानोऽपि न पीड्यते । 450 यावद्विनियोगं हि सकल आवर्तिष्यते खण्डस्याप्रयोजनत्वात् । कल्पतां कल्पतामिति च पुनः पुनः प्रयोगादेकवाक्यत्वेऽपि बहुवचनाविरोधः । उच्यते । नैतदेवम् ।

रूपादुत्तरकाले हि विनियोगप्रयोजने ।
तस्मात्प्रागेव तत्कॢप्तेर्भेदाभेदपरीक्षणम् ॥

तिष्ठतु तावत्प्रयोजनकल्पनं विनियोगवाक्यं वा । न हि तदुत्तरकालं स्वरूपनिरूपणं युक्तम् । अज्ञातरूपस्य विनियोगाशक्तेरविनियुक्तस्य च प्रयोजनकल्पनानुपपत्तेः । तत्तन्निरपेक्षं तु रूपं पाठादेवावधार्यते । तत्कालावधृतभेदाभेदानुवर्तित्वं तु प्रयोजनविनियोगयोः । प्रमाणवच्चानेकमपि कल्पनीयमित्युक्तम् । रूपोपलब्धिवेलायां चेषेत्वादिना न परस्परसाकाङ्क्षत्वमेकप्रयोजनत्वं चोपलक्ष्यते । ततश्च निष्प्रतिद्वंद्वेऽवधारिते भेदे पश्चान्न किंचिदेकत्वापादने कारणं संभवति । न च प्रागनुपलब्धं साकाङ्क्षत्वं कल्पयितुं शक्यम् । तेन च विना यद्यप्येकप्रयोजनत्वं भवेत्तथाऽप्येकाङ्गवैकल्यादेकवाक्यत्वाभावः, किमुत यदा रूपभेदाद्विनियोगभेदस्तद्भेदाच्चादृष्टार्थत्वेऽपि प्रयोजनभेदः । त्वत्पक्षेऽपि चावश्यं यावद्विनियोगं तेन तेन भवितव्यम् । इयांस्तु विशेषः । तव समस्तान्मन्त्रान्मम व्यस्तेभ्यः । न चैषामदृष्टार्थत्वं, ब्राह्मणोपदिष्टदृष्टार्थसाधनत्वात् । तद्बलेन चैषां यावता विना चोदितकरणसामर्थ्यं नास्ति तावदनाम्नातमपि कल्पनीयं च्छिनद्मीत्यादि । यद्वा यथैव "रथघोषेण माहेन्द्रस्य स्तोत्रमुपाकरोति" इति वचनादवाचकः स्यापि विनियोगमात्रानुसंघानेन स्तोत्राभिमुख्यचिह्नत्वं भवति, एवमिषेत्वादीनां छेदनादिस्मरणहेतुत्वम् । उभयमपि चैतत्प्रमाणवदिति सूत्रकारैः कैश्चित्कथं चिदाश्रितम् । सर्वथाऽत्रैवमध्यवसातव्यम् । विकलवाक्यप्रयोगासंभवादवाचकप्रयोगानुपपत्तेश्चाध्याहारः । अथ वा यथाम्नातविनियोगानुसारात्तादृशेनैव स्मर्तुं संस्काराधाने यतितव्यम् । तत्रानुष्ठात्रभिप्रायाधीनोऽन्यतरपरिग्रह इति दृष्टप्रयोजनभेदादपि सिद्धो वाक्यभेदः । किं च—

अन्योन्यनिरपेक्षाणां कार्यान्यत्वे नियोगतः ।
प्रत्येकं यागहेतुत्वाद्यजुष्ट्व्वमवकल्पते ॥

तथा ‘आयुर्यज्ञेन कल्पताम्’ इत्येवमादीनां निराकाङ्क्षभिन्नरूपोपलब्धेर्नैकत्वा451 पत्तिः सत्यप्येकार्यत्वे । न च तदस्ति । आयुःकल्पनादीनां भिन्नत्वात् । निर्वापवदभेद इति चेन्न । कॢप्तीरिति मन्त्रबहुत्वचोदनायाः प्रत्यक्षत्वात् । इह तावदर्थानामकर्माङ्गापवादविवक्षायां सत्यां मन्त्रोच्चारणमात्रं प्रयोजनम् । तत्र च बव्ह्यः कॢप्तयः श्रूयन्ते । तद्भेदश्चार्थभेदमन्तरेण न भवतीत्यक्षरोपसर्जनभूतोऽर्थो नानात्वेनाऽऽश्रीयते । कॢप्तिविशेषवचनं च दृष्टार्थमिति मन्त्रबहुत्वापादनार्थत्वात् । यथा विभाग इति । सकृच्छ्रुतनिर्वापवैलक्षण्यात्क्लप्तीनाम् । पुनः पुनरुच्चारितशब्दोऽपि यथा विभागः साधनभेदे सत्यपि न भिद्यते, तथा कॢप्तिभेदोऽपि न भविष्यतीति मन्यते । नैतदेवमित्युत्तरम् । इह सामान्यविवक्षानुपयोगात् । अथ वा सिद्धान्तवाद्येव यथा विभागे नैतदेवमिति स्वयमेवैकवाक्यभूतमुत्तरं ददाति । ननु च विभागवाक्यानामपि भेदोऽस्त्येवेति नोपन्यसनीयम् । एवं तर्हि नैवेदं प्रभेदप्रतिपत्त्यर्थं, किं तर्हि दृष्टान्तेन सहैकत्वापादनपरत्वात्तदीयविकल्पापादनायोपन्यस्यति । यथा विभागे तथाऽत्र विकल्पः कस्मान्न भवतीति । नैतदेवमिति । समानविषयत्वे हि विकल्पो भवति, न चेह सामान्यविवक्षा येन विभागवदैकार्थ्यं भवेत् । कॢप्तिविशिष्टायुराद्याशासनपरत्वात् । विभागे हि साधनानामप्रयोजनत्वात्सामान्यभूतक्रियामात्रप्रकाशनपरत्वम् । इह पुनरायुरादीनामाशास्यत्वेन प्राधान्यात्तद्विशेषणत्वेन कॢप्त्युपादानं न त्वायुरादिविशिष्टा सा प्रकाश्यते, निष्प्रयोजनत्वात् । अथापि क्रियाप्राधान्यं तथाऽपि तद्भेदपरत्वान्नानार्थत्वम् । भेदपरत्वे च पूर्वोक्तमेव दृष्टार्थत्वमुच्यते । अथ228 वा ‘कॢप्तीर्वाचयति’ इति नैव मन्त्रपरः कॢप्तिशब्दः, 452 कथं तर्हि, क्रियाबहुत्वाभिधान एव, शब्दानामर्थतन्त्रत्वात् । अतश्च बहुत्वसंख्यया कर्मभेदाद्विशेषणकृतभेदाश्रयणाच्च मन्त्राणां तत्परत्वे चोदितार्थनिर्वृत्त्या दृष्टार्थत्वात्सिद्धा भिन्नार्थता । कथं पुनरस्मिन्पक्षे वाचयतीत्युच्यते, शब्दपदार्थको ह्ययं प्रयुज्यते । नैष दोषः । उभयत्र प्रयोगात् । यथैव हि शब्दं ब्रुवन्तं प्रयुञ्जानो वाचयतीत्युच्यते तथैव च यः शब्देनार्थं ब्रवीति तस्यापि प्रयोजको वाचयतीति । तस्मात्कॢप्तिक्रियाशब्दैर्यजमानं वक्तुं प्रवृत्तमध्वर्युर्वाचयतीत्ययमर्थो विज्ञायते, तत्प्रकाशनेन च भिन्ना एव सन्तो मन्त्रा दृष्टार्था भवन्तीति वाक्यभेदः ॥ ४७ ॥

इति वाक्यभेदाधिकरणम् ॥ १५ ॥

अनुषङ्गाधिकरणम्

ज्योतिष्टोमे 229तिसृणामप्युपसदामादावाग्नेंयी विहिता “अग्निमनीकं” इति । तत्र प्रथमायाः क्रमे “या ते अग्नेऽयाशया” इति निराकाङ्क्षो मन्त्र आम्नायते । उत्तरयोस्तु, साकाङ्क्षौ “या ते अग्ने रजाशया” “या ते अग्ने हराशया” इति । तत्र स्त्रीलिङ्गयच्छब्दनिर्देशस्य स्त्रीपदार्थेन केनचिद्विना परिपूर्णता नास्ति । न चापरिपूर्णेन व्यवहारोऽवकल्पते तत्र तदन्यथानुपपपत्त्याऽवश्यं परिपूरणसमर्थो वाक्यशेषः कल्पनीयः । कुतः ।

न्यूनवाक्यप्रयोगो हि वेदे नैव समाश्रितः ।
कश्चित्क्वापि स्थितः शेषः सोऽन्वेष्टव्यः प्रयत्नतः ॥

न हि वैदिकवाक्यानां प्रत्यक्षमेवैकं प्रमाणं, तद्वदेव ह्यनुमानादीन्यपि प्रमाणानि । सर्वप्रमाणप्रत्यस्तमये च षष्ठेनाभावः परिच्छिद्यते । तदिह प्रत्यक्षानुपलब्धे वाक्यशेषे न तावत्येवोपरन्तव्यम् । यद्यनुमानादीन्यपि निवर्तिष्यन्ते तत एतावानेवायं मन्त्र इति कल्पयिष्यामः । अथ तु तैः कश्चिदवगम्यते ततस्तत्तत्सहितोऽयं मन्त्रः सकलः प्राक्तस्मादून इत्यध्यवस्यामः । तदिहार्थापत्त्या तावत्सामान्यतः कश्चिदस्ति शेष इत्यध्यवसेयम् । ततश्चाभावस्यानवसरादूनमिदं वाक्यं न प्रयोगार्हम् । तत्र विशेषाकाङ्क्षायां 453 लौकिकः कल्पनीय उत वैदिक एव पूर्वमन्त्रस्थस्तनूर्वर्षिष्ठेत्यादिरनुषक्तव्य इति संशये लौकिक इत्याह । तथा हि—

नान्यत्रोत्सहते गन्तुं वैदिकं सन्निबन्धनम् ।
यथेष्टविनियोगं तु सर्वार्थं वस्तु लौकिकम् ॥

यथैवाऽऽहवनीयादयो वैदिकास्तन्निर्दिष्टकार्यव्यतिरेकेण न प्रवर्तन्ते तथैव वैदिकः शेषो यत्र वाक्ये समाम्नायेन विनियुक्तः स तन्निबद्धत्वान्नान्यत्र प्रयोगं क्षमते लौकिकः पुनरनिबद्धत्वात्सर्वार्थः सर्वाकाङ्क्षापूरणायापि नियुज्यमानो न विरुध्यते । तस्माल्लौकिकः । तत्र यदि वैदिकमपि रचितत्वाल्लघुतरप्रयोगं रचयितव्यादवैदिकाल्लौकिकात्मना मन्वानः प्रयुङ्क्ते न केन चिद्वार्यते । वैदिकत्वबुद्धिस्तु तत्र न कर्तव्या । तथा हि—

तानेव वैदिकान्वर्णान् भारतादिनिवेशितान् ।
स्वाध्यायनियमं हित्वा लोकबुध्या प्रयुञ्जते ॥

यदि त्वानन्तर्याविशेषाद्रजाशयेत्यनेनापि संबन्धोऽभ्युपगम्येत ततो यथानिवेशं प्रयोगात्पुरस्तादेवास्य प्रयोगः प्राप्नोति । तस्मादपि न वैदिकः शेष इति प्राप्ते । उच्यते—

विमुक्तव्यापृतौ वेदे लौकिकावसरस्थितिः ।
तद्व्यापारविमोकश्च सकलान्वेषणक्षये ॥

वैदिकस्य वाक्यस्य वैदिक एव शेषः पूरणक्षमो न लौकिकः । चोदनालक्षणधर्मनियमात् । यदा तु वेदः सर्वात्मनाऽन्विष्यमाणोऽपि त्यक्तव्यापारो दृश्यते तदा लौकिकमप्यनुजानाति । सा वाऽन्वेषणा यथासंनिकर्षं प्रवर्तते । तत्र ।

अदृष्टः प्रकृतावर्थः प्रत्ययेऽन्विष्यते पुनः ।
पदे स्वस्मिन्नलब्धस्तु प्रार्थनीयः पदान्तरे ॥
स्वस्मिन्वाक्येऽपि न स्याच्चेन्मृग्यो वाक्यान्तरे ततः ।
वाक्यान्तरेऽपि न स्याच्चेन्मृग्यः प्रकरणान्तरे ॥

एकस्मिन्नर्थे साकाङ्क्षेऽभिहिते प्रकृत्या प्रत्ययेन वा तत्संबन्धसमर्थमर्थान्तरं यदि वा तत्रैव दृश्यते ततो रमणीयम् । अथ न दृश्यते ततः प्रमादालस्ये परित्यज्य प्रकृतौ प्रत्यये चान्वेष्टव्यः । तयोरपि चेन्न दृश्यते ततः पुरस्तात्परस्ताद्वाऽनन्तरोच्चरिते पदान्तरे । न चेदनन्तरे लभ्येतैकान्तरव्द्यन्तरादिव्यवहिते । यदि तु स्ववाक्ये न लभ्येत ततस्तेनैव क्रमेण प्रकृते वाक्यान्तरे । वाक्यान्तरेऽपि त्वलभ्यमानो यथोपस्थाप्यमानानुसारेण 454 प्रकरणान्तरे । यदा तु तत्रापि न लभ्यते तदा लोके । लोकेऽपि चेन्नोपलभ्येत ततो नास्तीत्येवमवधार्याऽऽकाङ्क्षाबुद्धिं भ्रान्तित्वेन परिकल्प्य निराकाङ्क्षीकर्तव्यम् । सर्वत्र च ।

संनिकृष्टो न लब्धश्चेद्विप्रकृष्टोऽपि वैदिकः ।
स एवावैदिकस्तु स्यात्प्राप्तः संनिहितो यदा ॥

तदिह रजाशयाहराशयावाक्ययोः शेषः स्वपदस्ववाक्ययोरलभ्यमानत्वाद्वाक्यान्तरे नूनमित्युपसंह्रियते । स च यादृगाकाङ्क्षितस्तादृगेवैकानन्तरं पुरस्तादुपलभ्यतेऽन्यस्य व्यवहितः । यद्यपि चासौ प्रथममन्त्रे कृतार्थत्वान्न तावाकाङ्क्षति तौ तु तेन विनाऽनुपपद्यमानावात्मसमीपेऽन्यस्यानाम्नानादेवं पुरुषं प्रयुञ्जाते । सर्वसमीपे सकृत्पठितुमशक्यः प्रमाणान्तरलभ्यत्वाच्च पुनः पुनरश्रावितोऽयमावयोरप्यर्थेनाऽऽम्नातः शेषो नैकस्यैव संनिधिविशेषनिमित्तभ्रान्त्या कल्पयितव्य इति । यद्यपि च पुरस्तादाम्नायते, तथाऽपि यत्प्रदेशवर्त्तित्वेन ताभ्यां काङ्क्षितस्तत्रैव विनियुज्यते । कुतः ।

प्रतीतिमात्रलाभार्थं तत्प्रदेशे स पठ्यते ।
योग्यत्वात्संनिवेशस्तु पूर्वमन्त्रवदिष्यते ॥

स हि सकृदाम्नायमानः सर्वेषामीप्सिते प्रदेशे न शक्य आम्नातुमित्येकस्य यथाक्रममाम्नात इतरयोश्च यावता बुद्धिविषयतामापद्यते, ततश्च गृहीतः सन् स्वयमपि प्रदेशान्तरे स्थातुमसमर्थस्ताभ्यामपि चान्यवृत्तित्वेनानाकाङ्क्षितः पूर्वत्र च परस्ताद्भावितया दृष्टसामर्थ्यः परस्तादेव निवेक्ष्यते । भाष्यकारेण तु प्रथमद्वितीययोर्मध्ये पाठादगुह्यमाणविशेषः शेष उभयोरप्यानन्तर्येणैव संबन्धीत्युत्क्वा तृतीयस्य व्यवधानादसंबन्धमाशङ्क्यार्थित्वाविशेषादुभयोः समुदायापादनेनाव्यवधाने साधिते समुदायशेषत्वमेव तर्हि प्राप्नोतीत्याशङ्क्य तस्याप्रयोगार्हत्वात्प्रयोगार्हसमुदायिसंबन्धः, तत्रापि तयोः प्राधान्यादन्यथा च नैराकाङ्क्ष्यानुपपत्तेः प्रत्येकं सकलशेषसंबन्धसिद्धिरित्यभिधाय पुनर्व्याख्यानान्तरमारब्धम्—अपि च साकाङ्क्षस्य संनिधाविति । तत्र कैश्चि455 व्द्याख्यानविकल्प एवेत्याश्रितम् । अपरे तु वदन्ति पूर्वत्रापरितोषादुत्तरं कृतम् । किं कारणम् ।

न तावत्समुदायत्वं केनचिन्निर्मितं तयोः ।
पुनः प्रत्येकनिर्माणे न च हेतुः प्रतीयते ॥

समुदायत्वं ह्येककार्यत्वेनैकशब्दोपादानेन वा भवेत्, न चात्रैकमप्यस्ति । नन्विदमेककार्यत्वमेकवाक्यशेषग्रहणं नाम । अहो नु खलु मन्त्राणां कार्यं230 विज्ञातम् । अपेक्षा हि तत्रोभयोः स्यात् । कथं तत्कार्यमित्युच्यते । शेषश्चासौ तयोर्न तद्वशेन समुदायत्वापत्तिर्युक्ता । पश्चादपि वा समुदायिभ्यामेव तस्य संगतिरिष्टेत्यादित एव समुदायत्वं न लभ्यते । यदि च समुदायत्वमापन्नौ ततः पुनः प्रत्येकं संबन्ध इति राजैकपुत्रक्रीडा231ऽऽपद्यते । पुरस्तादेव च प्रयोगः प्राप्नोति । तथाभूतेन समुदायानन्तर्यात् । न वाऽगृह्यमाणविशेषत्वं, देशभेदनिमित्ततन्त्रभेदात् । प्रथमस्य ह्यसौ यथाकाङ्क्षिते देशे स्थितो नोत्तरयोः । तस्मादिदमेव व्याख्यानम् ।

आकाङ्क्षा संनिधानं च योग्यता चेति च त्रयम् ।
संबन्धकारणत्वेन कॢप्तं नानन्तरश्रुतिः ॥

यो हि बहूनां संबन्धित्वेन सकृदाम्नायते तस्यावश्यंभाव्येकेनाऽऽनन्तर्यमिति न तदेव तदा संबन्धकारणत्वेनाऽऽश्रीयते । तत्राप्यस्मादेव कारणत्रयात्संबन्धसिद्धेः । संनिधिविशेषात्तु तदाश्रयप्रतिपत्त्या भवति भ्रान्तिः । सा तु साकाङ्क्षयोग्यसंनिहितसंबन्ध्यन्तरदर्शनान्निवर्तते । यथा धात्वर्थादिषु विधिबुद्धिर्गुणाद्युपादानसामर्थ्यात् । एवं हि तत्र ज्ञायते । सर्वार्थोऽयमाम्नायमानः सर्वसाधारणानन्तर्यासंभवाद्वाक्यैकत्वाच्च कस्यचिदेकस्य समीपे पठ्यते । तस्मादकारणमानन्तर्यमिति । संनिधिरिति—बुद्धौ विपरिवृत्तिः । सा चाऽऽनन्तर्ये संबद्धपदव्यवाये च भवति । संबद्धपदव्यवधिरप्यानन्तर्यप्रकार एव । कथम् ।

अनन्तरेण संबद्धः स्यात्परस्याप्यनन्तरः ।
ततः पुनस्तदारूढः परानन्तर्यमश्नुते ॥

‘या ते अग्ने रजाशया’ इत्यनेनापेक्षितः शेषः परस्तादलभ्यमानः पुरस्तात्परावृ456 त्त्याऽऽलोच्यमानो लभ्यते तनूर्वर्षिष्ठेति । यदा च तत्राऽऽरूढस्तदा हराशयेत्यस्यानन्तरीभूतः पुनरेवमेव तृतीयेनापि सह संबध्यते । ततः परं त्वन्यस्यानाम्नानात्तावत्येवोपक्षीयते । सर्वत्रैवमपेक्षा पुरस्तात्परस्ताच्च प्रसृतैकत्राऽऽरुह्येतरेषामनन्तरीभवन्ती तावदपेक्ष्यमाणा निगृह्णाति यावत्किंचिन्न योग्यमस्त्ययोग्यं चोपलब्धम् । ततः सर्वमालोचितमुपसंहृत्य निवर्तते । यद्यपि च क्रमेणोच्चारणात्संनिकर्षविप्रकर्षौ प्रतीयेते तथाऽपि नित्यत्वाद्वेदस्यानन्तरे दूरस्थे च युगपदपेक्षा संबन्धश्चेति पश्चादवगमान्न प्रामाण्ये कश्चिद्विशेषः । एवं वाक्ये पदानां प्रकरणे च वाक्यानां संबन्धो यावत्साकाङ्क्षेण तत्संबन्धार्हेण परस्याप्यनन्तरीकर्तुं समर्थेन व्यवधानम् । अव्यवधाने विच्छेदेऽपीति । विरोधिना पदेनाव्यवधाने विप्रकृष्टत्वे भवति संबन्धं इत्यर्थः । तस्मादनुषङ्गः समाप्तिः । अनुषज्यत इत्यनुषङ्गः । स एव समाप्यते तेनेति समाप्तिः ।

यत्र तावच्छेषिणः साकाङ्क्षास्तत्रैवमथ यत्र नैराकाङ्क्ष्यं सर्वेषु शेषिष्वेकः शेषः232 457 साकाङ्क्षः पठ्यते । यथा ‘चित्पतिस्त्वा पुनातु’ इत्येतेषामन्ते “अच्छिद्रेण” इत्यादिस्तत्र कथमिति । किं प्राप्तम् ।

अनन्तरेण संबध्य शेषस्येष्टा कृतार्थता ।
शेषिणश्च निराकाङ्क्षाः किंनिमित्ताऽनुषङ्गधीः ॥

उच्यते ।

अनन्तरस्य वाक्यस्य यदि शेषो भवेदयम् ।
तत एवं भवेदेष त्वाख्यातार्थेन सर्वभाक् ॥

आनन्तर्यविशेषेण ह्ययं पुनात्वित्येतेन संबध्यते । स चैक एव त्रिष्वपि वाक्येषु, तदेकत्वाच्चार्थस्याप्येकत्वम् । न च कारकभेदात्तस्य भेदो भवति । येन चित्पत्यादिसंबद्धादस्यानन्यत्वं विज्ञायते । न चाच्छिद्रेणेत्येवमर्था क्रिया, येन सकृत्संबन्धेन संतुष्येत् ।

तस्मादस्य क्रियार्थत्वाद्यावदेषा प्रयुज्यते ।
तावदेव प्रयोगित्वं काष्ठानां पचने यथा ॥

अथोच्यत एकत्वेऽप्यस्या यत्कर्तृविशिष्टाभ्यासाद्यः करणसंबन्धः श्रूयते तद्विशिष्टैव तेन योजयितव्या । यथैकस्यापि ज्योतिष्टोमस्य मैत्रावरुणग्रहाभ्यासविशिष्टस्य पयसा 458 श्रयणं चोदितं नातिप्रसज्यते, यथा चात्रैव चित्पत्यादयो, न सर्वे सर्वत्र भवन्ति । उच्यते ।

श्रयणानां व्यवस्था हि भिन्नाऽपूर्वप्रयुक्तितः ।
कर्त्रन्तरावरोधाच्च चित्पत्यादेरसंकरः ॥

ऐन्द्रवायवादिग्रहाभ्यासानामदृष्टार्थत्वात्तद्भेदेन श्रयणव्यवस्था युक्ता । न हि तथा किंचित्कारणमस्ति । करणस्य क्रियां प्रत्युपयुक्तत्वात् । करणप्रकाशनद्वारेण सैव क्रिया पुनः प्रकाश्यते । सा च सर्वत्राविशिष्टत्वात्प्रकाशनमपेक्षते । यथा च वाक्पत्युपादानात्तत्समानव्यापारश्चित्पतिर्निवर्तते, नैवमच्छिद्रपवित्रप्रतियोगिकरणान्तरश्रवणमस्ति येनैतन्निवर्तेत, न च कर्तृप्रयुक्तं करणम् । यतस्तद्भेदाद्व्यवतिष्ठेत, कारकाणां क्रियाक्षिप्तत्वेन परस्परसंबन्धाभावात् । नन्वेवमपि मन्त्रान्तरमतेनापि पुनातुशब्देनास्य संबन्धः स्यात् । नैष दोषः । दर्शपूर्णमासबर्हिर्धर्मवद्व्यवस्थासिद्धिः । इह प्रक्रम्य पुनातुशब्दस्य यत्कार्यं तत्प्रयुक्तमच्छिद्रादिविशेषणं मन्त्रत्रयेऽपि तदेकमिति प्रत्यक्षमवगच्छामः । न मन्त्रान्तरे, कर्मान्तरगतद्रव्यान्तरसंस्कारार्थत्वात् । नन्वेवं सत्येककार्यत्वान्मन्त्रविकल्पः प्रसज्येत । 233कुतो वैवमादीनां संख्यायुक्ताविधानादन्ते समुच्चयः । सर्वेषु विपरिवृत्तिभङ्गासंनिधिः संभाव्येत न मन्त्रान्तरेष्विति विशेषः ॥

तस्मात्पुनातुशब्दोऽयं सर्वमन्त्रगतोऽपि सन् ।
अच्छिद्रापहृतः सर्वैः पुनस्तद्वानपेक्षते ॥

सर्वाभ्यासान्ताभिहितेनाच्छिद्रेणेत्यादिनाऽनन्यगतिकत्वाद्यदा पुनातुशब्दः स्वीकृतः, तदा पुनात्वच्छिद्रेणेत्येवं कल्पिते संबन्धे य एवानन्तरः पुनातुशब्दः स एव पूर्वयोरपीति करणसंबन्धप्रदर्शनवेलायामन्वेति । क्रियाः पदार्थाः सन्तस्तामपेक्षमाणाः सकरणिकामेवाऽऽसादयन्तीति सर्वत्रानुषङ्गः । एवं वाऽनुषङ्गेण प्रयोक्तव्ये ये तन्त्रेण प्रयुञ्जते तेषां तदालस्यमात्रं पुरस्तात्परस्ताद्वा वाक्यशेषस्यानुषङ्गत्वाविशेषे सति यत्पुरस्तादनुषङ्गेऽन्वीयत इति कैश्चिदुच्यते तद्विशेषप्रसिद्धिमात्रमिति द्रष्टव्यम् ॥ ४८ ॥

इत्यनुषङ्गाधिकरणम् ॥ १६ ॥

व्यवेताननुषङ्गाधिकरणम्

459
प्रत्युदाहरणत्वेन संनिधेरेवमुच्यते ।
असंबन्धातिरोधाने वैषम्यान्नानुषज्यते ॥

‘सं ते वायुर्वातेन गच्छताम्’ इत्यस्य साकाङ्क्षस्यानन्तरत्वादवधारितः शेषो बहुवचनान्तेनायोग्येनासंबद्धस्तुल्ययोगित्वाभावाद्योग्येनापि यज्ञपतिना नानुषज्यते । अतश्च वैदिकशेषासंभवादस्ति लौकिकस्यावकाश इत्युभयत्राध्याहारः कर्तव्यः । तत्र तु यद्यपि नोच्चार्यते गच्छतामिति तथाऽप्यवश्यमनुसंधातव्यः, अन्यथाऽर्थापरिसमाप्तेः । तस्मान्नानुषङ्ग इति । प्रयोजनं तु, अनुषङ्गे मन्त्रत्वात्प्रायश्चित्तम् । लौकिकत्वे चामन्त्रत्वमिति । 234आह च—

आम्नायमानं ह्यनुषज्यमानमन्तर्गतं मन्त्रनिरूपणायाम् ।
ऊहादिसाम्ये ननु लौकिकानाममन्त्ररूपप्रतिपत्तिसिद्धिः ॥ ४९ ॥
इति व्यवेताननुषङ्गाधिकरणम् ॥ १७ ॥
इति श्रीभट्टकुमारिलविचरितमीमांसाभाष्यव्याख्याने तन्त्रवार्तिके द्वितीयस्याध्यायस्य प्रथमः पादः ॥
  1. ( अ॰ २ पा॰ २ अ॰ २ सू॰ २ ) ।
  2. ( अ॰ ३ पा॰ १ अ॰ ३ सू॰ ३ ) ।
  3. द्व्यन्तरितं त्र्यन्तरितं चाधिकरणद्वयमित्यर्थः ।

  4. ( अ॰ १ पा॰ ४ अ॰ ५ ) ।
  5. अनेन च अदृष्टानुमानस्य प्रसङ्गो यस्यां कल्पनायां साऽल्पीयसी भविष्यतीति भाष्यार्थः सूचितः ।

  6. कः पुनर्भाव इत्यनेनैव भाष्येण भावनाक्षेपद्वारा तद्वाचिशब्दाक्षेपसिद्धेः के पुनर्भावशब्दा इति पुनराक्षेपोऽयुक्त इति मत्वा तदभिप्रायमाह॔सत्यामपीत्यादिना । अयमाशयः । यदिकश्चिद्भावोत्पन्नल्युडादिप्रत्यान्तधातुवाच्यस्य भावत्वाभ्युपगमेनार्थपर्यनुयोगं परिहरेत्तं प्रति श्येनेन यजेतेत्याद्येतदधिकरणविषयभूतेषु वाक्येषु तादृग्भावशब्दाभावादन्य एव भावो भावशब्दाश्चाभिभता इति प्रत्युत्तरसूचनायोभयप्रश्न इति । न केवलं भाव एवालौकिकः किं तु भावशब्दा अपीत्यपिशब्दार्थो ज्ञेयः ।

  7. पा॰ सू॰ ( ३-३-५६ ) ।
  8. अनेन प्रतिपदाधिकरणपूर्वोत्तरपक्षयोस्सूत्रत्वमुक्तं भवति ।

  9. घटं करोतीत्यादौ द्वितीयाभिहितया कर्माख्यया, शक्या, आक्षिप्तः प्रयोज्यस्य घटस्य, भवनाख्यो व्यापारो यस्य धातोरित्यर्थः । करोतिमात्रप्रयोगे कथमाक्षेप इत्याशङ्कायामाह॔स्वयमेवेति । घटो भवतीत्यादौ प्रथमाभिहितकर्तृशक्त्याक्षिप्तः प्रयोज्यव्यापारो यस्मिन्नित्यर्थः । तथा च प्रयोज्यप्रयोजकव्यापारयोरन्यतरवाचिधातुष्वितरप्रतीतिराक्षेपेणैवेति न तस्मिन्नपि शब्दव्यापारकल्पनावसर इति भावः ।

  10. तै. सं. ( २-६-१ )
  11. सर्वधातूनां करोत्यर्थवाचित्त्वे वृद्धसंमतिमाह॔तथा चाऽऽहुरिति । विभज्य सेनां परमार्थकर्मा सेनापतीश्चापि पुरंदरोत्थः । नियोजयामास स शत्रुसैन्ये करोतिरर्थेष्विव सर्वधातून् ॥ इति ।

  12. ( अ॰ १ पा॰ १ अ॰ ७ ) अत्रेति शेषः ।
  13. यस्य येनार्थसंबन्धो दूरस्थस्यापि तेन सः । अर्थतो ह्यसमर्थानामानन्तर्यमकारणम् । इत्यादिना विश्वजिदधिकरणे पूर्वाचार्यो वक्ष्यतीत्येवं वृद्धसंमतिमाह॔तथा चेत्यादिना ।

  14. निष्पाद्यत्वेन प्रधानस्य सतो या साधनाकाङ्क्षा सा न विद्यते निष्पाद्यत्वाभावादित्यर्थः ।

  15. सत्ता च नानुमानेन कस्यच्चित्सप्रंतीयते इत्यनेन प्रत्यक्षसूत्रे श्लोकवार्तिके उक्तमित्यर्थः ।

  16. साध्यसाधनभावरहिताकारान्तरेण नापूर्वं निरूपयितुं शक्यमित्यर्थः ।

  17. यच्चेति-यच्च-फलं, यत्-विनष्टं. कर्म, प्रतीत्य-अधिगम्य, प्राप्येत्यर्थः ।

  18. यल्लोके तृप्त्यादिफलोत्पत्तिनिमित्तस्य भोजनादेः क्रियात्वं धर्मो दृष्टस्तदतिक्रमेत्यर्थः ।

  19. ( अ॰ ३ पा॰ ८ अ॰ ८ सू॰ १८ ) ।
  20. सर्वेषु पदार्थेषु बहवः कर्तारस्तेषु मध्ये, क्वचित्पदार्थे कस्यचित्कर्तुरशक्तेरपरिहार्यत्वादित्यर्थः ।

  21. स्वर्गनरकयोरप्यौहिकत्वेन पश्चादेरविशेष इत्यर्थः ।

  22. यदा च स्थाय्यपूर्वं शक्त्यात्मकत्वात्कर्मफलाभ्यामनत्यन्तभिन्नं तदा फलं भावयेदनेनेत्थमिति त्रयाणामपि भावनांशानां यौगपद्याभिधानमपि कर्मफलकालयोरविच्छेदादुपपन्नं भवतीत्याह॔ एतावानित्यादिना ।

  23. न संभावितं सामर्थ्यरूपेण स्थायित्वं यस्येति विग्रहः ।

  24. ( अ॰ १२ पा॰ १ अ॰ १ सू॰ ४ )
  25. ( अ॰ १-पा॰ १-सू॰ ५ ) इत्यत्र वृत्तिकारमतानुवादे प्रत्यक्षविसंवादपरिहारग्रन्थे भाष्य इति शेषः ।

  26. पञ्च प्रयाजास्त्रयोऽनूयाजा द्वावाज्यभागौ स्विष्टकृदित्येकादश । सांनाय्यस्य संप्रतिपन्नदेवताकत्वेन सह प्रक्षेपादाग्नेयेन सह प्रधानाहुतिद्वयमिति त्रयोदशत्वं ज्ञेयम् ।

  27. ( अ॰ ६ पा॰ ३ अ॰ ३ सू॰ १२ )
  28. भारते इति शेषः ।

  29. ( अ॰ ४ पा॰१ अ॰ १० सू॰ २५ ) अत्रत्यन्यायानुसारेणेत्यर्थः ।

  30. ( अ॰ ९ पा॰ १ अ॰ ५ सू॰ १९ ) ।
  31. ( अ. ३ पा. १ अ. १ सू. २ ) अत्रेति शेषः ।
  32. ( अ॰ ३ पा॰ ७ अ॰ सू॰ २ ) ।
  33. ( अ॰ ३ पा॰ ८ अ॰ १९ सू॰ ३५ ) ।
  34. ( अ॰ ३ पा॰ ८ अ॰ १९ सू॰ ३४ ) इत्यत्रेति शेषः ।
  35. ( अ॰ ४ पा॰ १ अ॰ ११ सू॰ २६ ) ।
  36. ( अ॰ ३ पा॰ ८ अ॰ २२ सू॰ ४२ ) ।
  37. अयं चात्र न्यायः । गुरुरनियत पात्रभोजी शिष्यस्तु नियतकांस्यपत्रभोजो गुरुच्छिष्टभोजी च, तयोरेकपात्रभोजने प्रसक्ते गुणभूशिष्यानुरोधेन प्रधानभूतस्यापि गुरोः कांस्यपात्रभोजनमेव न्याय्यमविरोधात् इति ।

  38. ( अ॰ ४ पा॰ १ अ॰ ५ ) अत्रत्यन्यायेनोत्यर्थः ।
  39. ( अ॰ ७ पा॰ ३ अ॰ १२ सू॰ ३०) ।
  40. पा॰ सू॰ ( २-१-१ ) ।
  41. पा॰ सू॰ ( ४-१-८२ )
  42. ( अ॰ १ पा॰ ४ अ॰ ५ सू॰ ८ )
  43. ( अ॰ ३ पा॰ १ अ॰ १५ ) ।
  44. ( अ॰ ३ पा॰ २ अ॰ १८ ) ।
  45. ( अ॰ ३ पा॰ ३ अ॰ १५ ) एष्वधिकरणेष्वित्यर्थः ।
  46. ( अ॰ ८ पा॰ १ अ॰ ७ ) अत्रेति शेषः ।
  47. ( अ॰ ९ पा॰ ३ अ॰ १२ सू॰ ३५ ) ।
  48. ( अ॰ १० पा॰ ४ अ॰ २२ सू॰ ४२ ) अत्र भाष्यकार इति शेषः ।
  49. ईदग्नेः सोमवरुणयोः, अग्नेस्तुत्स्तोमसोभाः इति सूत्राभ्यां इति शेषः ।

  50. म॰ भा॰ ( २—१—१ ) ।
  51. श्लोकस्यायमर्थः । सुबंतत्वे महदिन्द्रशद्बयोः, ‘अप्रत्ययः प्रातिपदिक’ इत्यनेनाप्रातिपादिकतया तद्धितवृत्ययोगादसुबन्तत्वे च समासायोगाद्वृत्तिद्वययौगपद्यवादिनस्ते युगपत्सुबन्तत्वासुबन्तत्वविरोध इति ।

  52. ( अ॰ १० पा॰ ४ अ॰ १३ सू॰ २३ )
  53. ( अ॰ २ पा॰ २ अ॰ ३ सू॰ ६ ) इत्यत्र भाष्यकार इति शेषः ।
  54. ( अ॰ १ पा॰ ४ अ॰ ५ सू॰ ८ )
  55. (अ॰ २ पा॰ २ अ॰ २) अत्रेति शेषः ।
  56. (अ॰ ५ पा॰ १ अ॰ ९ सू॰ १६) ।
  57. व्यपदेशाच इति सूत्रस्य भाव्यं स्पष्ठत्वान्न व्याख्यातम् ।

  58. द्वितीयाध्याय इथ्यर्थः ।

  59. प्रथमाध्याय एवेत्यर्थः ।

  60. अपि चेत्यादि भाष्यम्, इह कॢप्तीरिति पूर्वभाष्येण पुनरुक्तमिव भासमानं कॢप्तिशब्दस्य पूर्वाभिप्रेतमन्त्रपरत्वपक्षापेक्षयाऽर्थपरत्वरूपपक्षान्तराभिधानार्थत्वेन व्याकरोति—अथवेत्यादिना ।

  61. तिसृणामिति—पूर्वाह्णापराह्णयोरभ्यस्यमानमाग्नेय सौम्यवैष्णवयागत्रयमेकोपसत् । तथाविधानां द्वितीयतृतीयचतुर्थाहेषु कर्तव्यतया विहितानां तिसृणामुप सदामित्यर्थः ।

  62. मन्त्राणां क्रत्वङ्गप्रकाशनमेवकार्यं नत्त्वेकशेणग्रहणमित्यर्थः ।

  63. एकपुत्रस्यात्यंतप्रियत्त्वेन पितृभ्यामनिवारणाद्राजपुत्रत्त्वेन चान्यैरप्यनिवारणादत्यन्तान्याय्या यथा तथेयमपीति दृष्टान्तभागाशयः ।

  64. द्वयोरप्यसंबद्धैंरिति भाष्यं पूर्वभाष्येणगतार्थमिव भासमानं, व्यवहितस्याप्यनुषंगाभ्युपगमे सर्वत्र तत्संभवान्नाध्याहारः क्वचित्स्यादित्याशङ्कानिरासार्थत्त्वेनासंबद्धपदाव्यवाय एवाऽऽकाङ्क्षावत्व एव चानुषङ्गो भवति नान्यथेति परिसंख्यार्थ द्रष्टव्यम् ।

  65. विभागमन्त्रवदिष्टापत्त्याऽऽशङ्कां परिहरति कुतो वेत्यादिना । समुच्चयप्राहकप्रमाणाभावाद्युक्त एव विकल्प इत्याशयः । इदन्तु ‘त्रिभिर्यजमानं पावयति’ इति वचनेन दृष्टार्थत्वेऽपि मन्त्राणां समुच्चयावगतेर्याज्ञिकाचारसत्वाच्च प्रौढिवादमात्रं विज्ञेयम् ।

  66. प्रयोजनविषये वृद्धसंमतिं दर्शयति—आह चेत्यादिना ।